स्वामिनः विवेकानन्दस्य वेदान्तोपदेशेषु वैश्विकभाव:

डा. श्रुतिः एच्. के., संशोधनसहायिका, कर्णाटकसंस्कृतविश्वविद्यालयः,
पम्पमहाकविमार्गः, चामराजपेटे, बेङ्गलूरु – ५६००१८

 

भारतीयसंस्कृते: हृदयभूतस्य सनातनधर्मस्य सार एव समष्टिहितचिन्तनम् । ‘सर्वे भवन्तु सुखिन:[i]आ नो भद्रा: क्रतवो यन्तु विश्वत:[ii], ‘वसुधैव कुटुम्बकम्[iii], ‘काले वर्षतु पर्जन्य:[iv] इत्यादिना भारतीयहृदयै: समष्टिहितमेव प्रार्थितम् । एवमुदात्तस्य सनातनधर्मस्य सर्वत्र प्रचारं कृत्वा भारतस्य कीर्तिम्, अन्त:सारं, गरिमाणं च स्वभाषणै: प्रकाशयन् भारतस्य अन्तरङ्गस्य प्रतीकवत्तिष्ठति स्वामी विवेकानन्द: । अध्यात्ममेव भारतस्य आत्मस्वरूपम्, अध्यात्मं विना भा रतम् इति पदमेव अर्थहीनं भवति । वेदान्तस्य प्रायोगिकरूपमनेन अनुष्ठितं  तथा कारितं च । ‘वेदान्तो नाम न केवलं सिद्धान्त: तस्य अनुष्ठाने एव तस्य तात्पर्यमिति’[v], भारते अद्वैती वा द्वैती वा विशिष्टाद्वैती वा अन्यमतानुयायी वा उपनिषदेव प्रमाणं मनुते तत्त्वजिज्ञासायै, अध्यात्माधिगमाय च । अन्यथा स: नास्तिक एव[vi] इति तस्य मतम् ।

विवेकानन्द: एवं वदति – सर्वोऽपि जीव: सनातन: नित्यशुद्धबुद्धमुक्तस्वभाव: परिपूर्णश्च भवति । अयमेव आत्मा पतितेषु, पवित्रात्मसु, सुखिषु, दु:खिषु, सुरूपेषु, कुरूपेषु, मानवेषु, प्राणिषु सर्वत्र वर्तते, स्वयं ज्योतिस्सन् इति । ‘योऽयं विज्ञानमय: प्राणेषु हृद्यन्तर्ज्योति:’[vii],  ‘यत्रायं पुरुष: स्वयं ज्योति:’, ‘इदं सर्वं यदयमात्मा[viii] इति श्रुतिश्च । अत: आत्मत्वेन सर्वेऽपि समाना एव । किन्तु नामरूपात्मना केवलं भिन्ना:, धनिक-दरिद्र-सुरूप-कुरूप-स्त्री-पुरुषधर्मजातिमतादिनैकभेदै: आत्मीयतां विहाय बहुदूरं परस्परं गता: । परस्परसमस्तभेदनाशे सति समष्टिभाव: स्वयमुत्पद्यते । ‘वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्[ix] इति च श्रुति: । ‘एवं नित्यानित्यवस्तुविवेकी आत्मज्ञानी प्रपञ्चे भेदं न पश्यति । सर्वत्र एकत्वमेव पश्यति । आत्मन: प्रकाशे तरतमभाव: देवमानवप्रण्यादिषु किन्तु न आत्मनि[x]

