संस्कृतसाहित्ये वराहावतारः

देवाशिषः मिश्रः, शोधछात्रः, संस्कृतविभागः,
पाण्डिच्चेरी विश्वविद्यालयम्, कालापेटः,
पुडुच्चेरी-६०५०१४
दूरभाषम्-9438589924

Email ID-debamishra99@gmail.com

शोधसारांशः

              अनन्तस्वरूपि भगवान् साधूनां परित्राणाय, धर्मस्य संरक्षाणाय, स्वभक्तानामुपरि अनुग्रहाय कृपाप्रदानाय च विविधेषु रूपेषु अवतरति । यथा बृहज्जलाशयात् सहस्राः क्षुद्राः जलप्रवाहाः प्रवहन्ति, तथा भगवतः शरीरात् समयानुक्रमे विविधाः अवताराः आविर्भवन्ति । सहस्रसंख्यकेषु अवतारेषु भागवतेपुराणे चतुर्विंशति अवताराणामुल्लेखः प्राप्यते, यस्मात् वराहावतारः अन्यतमः, यस्य विवरणं वैदिकसाहित्यादारभ्यः लौकिकसंस्कृतसाहित्यं तथा विविधस्तोत्रग्रन्थपर्यन्तं विशेषावस्थायां प्रतिफलितं भवति । मुख्यतः वराहावतारस्य प्रयोजनं हिरण्याक्षं निहत्य अधोगामिनीपृथिवीम् उद्धारणाय सम्पाद्यते इति सर्वेषु साहित्येषु दरीदृश्यते । प्राथमिकावस्थायां अयं वराहावतारः प्रथमतः प्रजापत्या ब्रह्मणा सह संश्लिष्टः आसीत् । किन्तु कालक्रमे भगवतः नारायणस्य आधिपत्यात् हेतोः तेन सह जडितः अभवत् । पौराणिकरूपं गृहीत्वा तस्य विविधानि रूपाणि यथा भू-वराहः, आदिवराहः, यज्ञवराहः, नृवराहः, प्रलयवराहश्चादि मूर्तीणां प्रभावः समाजे कालक्रमानुसारं प्रसारितं भवति । 

१.प्रस्तावना  

              भागतीयवाङ्मये समस्तग्रन्थेषु, श्रुतिषु, स्मृतिषु, पुराणेषु, लौकिकसंस्कृतसाहित्यादिषु च परब्रह्मणः भगवतः अवताराणां वर्णनं, तेषां कारणं रहस्यामोल्लेखश्च विस्तृतरूपेण समुपलभ्यते । सर्वादौ भगवतः विष्णोः अवतारः मुख्यतः प्राणीनां, प्राणीमनुष्ययोः माध्यमेन विवर्तितमासीत् । तस्मात् वराहावतारः प्रसिद्धोऽसीत् । मत्स्यावतारसदृशः वराहोऽपि प्रथमतः ब्रह्मणा सह सम्बन्धितोऽऽसीत् । परन्तु समयानुक्रमे भगवतः विष्णोः माहात्म्यानुसारं अयमवतारः पौराणिकसाहित्ये तथा तत्परवर्तिसाहित्ये विष्णुना सह संयुक्तोऽभवत् ।

२.वैदिकसाहित्ये

               वैदिकसाहित्ये एमुषनामवराहस्य विभिन्नस्थानेषु  विशेषरूपेण समुपलभ्यते । ऋग्वेदे प्रथममण्डले वराहशब्दः उल्लिख्य वर्ण्यते यथा सूर्यः स्वकिरणैः वराहं (मेघं) संहत्य विजयं प्राप्यते, तथा राष्ट्राध्यक्षः कुशलराजकार्यसम्पादनाय स्वपराक्रमेण शत्रुन् निहत्य विजयते । पुनश्च अष्टममण्डले इन्द्रेण इषितः पराक्रमी भगवान् विष्णुः शतं महिषान् क्षीरपाकमोदनं तथा एमुषं वराहमादि सर्वपदार्थान् इन्द्राय प्रददाति । दशममण्डलेऽपि  इन्द्रस्य स्तुतिसमये वृषाकपेः हननाय वराहमिच्छन् श्वानः भक्षयति इति वर्ण्यते । उपर्युक्तः स्थानत्रयेषु वराहशब्द विविधेषु यथा वलाहकः सुकरश्चादिषु अर्थेषु व्यवह्रीयते । परन्तु एते शब्दाः परवर्तिसाहित्ये वर्णितः वराहावतारी भगवान्नारायणेन सह सम्बन्धः न परिलक्षते ।   अधोगामिनीपृथिवीं गभीरजलात् उद्धरणाय वराहावतारस्य प्रमुखः प्रासङ्गिकता  अनेकस्थलेषु दरीदृश्यते यदपि अथर्ववेदे पृथिवीसुक्ते मूलरूपेण प्राप्यते । यत्र वर्ण्यते या पृथिवी शत्रूणां धारणे सक्ष्यमा, याऽपि पापयुक्तान् पुण्ययुक्तान् वा शवानां धारणशीला, कूलपर्वतानिव वृहद्पदार्थानां धारणे क्षमा, यां पृथिवीं भगवान् विष्णुः वराहवतारे प्राप्तुमिच्छति स्म, सा पृथिवी भगवता विष्णुना उद्धृताऽऽसीत् । 

