श्रीमन्मध्वाचार्यविरचितमहाभारततात्पर्यनिर्णयान्तर्गतश्रीमद्रामायणकथानिर्णयः

लेखकः-भीमसेनाचार्यः अतनूर

 

भगवान् अनन्तगुणपूर्णः दोषविदूरः सकलजगज्जन्मादिकारणं श्रीमन्नारायणः नष्टधर्मलोककृ- पालुभिः ब्रह्मरुद्रेन्द्रादिभिरर्थितो परापरतत्त्वप्रदर्शनाय सत्यवती-पराशरौ निमित्तीकृत्य भूमाव वतीर्य इष्टानिष्टप्राप्तिपरिहारादर्शनात् वेदार्थाज्ञानाच्च संसारे क्लिश्यमानानां वेदानधिकारिणां स्त्रीशूद्रादीनाञ्च धर्मज्ञानद्वारा मोक्षो भवेदिति कृपालुः सर्ववेदार्थोपबृंहितां अत एव वेदाधिका रिणामपि त्रैवर्णिकानां पुंसां वेदार्थज्ञानोपायभूतां इन्द्रियाद्यनपेक्षभ गवज्ज्ञानविषयीकृतवेदानु क्तार्थप्रतिपादिकां तत एव वेदोत्तमां सर्वप्राण्यविज्ञेयार्थप्रतिपादिकां अत्यन्तगूढार्थकत्वात् बृहस्पत्यादिसर्वप्राण्यविज्ञेयसर्वप्राणिनायकब्रह्मादिविज्ञेयार्थनिरूपिकां अत एव ब्रह्माद्यधिका रिकां मुख्यतो विष्णुबोधिकां सर्वत्र दशावरार्थां ब्रह्मादिभिः तुलायां निक्षिप्य निर्णेयसर्वशास्त्रो त्तमत्वेन निर्णीतां सर्वपापक्षयसाधनज्ञानविषय-निरुक्तमच्छब्दवाच्यां स्वस्मात् पुण्डरी काक्षादन्येन कर्तुमशक्यां ऋषिभिः नारदादिभिश्चाधीयमानां महाभारतसंहितां अचीक्लृपत् । तदाज्ञयैव परतत्त्व-ज्ञापनाय तत्प्रसादादेव अखिलान् सरहस्यसंग्रहान् सपञ्चरात्रान् वेदान् पुराणयुक्तानितिहासान् अन्या अपि सर्वविद्या यथावत् ज्ञातवद्भिः पारमहंस-पारिव्राजकाचार्यैः अनादिसत्सम्प्रदायप्राप्तश्रीमद्वैष्णवसत्सिद्धान्तप्रतिष्ठापनाचार्यैः शिष्टजनसमुद्धरणाय विलसित भूमिभागैः कृतानेकवादिविजयैः सम्पादितबहुश्रुत-महागुणशिष्यनिकरैः व्याख्यातश्रीबादरा यणसूत्रैः  सुपूर्णप्रज्ञाभिधैः श्रीमदादन- न्दतीर्थभगवत्पादाचार्यैः उपचत्वारिंशत् ग्रन्थाः विरचिताः ये सम्भूय सर्वमूलाख्यां भजन्ते । तेष्वन्यतमः श्रीमन्महाभारततात्पर्यनिर्णयाख्यः ग्रन्थराजः । अयं च ग्रन्थवरेण्यः देवानां वज्रपाणिरिव, खगानां वैनतेय इव, नक्षत्राणां शशिरिव, पर्वतानां मेरुरिव, नगानां हिमालय इव, पाण्डवानां धनञ्जय इव, धनुषां शार्ङ्गधनुरिव अतिमहत्तमः गात्रे अर्थगौरवे च । स्वनामधन्यः अयं ग्रन्थः न केवलं महाभारतकथायाः व्यासदेवहृदयातिवल्लभं तात्पर्यं विद्योतयति माकण्डेयप्रसङ्गेन तदन्तर्गतत्वात् श्रीरामायणकथामपि निर्णेति ।