पुनश्च, आत्मा आनन्द: इति श्रुतिवाक्यमुद्धरति – आनन्दमीमांसायां आत्मन: आनन्दस्वरूपं वर्णयन्त: – ‘आनन्दं ब्रह्मणो विद्वानानन्द आत्मा[xi] , अन्यत्र ‘आनन्दाद्ध्येव इमानि भूतानि जायन्ते[xii] , पुनश्च ‘न हि पत्यु: कामाय पति: प्रियो भवति अत्मनस्तु कामाय पति: प्रियो भवति….आत्मनस्तु कामाय सर्वं प्रियं भवति[xiii] इत्याद्युक्त्वा ‘आत्मा वा अरे द्रष्टव्यो मन्तव्यो निदिध्यासितव्य: मैत्रेय्यात्मनि खल्वरे दृष्टे श्रुते मते विज्ञाते इदं सर्वं विदितम्[xiv] इति उक्त्वा, मानव: सुखं विषयदेशेषु बहि: आनन्दमन्विषति यथा मन्दिरे, चर्च् मध्ये, भूमौ, स्वर्गे च सर्वत्रान्विषति । यस्माच्च निर्गत्य पुनस्तत्रैवायाति । प्रदक्षिणं त्वन्वेषणे पूर्णं भवति किन्तु आनन्दस्वरूप: भगवान् नोपलभ्यते । यतो हि स: आनन्द: हृदयगुहायामेव स्थित: वर्तते । तस्य प्राप्तिस्थानं सैव । ‘अङ्गुष्ठमात्र: पुरुषोऽन्तरात्मा सदा जनानां हृदये संनिविष्ट:[xv] । तत्र स उपलभ्यते तर्हि अन्वेषणीयं जीवने किमपि नावशिष्यते ।  इन्द्रियाणां तु स्वविषयेषु प्रसरणं स्वभाव एव, ‘पराञ्चिखानि व्यतृणत् स्वयंभू: तस्मात् पराङ्पश्यति नान्तरात्मन्[xvi] अर्थात् सर्वेऽपि सुखन्विष्यन्ति, अन्विष्यन्त: सर्वत्र जीवनमेव यापयन्ति । तत्सहजमिति वदति श्रुति: । अत:, बलाद्यदि निगृह्य मनसा अन्तमुर्खीकरणेन तेषां तत्र स्वरूपभूतानन्दमुपलभते । जीवने आप्तव्यमन्वेषणीयं च किमपि नावशिष्यते ।

’अहमद्वैतमेव प्रतिपादयामीति जना: पृच्छन्ति । द्वैतस्य वाद्वैतस्य वा तदन्यत्तत्त्वस्य वा बोधने मे तात्पर्यं नास्ति । किन्तु आत्मविषयकज्ञानमपेक्षते इति तु सर्वथा प्रतिपादयामि । आत्मन: अनन्तशक्तिं परिशुद्धतां परिपूर्णतां चाहं सर्वदा बोधयामि । यदि शिशु: स्यान्मदीयः तर्ह्यहं त्वमात्मा इत्येवावगाहयेयं, यथा मदालसा स्ववत्सं ’त्वं परिशुद्धोऽसि कलङ्करहित: पापदूर: शक्तिशालिन् परमश्रेष्ठ’ इत्येव स्वापयति, लालयति स्म । एवमात्मानं यदि श्रेष्ठत्वेन मन्यते तर्हि श्रेष्ठ एव भविष्यति आत्मैव ज्ञातव्य: जगति मानवेन। जगत: औन्नत्यमत्रैवास्ति’[xvii] । स्वस्थसुसंस्कृतसमाजनिर्माणाय स्वस्थव्यक्ते: निर्माणमपेक्षितम् । व्यक्तिस्तु मानसिक-दैहिक-बौद्धिक-आध्यात्मिकरूपेण च स्वस्थः भवेत् । तथा स्वास्थ्यसम्पादनाय आत्मनि विश्वास: तज्ज्ञानं चापेक्षितम् । अत: समष्टिहितं तु व्यष्टिगतात्मज्ञाने एव वर्तते ।

’स्त्रीपुरुषादय: दैववद्द्रष्टव्या: । सेवा च कर्तव्या, न तु साहाय्यम् । अर्भका: अपि पूजनीया: । अर्भकसेवावकाश: जीवने प्राप्यते चेत् आत्मानं धन्यं मनुयात् । दरिद्रेषु परमात्मा द्रष्टव्य: । मुक्तये मुख्यतया दरिद्रसेवैव करणीया । दीन-दरिद्र-रोगि-उन्मत्त-कुष्ठ-पापिरूपेण देव: प्रकटो भवति । अत:, भगवत: विविधरूपाणि एवं पूजनीया:, एतादृशानां सेवया मुक्तये मार्गं परिकल्पयति भगवान् । तदेव पुण्यमित्यहं भावयामि । ज्ञानस्य प्रचार: कर्तव्य: । अधिकाधिकं कर्तव्य: । सर्वे च ज्ञानं प्राप्नुवन्तु भगवत्साक्षात्कारपर्यन्तम् । दरिद्रान् बोधयन्तु, ततोऽप्यधिकतरं धनिकान् तेषामेव ज्ञानस्यापेक्षितत्त्वात् । पामरान् च बोधयन्तु, पण्डितान् चाधिकतया, यत: आधुनिकविद्यावत्सु अभिमानोऽप्यधिकतर: । अत: ज्ञानज्योति: सर्वत्रापेक्षिता । अन्यत्सर्वं भगवते अर्पयन्तु । यत:,  कर्मण्येवाधिकारस्ते मा फलेषु कदाचन । मा कर्म फलहेतुर्भू: मा ते सङ्गोऽस्त्वकर्मणि’[xviii]  इति । एवं तेषां भाषणेषु आत्मज्ञानमेव जगद्धितकारणमिति स्पष्टं सर्वत्र ज्ञायते ।

