‘हलन्त्यम्’ इति सूत्रे इतरेतराश्रयदोषपरिहारे भट्टोजिदीक्षितनागेशभट्टयोः मतस्य परिशीलनम्

भगवता पाणिनिना अष्टाध्याय्याः प्रथमाध्यायस्य तृतीये पादे तृतीयमिदं सूत्रम् अन्त्यानां हलामित्संज्ञाया बोधनार्थं प्रणीतम् । किं तु तत्र इतरेतराश्रयदोषः आपतति । तच्चेत्थम् – ‘हलन्त्यम्’ (अ० १/३/३) इति सूत्रस्य अर्थो बोद्धव्यश्चेत् पूर्वं तदवयवानां पदानामर्थो बोद्धव्यः । तत्र अन्त्यशब्दस्तु चरमावयववाचको लोके प्रसिद्ध एव । हल्शब्दस्तु शास्त्रैकविषयः । तदीयशक्तिग्रहस्तु ‘आदिरन्त्येन सहेता’ (अ० १/१/७०) इति सूत्रेण कार्यते । एवं च हलन्त्यसूत्रार्थबोधः हल्पदार्थबोधाधीनप्रवृत्तिकतया ‘आदिरन्त्येन सहेता’ इति सूत्रार्थबोधमपेक्षते । ‘आदिरन्त्येन सहेता’ इति चतुष्पदं सूत्रं । तत्र ‘इता’ इति तृतीयान्तं पदमपि शास्त्रैकविषयं यस्य शक्तिग्रहः ‘हलन्त्यम्’ इति सूत्रेण भवति । तदित्थं सूत्रार्थयोरेतयोः क्रमेण हल्पदार्थे इत्पदार्थे च  परस्परज्ञप्त्यधीनज्ञप्तिकतया इतरेतराश्रयता आपतति । एवं च सति कस्यापि सूत्रस्यार्थो न भोत्स्यत इति कृत्वा दोषोऽयं भवति ।

एषोऽत्र दोषसंग्रहः – चतुर्दशसूत्र्या अन्त्यस्य ‘हल्’ इति सूत्रस्य लकारस्य इत्संज्ञायां ‘हल्’ इति प्रत्याहारसिद्धिः, तस्यां च ‘हलन्त्यम्’ इतिसूत्रार्थबोधः इति । तस्यैव तु लकारस्य इत्संज्ञाविधायकं सूत्रं नास्ति, यत्तु ‘हलन्त्यम्’ इति, हल्पदार्थबोधाभावे तदकिञ्चित्करम् । हल्पदार्थबोधश्च ‘हल्’ इति चतुर्दशे सूत्रे लकारस्य इत्संज्ञायामेव जायते ।

एवं चात्र हल् इति सूत्रस्थस्य लकारस्य इत्सञ्ज्ञायां सिद्धायां दोषोऽयं सुपरिहरो भविष्यति ।

अस्य भाष्यवार्तिकयोः समाधानानि

अत्र प्रथमं समाधानं वार्तिककृतैवोक्तं ‘सिद्धं तु लकारनिर्देशात्’ इति । ‘हल्’ इतिसूत्रे लकारस्य इत्संज्ञा भवति इति वचनमारम्भणीयम् । तस्य च इत्संज्ञायां सिद्धायां पूर्वोक्तरीत्या दोषः परिहृतो भविष्यति । तदुक्तं भाष्यकृता “लकारनिर्देशः कर्तव्यः, हलन्त्यमित्संज्ञं भवति, ‘लकारश्च’ इति वक्तव्यम्” इति ।

अत्र कैयटः ‘लकारश्च’ इति पृथग्वचनं नारम्भणीयम्, अपितु विद्यमानैरेव सूत्राक्षरैरयमर्थः प्राप्तव्य इति प्रदर्शयन् “‘हल् च ल् च’ इति समाहारद्वन्द्वं कृत्वा लकरस्य ‘संयोगान्तस्य लोपः’ इति लोपे कृते “ इत्याद्याह । एतेन ‘हलन्त्यम् इत्संज्ञं भवति, लकारश्च’ इति भाष्योक्तोऽर्थः सुलभः ।

