[vc_row][vc_column][rev_slider_vc alias=”about-3″][vc_column_text el_class=”articles”]

विशिष्टा ललितास्तुतिः ‘आर्यासाहस्री’

विद्वान् राजशेखर: के.के, योजनासाहायक:, कर्नाटकसंस्कृतविश्वविद्यालय:, पम्पमहाकविमार्ग:, चामराजपेटे, बेङ्गळूरु१८, E-mail- rajashekharkksanskrit@gmail.com

              बहवः कविपुङ्गवाः प्रतिभापाण्डित्यसम्पन्नाः, अनवरतसाहित्यसेवानिरताः चेदपि प्रकाशताम्नागताः। तादृशेषु प्रकाश्यमानः भवेयम् इति आशावातादृशः प्रयत्नोवानैव दृश्यते। प्रसिद्धेः मार्गमपि तेन जानन्ति। तादृशेषु कविपुङ्गवेषु अन्यतमः अस्ति श्रीमान्विद्वान्वेङ्कटरामभट्टवर्यः। मोहनायनम्, श्रीशंकरचरितम्, भामिनीमाधवम्नामकानि महाकाव्यानि, सतीमहाश्वेता, सत्यविजयम्, विश्वरूपदर्शनम्नामकानि रूपकाणि, अङ्गदसंवादः नामचंपूकाव्यम्, शंकरालोकः, भावतरंगिणी इत्यादि गद्यकाव्यानि, पञ्चत्रिंशत्तः अधिकान्स्तोत्रान्; बह्व्यः भावगीताः बालगीताः च, ’मंकुतिम्मनकग्ग’ इत्यादि ग्रन्थानाम्संस्कृतानुवादान्तथैव इतोऽपि बहून्कृतीन्रचितवतः श्रीमतः साहित्यकृषिः बहुमुखी तथा अनुपमा च।

एषः पश्चिमघट्टस्थचिक्कमगळूरुजिल्लायाः कोप्पताल्लूकुमध्ये बोम्मलापुरनामके ग्रामे जन्म अलभत। संस्कृते अलंकारशास्त्रे विद्वत्पदवीम्, कन्नडभाषायाम्हिन्दीभाषायाम्च पण्डितपदवीम्प्राप्तः श्रीमान्उप-त्रिंशत्वर्षपर्यन्तम्शिराळकोप्प, सोरब इत्यादि स्थलेषु अध्यापकरूपेण सेवाम्चकार। निवृत्तेः अनन्तरम्सिद्धगङ्गामठस्य शिक्षक-प्रशिक्षण-केन्द्रेबोधकरूपेण कतिपयवर्षाणि अध्यापनम्चकार। उत्तम-अध्यापकरूपेण सुप्रसिद्धस्य श्रीमतः पाठनशैलीम् अद्यापि बहुशिष्याः अभिमानेन स्मरन्ति।

श्रीमतः मेरुकृतिषु अन्यतमः ‘आर्यासाहस्री’ तस्यप्रियः कृतिः अपि। अन्वर्थनामा एषाकृतिः आर्याछन्दसि राराजते। आर्याछन्दसः लक्षणम् –

यस्याः पादे प्रथमे द्वादशमात्राः स्थितास्तृतीयेऽपि। अष्टादशद्वितीये चतुर्थके पञ्चदशसार्या॥

(प्रथमे तथा तृतीये पादे १२मात्राः,  द्वितीयपादे १८मात्राः, चतुर्थपादे १५मात्राः सन्ति चेत्तत् आर्याछन्दः इति कथ्यते।)

एतत् ‘श्रुतबोध’ ग्रन्थे उक्तम् आर्या छन्दसः लक्षणम्। यतिनियमादीन्विस्तृतलक्षणान्चप्रतिपाद्यमानाः श्लोकाः वृत्तरत्नाकरादिषु ग्रन्थेषु उपलभ्यन्ते। आर्याछन्दसि-

पथ्याविपुलाचपलामुखचपलाजघनचपलाच।गीत्युपगीत्युद्गीतयःआर्यागीतिश्चनवधाऽर्या॥एवम्नवभेदाः इति वदति ‘छन्दोमञ्जरिः’। एतान्सर्वान् अर्यावृत्तान्स्वानुकूलानुसारम् उपयुज्य एताम्कृतिम्रचितवन्तः श्रीमान्वेंकटरामभट्टवर्यः।

