[vc_row][vc_column][rev_slider_vc alias=”about-3″][vc_column_text el_class=”articles”]

संस्कृतं  विज्ञानं च

डा. नागरत्ना हेगडे, संस्कृतविभागाध्यक्षा,
सुरानापदवीमहाविद्यालयः,
बेङ्गलूरु – ४ ;
दू – 94800 80882 ;
E Mail –
ngrt.hegde@gmail.com  

सम्यक् कृतं संस्कृतम् । विशेषेण ज्ञानं विज्ञानम् । अनयोः महान् सम्बन्धः । ज्ञानविज्ञानयोः महान् सङ्गमः एव संस्कृते अस्ति इति भारतीयानाम् अस्माकम् अहोभाग्यम्!!

संस्कृतं नाम बहु प्राचीनम्, विज्ञानं नाम नव्यम् । तत्र सर्वमपि अस्ति, तदेव च श्रेष्ठम् इति बहूनां मिथ्याज्ञानम् अस्ति ।

पुराणमित्येव न साधु सर्वं न चापि किञ्चित् नवमित्यवद्यम्[1] इति उक्तिः प्रसिद्धा एव। किन्तु “यद्यत् पुराणं तदसाधु सर्वम्” इत्यपि सत्यमेव ।

संस्कृते किं नास्ति ? “यदिहास्ति तदन्यत्र यन्नेहास्ति न तत् क्वचित्[2] उक्तिः महाभारतविषये इव विज्ञानविषये अपि अन्वेति ।

संस्कृतस्य संस्कृतग्रन्थानां वा महत्त्वस्य निरूपणाय अत्र किञ्चित् प्रयत्यते ।

अमेरिकादेशस्य न्यूजेर्सिनगरे सेतान् हाट् विश्वविद्यालयः अस्ति । तत्र भगवद्गीतापठनम् अनिवार्यम् । १८५६ तमे वर्षे अस्य विश्वविद्यालयस्य आरम्भः जातः । सच्चारित्र्यस्य वर्धनाय किं कर्तुं शक्यते इति चिन्तयद्भिः तत्रत्यसमितिजनैः भगवद्गीतापठनम् अनिवार्यं कृतम् । आश्चर्यं नाम तत्र भगवद्गीताबोधनाय कोऽपि हिन्दुप्राध्यापकः नास्ति । तद्देशीयाः जनाः एव पाठयन्ति ।

सम्प्रति सङ्गणकं प्रति आगच्छाम । संस्कृतस्य सङ्गणकस्य कः सम्बन्धः इति प्रश्नः भवति स्म प्राचीनकाले । किन्तु अद्य परिस्थितिः परिवर्तिता अस्ति । तयोः सम्बन्धविषये विविधसंशोधनानि, विभिन्नप्रयोगाश्च चलन्ति । १९८५ तमे वर्षे अमेरिकादेशस्य डा. रिक् ब्रिग्स् नामकः विज्ञानी संस्कृतभाषा संङ्गणके आरोपयितुं शक्यते इति उदाहरणपुरस्सरं प्रत्यपादयत् । “कृत्रिममेधा” (Artificial Intelligence[3]) विज्ञानिनः शब्दार्थजाल (Word meaning networks) द्वारा भाषागतविषयं संङ्गणकयन्त्रे आरोपितवन्तः सन्ति । इदं शब्दार्थजालम् एव संस्कृतभाषया “शाब्दबोधप्रक्रिया” इति कथ्यते । भविष्ये कदाचित् संङ्गणकयन्त्रस्य सृष्टिः स्यात्, तस्मिन् च शाब्दबोधप्रक्रियायाः उपयोगिता स्यादिति पाणिनिप्रभृतिभिः शास्त्रकारैः किम् ऊहितम् आसीत् ? नैव । एवं सत्यपि ते शास्त्रकाराः शाब्दबोधप्रक्रियाम् आविष्कृत्य परिष्कृत्य च समवर्धयन् । सा एव प्रक्रिया सम्प्रति संङ्गणके महते उपयोगाय भवति इति दृश्यते ।

अधुना भारतदेशे, अन्येषु देशेषु च संस्कृत-संङ्गणकयोः विषये विभिन्नानि संशोधनानि प्रचलन्ति सन्ति । तेषु केचन अंशाः अत्र सन्ति ।