तत्त्वशास्त्रस्याध्ययनेन आध्यात्मिक-मानसिक-दैहिकशक्तय: देहाद्बहि: विद्यमानप्रपञ्चादभिन्ना: । ब्रह्मांडे विद्यमानं शरीरेऽपि वर्तते इत्यभिप्रायेण । यत्किञ्चिद्बहिर्दृश्यते तत्सर्वमन्तरेव वर्तते । मरणानन्तरमपि जीवनं वेदान्ते उक्तं न त्वन्यत्र । न जायते म्रियते विपश्चित् इत्युक्तम् । मृत्युरेव दु:खातिशयकारणम् । किन्तु शरीरस्य, प्रपञ्चस्य अज्ञानकार्यस्य एव नाश: न तु चैतन्यस्य स्वरूपभूतस्य । अत:, मृत्यु: आत्मानं न बाधते अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च । ‘नित्य: सर्वगत: स्थाणु: अचलोऽयं सनातन:[xix] इत्यनेनापि तदेवोक्तम् । अमृतत्वमेव सत्यमन्यत्सर्वमौपाधिकम् । विश्वोऽपि सर्वथा अखण्ड एव, किन्तु द्रव्यादिसहित: दृश्यते । सर्वमपि एकस्मिन्नेवाधिष्ठितम् । तत् देशकालाभ्यां प्रतिबद्धमिव प्रतिभाति । किन्तु, अनाद्यनन्तविश्वरूपात्मकपरमात्मनि सर्वमपि दृश्यते । एक एव नानारूपेभ्य: प्रतिभाति । नानानामरूपेषु दृश्यमानजगति एकत्वान्वेषणमेव भारतीयशास्त्राणां प्रयोजनम् । विश्वसिद्धान्त एव एकत्वसिद्धान्त: । यस्मिन्नु विज्ञाते सर्वं विज्ञातं भवति इत्येव परमप्रश्न: । आत्माज्ञाने सति सर्वं विज्ञातं भवति इत्येव उत्तरम्। अत: विश्वे सर्वेषामपि ऐक्ये एव सिद्धान्त: पर्यवस्यति । यथा आकाशे सर्वं प्रतिष्ठितं दृश्यते । अत्र तु सार एव गृहीत: विवेकानन्दभाषणस्य । अत्र सर्वेषां ऐक्यमेव प्रतिपादितम् ।