ततो वार्तिककृता ‘एकशेषनिर्देशाद्वा’ इति द्वितीयं समाधानमुक्तम् । ‘हलन्त्यम्’ इतिसूत्रे ‘हल् च हल् च हल्’ इति द्वयोर्हल्शब्दयोः ‘नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्याम्’ इति एकशेषो द्रष्टव्यः । तत्र एकस्य ‘हल्’शब्दस्य चतुर्दशसूत्र्या अन्त्यं सूत्रमर्थः । एवं च हलिति अन्त्यस्य सूत्रस्य लकारस्य इत्संज्ञायां सिद्धायाम् उक्तरीत्या दोषस्य परिहारो भवतीति भावः ।

ततः परं भाष्यकृता अस्य दोषस्य द्वे समाधाने प्रदर्शिते  । तत्र प्रथमं समाधानमेवमस्ति – ‘हल्’ इति सूत्रे योऽयं लकारो दृश्यते सः ऌकारस्य गुणे कृते निष्पन्नस्य अल् इत्यस्यावयवः । स च ऌकारः अनुनासिकः । तत्र ‘ह् अ ऌँ’ इत्यवस्थायां अकारस्य लृकास्य च ‘आद् गुणः’ इति अल् गुणः कृतः । तेन ‘हल्’ इति रूपं दृश्यते । तत्र लृकारस्य तस्य ‘उपदेशेऽजनुनासिक इत्’ इति सूत्रेण इत्संज्ञा भविष्यति । ‘हलन्त्यम्’ इति सूत्रेऽपि ‘हल्’ इति कृतगुणस्यैव ऌकारस्य निर्देशः, हलिति प्रात्याहारेऽप्येवम् । एवं च ‘हल्’ इति चतुर्दशे सूत्रे गुणात् प्रागेव लृकारस्य ‘उपदेशेऽजनुनासिक इत्’ इतिसूत्रेण इत्सञ्ज्ञायां, आदिरन्त्येन सहेता इति हल्प्रत्याहारे सति हलन्त्यन्यमित्यन्यत्र णकारादीनामित्संज्ञा सेत्स्यति । कैयटेन अत्राप्यापतन् इतरेतराश्रयदोषः ‘ऌदितः’ इत्यादिनिर्देशबलाद् वारितः ।

ततः अन्ते भाष्यकारैः ज्ञापमाश्रित्य समाधानमुक्तम् “अथवा आचार्यप्रवृत्तिर्ज्ञापयति भवति लकारस्य इत्संज्ञा इति, यदयं णलं लितं करोति” । अस्यायमाशयः – णलो लित्त्वं ‘लिति’ इति स्वरार्थम् । श्रवणार्थं तु न, ‘पपाठ’ इत्यादौ कुत्रापि तस्य अश्रवणात् । लिति इति लित्त्वं च लकारस्येत्संज्ञायां सत्यामेव सिद्ध्यति । यदि तु हलिति सूत्रे लकारस्य इत्संज्ञा न स्यात् तर्हि हल्प्रत्याहरोऽपि न संभवतीति कथं णल्प्रत्यये लकारस्य इत्संज्ञासंभवः? लिदिति निर्देशाच्च लकारस्य इत्संज्ञा भवतीति ज्ञायते । सा च हलितिसूत्रे लकारस्येत्संज्ञायां सत्यां हलिति प्रत्याहारे सत्येव च सिद्ध्यतीति तेन निर्देशेन सूत्रे लकारस्य इत्संज्ञा ज्ञापिता भवतीति  ज्ञापितं भवति ।