तदुक्तं

“मार्कण्डेयेऽपि कथितं भारतस्य प्रशंसनम् ।

देवतानां यथा व्यासो द्विपदानां ब्राह्मणो वरः ।

आयुधानां यथा वज्रमोषधीनां यथा यवाः ।

तथैव सर्वशात्राणां महाभारतमुत्तमम् ॥

उक्ता रामकथाप्यस्मिन् माकण्डेयसमाख्यया ।

तस्माद् यद् भारते नोक्तं तद्धि नैवास्ति कुत्रचित्’[i] ॥ इति ।

अत एव श्रीमन्महाभारततात्पर्यनिर्णयस्य “सकलशास्त्रार्थनिर्णय’ इत्यपि नामान्तरं विद्यते । अत एव च श्रीमदाचार्याः निर्णयाचार्याः इति नाम्ना प्रसिद्धाः। सोऽयं आनन्दतीर्थमुनिः वेदेतिहासादिविनिर्णयोक्ताः कथाः भक्तानुजिघृक्षया कथयाम्बभूव । धर्मार्थकाममोक्ष रूपपुरषार्थचतुष्टयहेतुः नारायणपरमप्रीतिप्रापकोऽयं ग्रन्थवरः इति सर्वैः महद्भिः सम्मानितश्च।

महाभारतात्पर्यनिर्णये आहत्य द्वात्रिंशत् (३२) अध्यायाः वर्तन्ते । तत्र विषयविभागो एवं प्रकारेण भवति । आद्याध्यायत्रये सकलशास्त्रार्थनिर्णयः, तृतीयाध्यायान्तिमभागादारभ्य नवमाध्यायपर्यन्तं रामायणकथानिर्णयः, दशमे अध्याये श्रीवेदव्यासावतारवर्णनम्, एकादशाध्यायादारभ्य आग्रन्थसमाप्ति महाभारतकथानिर्णयश्च निरूपितः । अत्र सर्वत्र निर्णयो नाम वेदानुकूलतया पञ्चरात्राद्यागमानुसारितया मूलरामायणाद्यनुसारितया च भारतरामायण-भागवताद्याशयस्पष्टीकरणमेव तत्र भगवत्पादानां विवक्षितम् । अस्य ग्रन्थस्यापरं वैशिष्ट्यं इदं भवति यत् आधुनिकचिन्तकानां स्वकपोलकल्पितस्वोहागोचरान् आक्षेपान् दूरदर्शितया पूर्वमेवानुसन्धाय तेषां समर्पकतया परिहारः अत्र संसूचितः ।

निर्णयस्यास्य वैशिष्ट्यद्योतनार्थं द्वित्रा विषयाः अत्र दिग्दर्शनतया निर्दिश्यन्ते । तथा हि

विश्वामित्रेण मन्त्रोपदेशः

१. विश्वामित्रः यज्ञरक्षणार्थं रामलक्ष्मणौ दशरथानुज्ञानुसारेण निनाय । मार्गमध्ये विश्वामित्रः रामाय ब्रह्मास्त्राद्यस्त्रमन्त्राणि उपदिदेश । एषा कथा रामायणे प्रसिद्धा । अत्र किञ्चिद्विविच्यते  अस्त्रप्रयोगो नाम अस्त्रमन्त्रैः अस्त्राभिमानिनः देवानाहूय भवद्भिः शत्रुवधः कार्यः इति सम्प्रार्थ्य ततः क्रियमाणः बाणप्रयोग एव । सर्वशक्तस्य श्रीरामस्य ब्रह्मास्त्राद्यस्त्रमन्त्रस्य आवश्यकता अस्ति किम् । यद्यावश्यकता अस्ति तर्हि कथं सर्वशक्तो भवेत्। देवानुग्रहप्रार्थनां यदि रामः करोति तदा स कथं सर्वोत्तमो भवितुमर्हति । अपि च गुरुः शिष्याय मन्त्रोपदेशं कृत्वा अनुगृह्णाति अत्र स्वतन्त्रस्य श्रीरामस्य गुरोः विश्वामित्रस्य अनुग्रहापेक्षा वर्तते वा । यदि वर्तते तर्हि सः रामः कथं सर्वतन्त्रस्वतन्त्र भवेत् । नास्ति चेदुपदेशः कुतः इत्यादिप्रश्नानां तात्पर्यनिर्णये स्पष्टतयोत्तराणि उपलभ्यन्ते  तथा हि