               तैत्तरीयसंहितायां-ब्राह्मणे-आरण्यके च वराहवतारस्य प्रसङ्गः इन्द्रप्रजापतिभ्यां सह वर्णितं दृश्यते । तैत्तरीयसंहितायां वर्ण्यते यत्-पुरा समग्रमेतज्जगत् जलेन परिप्लुतमासीत्, तदा भगवान् ब्रह्मन् स्वेच्छया वायुरूपेण गगने विचरणं कृतवान् । सः  पृथिवीं जले निमग्ना इति दृष्ट्वा वराहवतारे अवतीर्य तं उद्धृतवान् । अनन्तरं विश्वकर्मारूपेण अवतीर्य पृथिवीं विस्तारितवान् ।

               तैत्तिरीयब्राह्मणे प्रजापतिः स्वयं वराहावतारं गृहीत्वा जलमग्नां भूदेवीम् उद्धृतवान् । विस्तृतविवरणं विविच्य अत्र कथ्यते यत्-सृष्ट्यारम्भे इदं जगत् जले आच्छादितमासीत् । जले तपस्यारतः ब्रह्मा सृष्टिसंरचनाय अचिन्तयत् । तस्मिन् समये जलावस्थितं कमलपत्रं दृष्ट्वा अशोचयत् यत् अस्मात् अधः नूनं किञ्चित् सत्वमस्ति, यत्र पद्मपत्रं स्थितम् । तदनन्तरं सः वराहावततारं धृत्वा जले प्रविश्य पृथिवीं प्राप्तवान् । तस्मात् एकं क्षुद्रं छित्वा उपरिभागम् आनीय तां भूमिं प्रसारितवान् । एतस्मात् कारणात् तस्या नाम पृथिवी इत स्वीक्रियते । तैत्तिरीयारण्यके प्रोच्यते यत् एकः कृष्णवर्णधारीवराहः स्वशतहस्तैः कामधेनुसमानं पृथिवीम् उर्ध्वं प्रेषितवान् । परन्तु अत्र न स्पष्टं भवति यत् अयमवतारः केन सह जडितः आसीत् । शतपथब्राह्मणे वराहस्य प्रसङ्गः प्राप्यते । प्राक्काले पृथिवी बृहत् पात्रसदृशमस्ति । एमुषेति श्रेष्ठवराहः तां मग्नां भूमिमुद्धरति । इयं पृथिवी ईश्वरप्रजापतिना निर्मिता आसीत् ।

                एमुषनाम्ना वराहः काठक-तैत्तरीयसंहितयोः प्राप्यते । तैत्तिरीयसंहितानुसारं स्वयं यज्ञः विष्णुरूपेण अवतीर्यः देवानां मध्ये लुप्तो आसीत् । पश्चात् सः पृथिव्यां प्रविश्य अनन्तरं तत्र देवगोचरीभूतं भवति । परन्तु इन्द्रः परितः भ्रमित्वा न तं प्रप्तवान् । तदनन्तरं “कोऽपि अस्मानुपरि परिक्रमणं कृतवान्” इति विष्णुना पृष्ठः प्रत्युत्तरेण इन्द्रेण कथितः अहं दुर्गस्य विनाशकः । इन्द्रेण अपि विष्णोः परिचयः पृष्टः । प्रत्युत्तरेण विष्णुरपि स्वयं दुर्गस्य प्राप्यर्थं स्वेच्छां प्रकटितवान् । अत्र वराहस्य प्रामाण्यं प्रदातुं प्रोच्यते यत् अयं वराहः देवतानां धनं अपहृत्य पर्वतानाम् अपपार्श्वे असुरान् निकषां रक्षितवान् । एतस्मै कारणाय तस्य हननाय विष्णुः इन्द्रं प्रार्थयामास । अनन्तरं इन्द्रेण क्षिप्त दर्भरूपीबाणप्रहारेण सः वराहः हतः । अयं विषयः कपिष्ठलकठसंहितायामपि विस्तृतरूपेण वर्ण्यते । यदा सृष्ट्यारम्भे केवलं जलमासीत् तदा प्रजापति ब्रह्मन् वराहावतारेण जलं प्राविशत् । तस्मात् स्वमुखसदृशं मृदमुदुहरत् । परवर्त्तिसमये तेन क्षिप्तः मृदुः पृथिवीरूपेण परिणतमस्ति । अस्मिन् प्रसङ्गे भगवतः विष्णोः, यज्ञस्य, वराहस्य च संयोगो भवति । एतद्वृतान्तमाधारिकृत्य यज्ञवराहस्य मूलरूपः प्रतीयते इति स्वीक्रियते । 