भट्तोजिदीक्षितस्य सिद्धान्तः –

अत्र भट्टोजिदीक्षितः उक्तेषु समाधानेषु किमपि समाधानं व्यक्ततया अनाश्रित्य सूत्रावृत्त्या इतरेतराश्रयदोषं परिहरति । तद्रीत्या ‘हलन्त्यम्’ इति सूत्रं द्विरावर्तते ‘हलन्त्यम्, हलन्त्यम्’ इति । तत्र प्रथमसूत्रे हल्पदस्य चतुर्दशं सूत्रमर्थः, तस्य अन्त्यशब्देन षष्ठीतत्पुरुषसमासश्च । ‘हलिति सूत्रे अन्त्यम् इत् स्यात्’ इति तस्यार्थः । अधुना लकारस्येत्संज्ञायाम् ‘आदिरन्त्येन सहेता’ इति सूत्रं  हयवरट् इत्यतः प्रभृति हलित्यन्तानां वर्णानां हल्संज्ञां बोधयिष्यति । ततो हल्पदार्थे ज्ञाते ‘हलन्त्यम्’ इति सूत्रं प्रवर्तते ।

सिद्धान्तकौमुद्यां स्वसिद्धान्तमुक्त्वा भट्टोजिदीक्षितः प्रौढमनोरमायां तत्र हेतुं प्रदर्शयन् अन्येषु समाधानेषु दोषं दर्शयति ।

आदौ तावत् ‘सिद्धं तु लकारनिर्देशात्’ इति समाधाने ‘हल् च ल् च’ इति समाहारद्वन्द्वे सति द्वितीयस्य लकारस्य संयोगान्तलोपो दुर्लभः ‘संयोगान्तस्य लोपः’ इत्यत्र ‘यणः प्रतिषेधो वाच्यः’ इति वार्तिकारम्भात् । संयोगान्तस्य यणो लकारस्य लोपस्तेन न भवति । तत्प्रत्याख्यानपक्षेऽपि ‘झलो झलि’ इत्यतः झल्ग्रहणमपकृष्य संयोगान्तस्य झल एव लोपविधानात् । एवं च लोपाभावे ‘हल्लन्त्यम्’ इति रूपं स्यात् नतु ‘हलन्त्यम्’ इति । ‘हलन्त्यम्’ इति दर्शनाच्च न तत्र द्वौ लकारौ स्तः येन हल्सूत्रस्थस्य लकारस्य इत्संज्ञा भविष्यति ।

‘एकशेषनिर्देशाद्वा’ इति यत् द्वितीयं समाधानं वार्तिककारेणोक्तं तत्रापि दोषः प्रदर्श्यते । ‘हल् च हल् च हल्’ इति द्वयोर्हलोरेकशेषे ‘हल्’ इति रुपसिद्धिः । अत्र च एकशेष एव दुर्लभः । सत्यपि तस्मिन्, सूत्रे एकस्य हल्पदस्य ‘हस्य ल्’ इत्येवं विग्रहं कृत्वा ‘हकारसमीपो लकारः’ इत्यर्थो वर्णनीयः, स चैवार्थो दुर्लभः । तदर्थं ‘हस्य’ इति षष्ठ्याः सामीप्यमर्थः इति वक्तव्यम्, तदेव च अनुपपन्नम् । समीप्यस्य षष्ठ्यर्थात्वाभात् । ‘देवदत्तस्य कम्बलः’ इत्युक्ते हि देवदत्तसमीपवर्ती अन्यदीयः कम्बलः कदापि न प्रतीयते, अपितु देवदत्तस्वामिकः एव । तस्मात् षष्ठ्याः सामीप्यार्थकत्वाभावेन ‘हस्य ल्’इति विग्रहेण हल्पदस्य हल्सूत्रस्थलकारार्थकत्वंसर्वथा न लभ्यते ।