          ललिताश्रीमतः इष्टदेवता। इष्टदेवतायाः सहस्राधिकया स्तुतिना अपि भक्तः कदापि तृप्तिम्नलभते। एवम्सहस्ररीतिभिः देव्याः स्तुतेः उत्कटा आकाङ्क्षा एव ‘अर्यासाहस्री’ निर्माणस्य पृष्ठभूमिका। श्रीमान्वेङ्कटरामभट्टवर्यः केवलम् ‘साहस्रीम्’ रचयेदिति स्वमितेः स्थापनस्य कारणतः अष्टाधिकसहस्रश्लोकेषु स्वस्तुतिरचनाप्रयासम्स्थगितवान् इति भाति। नोचेत्तस्यलेखन्या इतोऽपि अगणिताः श्लोकाः पुंखानुपुंखतया आविर्भविष्यन्ति स्म!  मनसिस्फुरतः एवस्तुतिपद्यानाम्लेखनम्, लिखतः एवस्तुति पद्यानाम् अविरतम्स्फुरणम्! एतद्वयमपि युगपद्स मभवदितिकृतेः अवलोकनेन ज्ञायते। तस्य हस्तकम्पनद्योतकः हस्तप्रतिः सूचयतियत्तस्य हस्ताः लेखनेन श्रमिताः,  नतु तस्य स्तोत्ररचना सामर्थ्यम्!!!

          श्रीमान्कम्पमानेन हस्तेन मूलप्रतिम्विलिख्य, अनन्तरम्तानेव श्लोकान्कन्नडार्थेन सह अन्यैः लेखापयित्वा पठनयोग्यम्प्रति म्रचयन्तिस्म। अस्मिन्कार्ये सः बहूनाम्साहाय्यम्स्वीकृतवान् इत्यतः लेखापितेषु प्रतिषु भिन्न-भिन्नानि हस्ताक्षराणि दृश्यन्ते।

          श्लोकानाम्कन्नडार्थाः अपि स्वोपज्ञाः एव। श्रीमान्भट्टवर्यः एव तान्लेखापितवान्। कतिचित्स्थलेषु कन्नडार्थः लघु अस्तिचेत्क्वचित् अधिकविवरणसहितम्दरीदृश्यते। अस्मिन्पुस्तके भट्टवर्येण लेखापिताः अर्थाः यथावत्स्थापिताः।

          कृतिकारवचनानुसारम् एतस्मै ग्रन्थाय ‘ललितासहस्रनामभाष्यम्’ इत्यादयः ग्रन्थाः आधारीभूताः। अतः अस्याम्कृतौबहवः तात्त्विकविचाराः, तान्त्रिकविषयाः, वेदान्तचिन्तनानि चतत्रतत्रदरीदृश्यन्ते। अत्र विद्यमानान्श्लोकान्सम्यक् अवगन्तव्यम्चेत्तेषाम्पृष्ठभूमिकायाः ज्ञानमपिअत्यवश्यकम्।

अस्याम्कृतौ श्रीमान्भट्टवर्यस्य कवित्वप्रतिभावैदुष्यम्चसुष्टुसम्मिलितमस्ति। श्रीमान्सुललिततया सरलतयाचपद्यरचने सिद्धहस्तः। शब्दसौन्दर्यम्, अर्थगाम्भीर्यम्, रचनागाढता इत्यादयः अस्याः कृतेः आरम्भात् अन्त्यपर्यन्तम्दरीदृश्यन्ते। कृतिम् आस्वादयितुम् उद्युक्ताः सहृदयाः संस्कृतविद्वांसः एतान्सर्वान्गुणान् अवश्यम् अभिजानन्तीति निश्चयात् अत्राहम् एकैकस्मै अपि अंशाय उदाहरणप्रदानस्यव्यर्थप्रयासम्नकरिष्यामि।

          श्रीमता पञ्चाशदधिकाः कृतयः रचिताः चेदपि एतावत्पर्यन्तम् एका अपि कृतिः प्रकाशम्नप्राप्ता। ‘काव्यामृतम्’ इतिनाम्ना‘ अखिलकर्णाटक-संस्कृत-परिषत्’ तिसॄणाम्कृतीनाम् अल्पभागस्यपरिचयम् अददात्। एतद्विहाय श्रीमतः कृतीनाम्प्रकाशनार्थम् अद्यावधिकोऽपिप्रयत्नः नाभवत्। इदानीम्श्रीमताम् अपत्यानि अस्मिन्कार्ये आसक्ताः, प्राप्यमाणाः सर्वाः हस्तप्रतीः एकत्रीकृत्य, एकैकषः प्रकटीकर्तुम् उद्युक्ताः सन्ति। तेषाम् अस्मै प्रयत्नाययावत्साध्यम्साहाय्येन प्रोत्साहप्रदानम्संस्कृतज्ञानाम् अस्माकम्कर्तव्यमिति मत्वा अहमपि अस्मिन्कार्ये संलग्नः अभवम्।