३. रामायणे

              आदिकाव्ये रामायणे यदा भगवता ब्रह्मणा श्रीरामस्य स्तवनसमये तस्य भगवत्सत्तायां गुणविषये स्तुयते तत्र वर्ण्यते यत् भगवान् विष्णुः चक्रायुधारी नारायणदेवः, एकश्रृङ्गी वराहः तथा देवानां भूतभव्यशत्रून् विजयधारी रूपेण परिगण्यते ।

४. महाभारते

                महाभारते वनपर्वणि वराहावतारस्य कथानकं प्राप्यते । अत्र वर्ण्यते यत्-यदा प्राणीनां बुद्धिभारेण पृथिवी शतयोजनं निम्नगामिनी भवति, तदा भारलघुकरणाय सा भगवन्तं नारायणं प्रार्थितवती । भगवान् विष्णुः एकश्रृङ्गीवराहरूपेण अवतीर्य अधोगामिनीं पृथिवीं पुनश्च उर्ध्वम् आनीतवान् । तस्य स्वरूपस्य व्याख्यानं कृत्वा वर्ण्यते यत् सः रक्तनेत्रेण युक्तः भयोत्पन्नेन च धूमं प्रकटयित्वा पृथिवीं धृत्वा उर्ध्वगामी अभवत् । 

                एतदतिरिक्तं महाभारतस्य अन्यस्थलेषु वराहावतारस्योल्लेखः प्राप्यते । शान्तिपर्वणि पितृपिण्डेन युक्तः कथानकेन कथ्यते पुरा भूमिमुपरि कुशं विस्तीर्य पितृभ्यः त्रीणि पिण्डानि अददात् । अस्य नामकरणविषये स्वयं नारायणः कथयति यत् समुद्रालंकृता सा पृथिवी जले निमग्नाऽऽसीत् । तां भगवान् विष्णुः वराहावतारेण उर्ध्वम् उत्थापितवान् । जलकर्दमयुक्तः तथा पृथिवीं स्वस्थाने स्थापयित्वा स्वदंष्ट्रेण त्रीणि पिण्डानि उत्थाप्य कुशानमुपरि स्थापितवान् च । 

                अस्मिन् पर्वणि अपि एकश्रृङ्गीवराहस्य विषये भगवान् नारायणः वक्ति यथा एकश्रृङ्गी नन्दिवर्धननाम्ना वराहरूपं धारयित्वा इमां पृथिवीम् उद्धृतवान् । श्वेतशरीरयुक्तेन तस्य शरीरे त्रिसंख्यकाः ककुदाः आसन् । अतः सः त्रीककुदः इति नाम्ना विख्यातः आसीत् । परन्तु अत्र हिरण्याक्षबद्धस्य प्रसङ्गः नोपलभ्यते । अस्मिन् पर्वणि नारायणोपाख्याने वराहावतारवर्णनप्रसङ्गे जले निमग्नां पृथिवीं स्वयं भगवान् विष्णुः दैत्यराजहिरण्याक्षं निहत्य स्वस्थानं आनीतवान् ।  

५. पौराणिकसाहित्ये

                विष्णुपुराणस्य प्राक्कथानुसारं वराहावतारः प्रजापतेः अवतारः इति स्वीक्रियते । अत्र वराहावतारस्य विश्वरूपप्रसङ्गे वर्ण्यते यत् “भो यूपरूपी भगवान् त्वमेव यज्ञपुरुषः । तव चरणयोः चतर्वेदाः, दन्तेषु यज्ञः, मुखे चित्तयः हुताशनादि तव जिह्वे तथा तव शरीरस्य रुहाणि कुशसदृशः सन्ति ।” रात्रिदिवसौ च तस्य नेत्रे, परब्रह्मन् तस्य सिरः, सर्वाणि सुक्तानि तस्य सटकलापो तथा सर्वे हवयः तस्य प्राणा इति सन्ति । अतः एतस्मात् प्रतीयते यत् वराहावतारः मूलतः पृथिवीयज्ञाभ्यां सह प्रारम्भिकपुराणेषु जडिः आसीत् । 