किंच अस्यामवस्थायां द्वितीयस्य हल्पदस्य अर्थ एव न ज्ञातः । स हि प्रथमहल्पदबोधितस्य लकारस्येत्संज्ञायां सत्यां हल्प्रत्याहारे सिद्धे ज्ञास्यते । एवं च अज्ञातार्थकस्य शब्दस्य एकशेषो न युक्तः । एकशेषो हि द्वन्द्वस्यापवादः इति सासहविवक्षायामेव स प्रवर्तते, सहविवक्षायामेव द्वन्द्वस्य विधानात् । निर्ज्ञातर्हि पदार्थयोः सहवक्तुं वक्तुरिच्छा भवति, यदि पदार्थ एवानिर्ज्ञातः कमयमर्थं हलिति पदेन बोधयेत् । उक्तरीत्या अस्यामवस्थायां हल्पदार्थस्यासिद्ध्या तज्ज्ञानाभावे तस्य इतरेण सह विवक्षाया इच्छैव न भवितुमर्हतीति एकशेषो न युज्यते ।

भाष्यकारोक्तम् अन्त्यं समाधानद्वयं तु दीक्षितेन न स्पृष्टम् । इत्थं भाष्यवार्तिकप्रदर्शितं समाधानमनाश्रित्य भट्टोजिदीक्षितेन समाधानान्तरेण इतरेतराश्रयदोषः परिहृतः ।

अत्र नागेशभट्टस्य मतम्

नागेशभट्तः अत्र स्वकीयमपि समाधानद्वयं प्रदर्श्य ततः गौरवादिना तत् स्वयं निरस्यति । तेन ‘एकशेषनिर्देशाद्वा’ इति वार्तिकोक्तं द्वितीयमेव समाधानं सिद्धान्तभूतमित्यङ्गीकृतम् । उक्तं च प्रदीपोद्द्योते “तस्माद् ‘एकशेषनिर्देशाद्वा सिद्धम्’ इत्येव समाधानम्” इति ।

ये तु भाष्ये अन्ते द्वे समाधाने प्रदर्शिते ते तु एकदेशिन इति नागेशेन निरस्ते । तथा हि तृतीये समाधाने ‘हल्’ इत्यत्र लकारस्य अकारस्य च स्थाने गुण एकादेशः कृत इत्युच्यते । तत्र यद्यपि कृतैकादेशस्यापि ऌकारस्य कथंचित् उपदेशेऽजनुनासिक इत् इतिसूत्रेण इत्संज्ञा उच्यते, तथापि तेन सूत्रेण लृकारस्य इत्संज्ञायां करणीयायां सूत्रघटकाच्पदार्थस्य ज्ञानमावश्यकम्, तच्च ‘हलन्त्यमिति’ चकारस्येत्संज्ञायां सत्यां सिद्ध्यति । एवं चात्र ‘उपदेशेऽजनुनासिक इत्’ इति ‘हलन्त्यम्’ इति च सूत्रयोः अन्योन्याश्रयता आपतति । कैयटस्तु ‘ऌदितः’ इति निर्देशेन ज्ञापकेन इत्संज्ञा सिद्ध्यतीत्याह, किन्तु सर्वेषामचाम् इत्संज्ञाकाले ऌकारस्यापि सा भविष्यति, तथा च ‘इदितः’ इत्यादिकमपि ज्ञापकं भविष्यति । एवं सति ‘इदितः’ ‘उदितः’ ‘ऋदिताम्’ इत्यादिभिर्निर्देशैः तस्य तस्य वर्णस्य इत्संज्ञा भविष्यतीति किमित्संज्ञाविधायकेन सूत्रेण । तस्मादयं पक्षः दोषयुक्तः  

भाष्योक्ते अन्तिमेऽपि समाधाने दोषो वर्तत एव । तत्र णलो लित्करणं ज्ञापकमाश्रितम् । तत्र अणादीनामपि प्रत्ययानां णकारादेरित्करणं अस्मिन्नर्थे ज्ञापकं भविष्यति । णलो लित्करणं स्वरार्थम्, अणो णित्करणं ङिबाद्यर्थमिति तेन तेन अनुबन्धकरणेनैव इत्संज्ञा ज्ञापिता भविष्यतीति किं संज्ञाविधायकसूत्रेण । अपि च, अत्र इत्संज्ञाज्ञानकाले णलो लकारस्य उच्चारणार्थत्वाभावनिश्चयाय लक्ष्यमपि अनुसन्धेयं भवतीति महद्गौरवं भवति ।