तत्त्वसिद्धान्तेषु एव ऐकमत्यं न वर्तते, तत्रैवाभिप्रायभेदास्सन्ति तदनुयायिन एव परस्परं द्विषन्ति तत्कथम् ऐक्यसाधानम्?- इत्यत्रापि विवेकानन्दस्य चिन्तनमित्थं वर्तते साररूपेण – परस्परविरोधीनि शास्त्राणि द्वैताद्वैतविशिष्टाद्वैतादिषु मूलसिद्धान्तेषु एव बहुधा अभिप्रायभेद: वर्तते । तथापि प्रथमत: विद्यमानसमानांशा: स्वीकर्तव्या: । यथा आत्मन: अस्तित्वम् । यद्यपि विशिष्टाद्वैतिन: तस्य अज्ञत्वं वदन्ति यद्वा अद्वैतिन: औपाधिकाज्ञत्वं वदन्ति तथापि आत्मनि शक्तिस्तु अङ्गीक्रियते एव । पुनश्च सर्वे दार्शनिका: प्रस्थानत्रयग्रन्थानुयायिन: । श्रीशङ्करपूर्वमेव अद्वैतस्य, श्रीरामानुजपूर्वमेव विशिष्टाद्वैतस्य, द्वैतशास्त्रस्याप्ति -एवं तेषामस्तित्वं बहु पुरातनमेव । अत:, अभिप्रायभेदे सति एते परस्परं विरोधिन: इति न मन्तव्यम् । विवेकानन्दस्य दृष्ट्या तु यथा सङ्गीतं मधुररागेणारब्धं अद्वैते अद्वये पर्यवस्यति । तथैव मानवचित्तमपि द्वैतसोपानसाधनेन अद्वैतशिखरमारोहतीति । अत:, तेषां विरोधित्वं न कल्पनीयमिति । विवेकानन्द: अद्वैतिन: उपनिषदि अद्वैतभागं विहाय द्वैतविशिष्टाद्वैतप्रतिपादकवेदान्तवाक्यं प्रति प्रयासेन अद्वैतार्थस्य, तथा द्वैतिनोऽपि अद्वैतप्रतिपादकश्रुतिवाक्येभ्य: बहुप्रयत्नेन द्वैतार्थस्य व्याख्यानं कृतवन्त: इति वदति । ते सर्वे वस्तुत: महापुरुषा एव । तथापि तेषां ग्रन्थानां समन्वयं कृत्वा तात्पर्यस्वीकरणमेव सरलं श्रेयस्करं च इत्यभिप्रैति । उपनिषद: प्राय: अरुन्धतीन्यायेन तत्त्वानि बोधयन्ति । आदौ कस्मिन्नु भगवो विज्ञाते सर्वं विज्ञातं भवति इति महाप्रश्न: । सर्वेषु वेदान्तग्रन्थेषु प्रायश: द्वैतप्रतिपादकवाक्यान्यादौ उपासनापूर्वकाणि भवन्ति । सृष्टिकर्तु: विचारश्च । ईश्वरस्य जीवजडप्रपञ्चनियामकत्वं, तस्योपासनं च, शरीरेऽपि प्रपञ्चेऽपि तस्य ईशितृत्वं, अन्तर्यामित्वं अन्तत: ब्रह्ममयत्वं च  बोधयित्वा परमात्मानं सर्वव्यापित्वं च जीवब्रह्मणोरैक्यं च बोध्यते । तद्यथा छान्दोग्योपनिषदि ‘सदेव सौम्येदमग्र आसीदि[xx]त्युक्त्वा सृष्टिक्रमं द्वैतप्रपञ्चं च प्रतिपाद्य, षोडशकलमीश्वरं च प्रतिपाद्य तस्य च प्रपञ्च नियामकत्वं चोक्त्वा, स्वप्नस्थं जीवं च प्रतिपाद्य परमात्मानं च स य एषोऽणिमैतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतो[xxi] इति जीवब्रह्मणोरैक्यं प्रतिपादितम् ।

मायाया: विषये विवेकानन्देन बहूपन्यस्तं तस्य संक्षेप: – वेदान्ततत्त्वस्य आधारभूतस्तम्भ: माया । तेषामभिप्रायेण वेदकाले मायाशब्दस्य य: इदानीमुपलभ्यमानोऽर्थ: नासीत् । इन्द्रो मायाभि: इत्यादिना तज्ज्ञायते । किन्तु, उपनिषत्काले यदा विश्वरहस्यं अन्विष्यन्ते स्म तदा हिमवदाच्छादकपदार्थ: जिज्ञासुसत्ययोर्मध्ये प्रतिभात: । यच्चावरणं सत्यस्य सा मायाशब्देनोक्ता । तदनन्तरं ‘मायां तु प्रकृतिं विद्यात् मायिनं तु महेश्वरम्[xxii] इति यदुक्तं श्वेताश्वतरे तत्काले माया जगत: कारणमित्यपि अवगतवन्त: । विवेकानन्ददृष्ट्या माया नाम न भावसत्तावाद:, न वा वस्तुसत्तावाद: । माया नाम वस्तुस्तिथि: । मायया एव दृश्यमानजगन्निरूपणम् । वेदान्तेऽपि व्यावहारिकजगदुपादानं माया, अज्ञानमेव जगति बन्धकारणमित्युच्यते खलु । एवं वदति – वयं सर्वे स्वर्णस्वप्नमनुगच्छन्तो स्म: । सर्वोऽपि तल्लभ्यते इत्येव तत्प्राप्तये यतमान: दृश्यते । एषा एव माया । मृत्यु: प्रपञ्चे सर्वत्र सञ्चरति । तथापि मानव: अहं शाश्वत: इत्यात्मानं मनुते । एषा माया । वस्तुषु सुखमन्विषन् वैषयिकलोभी भवति, दु:खमनुभवन्नपि तत्रैव सुखमन्विषति – एषा माया । एवं जगति विषयसम्बद्धसुखस्य दु:खस्य च माया एव कारणम् । जगति चक्रं वर्तते सस्यं प्राणिन: खादन्ति प्राणिनोऽपि प्राणिन: – तान् मनुष्य: – मनुष्य़ाणां च परस्परहिंसा – बलाढ्या: बलहीनान् हिंसन्ति – धनाढ्या: धनहीनान् हिंसन्ति, दासा: दासा एव परियन्ति । एवं मायया बद्धा: संसारचक्रे परिभ्रमन्ति – एषा वस्तुस्थिति:, मायाप्रभावेण न कोऽपि त्यक्तो भवति । अस्य कारणं किं स्यादित्युक्तौ आत्मविषकाज्ञानमेव । यदा तु अज्ञानं नश्यति तदा वर्तमानमेव आत्मज्ञानं प्रकाशते । तदुच्यते वेदान्ते भिद्यते हृदयग्रन्थि: छिद्यन्ते सर्वसंशया: । क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे । जीव: बद्ध: अज्ञानेन, ज्ञानेन तु बन्धनात् शाश्वतं प्रमुच्यते न स पुनरावर्तते इति श्रुति: । अत: सर्वदु:खकारणं प्रपञ्चे माया । प्रपञ्चहितं तु सर्वानन्दे एव वर्तते आनन्दस्तु आत्मस्वरूपभूतमेव । आत्माश्रिताज्ञानं आत्मज्ञानेन निवार्यते, तेन स्वरूपानन्द एव प्राप्यते सम्पूर्णानन्दावाप्तौ प्राप्तव्यं किमन्यदस्ति?