             पुराणेषु श्रेष्ठे भागवतपुराणे भगवतः विष्णोः वराहावतारः विविधेषु स्थानेषु विविधैः प्रसङ्गैः वर्ण्यते । भागवते प्रथमस्कन्धे प्रोच्यते यत्-

द्वितीयं तु भवायास्य रसातलगतां महीम् ।

उद्धरिष्यन्नुपादत्त यज्ञेशः सौकरं वपुः ।।

अर्थात् संसारस्य कल्याणाय सकलयज्ञस्य स्वामी भगवान् विष्णुः अधोगामिनीं पृथिवीम् उद्धारकर्त्तुं वराहरूपेण अवतरितवान् । पुनश्च द्वितीयस्कन्धे वर्ण्यते-

यत्रोद्यतः क्षितितलोद्धरणाय विभ्रत् 

क्रौडीं तनुं सकलयज्ञमयीमनन्तः ।

अन्तर्महार्णव उपागतमादिदैत्यं

तं दंष्ट्रयाद्रिमिव वज्रधरो ददार ।।

प्रलयजले निमग्नां पृथिवीम् उद्धृतं भगवान् विष्णुः सकलयज्ञमयवराहशरीरं धृतवान् । यदा जले युद्धाय आदिदैत्यः हिरण्याक्षः विष्णुं प्रति अग्रसरोऽभूत् ,तदा इन्द्रः यथा वज्रेण पर्वतानां पक्षः छेदितवान् तथा भगवान् वराहः स्वदन्तैः तं हतवान् ।

               परन्तु वराहावतारस्य विस्तृतविवरणं भागवते तृतीयस्कन्धे प्राप्यते यत्र यदा प्रजापति ब्रह्मा रसातले निमग्ना पृथिवीम् उद्धारकर्त्तुं चिन्तितवान्, तदा अङ्गुष्ठमात्रस्वरूपः वराहशिशुः प्रजापतेः नासिकारन्ध्रात् प्रकटितवान् । सः बृहच्छरीरः धारणकृत्वा हिरण्याक्षम् हतवान् । पश्चात् स्वतीक्ष्णदन्तैः पृथिवीं धृत्वा समुद्रजलात् उर्ध्वमागतवान् । 

अपि च भागवतस्य एकादशस्कन्धे उल्लिख्यितमस्ति-

गुप्तोऽप्यये मनुरिलौषधयश्च मात्स्ये 

क्रौडे हतो दितिज उद्धरताम्भसः क्ष्माम् ।

कौर्मे धृतोऽद्रिरमृतोन्मथने स्वपृष्ठे 

ग्राहात् प्रपन्नमिभराजममुञ्चदार्त्तम् ।।   

अत्रापि भगवान् वराहः हिरण्याक्षं हत्वा अधोनिमग्नां पृथिवीं संरक्षितवान् । 

              मत्स्यपुराणे अर्जुनस्य वराहावतारविषये जिज्ञासादूरीकरणाय शौनकेन वर्ण्यते यत्- यदा पृथिवी रसातलम् अग्रसरमभवत्, तदा भगवान् विष्णुः वराहशरीरेण अवतीर्य तां स्वदंष्ट्रेण उर्ध्वम् आनीतवान् । अग्निपुराणे भगवतः विष्णोः वराहावतारेण हिरण्याक्षवधस्य विषयं प्राप्यते । हरिवंशपुराणेऽपि वराहावतारप्रसङ्गे वर्ण्यते यत् यदा पृथिवी रसातले निमग्नाऽऽसीत् तदा भगवान् विष्णुः यज्ञवराहरूपेण तां पुनश्च स्वस्थाने स्थापितवान् । अयं विषयोऽपि गरुडपुराणे परिलक्षते । कूर्मपुराणे भगवान् विष्णुः ब्रह्मनाम्नावराहरूपेण रसातले निमग्नां पृथिवीम् उद्धृतवान् । पुनश्च अन्यत्र हिरण्याक्षं निहत्य स्वदंष्ट्रेण पृथिवीमुद्धृत्य तथा देवद्विजादीनां स्वस्थाने संस्थाप्य भगवान् विष्णुः मूलरूपं धारणं कृतवान् । एतद् वर्णनमपि श्रीविष्णुधर्मोत्तरपुराणे विस्तृतरूपेण दृश्यते । ब्रह्मपुराणे वर्ण्यते यत् यदा सिन्धुसेननाम्ना दैत्यराजः देवाः पराभूय यज्ञमादाय रसातलं गतवान्, तदा यज्ञनष्टेन किं भविष्यतीति चिन्तयित्वा देवाः भगवान्विष्णुं प्रार्थयामासः । तेषां प्रार्थनां गृहीत्वा भगवान् विष्णुः शङ्खचक्रगदादिन् पाणिषु गृहीत्वा वराहावतारेण अवतीर्य रसातलं गत्वा सर्वान् दानवान् निहत्य पुनीतयज्ञम् उद्धृतवान् । तस्मात् कारणात् यज्ञाङ्गमिति कथ्यते । अन्यत्र तं यज्ञवराहरूपेण स्वीकृत्य वर्ण्यते तस्य शरीरः वेदकार्ये प्रयुक्तः विविधैः वस्तुभिः सह तुल्यते  । वराहपुराणे, श्रीनरसिंहपुराणे, वायुपुराणे, पद्मपुराणे च पृथिव्युद्धरणाय भगवान् विष्णुः वराहावतारेण हिरण्याक्षं निहतवानिति वर्णनं प्राप्यते ।