सर्वमेतद्विचिन्त्य नागेशेन वार्तिकोक्तं द्वितीयं समाधानमेव सिद्धान्तभूतमित्यङ्गीकृतम् ।

यावपि भट्टोजिदीक्षितेन द्वितीये समाधाने दोषौ प्रदर्शितौ तावपि नागेशेन व्याख्याने रीत्यन्तराश्रयणेन परिहृतौ । भट्टोजिदीक्षितेन हल्पदार्थाज्ञाने एकशेषो न युज्यत इति दोषः उद्भावितः । तत्र नागेशः उद्द्योते आह ‘एकशेषशब्देन भाष्ये तन्त्रं लक्ष्यते, अन्यथा सहविवक्षाभावादेकशेषः शास्त्रीयो न स्यादिति बोध्यम्’ इति । एवं च नायमेकशेषः यदर्थं सहविवक्षा अपेक्षिता, तथा च हल्पदार्थाज्ञानेऽपि न दोषः ।

यस्तु षष्ठ्याः सामीप्यार्थकत्वासंभवो दोषः दीक्षितेनोक्तः तत्र इदं समाधानम् – ‘हस्य ल्’ इति विग्रहस्तु न भाष्यकारेण प्रदर्शितः, अपि तु कैयटेन । तत्र सामीप्ये षष्ठ्या अङ्गीकर्तुकशक्यत्वेऽपि अवयवायवयविभावसम्बन्धे तु सा अङ्गीकर्तुं शक्यत एव । एवं चात्र हल्पदस्य तन्त्रेण द्व्यर्थकत्वे तस्य सम्बन्धसामान्यार्थकषष्ठ्यन्तस्य अन्त्यशब्देन सह समासः । अन्त्यपदस्य च द्वन्द्वान्ते श्रूयमाणस्य पदस्येव उभाभ्यां हल्पदार्थाभ्यां सम्बन्धो भवति । तत्र यदा हल्पदस्य सूत्रमर्थः तदा अवयवषष्ठी सा भवति, यदा तु प्रत्याहारपरं तत् तदा तु राहोः शिरः इतिवत् आरोपितभेदनिबन्धना सा । एवं च इतरेतराश्रयदोषः परिहृतो भवति ।

उपसंहारः

भट्टोजिदीक्षितेन सस्वसम्मतसमाधानोपन्यासे ‘एकशेषनिर्देशाद्वा’ इति वार्तिकं नावलम्बितं कैयटोक्तदिशा तदीयस्यार्थस्य निराकरणमपि कृतम् । तेन तन्मते वार्तिकोक्तं समाधानं दोषग्रस्तमित्येव भाति । नागेशस्तु तदेव वार्तिकं तद्भ्याष्यं च रीत्यन्तरेण व्याख्याय दीक्षितोक्तमर्थं तत्रैव भाष्यवार्तिकयोरेव निहितं दर्शयतीति अत्र सिद्धान्ते भट्टोजिदीक्षितस्य नागेशस्य च नास्ति कश्चित् मतभेदः इति स्पष्टं भवति ।

लेखकः –

नागेन्द्रपवनः आर् एन्

सहायकप्राध्यापकः

चिन्मयविश्वविद्यापीठम्

वेलियनाडु, एरणाकुलम्, केरल – ६८२३१३

आकरग्रन्थसूची –

  1. व्याकरणमहाभाष्यम् (कैयटोद्द्योतसहितम्) भागः – २,

M M Pandit Shivadatta Sharma,

Chaukhamba Sanskrit Pratishthan, 2000

  1. प्रौढमनोरमा

Pandit Gopalashastri Nene, Chaukhamba Sanskrit Sansthan, 2003

  1. लघुशब्देन्दुशेखरः

Pandit Gopalashastri Nene, Chaukhamba Sanskrit Sansthan, 2000