[vc_row][vc_column][rev_slider_vc alias=”about-3″][vc_column_text el_class=”articles”]

।। वेदान्ते जीवस्वरूपम्।।

विद्वान् राहुल राजशेखर भट्टः, सहायकप्राध्यापकः,
      वेदान्तविभागः, राजीवगान्धीपरिसरः, केन्द्रीयसंस्कृतविश्वविद्यालयः

अन्तःकरणविशिष्टं चैतन्यं जीवः । सः यदा विषयावच्छिन्न-चैतन्येन सह अभिन्नो भवति, तदा सोऽपि विषयं प्रकाशयति । तर्हि जीवात्मा एव विषयभासकः अर्थात्  स एव विषयज्ञानं भवति । तर्हि तत्र प्रश्नः उदेति – अहं ज्ञानस्वरूपः चेत् ज्ञानवान् कः ? आत्मा विषयं कस्य कृते प्रकाशयति ? कः विषयस्य ज्ञाता भवति इति । ‘अहं जानामि’ इति प्रतीतिः अस्ति किल । तस्याः कः अर्थः ? ‘अहं ज्ञानवान्’ इत्यर्थः । ननु अहं तु ज्ञानमेव किल । एकः एव ज्ञानं ज्ञानवान् च कथं भवति? यद्यहं ज्ञानवान् तर्हि न ज्ञानम् । एवं सति अहं ज्ञानं च ज्ञानवांश्च इति कथम् उपपादनीयम् ? उच्यते – ‘अहं ज्ञानमेव’ इति कथनस्य अभिप्रायः अन्यः । ‘अहं ज्ञानवान्’ इति व्यवहारस्य अभिप्रायः अन्यः । ‘अहं ज्ञानम्’ इति व्यवहारस्याभिप्रायः एतावता बहुधा विचारितः। आत्मा सर्वस्यावभासकः स्वसम्बद्धं सर्वं विषयीकरोति । स्वयमेव ज्ञानस्वरूपः इति अर्थः । तर्हि ‘आत्मा ज्ञानवान्’ इत्यस्य अर्थः निरूपणीयः । तथा च ‘अहं घटविषयकज्ञानवान्’ इति प्रतीतिनिर्वाहार्थम् इतोऽपि किञ्चित् वक्तव्यम् अस्ति । मयि ‘ज्ञानं’ नाम किमपि अस्ति इति प्रतीयते किल । तत् किं स्यात् ? अन्तःकरणवृत्तिः इति वक्तव्यम् । ज्ञानत्वेन अन्योऽपि कश्चन पदार्थ: अस्माभिः अभिलपनीयः । अन्यथा लोकव्यवहारः नैव उपपादयितुं शक्यते । ज्ञानं नाम ‘स्वरूपज्ञानम्’ इत्येव यदि स्यात् तर्हि ‘ज्ञानवान्’ इति व्यवहारस्तु नैव उपपादयितुं शक्यते इति कृत्वा ज्ञानद्वैविध्यं कल्पनीयं भवति अस्माभिः । तथा च ज्ञानं द्विविधम् – १.आत्मस्वरूपम् २.अन्तःकरणवृत्तिः इति च । केयं वृत्तिः? अन्तःकरणस्य परिणामः इति वदामः । अन्तःकरणं विषयाकारेण परिणमते इति पूर्वं प्रतिपादितम् । सः एव परिणामः वृत्तिः इत्युच्यते । तथा च अन्तःकरणस्य योऽयं विषयाकारेण परिणामः अर्थात् वृत्तिः, तदपि ज्ञानम् इति व्यवह्रियते । एवं च द्विविधं ज्ञानम् ।

किन्तु एवम् उच्यते चेत् सिद्धान्तविरोधः भवति । अस्माकम् अद्वैतसिद्धान्ते तु आत्मा एव ज्ञानम् । तच्च एकमेव अद्वितीयम् । आत्मस्वरूपापेक्षया अन्यदपि किञ्चित् ज्ञानम् अस्ति इति उच्यते चेत् उक्तसिद्धान्तविरोधापत्तिः ।