६. लौकिकसंस्कृतसाहित्ये 

शंकराचार्यकृतः दशावतारस्तोत्रे वराहावतारस्य प्रसङ्गे वर्णितं यत्-

उद्रग्रे रदाग्रे सगोत्रापि गोत्रा स्थिता तस्थुषः केतकाग्रे षडङ्घ्रेः ।

तनोति श्रियं सश्रियं नस्तनोतु प्रभुः श्रीवराहावतारो मुरारिः ।।

क्षेमेन्द्रकृते दशावतारचरिते वर्ण्यते यत्-

आशाकाशप्रसृतवपुषा व्याप्तसप्ताब्धिलोकः

स्तोकारम्भक्षुभितभुवनभ्रंशशङ्कानिलीनः ।

स्वस्थां धृत्वा स्थिरनिजपदे क्ष्मां हिरण्याक्षमृगं 

क्रोडीकृत्य प्रसभमवधीत्क्रीडया क्रोडराजः ।।

अस्याशयः दिग्भ्यः आकाशं पर्यन्तं बृहच्छरीरेण सप्तलोकान् परिव्याप्तः तथा भुवननष्टेन शोकसन्तप्तः वराहराजविष्णुः दैत्यराजहिरण्याक्षं स्वदंष्ट्रे हत्वा रसातलेनिमग्नां पृथिवीं स्वस्थाने स्थापितवान् । जयदेवकृते गीतगोविन्दे भगवतः वराहावतारस्य एवं वर्णनं दृश्यते । यथा –

वसति दशनशिखरे धरणी तव लग्ना

शशिनि कलङ्कलेव निमग्ना ।।

केशव धृतशूकररूप जय जगदीश हरे ।।

अत्र यदा भगवान् विष्णुः वराहावतारेण पृथिवीधारणं कृतवान् तदा चन्द्रेण संलग्नं कलङ्कसदृशं इति प्रतीयते । आचार्यलक्ष्मणदेशिकेन्द्रेण विरचितः शारदातिलकतन्त्रे वराहावतारं प्रणम्य स्तुयते यत्-

समुद्रकाञ्ची सरिदुत्तरीया वसुन्धरा मेरुकिरीटभारा ।

दंष्ट्राग्रतो येन समुद्रधृता भूस्तमादिकोलं शरणं प्रपद्ये ।। 

अर्थात् यस्य काञ्ची समुद्रमस्ति तथा उत्तरीय सरिदस्ति, यः स्वदंष्ट्रे वसुन्धरां स्थापितवान्, तम् आदिवराहावतारं प्रणमाम्यहम् ।

             विष्णुसहस्रनामस्तोत्रे शांकरभाष्यानुसारं पृथिवीं जलात् उद्धर्त्तुं भगवतः वराहस्यनाम वृषाकपिः इति प्रतीयते । हिरण्याक्षं संहाराय वराहरूपधारणाय भगवान्वराहस्य नाम कुन्दरमिति वर्ण्यते । एतेन प्रकारेण यज्ञेन सह सम्बन्धात् पुनश्चः तस्य नाम यज्ञांगः इति स्वीक्रियते । परन्तु वृषाकपीत्यस्य नाम्नः प्रयोगः गोपथब्राह्मणे सूर्येण सह संश्लिष्टः आसीत् ।     

            रूपगोस्वामीकृतलघुभागवतामृते वराहावतारः विविधैः रूपैः वर्ण्यते । ब्राह्मकल्पे तस्य युगलस्वरूपं भवति । प्रथमाविर्भावे स्वयम्भूमन्वन्तरे पृथिवी-उद्धारणाय प्रजापतिब्रह्माणः नासिकारन्ध्रात् प्रकटितवान् तथा द्वितीयार्विर्भावे चाक्षुषमन्वन्तरे पृथिवी-उद्धारणाय हिरण्याक्षं हतवान् । 

मेल्पत्तुरः श्रीमन्नारायणभट्टतिरिना विरचितः श्रीमन्नारयणीयकाव्ये वराहावतारविषये एवं वर्ण्यते-                   