भारतदेशे –

  • लालबहाद्दूर्-शास्त्री-संस्कृतविद्यापीठं[4](नवदेहली), जवाहरलाल्-नेहरु-विश्वविद्यालय[5]स्य सहयोगेन संस्कृतशिक्षणसम्बद्धं CASTLE नामकः प्रक्रमः रचितः अस्ति । एतस्य अङ्गतया पाणिनिसूत्राणाम् आधारेण कृत्प्रकरणं, तद्धितप्रकरणं च संङ्गणके आरोपितानि सन्ति ।
  • कान्पुरस्य ऐ.ऐ.टि[6] मध्ये यन्त्रानुवादक्षेत्रे विशिष्टं कार्यं जातम् । Paninian parser[7] इति अस्य नाम । एतत् हिन्दीभाषायां विद्यमानविषयं तेलुगु – तमिळु – मलयाल- कन्नडभाषासु अनुवादं करिष्यति । अत्र अनयोः भाषयोः सेतुरूपेण संस्कृतभाषा उपयुक्ता अस्ति ।
  • कर्णाटकीयः एव सिरिगेरे डा. शिवाचार्यस्वामिनः “गणकाष्टाध्यायी[8]” नामकं प्रक्रमं सज्जीकृतवन्तः सन्ति । अत्र शब्दरूपाणि, धातुरूपाणि, अमरकोषस्य शब्दाः, पाणिनिसूत्राणि च द्रष्टुं शक्यन्ते ।
  • पुणेनगरे बेङ्गलूरुनगरे च सि डाक् संस्थया देवनागरीलिपेः अभ्यासाय प्रक्रमः विरचितः अस्ति । पाणिनिसूत्राणाम् आधारेण सुबन्ततिङन्तयोः निष्पत्तिः, सन्धिः, पदस्तरे वाक्यस्तरे च विश्लेषणं स्यात्, तादृशः “ देशिक”नामकः प्रक्रमोऽपि सज्जीकृतः अस्ति ।
  • बह्व्यः संस्थाः आन्लैन् द्वारा संस्कृतशिक्षणं यच्छन्त्यः सन्ति ।
  • सङ्गणके पाठाः आङ्ग्लभाषया एव भवन्ति इति तु सर्वविदितम् । किन्तु ते पाठाः विभिन्नभारतीयभाषासु अपि उपलभ्यन्ते । एतदर्थं बाम्बे ऐ. ऐ. टि.[9] संस्था महान्तं प्रयत्नं कुर्वती अस्ति । तत्र ते पाठाः संस्कृतेनापि अनूद्य आरोपिताः (Upload) वर्तन्ते ।
  • संस्कृतस्य आन्लैन् ग्रन्थालयस्य (E Library) निर्माणाय संस्कृतभारती कटिबद्धा वर्तते इति संस्कृतज्ञानां संस्कृताभिमानिनां च हर्षस्य विषयः ।