तत्र अयं समाधिः – वस्तुगत्या ज्ञानम् आत्मा एव । किन्तु वृत्तिरपि ज्ञानम् इति व्यवह्रियते । लोके अपि एवं दृष्टम् अस्ति । पुत्रस्य यत् कार्यं तत् करोति कश्चन । सः अपुत्रोऽपि ‘अयं मम पुत्रः’ इति व्यवह्रियते । एवमेव वस्तुगत्या ज्ञानं तु आत्मा एव । किन्तु इयम् अन्तःकरणवृत्तिरपि ज्ञानं जनयितुं बहु कार्यं करोति इति कृत्वा इयमपि ‘ज्ञानम्’ इति व्यवह्रियते । यदि इयं वृत्तिः विषयं प्रति न गता स्यात् , तर्हि आत्मचैतन्यम् इहैव स्थित्वा किं कुर्यात् ? आत्मचैतन्यमेव विषयं भासयति, किन्तु कदा ? वृत्तिः तत्र गच्छति चेदेव आत्मा विषयं प्रकाशयति । अपि च पुरोवर्तिनि प्रदेशे अर्थात् विषयदेशे अन्तःकरणं गतं वर्तते । तस्मिन् विषये अन्ये अपि बहवो गुणाः सन्ति । यस्मिन् देशे गुणाः सन्ति तत्रैव अन्तःकरणमपि अस्ति खलु । सत्यम्, तर्हि ‘घटं पश्यामि’ इत्येतावता तत्रत्याः सर्वे गुणाः गृहीताः भवन्ति किम् ? नेति ब्रूमः । कुतः एवम् ? यदि अन्तःकरणं विषयदेशे एव अस्ति तर्हि तत्र विद्यमानाः समेऽपि योग्याः गुणाः प्रकाश्येरन् किल । न चेष्टापत्तिः । अन्यथा पश्चात् गुणविषयिणी जिज्ञासा न स्यात् । अतः किं वक्तव्यम् – अन्तःकरणं विषयदेशं गच्छति इत्येतावता न पर्याप्तम् । किन्तु तत्र गत्वा अन्तःकरणं विषयाकारेण परिणमते इत्यप्यपेक्षितम् । तथा च यस्य यस्य प्रत्यक्षत्वम् अपेक्षितम् , तत्तदाकारेण अन्तःकरणस्य परिणामोऽपि अपेक्षितः । 

अन्यदपि प्रष्टव्यं –  गुणाकारेण अन्तःकरणस्य परिणामो नाम कः? अन्तःकरणं विषयाकारेण परिणमते इत्युक्तं चेत् अस्माकं मनसि किं भाति ? अत्र पात्रे मया किञ्चित् जलं स्थापितम् । तच्च जलं पात्राकारेण तिष्ठति । एवमेव अन्तःकरणं विषयदेशं प्रति गतं चेत् विषयस्य यः आकारः, स एव आकारःतत्र गतस्य अन्तःकरणस्यापि भवति इति । एवं रूपेण यदि अन्तःकरणस्य विषयाकारेण परिणामः व्याख्यायते तर्हि प्रष्टव्यम् –

१. अन्तःकरणं गुणाकारेण परिणमते इत्यस्य कः अर्थः ? गुणस्य को वा आकारः  ?

२. अखण्डाकारवृत्तिः अर्थात् ब्रह्माकारवृत्तिः इति अस्माकं सिद्धान्ते अङ्गीक्रियते । तर्हि तत्र ब्रह्माकारेण अन्तःकरणं परिणमते किम् ?

तत्रेदं समाधानम् – ‘अन्तःकरणं परिणमते’ इत्यत्र बालानां सुखबोधाय ‘पात्रजलम्’ उदाहृतम् । तद्वत् न इह ग्राह्यम् । वस्तुतस्तु अन्तःकरणं परिणमते इत्यस्य ‘अन्तःकरणं विषयविषयकं भवति’ इति अभिप्रायः । यथा नैयायिकानां मते ज्ञानम् आत्मनि उत्पद्यते । यदा ज्ञानम् उत्पद्यते तदा विषयविषयकं सदेव उत्पद्यते । यो यः विषयः ज्ञाने भासते, तत्तद्विषयकत्वं ज्ञाने अस्ति । ज्ञानस्य घटः विषयः इति कृत्वा  घटरूपमपि विषयो भवेत् इति को निर्बन्धः ? रूपं विषयश्चेत् ‘रूपी घटः’ इति ज्ञानस्य आकारः वक्तव्यः भवति । ज्ञानस्य यो विषयः स एव किल ‘ज्ञायते’ इत्युच्यते । तथा च नैयाकिकेन ‘ज्ञानम्’ इति यदुच्यते तत्स्थानीया अस्ति अस्माकम् अन्तःकरणवृत्तिः । तथा च अन्तःकरणं विषयाकारेण परिणमते इत्यस्य अन्तःकरणं विषयविषयकं भवति इत्यर्थः। ‘परिणमते’ इति तु कथामात्रम् । तर्हि इदं सर्वं किमर्थम् उच्यते – तत्त्वं ग्राहयितुमिति ब्रूमः ।