                            दृष्ट्वाऽथ दैत्यहतकेन रसातलान्ते

सवेशितां झटिति कूटकिटिर्विभो त्वम् ।

आपातुकानविगणय्य सुरारिखेटान् 

दंष्ट्राङ्कुरेण वसुधामदधाः सलीलम् ।।

अर्थात् वराहावतारेण भगवान् विष्णुः रसातलं गत्वा दैत्यराजहिरण्याक्षं निहत्य तन्मध्ये निमग्नां पृथिवीं क्रीडनकं सदृशं स्वदंष्ट्रेण उर्ध्वम् उद्धृवान् । एषः विषयोऽपि स्तोत्रार्णवसाहित्ये प्रतिफलति । ज्योतिषशास्त्रेऽपि भगवतः विष्णोः विविधान् अवतारान् प्रामाण्यं प्राप्यते । बृहत्पराशरहोरशास्त्रे विविधेभ्यः ग्रहेभ्यः भगवान्विष्णोः बहवः अवताराः उत्पद्यन्ते । तत्र  वराहावतारं पूर्णावताररूपेण गृहीत्वा राहुग्रहात् अवतरतीति वर्ण्यते । 

                महाकविकालिदासकृते रघुवंशमहाकाव्ये भगवतः विष्णोः वराहावतारविषये वर्ण्यते यत् सृष्ट्यारम्भे यदा भगवान् वराहः पृथिवीमुद्धरितवान् तदा इयं पृथिवी प्रलयजलेन किञ्चित् क्षणमपि वक्त्राभरणं बभूव । श्रीहर्षविरचिते नैषधीयचरितकाव्ये यदा राजानलेन भगवतः विष्णोः स्तुतिः क्रियते तदा सोऽपि तस्य हिरण्याक्षं निहत्य पृथिव्युद्धृतं वराहावतारं स्मरितवान् । महाकविमाघप्रणीते शिशुपालवधकाव्ये नारदेन भगवान् विष्णुः अधोगामिनीं क्ष्माम् वराहावतारेण उद्धृत्य शेषनागशिरसि स्थापितवानिति स्तुयते । वराहमिहिरस्य बृहत्संहितायामपि वराहावतारस्य प्रसङ्गः प्राप्यते ।     

७.उपसंहारम् 

            उपर्युक्तपर्यालोचनेन स्वीक्रियते यत् आदिकाले वराहावतारः प्रथमतः प्रजापतिब्रह्मणा सह संश्लिष्टः आसीत् । परन्तु परवर्त्तिसमये क्रमिकविकासानुसारं पौराणिकसाहित्ये तथा तत्परवर्त्तिलौकिकसाहित्ये वराहावतारः भगवता विष्णुना सह जडितः आसीत् । अतः परवर्त्तिकाले विष्ण्ववतारीवराहस्य सर्वाधिकं जनग्राहित्वं प्रमाणितम् ।

  1. ऋग्वेदः, १.११.६१.७
  2. तत्रैवम्, ८.७७.१०
  3. तत्रैवम्, १०.८६.४
  4. अथर्ववेदः, १२.१.४८
  5. तैत्तिरीयसंहिता, ७.१.५.१
  6. तैत्तिरीयब्राह्मणम्, १.१.३.५
  7. तैत्तिरीयारण्यकम्,१०.१.३१
  8. शतपथब्राह्मणम्, १४.१.२.११ 
  9. तैत्तिरीयसंहिता, ६.२.४.२
  10. कपिष्ठलकठसंहिता, ६.७
  11. रामायणम्, ६.११७.१३
  12. महाभारतम्, ३.१४२.४०
  13. तत्रैवम्, ३.१४२.४५
  14. तत्रैवम्, ३.१४२.४६ 
  15. तत्रैवम्, १२.३४५.१२,१३,१४
  16. तत्रैवम्, १२.३४२.९२ 
  17. तत्रैवम्, १२.३४२.९३
  18. तत्रैवम्, १२.३३९.७६-७८
  19. विष्णुपुराणम्, १.४.७-८
  20. विष्णुपुराणम्, १.४.३२-३३
  21. श्रीमद्भागवतमहापुराणम्, १.३.७
  22. श्रीमद्भागवतमहापुराणम्, २.७.१
  23. श्रीमद्भागवतमहापुराणम्, ३.१३
  24. श्रीमद्भागवतमहापुराणम्, ११.४.१८
  25. मत्स्यपुराणम्, २४८.६३
  26. अग्निपुराणम्,४.१
  27. हरिवंशपुराणम्, भविष्यपर्व, १३.२९
  28. गरुडपुराणम् १.१५
  29. कूर्मपुराणम्, १.६.८-९
  30. तत्रैवम्, १.१५.७७-७८
  31. श्रीविष्णुधर्मोत्तरपुराणम्, पूर्वार्द्धम्, ३.२, १२६.६ 
  32. ब्रह्मपुराणम्, ७९.७,१/२, ७९.८, १/२, ७९.११-१२, ७९.२० 
  33. तत्रैवम्, २१३. ३३-३४
  34. वराहपुराणम्, १.२
  35. श्रीनरसिंहपुराणम्, ३९.१५-१६
  36. वायुपुराणम्, ९७.१६
  37. पद्मपुराणम्, सृष्टिखण्डम्, ७७.८८-८९
  38. दशावतारस्तोत्रम्, २ 
  39. दशावातारचरितम्, ३.२८
  40. गीतगोविन्दम्, १.७ 
  41. शारदातिलकन्त्रम्, १५.१५७
  42. श्रीविष्णुसहस्रनामम्, २४
  43. तत्रैवम्, १००
  44. तत्रैवम्, ११७
  45. गोपथब्राह्मणम्, २.६.१२
  46. लघुभागवतामृतम्, पृ. ४६
  47. श्रीमन्नारायणीयम्, १२.९
  48. स्तोत्रार्णवः, श्रीविष्णुस्तोत्रम्, २.३
  49. बृहत्पराशरहोरशास्त्रम्, २.२
  50. रघुवंशम्, १३.८, ८.७७
  51. नैषधीयचरितम्, २१.५८
  52. शिशुपालवधम्, १.३४
  53. बृहत्संहिता, ४३.५४