अन्ये केचन  अंशाः –

  • ब्रिटिश्–शासनकाले भारते कस्यचित् सैनिकस्य नासिकाच्छेदः कृतः आसीत् कदाचित् दण्डत्वेन । किन्तु छिन्ननासिकः सः मासचतुष्टयाभ्यन्तरे धृतनासिकः जातः आसीत् । विचारणात् ज्ञातं यत् भारते एतादृशी सुरूपचिकित्सा बहुत्र क्रियते इति । इयं वार्ता १७३७ तमे वर्षे Gentleman’s Magazine[10] इत्यस्यां पत्रिकायां प्रकाशिता । ततः आङ्लवैद्याः भारतम् आगत्य एतं चिकित्साक्रमम् अधीत्य गतवन्तः । तदनन्तरं जगति “प्लास्टिक् – सर्जरि” इत्यस्याः अङ्गारोपणचिकित्सायाः विकासः जातः । एतस्य चिकित्साक्रमस्य जनकः “आचार्यः सुश्रुतः” इति जगत् अङ्गीकरोति । सुश्रुतः “विश्लेषितायास्त्वथ नासिकायाः वक्ष्यामि सन्धानविधिं यथावत् ” इत्यादिभिः श्लोकैः[11] एतं चिकित्साक्रमं विवृणोति।
  • मान्यः ए. पि. जे. अब्दुलकलामवर्यः राष्ट्रपतिपदे यदा आसीत् तदानीन्तनी घटना इयम् । कलामवर्यः Wallops Flight Facility इत्येतत् नासाकेन्द्रं गतवान् आसीत् कदाचित् । तत्र युद्धसम्बद्धं चित्रमेकं दृष्टं तेन । चित्रे “राकेट्” उपयोगः क्रियमाणः दृश्यते स्म । तेन तस्य मूलस्य अन्वेषणाय प्रयासः कृतः । ततः ज्ञातं यत् १७८० तमे वर्षे प्रवृत्ते मैसूरुसैन्यब्रिटिश्-सैन्ययोः युद्धे एतानि राकेट्साधनानि उपयुक्तानि आसन् इति । नासाविज्ञानिनः दृढतया अभिप्रयन्ति यत् राकेट्तन्त्रज्ञानस्य मूलं भारतम् एव । सर् बर्नाड् रावेल् इत्येषः विज्ञानी “The origin and International Economics of Space Exploration[12]” इत्यस्मिन् पुस्तके अस्मिन् विषये विवृतवान् अस्ति । अयं विषयः “विङ्ग्स् आफ् फायर्” इति पुस्तके विवृतम् अस्ति डा. कलामवर्येण । सः तत्र लिखति – “राकेट् साधनं परिष्कृत्य दत्तवान् विलियं काङ्ग्रे इति वयं पाठ्यपुस्तकेषु पठामः । नूतनान् आविष्कारान् भारतीयाः अपि कर्तुम् अर्हन्ति इति विश्वासः एव अस्मासु न उत्पद्यते पराभवमानसिकताकारणतः” इति ।
  • जिनेवास्थायाः “सर्न्” (CERN) संस्थायाः अङ्गणे विराजते नटराज[13]मूर्तिः । नटराजनृत्यस्य परमाणुशक्तेः च महत् साम्यम् अस्ति । “सृष्टिस्थितिलयानां सङ्केतभूतं शिवताण्डवनृत्यं भौतप्रक्रियायाः प्रतिपादकम्” इति वदन्ति तत्रत्याः विज्ञानिनः । “देवकणः[14]”(गाड् पार्टिकल्) इति शब्दः अस्माभिः श्रुतः एव स्यात् । भूगर्भगुहायां विशेषसुरक्षाव्यवस्थां परिकल्प्य अणूनां सङ्घट्टनं व्यवस्थाप्य अस्य देवकणस्य सत्ता अभिज्ञाता विज्ञानिभिः । देवकणस्य मध्यभागे “बीजबिन्दुः” भवति । जगदुत्पत्तिकारकाः परमाणवः परस्परं संसक्ताः यथा भवेयुः तथा करोति देवकणः । देवकणचित्रस्य श्रीचक्रस्य च महत् साम्यम् । यदि देवकणचित्रस्य उपरि जागरूकतया श्रीचक्रचित्रं स्थाप्येत तर्हि तयोः भेदः एव न ज्ञायेत । पूजाक्षेत्रे विशेषमहत्त्वं वहत् श्रीचक्रं देवकणसाम्यं भजति इति तु महते आश्चर्याय एव खलु !
  • १९३२ तमे वर्षे घटिता घटना काचित् । ग्रीन् विच् इत्यत्र वेधशालायां बहवः विज्ञानिनः सूर्यस्य चित्रं (उपग्रहसाहाय्येन प्राप्तं) पश्यन्तः गहनचर्चामग्नाः आसन् । सूर्यं परितः केचन कृष्णबिन्दवः किमर्थं दृश्यन्ते इति ज्ञातुं न शक्तं तैः । तावता तत्र वेधशालासन्दर्शनाय कश्चन भारतीयखगोलशास्त्रज्ञः गतः । तेषां चर्चां श्रुत्वा भारतीयखगोलशास्त्रज्ञः अवदत् – “एतद्विषये अस्मद्देशीयाः ज्योतिषग्रन्थाः विस्तरेण वदन्ति” इति । ततः सः सूर्यं परितः दृश्यमानानां कृष्णबिन्दूनां कारणं प्राचीनग्रन्थाधारेण विस्तृततया विवृतवान् । तत् श्रुत्वा ते विज्ञानिनः आश्चर्येण स्तब्धाः अभवन् । तस्य खगोलशास्त्रस्य नाम श्रीनारायणव्यासः ( १९०२-१९७६) इति ।
  • १९६५-६६ वर्षयोः मध्यकाले पुणेनगरीयः ज्योतिषिकः केलकरवर्यः तस्मिन् वर्षे अक्टोबर्-मासे प्रवृत्तं चन्द्रग्रहणम् अवलम्ब्य उक्तवान् आसीत् – १९६७ तमवर्षस्य डिसेम्बर् – मासे “कोयना”प्रदेशे भूकम्पः भविष्यति इति । तदनुगुणम् एव तेन सूचिते एव काले प्रदेशे च भूकम्पः प्रवृत्तः । एतस्याः घटनायाः कारणतः रशियादेशीयौ स्टोबेल्टसिस् वोलोडिशेव्, मिखायिल् पानाजुक् च गर्गसंहितोक्तानाम् अंशानां विषये आसक्तौ जातौ । तौ वदतः – “भूमेः ऊर्ध्वस्तरे जायमानं न्यूट्रान्-स्फोटम् अवलम्ब्य भूकम्पसम्भावना ज्ञातुं शक्या । गर्गमहर्षिणा विवृतं तत्त्वम् एतदेव” इति । शान्तिसागरे गतेषु २८ वर्षेषु जातान् भूकम्पान् शास्त्रीयक्रमेण अधीत्य अयं निष्कर्षः प्राप्तः अस्ति ताभ्याम् ।
  • पाश्चात्त्यदेशेषु विज्ञानस्य विकासः जातः गतेषु द्वित्रशतवर्षेषु एव । ततः पूर्वं तत्र वैज्ञानिकी प्रगतिः विशेषतः काऽपि नासीत् । यस्मिन् काले इङ्ग्लेण्ड्देशे सार्वजनिकशिक्षणव्यवस्थायाः उदयः अपि न अभवत् ततः पूर्वम् एव भारते प्रतिजनपदं (Every District) सहस्राधिकाः विद्यालयाः आसन्, येषु उच्चशिक्षणादयः अपि अन्तर्भवन्ति स्म । विशेषः नाम तस्मिन् काले छात्रसंङ्ख्यायाम् उच्चतरजातीयानाम् एव आधिक्यम् आसीत् । एते सर्वे अंशाः (The beautiful Tree[15]) इति ग्रन्थे विस्तरेण सप्रमाणं निरूपिताः सन्ति ।
  • भारते उत्कृष्टा धातुशास्त्रसिद्धिः आसीत् इति तु महतः अभिमानस्य विषयः । बिहारराज्ये सुल्तान् –गञ्ज् प्रदेशे कस्मिंश्चित् बुद्धालये भगवतः बुद्धस्य विग्रहः (क्रि. श.५०० तमे वर्षे निर्मितः) प्राप्तः । एतस्य वैशिष्ट्यं नाम एतदीयं धातुनिर्मितं वस्त्रावरणं पारदर्शकम् अस्ति। ताम्रधातुक्षेत्रे भारतेन प्राप्तायाः अत्याश्चर्यकर्याः सिद्धेः निदर्शनम् अस्ति एतत् ।
  • देहल्यां मेहरोलीप्रदेशे स्थितः विष्णुस्तम्भः अनावृते प्रदेशे तिष्ठति सहस्राधिकवर्षेभ्यः। अस्य स्तम्भस्य अयस्किट्टराहित्यं विज्ञानिनः अपि आश्चर्यमग्नान् करोति अद्यापि । कर्णाटके कार्कळसमीपे अपि तादृशः एव स्तम्भः अस्ति इति श्रूयते ।
  • मुम्बयीयः ऐ. ऐ. टि संस्थीयः रसायनशास्त्रविभागप्रमुखः डा. महेश् शोरेनः विमानशास्त्रोक्तं गुहागर्भयन्त्रे उपयुज्यमानं “चुम्बकमणिं” निर्मितवान् अस्ति । एतस्मिन् परावर्तनग्रहणशक्तिः (Capture of Reflection) आधिक्येन अस्ति । तेनैव पराग्रान्थिकः द्रवः अपि निर्मितः, यश्च गुहागर्भयन्त्रे एव उपयुज्यते ।