“अनुग्रहार्थं स ऋषेरवाप सलक्ष्मणोऽस्त्रं मुनितो हि केवलम् ।

ववन्दिरे ब्रह्ममुखाः सुरेशाः तमस्त्ररूपाः प्रकटाः समेत्य’[ii]

श्रीरामः विश्वामित्रम् अनुग्रहीतुमेव मन्त्रोपदेशं स्वीचकार । विश्वामित्रात् मन्त्रोपदेशस्वीकारे विश्वामित्रस्य कथं अनुग्रहः कृतः अभवत् इति चेत् इत्थम्  सर्वेऽपि मन्त्राः भगवद्गुणवाचकाः एव । तान् मन्त्रान् भगवतः कर्णप्रदेशे यदि उच्चारयति महर्षिः विश्वामित्रः तर्हि “अनन्तं विष्णुसन्निधौ’ इति प्रमाणानुसारेण श्रीरामसन्निधौ उच्चरितानां मन्त्राणां अनन्तफलदातृत्वशक्तेः विद्यमानत्वात् विश्वामित्रः विष्णुसन्निधाने मन्त्रान् उच्चार्य अनन्तफलं प्राप्नोत्। एवं मुनेः अनन्तफलदातृत्वरूपानुग्रहार्थमेव राम ऋषेः मन्त्रोपदेशं स्वीचकार ।

२.     श्रीरामः विश्वामित्रोपदिष्टास्त्रबलेनैवासुरान् सञ्जहार इति असुराः जानन्ति । एवमसुरजनमोहनकार्ये विश्वामित्रोऽपि भागमूड्वा पुण्यं प्राप्नोतु इति अनुग्रहार्थमपि रामः विश्वामित्रात् मन्त्रान् जगृहे । कस्तूरीसम्पर्कात् यथा वायुः परिमिलतो भवति एवमेव श्रीरामकर्णसम्बन्धात् मन्त्राः अपि वीर्यवत्तराः भवन्तु इति मन्त्रान् अनुग्रहीतुमपि रामो मुनेः मन्त्रान् स्वीचकार ।

३. अत्र शिष्यो रामः सर्वज्ञः सर्वशक्तः । गुरुः विश्वामित्रः अल्पज्ञः अल्पशक्तः । तथापि शिष्यस्य गुर्वपेक्षया ज्ञानित्वेऽपि गुरुमुखेनैव मन्त्रोपदेशः स्वीकर्तव्यः इति सद्धर्मशिक्षणरूपेण लोकशिक्षायै श्रीरामः मुनेः सकाशात् मन्त्रान् जग्राह ।

४. यद्यपि सर्वशक्तस्य श्रीरास्य अस्त्रमन्त्राणामावश्यकता नासीत् । तथाप्यस्त्रदेवताः दुष्टनिग्रजन्यपुण्यं प्राप्नुवन्तु स्वस्यापि विश्वामित्रस्य भगवत्सन्निधाने मन्त्रजपकरणपुण्यं भवत्वित्यभिप्रायेण विश्वामित्रः ब्रह्मास्त्रादिमन्त्रानुपादिदेश । तदा अनुपदमेव ब्रह्मादयः अस्त्रदेवताः प्रत्यक्षरूपेणागत्य श्रीरामाय ववन्दिरे । तदा रामो रावणादिवधसन्दर्भे भवता सेवां स्वीकरोमीत्युक्त्वा तान् देवान् प्रेषयामास । ततो रामः तान् मन्त्रान् लक्ष्मणायोपदिदेश । इत्येवं श्रीमन्महाभारततात्पर्यनिर्णये आचार्याः इत्थं निर्णीय श्रीरामस्य सर्वोत्तमत्वं सर्वशक्तिमत्वं च प्रत्यपीपदन् ।