सन्दर्भग्रन्थसूची

  1. श्रीमन्नारायणीयम्, EDITED BY SASTRI T. GANAPTI, PUBLISHED UNDER THE AUTHORITY OF THE GOVERNMENT OF HIS HIGHNESS THE MAHARAJA OF TRAVANCORE, TRIANDRUM, 1912. 
  2. तैत्तिरीयब्राह्मणम्, EDITED BY SASTRI A. MAHADEV, THE GOVERNMENT BRANCH PRESS, MYSORE, 1908.
  3. महाभारतम्, संपादक पण्डित शास्त्रि रामचन्द्र किंजवडेकर, चित्रशाला प्रेस्,१०२६ सदाशिव पीठ, पुणे सहर, १९३२.
  4. नैषधीयचरितम्, अनुवादक शुक्ल चण्डिका प्रसाद, देहरादून् साहित्य सदन,१९५१.
  5. पद्मपुराणम्, मोर मनसुखराय, ५,क्लाइव रो, कलकत्ता-१, १९५७.
  6. लघुभागवतामृतम्, पं. मिश्र बलदेवप्रसाद,खेमराज श्रीकृष्णदासन, बंबई,सं.१९५९.
  7. स्तोत्रार्णवः, EDITED BY CHANDRASEKHARAN T., PUBLISHED UNDER THE ORDERS OF THE GOVERNMENT OF MADRAS, 1961.
  8. श्रीविष्णुसहस्रनामस्तोत्रम्, EDITED BY SASTRY VIDWAN R. RAMA, ORIENTAL RESEARCH INSTITUTE, UNIVRSITY OF MYSORE, MYSORE, 1961.
  9. गरुडपुराणम्, Dr. Bhatttacharya Ramshankar, Chowkhamba Sanskrit Series Office, Varanasi-1,1964.
  10. शिशुपालवधम्, पण्डित श्री शास्त्री हरगोविन्द, चौखम्बा विद्याभवन,वाराणसी, १९६६.
  11. कपिष्ठलकठसंहिता, VIRA RAGHU, MEHARCHAND LACHHMANDAS, 2736, Kucha Chelan, Daryaganj, Delhi-6, 1968.
  12. हरिवंशपुराणम्, पं. शर्मा श्रीराम आचार्य, संस्कृति-संस्थान,ख्वाजाकुतुब(वेदनगर) बरेली, उ.प्र, प्रथम संस्करण, १९६८.
  13. कूर्मपुराणम्, अनुवादक श्री चौधरी सिंह श्रीनारायण, सर्वभारतीय काशिराजन्यास,दुर्ग रामनगर,वाराणसी, १९७२.
  14. शारदातिलकन्त्रम्, डॉ गौतम चमनलाल, संस्कृति-संस्थान,ख्वाजाकुतुब(वेदनगर) बरेली, उ.प्र, प्रथम संस्करण,१९७३.
  15. ब्रह्मपुराणम्, अनुवादक झा तारणीश, हिन्दि साहित्य सम्मेलन,प्रयाग,१२,सम्मेलन मार्ग, इलाहाबाद-३, १९७६.
  16. ऋग्वेद का सुबोध-भाष्य, श्रीपाद सातवलेकर दामोदर,स्वाध्याय-मण्डल भारत मुद्रणालय,,किल्ला-   पारडी, जि.-वलसाड, गुजरात, सन् १९७८. 
  17. रामायणम्, संपादक सरस्वती परमहंस जगदीश्वरीनन्द, गोविन्दराम हासानन्द, नई सडक,दिल्ली-६, १९८१.
  18. दशावतारचरितम्, Edited by MM Pt. Durgaprasad and Pandurang Parab Kasinath, Munshiram Manoharlal Publishers Pvt. Ltd., Reprint 1983.