संस्कृतविज्ञानसम्बद्धाः इतोऽपि बहवः विषयाः निरूपयितुं शक्याः । विस्तरभयात् अत्र विरम्यते ।

Key Words – सङ्गणकम्, प्रयोगः, चिकित्सा, शाब्दबोधः, संशोधनम्

******

[1] मालविकाग्निमित्रम्

[2] महाभारतम् १.६२.५३

[3] https://en.wikipedia.org/wiki/Artificial_intelligence

[4] www.slbsrsv.ac.in/home.asp

[5] https://www.jnu.ac.in/

[6] https://www.iitk.ac.in/

[7] https://web.iiit.ac.in/~papi_reddy/projects/html/parser.html

[8]  www.taralabalu.org/panini/

[9]  http://www.spoken-tutorial.org

[10] http://www.ancient-origins.net/artifacts-ancient-technology/sushruta-samhita-and-plastic-surgery-ancient-india-020148

[11] सुश्रुतसंहिता, षोडशः अध्यायः २७-३१

[12]https://books.google.co.in/books/about/The_origins_and_international_economics.html?id=_jnbAAAAMAAJ&redir_esc=y

[13] http://www.fritjofcapra.net/shivas-cosmic-dance-at-cern/

[14] https://en.wikipedia.org/wiki/The_God_Particle

[15] https://archive.org/details/TheBeautifulTree-Dharampal

[/vc_column_text][/vc_column][/vc_row]