. ताटकावधनिर्णयः

विश्वामित्रस्य यज्ञारम्भे तस्य प्रार्थनानुसारेण श्रीरामो यज्ञविघ्नकारिणीं ताटकां जघान इति सर्वविदितमेतत् । स्त्रीवधः खलु क्षत्रियाणामपि निषिद्धः । तत्कथं सर्वज्ञः श्रीरामः अबलां स्त्रियं जघान इति प्रश्नः अल्पज्ञमनस्सु जागर्ति। बहवः इमां कथामुदाहृत्य श्रीरामः कठोरः अबला स्त्री न हन्तव्या इत्यपि सः नाज्ञासिषत् । अयं कथं मर्यादापुरुषोत्तमः भवेत् इत्यादि निन्दा-वचनानि व्यापारयन्ति । सर्वशास्त्रार्थनिर्णयात्मके श्रीमन्महाभारततात्पर्यनिर्णये एतादृशानां प्रश्नानां सूक्तमुत्तरमुपलभ्यते ।

सुकेतुनामको कश्चन यक्षः ब्रह्मवरेणोर्जितः सन् दशसहस्रहस्तिपराक्रमवतीं ताटकानामिकां सुतामवाप । सापि ब्रह्मवरादवध्यत्वं प्राप्य सुन्दनामकं राक्षसमूढ्वा मारीचनामानमसुरं पुत्रत्वेनाऽऽप । मारीचोऽपि ब्रह्मवरादवध्यत्वमाप्नोत् । ब्रह्मवरादुन्मत्तावुभावपि ऋषिभक्षकावभूताम् । तदागस्त्यः युवां राक्षसौ स्याताम् इति शशाप । तावुभावपि लोककण्टकावभूताम् । यद्यपि स्त्रीवधः निषिद्धः तथापि लोकरक्षणार्थं राक्षसीवधः करणीयः तेन दोषः न प्राप्नोति इति वदन् विश्वामित्रः ताटकासंहारार्थं श्रीरामं प्रचोदयामास । तत्प्रार्थनानु-सारेण श्रीरामो धनुष्टङ्कारमकरोत् । तदा ताटका अदृश्या सती शस्त्रास्त्रवृष्टीः चकार । तदा श्रीरामः तस्याः बाहू निशितशरवरेण चिच्छेद । पुनः विश्वामित्रप्रार्थनानुसारेण श्रीरामः दुष्टां तां वधार्हां ताटकां सामान्यबाण-प्रागेणैव जघान । एवं महाभारततात्पर्यनिर्णये ताटकासंहारविषयकनिर्णयः कृतः उपलभ्यते ।

“अथो जघानाशु शरेण ताटकां वराद्विधातुस्तदनन्यवध्यताम् ।

ररक्ष यज्ञं च मुनेर्निहत्य सुबाहुमीशानगिरा विमृत्युम्’[iii]

एवं ताटकावधसन्दर्भे रामस्य निर्दुष्टत्वम् आचार्यैः प्रतिपादितम् ।

ताटका ब्रह्मवरात् अवध्या, सुबाहुः रुद्रवरादवध्यः, मारीचोऽपि ब्रह्मवरादवध्यः, एतेषां मध्ये ताटकां सुबाहुं च विश्वामित्रप्रार्थनानुसारेण रामः जघान । किन्तु मारीचं न जघान । अपि तु समुद्रमध्ये पातयामास । अनेन ज्ञायते श्रीरामः ब्रह्मरुद्रादिवरोर्जितानपि राक्षसान् अभ्यभवदिति ब्रह्मरुद्रादिवरोल्लङ्घनसमर्थः श्रीरामः ब्रह्मरुद्रादिभ्यो उत्तमः इति ।

तत्र ब्रह्मणा प्राप्तवरं मीरीचं तु न जघान । किन्तु अग्रे सीतापहारसमये तं हनिष्यति । अनेन ज्ञायते श्रीरामः सर्वज्ञः सर्वशक्तः । यथाकामं ब्रह्मादिदत्तवरोल्लङ्घनसमर्थः स्वेच्छया तेषां संहारं चकार इत्ययं विषयः तात्पर्यनिर्णये प्रतिपादितः ।