उपायाः शिक्ष्यमाणानां बालानामुपलालनाः ।

असत्ये वर्त्मनि स्थित्वा ततः सत्यं समीहते॥

 

तथा च अन्तःकरणं परिणमते इत्यस्य अन्तःकरणं विषय-विषयकं भवति इत्यर्थः । तत्र तावत् अन्तःकरणं सविषयकपदार्थो वेति नैयायिकः पृच्छेत् । उत्तरं तु इदं यत् अन्तःकरणं न सविषयकपदार्थः, किन्तु अन्तःकरणवृत्तिः एव अस्माकं मते सविषयकः पदार्थः । ननु अन्तःकरणम् अन्तःकरणवृत्तिश्च एकमेव खलु इति चेत् न । अन्तःकरणतद्वृत्त्योः तादात्म्यसम्बन्धः । भेदसहिष्णुरभेदः तादात्म्यम्। भेदविशिष्टाभेदः इति यावत् ।

इदमपि ज्ञातव्यं यत् नैयायिकेन ज्ञानस्य ये धर्माः उच्यन्ते ते सर्वे अपि अन्तःकरणवृत्तौ वर्तन्ते इति अस्माभिः वक्तव्यम् । एकः एव भेदः- नैयायिकेन उच्यमानं ज्ञानम् आत्मनि उत्पद्यते इति स्वीक्रियते । अस्माभिः अन्तःकरणे तादात्म्येन वृत्तिः उत्पद्यते इति स्वीक्रियते । सा च आत्मनि आरोप्यते । यदि सा आत्मनि न आरोप्येत तर्हि ‘अहं ज्ञानवान्’ इति अनुभवो न स्यात् । अन्तःकरणम् अन्यत् , आत्मा अन्यः इति न ज्ञायते चेत् आरोपार्थं पर्याप्तं भवति । आत्मान्तःकरणयोः धर्मिणोः अध्यासे सति अन्तःकरणवृत्तेः आत्मनि अध्यासः भवति । तथा च ‘अहं ज्ञानवान्’ इति व्यवहारः सिद्ध्यति ।

अन्यदेकम् उदाहरणं पश्यामः । रज्जुः सर्पत्वेन गृहीता । ‘अयं सर्पः’ इति भ्रमो जातः । सर्पस्य यत् भयजनकत्वम् आगमनक्रिया च तदपि रज्जौ आरोप्यते । वस्तुतः रज्जुः एव अस्ति केवलम् । तत्र आदौ सर्पः आरोपितः, अथ च भयजनकत्वम् आगमनकर्म च आरोपितम् । अयम् आरोपः कदा सम्भवति – रज्जोः सर्पस्य च भेदो न ज्ञातः चेदेव आरोपः कर्तुं शक्यते । यदि तु प्रकृते रज्जुसर्पयोः विवेकः अस्ति, तर्हि आरोपयितुं न शक्यते ।

एवमेव अन्तःकरणम् अन्यत् आत्मा अन्यः इति द्वयोः पार्थक्येन ज्ञानम् अस्ति अस्माकम् । अर्थात् परस्परं भेदः सम्यक् अवगतः अस्ति । तर्हि कथम् इतरेतराविवेकेन आत्मनः ज्ञानत्वं वृत्तौ आरोप्यते ? परस्परं भेदः ज्ञातः चेदपि आरोपयितुं शक्यते किम् ? सत्यम् , भेदः अवगतश्चेदपि आरोपः शक्यते । कथम् ? पूर्वमेव प्रतिपादितं किल – पुत्रस्य कार्यं करोति इति कृत्वा अपुत्रो अपि ‘अयं मम पुत्रः’ इति व्यवहारः अस्ति । अयं मम पुत्रो न इति जानन् अपि कश्चन ‘अयं मम पुत्रः’ इति व्यवहरति । तथा च भेदे ज्ञाते सति अपि आरोपः कर्तुं शक्यते ।