जीवेषु परस्परं सौहार्दं भवेत् । मानवस्य सौहार्दराहित्याय अहंभाव: प्रायश: कारणं भवति । तस्य नाशस्तु भक्त्या प्रेम्णा च भवति । यथा पत्नी स्वपतिं प्रीणाति, यथा वा परस्परं मित्राणि, यथा च माता वत्सम्, एवं प्रेम्ण: बहव: प्रकारा: सन्ति । भगवानपि प्रेमस्वरूप:, मनुष्यस्य प्रेम्णा एव तमुद्धर्तुमायाति । अत:, भक्त्या अन्तरङ्गशुद्धि: अञ्जसा प्राप्यते । भगवत्प्रीत्यर्थं जीवप्रीति: मुख्या । जीविषु निर्मलप्रीत्युत्पत्तये शीलशुद्धि:, समानबुद्धि:, अहङ्कारराहित्यं, स्वार्थराहित्यं, कामक्रोधादिराहित्यमपेक्ष्यते । अत:, विवेकी विरागी च जीवने सुखमनुभवत: दु:खेऽपि ।

एवं विवेकानन्द: समष्टिसुखं व्यष्टिसुखमूलं, व्यष्टिसुखं तु आत्मज्ञानमूलम् इत्यभिप्रैति । अत: विद्यमानपरस्परभेदं विहाय भेदकारणम् अज्ञानं च नाशयित्वा प्रपञ्चे ऐक्यभावना भवेत् । यदि प्रपञ्चे समष्टिहितमपेक्ष्यते तर्हि व्यष्टिगतभेदो निवारणीय:, स तु आत्मज्ञानप्रयुक्त: एव भवति । वेदान्तज्ञानस्य अनुष्ठानेनेदं सिध्यति । वेदान्तवाक्येषु सदा रमन्त: भिक्षान्नमात्रेण च तुष्टिमन्त: अशोकमन्त: करणे चरन्त: कौपीनवन्त: खलु भाग्यवन्त: ।

*  *  *  *

[i] ऋग्वेदः

[ii] ऋग्वेदः-१-१-८९

[iii] हितोपदेशः – सन्धिः

[iv] मङ्गलश्लोक: – रामायणम्(पारायणक्रमे)

[v] अनुष्ठानवेदान्त:- प्रथमाध्याय:

[vi] स्वामीविवेकानन्दर बोधनेयसार – आत्मा

[vii] बृहदारण्यक-४-३-७, १४

[viii] बृहदारण्यक-४-५-७

[ix] छान्दोग्य-६-१-४

[x] विवाकानन्दरबोधनेय सार-आत्मा

[xi] तैत्तिरीय-४-१

[xii] तैत्तिरीयोपनिषत्-५-१

[xiii] बृहदारण्यकोपनिषत्-४-५-६

[xiv] बृहदारण्यकोपनिषत्-४-५-६

[xv] कठोपनिषत्-३-३-१७

[xvi] कठ -२-१-१

[xvii] कोलोम्बोदिन्द अलोमोरके-भाग-१२

[xviii] ज्ञानयोगः

[xix] भगवद्गीता-२-४७

[xx] भगवद्गीता-२-२४

[xxi] छान्दोग्योपनिषत्-६-८-७

[xxii] छान्दोग्योपनिषत्-६-२-१