. रामपरशुरामयोः युद्धम्

सीतारामयर्विवाहानन्तरं दशरथः स्वपत्नीभिः पुत्रादिभिश्च सहितः अयोध्यां प्रति जगाम । मार्गमध्ये परशुरामसमागमः सञ्जातः । दशरथेन प्रार्थितोऽपि परशुरामः श्रीरामेण सार्धं युद्धमयाचत । तदा रामपरशुरामयोर्मध्ये महद्युद्धं समभवत् । रामः जयमवाप । परशुरामः पराजितोऽभूदिति वाल्मीकिरामायणकथा प्रथिता ।

अत्रैवं प्रश्नः उदेति । श्रीरामः साक्षात् नारायणावतारः । परशुरामोऽपि साक्षान्नारायणावतारः । उभयोरपि नारायणरूपत्वात् कथं तयोर्मध्ये एतस्य जयः अपरस्य पराजयः युज्यते इति । अस्य प्रश्नस्य समाधानं सुस्पष्टतया कथोपन्यासपूर्वकं महाभारततात्पर्यनिर्णये एवं वर्णितम्

“पुराऽतुलो नाम महासुरोऽभवद्वरात् स तु ब्रह्मण आप लोकताम् ।

पुनश्च तं प्राह जगद्गुरुर्यदा हरिर्जितः स्याद्धि तदैव वध्यसे’[iv]

पुरा अतुलनामकः कश्चन दैत्यः ब्रह्माणं प्रति तपश्चकार । तपसा सन्तुष्टेन ब्रह्मणा लोकमयत्वरूपं वरं प्राप । लोकमयत्वं नाम लोके सर्वत्र विद्यमानत्वम् । ब्रह्मा तु तं वरं दत्वा पुनरवदत् । यदा हरिः पराजितो भवति तदा तवापि नाशो भवति इति ।

“पुरा वरोनेन शिवोपलम्भितो मुमुक्षया विष्णुतनुप्रवेशनम् ।

स तेन रामोदरगो बहिर्गतः तदाज्ञयैवाशु बभूव भस्मसात्’[v]

अयमेवासुरः पुरा शिवं प्रति तपश्चकार । तपसा शिवं प्रतोष्य  मोक्षार्थी अहं विष्णुशरीरे वसामि इति वरं प्राप । ततो मोक्षमपेक्षमाणः स परशुरामशरीरं प्रविवेश । श्रीरामपरुशुरामयोः समागमानन्तरं परशुरामदत्तं विष्णुधनुः श्रीरामः सज्जीकृत्य बाणप्रयोगार्थं सिद्धोऽभवत् । तं युद्धसन्नद्धं रामं दृष्ट्वा परशुरामः अवदत्  अहं एकविंशतिवारं भूप्रदक्षिणं कृत्वा दुष्टक्षत्रियान् संहृत्य विष्णुरिति लोके प्रसिद्धः । इदानीं त्वमपि मद्दत्तं धनुः अन्नमय्य सज्जीकृत्य युद्धाय सन्नद्धः अतः त्वमपि विष्णुरिति निश्चयोऽभूदिति । तदा रामः अवादीत्  परशुराम त्वं साक्षाद्विष्णुः । अतः इदं धनुः त्वां न भेदयति । अतः त्वदुपरि प्रयुक्तो रामबाणो व्यर्थो भवति । यदि बाणप्रयोगं न कुर्वे तदापि सज्जीकृतः बाणः व्यर्थो भवति । रामबाणः व्यर्थो न भवेत् अतः कुत्र बाणं निक्षिपामि इति । तदा परशुरामः स्वोदरस्थितं अतुलनामकमसुरं प्रत्यवदत्  असुर श्रीरामः मदुदरं प्रति बाणप्रयोगं करोति । यदि त्वं तत्रैवोपविशसि तदा मृतो भवसि । अतः द्रुतं बहिरागच्छेति । तद्वचनं श्रुत्वा रामबाणं दृष्ट्वा भीतः असुरः परशुराम मां रक्षितुं बहिराह्वयतीति विचिन्तयन् परशुरामोदराद्बहिरागतः । अनुपदमेव परशुरामाभिप्रायानुसारेण श्रीरामः असुरस्योपरि बाणं पातयामास । असुरः मृतोऽभवत् ।