    अत्र इदम् अवगन्तव्यम् यत् यत्र भेदे ज्ञाते सत्यपि आरोपः क्रियते तत्र गौणीबुद्धिः इत्युच्यते । यथा ‘सिंहो माणवकः’ इति । आत्मान्तःकरणयोस्तु अस्माभिः ‘अध्यासः’ वक्तव्यः अस्ति । अध्यासो निरूपणीयश्चेत् भेदाग्रहः अपेक्षितः । भेदो गृहीतश्चेत् अध्यासो न भवति, किन्तु सा गौणी बुद्धिः । तथा च अध्यासो वक्तव्यश्चेत् आत्मान्तःकरणयोः भेदः न गृहीतः इत्येव वक्तव्यम् । यदि तयोः सम्यक् ज्ञानं स्यात् तर्हि संसारो न स्यात् । ‘सुखं दुःखम् इत्यादिकं सर्वम् अन्तःकरणस्यैव वृत्तिविशेषाः , मम आत्मनः किमपि नास्ति’ इति वयम् अनुभवामःकिम् ? ‘एते सर्वेऽपि मनोविकाराः । मम किमपि नास्ति’ इति यदि अनुभवः,तर्हि किमर्थं प्रक्रिया इयमस्माभिः निरूप्यमाणा अस्ति ? ‘अन्तःकरणस्य काचित् वृत्तिरेषा । अहं तु उदासीनः , पुष्करपलाशवत् निर्लेपः।’ इति अनुभवः नास्ति ।

ननु उपनिषदा तु एवमेव उच्यते । तर्हि किं ज्ञातम्  ? आत्मा निर्गुणः इति न ज्ञातम् । ‘आत्मा निर्गुणः इति उपनिषदा उच्यते’ इत्येव अस्माभिः ज्ञातम् अस्ति । इदं न तत्त्वज्ञानम् । अनेन अज्ञानं न निवर्तते। ‘अहं दुःखी एव’ इति निर्णयः अस्माभिः निवर्तनीयः । तं निवर्तयितुम् ‘उपनिषदा एवमेव उच्यते’ इति ज्ञानं न पर्याप्तम् । एवं च आत्मान्तःकरणयोः भेदः न ज्ञायते, उपनिषदा उच्यते इति तावदेव ज्ञायते । अस्माभिस्तु न अनुभूयते । आत्मा पृथक्, अन्तःकरणं तु अन्यत् इति सम्यक् न ज्ञायते । यत् किञ्चित् मिलित्वा अनुभूयते । एवं च यदि मया न ज्ञातुं शक्यते तर्हि शास्त्रेण प्रतिपाद्यते । किं प्रतिपाद्यते ? आत्मा एव ज्ञानम् , तथापि आत्मनिष्ठं ज्ञानत्वम् अन्तःकरणवृत्तौ आरोप्यते । तथा च ‘ज्ञानं जायते’ इति व्यवहारः भवति । 

ननु तर्हि ‘आत्मा जायते’ इति व्यवहारः कुतो नास्ति इति चेदुच्यते ‘आरोपे सति निमित्तानुसरणं, न तु निमित्तम् अस्ति इति आरोपः’। यदि ‘आत्मा जायते’ इति व्यवहारः अभविष्यत् , तर्हि अद्वैतिनः तदुपपादनार्थं प्रयत्नम् अकरिष्यन् । अधुना तु तादृशः अनुभवः नास्ति, अतः न अयं प्रश्नः सम्भवति । एवं वेदान्ताभ्युच्चयः।

।। इति शम्।।

सान्दर्भिकग्रन्थसूची

ग्रन्थाः कर्तारः
  • वेदान्तपरिभाषा
धर्मराजाध्वरीन्द्रः
  • उपनिषद्भाष्यम्
श्रीशङ्करभगवत्पादाः
  • ब्रह्मसूत्रम्
            श्रीशङ्करभगवत्पादाः
  • भगवद्गीताभाष्यम्
    श्रीशङ्करभगवत्पादाः

[/vc_column_text][/vc_column][/vc_row]