  19. वराहपुराणम्, अनुवादक श्री चौधरी सिंह श्रीनारायण, सर्वभारतीय काशिराजन्यास,दुर्ग रामनगर,वाराणसी, १९८३.
  20. श्रीनरसिंहपुराणम्, संपादक सिंह नागशरण, नाग पब्लिशर्स, 11 ए/य़ू ए., जवाहर नगर, दिल्ली-७,1987.
  21. शतपथब्राह्मणम्, श्रीमत्त्रयीभाष्यकार-सायणाचार्यविरचित-वेदार्थ-प्रकाशाख्यभाष्यसमेतम्, सर्वविद्यानिधाकवीन्द्राचार्यसरस्वती श्रीहरिस्वामिभाष्यसमेतं च । बहुभिर्विद्वद्भिः परिशोधितं च  । नाग प्रकाशक, ११ ए/यू ए., जवाहर नगर, दिल्ली-७, १९९०.
  22. विष्णुपुराणम्, गीताप्रस, गोरखपुर, सं १९९०.
  23. श्रीमद्भागवतमहापुराणम्, EDITED BY PANDURANGI K.T., DVAITA VEDANTA STUDIES AND RESEARCH FOUNDATION,NO. 33/163,10TH MAIN ROAD, JAYANAGAR I BLOCK, BANGALORE-11, 1997.
  24. अथर्ववेद संहिता, Edited by SHASTRI SHRI KANTH, MADHWA PUSTAKALAYA, 103-A, Kamala Nagar, Delhi-7, प्रथमावृत्ति २०००.
  25. गीतगोविन्दम्, संपादक डॉ. शर्मा वि.श्रीनिवास, संस्कृतपरिषत्,उस्मानियाविश्वविद्यालयः, हैदरावाद्,द्वितीयावृति २००३.
  26. तैत्तिरीयसंहिता, Kashyap R. L., Sri Aurobindo, Kapāli Sāstry Institute of Vedic Culture, Bangalore, 2004.
  27. मत्स्यपुराणम्, शुक्ला डॉ श्रद्धा, नाग पब्लिशर्स, ११ ए/य़ू ए., जवाहर नगर, दिल्ली-७, प्रथम संस्करण, २००४.
  28. बृहत्संहिता, व्याख्याकार शर्मोपाह्व झा पं. अच्युतानन्द, चौखम्बा विद्याभवन,वाराणसी, प्रथम संस्करण २००५.
  29. वायुपुराणम्, अनुवादक त्रिपाठी रामप्रताप,हिन्दि साहित्य सम्मेलन,प्रयाग,१२,सम्मेलन मार्ग, इलाहाबाद-३,२००५.
  30. गोपथ-ब्राह्मण-भाष्यम्, संपादिक आचार्य डॉ प्रज्ञादेवी एवं व्याकरणाचार्य मेधादेवी, चौखम्बा संस्कृत प्रतिष्ठान, दिल्ली, २००८. 
  31. AGNIMAHᾹPURᾹṆAM, Edited by Joshi K.L., PARIMAL PUBLICATION, DELHI, 2010.
  32. तैत्तिरीयारण्यकम्, व्याख्याकारः सम्पादकश्च डॉ जमुनापाठकः, चौखम्बा संस्कृत सीरीज आफिस,वाराणसी, २०१४.
  33. श्रीविष्णुधर्मोत्तरपुराणम्, संपादक आचार्य द्विवेदी शिवप्रसाद, चौखम्बा सुरभारती प्रकाशन,वाराणसी, 2016. 
  34. बृहत्पराशरहोरशास्त्रम्, व्याख्याकार शर्मा पं पद्मनाभ, चौखम्बा सुरभारती प्रकाशन,वाराणसी, 2019.
  35. रघुवंशम्, डॉ श्री त्रिपाठी कृष्णमणी, चौखम्बा सुरभारती प्रकाशन,वाराणसी,सं.२०३२
  36. दशावतारस्तोत्रम्, https://sanskritdocuments.org/doc_vishhnu/dashAvatArastotram3.pdf