तथा च ब्रह्मरुद्रयोः वरं सत्यं कर्तुं असुरसंहारं च कारयितुं परशुरामः साक्षात् हरेरवतारोऽपि स्वस्य पराजयाभावेऽपि पराजितवत् दर्शयामास । तच्च असुरमोहार्थं इति आचार्याः भगवद्रूपत्वं पराजाभाव च प्रादर्शयन् ।

. सीतापहरणम्

वने पर्णशालायां विद्यमानां रामपत्नीं सीतां रावणः सन्न्यासिवेषेणागत्य अपाहरदिति वाल्मीकिरामायणे प्रसिद्धेयं कथा । सीतापहरणविषयः श्रीमदाचार्यैः एवं वर्णितः

“देव्या समीपमथ रावण आससाद सादृश्यतामगदप्यविषह्यशक्तिः ।

सृष्ट्वात्मनः प्रतिकृतिं प्रययौ च शीघ्रं कैलासमर्चितपदा न्यवसच्छिवाभ्याम् ।

तस्यास्तु तां प्रतिकृतिं प्रविवेश शक्रो ।

देव्याश्च सन्निधियुतां व्यवहारसिध्यै”[vi]

सीता साक्षाल्लक्ष्म्या अवतारभूता तां स्प्रष्टुं रावणस्य योग्यता नासीत् । यदा रावणः सीतामपहर्तुं तस्याः समीपमाजगाम तदा सीता स्वसामर्थ्येन स्वस्याः प्रतिकृतिं निर्ममे । तस्याः प्रतिकृतेरेव मायासीतेति व्यवहारः । तां मायासीतां रावणस्य पुरतः विन्यस्य स्वयं कैलासं गतवती । तत्र पार्वती-रुद्राभ्यां सेवां स्वीचकार । प्रतिरूपे चेतनव्यापारार्थं इन्द्रः प्रविवेश । रावणं प्रति पापसंयोजनाय सीताया अंशोऽपि तत्रासीत् । एतादृशीं सीताप्रतिकृतिं रावणो निनाय । न तु निजसीताम् इति प्रतिपादनपूर्वकं सीतायाः साक्षाल्लक्ष्मीस्वरूपत्वं, तस्याः अन्यैरस्पृश्यत्वं सर्वशक्तिमत्वं च श्रीमदाचार्यैः निर्णीतम् ।

नारायणपण्डिताचार्यैरपि स्वकृतमणिमञ्जर्यां

“सीतेयं नीयत इति मत्वा निन्ये तदाकृतिम् ।

रूपान्तरेण कैलासं गता नित्यावियोगिनी’[vii]

नित्यावियोगिनी सीता रूपान्तरेण कैलासं गता । रावणः इयं सीता मया नीयते इति मत्वा तस्याः प्रतिकृतिं निन्ये इति उक्तम् ।

.जम्बूकवधः

शम्बूकनामकः शूद्रः तपः कुर्वन् आस्ते । तं शूद्रतपस्विनं रामः जघान इति रामायणे प्रसिद्धा कथा । एतां कथामभिलक्ष्य आधुनिकाः एवं आक्षिपन्तो दरीदृश्यन्ते । शूद्रेण तपस आचरे का हानिः । ब्राह्मणेनैव तपः आचरितव्यमिति नियमो भवति वा । ब्राह्मपक्षपाती रामः निरपराधिनं शूद्रतपस्विनं जघानेत्येतत् महते अधर्माय कल्पते खलु इति । एतेषा-माक्षेपाणामुत्तराणि महाभारततात्पर्यनिर्णये समर्पकतया निरूपितानि ।

“अथ शुद्रतपश्चर्यानिहतं विप्रपुत्रकम् ।

उज्जीवयामास विभुर्हत्वा तं शूद्रतापसम्’[viii] इति ।

जङ्घनामकः कश्चन असुरः पार्वतीं प्रति तपश्चकार । तपसा सन्तुष्टा पार्वती कल्पपर्यन्तं आयुष्यं ददौ । तेन वरेण स जन्मान्तरे शूद्रो भवति । लोकक्षयार्थं स पुनः तपश्चकार । रुद्रपदवीं प्राप्नोमि । पार्वतीपतिश्च अहमेव भवामि इत्यभिप्रायेण तपश्चकार । तादृशं दुष्टं रामः जघान । नीचस्य तपःप्रभावेण ब्राह्मणकुमारो मरणं प्राप। शूद्रतपस्विनं हत्वा रामः ब्राह्मणकुमारमुज्जीवयामास ।

“जङ्घनामासुरः पूर्वं गिरिजावरदानतः ।

बभूव शूद्रः कल्पायुः स लोकक्षयकाम्यया ॥

तपश्चकार दुर्बुद्धिरिच्छन् माहेश्वरं पदम् ।

अनन्यवध्यं तं तस्माज्जघान पुरुषोत्तमः’[ix]

शम्बूकनामकं शूद्रतपस्विनं शूद्रः इति कारणेन रामो न जघान । किन्तु तस्य हनने अन्यानि कारणानि एवं वर्तन्ते

१. शम्बूकः स्वभावतः असुरः

२. स लोकक्षयार्थं तपश्चकार

३. पार्वत्या वरं प्राप्य कल्पान्तमायुष्यं प्राप्य रुद्रपदवीमपेक्षमाणः पार्वती मम पत्नी स्यात् इति अयोग्यसङ्कल्पमकरोत्

यद्यपि शम्बूकः शूद्रः । किन्तु तन्निमित्तेन श्रीरामः तस्य वधं न चकार । शूद्रस्य वधः करणीयः । शूद्रेण तपः न करणीयम् इति शास्त्रे कुत्रापि नोक्तम्। शबरी, गुहश्च शूद्रावेव । जटायुः पक्षी । एते सर्वेऽपि श्रीरामे भक्तिं कृत्वा रामानुग्रहं प्रापुः । किन्तु यदि कश्चन दुष्टः भवति तर्हि तस्य अवश्यं दण्डः विधातव्यः । अयं च शम्बूकः पूर्वोदाहृतकारणैः निन्द्यः दण्ड्यश्च । न तु जातिनिमित्तेन । अतः श्रीरामः नात्र अधर्मं चकार इति श्रीमदानन्दतीर्थीयनिर्णयः ।

एवं प्रत्यंशं रामायणमहाभारतकथाभागस्य प्रमाणान्तराण्युदाहरन् प्राचीननिर्णयग्रन्थानुसारेण श्रीवेदयासस्याभिप्रायानुसारेण व्यासस्यैवाज्ञया तच्छिष्यभूतः श्रीमदानन्दतीर्थमुनिः अपूर्वान् निर्णयानुदाजहार । एतैः निर्णयैः सहितं रामायणादिकथाज्ञानं निःश्रेयसाय भवति ।

********************

ग्रन्थसूची –

  • महाभारततात्पर्यनिर्णयः
  • मणिमञ्जरी

[i] महाभारततात्पर्यनिर्णयः अ-2 श्लोक-51,52,49

[ii]  महाभारततात्पर्यनिर्णयः अ-4 श्लोक-6

[iii] महाभारततात्पर्यनिर्णयः अ-4 श्लो-7

[iv] महाभारततात्पर्यनिर्णयः अ-4 श्लो-55

[v] महाभारततात्पर्यनिर्णयः अ-4 श्लो-57

[vi] महाभारततात्पर्यनिर्णयः अ-5 श्लो-38

[vii] मणिमञ्जरी-

[viii] महाभारततात्पर्यनिर्णयः अ-9 श्लो-19

[ix] महाभारततात्पर्यनिर्णयः अ-9 श्लो-20,21