वेङ्कटरामवर्यस्य विविधप्रकारककाव्यकृतिषु स्तुतिकाव्यानि बहूनि विराजन्ते। तेषु स्तुतिकाव्येषु अग्रेसरत्वम् भजते आर्यासाहस्री। अस्मिन् ग्रन्थे स्वाराध्यदैवम् देवीम् ललिताम् अष्टोत्तरसहस्रैः श्लोकपुष्पैः सम्पूजयति कविपुङ्गवः। ब्रह्माण्डपुराणस्य उत्तरखण्डे श्रीहयग्रीवागस्त्यसंवादे विद्यमानस्य श्री ललितासहस्रनामस्तोत्रस्य प्रेरणया कविः एनाम् आर्यासाहस्रीं व्यरचत् इति सुस्पष्टतया वक्तुम् शक्यते। सम्पूर्णमेतत् स्तुतिकाव्यम् आर्याछन्दसि एव लिखितमित्यतः अस्याः नाम कविना आर्यासाहस्री इति स्थापितम्। तथैव अत्र अर्यायाः देव्याः स्तुतिपूर्वकाः सहस्रश्लोकाः सन्तीति कारणतः अपि आर्यासाहस्री इति नाम युज्यते। अस्याः कृतेः अन्योऽपि विशेषः यदत्र श्लोकाः अकारादिक्रमेण रचिताः सन्ति। एवम् अकारादिक्रमेण लिखन् कविः पूर्वसूरिभिः कृतान् शब्दचमत्कारान् आधुनिके काले अपि कर्तुं शक्यते इति निरूपयति। अष्टोत्तरसहस्रश्लोकान् अकारतः ज्ञकारपर्यन्तम् सर्ववर्णैः क्रमशः आरभ्य महत्प्रतिभा प्रदर्शिता। तत्रापि सहस्रनामस्तोत्रे वर्णितक्रमे एव देव्याः प्रतिनाम अपि क्रमशः स्वश्लोकैः विशदतया स्तुतम् कविना इति अत्र अन्यदपि महत्त्वम् दरीदृश्यते। अस्याम् कृतौ बहवः तात्त्विकविचाराः प्रस्तुताः तत्रभवता वेङ्कटरामभट्टवर्येण। वेदान्तचिन्तनानि, तत्त्वानि, नीतयः च तत्र तत्र दरीदृश्यन्ते। अत्र कवेः विद्वत्त्वम्, प्रतिभा च परस्परम् आलिङ्गन्तौ निरायासम्, सुललितया सरलया शैल्या च प्रवहतः। शब्दसौष्टवम्, अर्थगर्भितता, रचनाशैली, भक्तिस्रोतः च निर्बाधम् प्रवहन्ति।

          कविश्रेष्ठः काव्यारम्भे आरब्धकार्यं परिपूरयितुं शक्तिं प्रदातुं स्वाराध्यदेवीं आर्याम् ललिताम्बाम् प्रार्थयति। एवं आरभ्य ऊनपञ्चाशत् श्लोकान् आदौ अकारेण प्रारभते कविः। देवी आर्याम्बा नित्यसुखदायिनी, आश्रितजनानां रक्षाकरी, भारती इत्युक्ते भाषारूपिणी, कमलजस्य पत्नी शारदा एतादृशीं शारदास्वरूपिणीं ललितां सम्बोध्य कविः अहं तव स्तुतिं कर्तुं उद्यतः अस्मि तदर्थं मह्यं उज्ज्वलां विद्यां बुद्धिं च ददातु इति प्रार्थयति।

          एवं प्रथमे श्लोके स्तुतिपूर्वकं मङ्गलाचरणं कृत्वा कविः द्वितीयश्लोकतः ललितासहस्रनामस्तोत्रे स्तुतानां देवीनामसहस्राणां संस्तुतिं तस्मिन्नेव क्रमे आरभति। सर्वप्रथमं ’श्रीमाता’(१) इति नामस्तवनं करोति “असदृशसम्पद्भरिते..” इति। अत्यधिकसम्पदा सहिता, मंगलकरी, गौरवपूर्णा, प्रभुत्व-कीर्ति-ज्ञानादिभिः परिपूर्णा संपूर्णजगतः माता ’श्रीमाता” इत्यिक्ते सम्पदः जननी ललिता स्तोतारं मां पुनातु इति। द्वितीयनाम “श्रीमहाराज्ञी”(१), तत्स्तवनमुपस्थापयति “अखिलजनमोदहेतोः” इति।  सकलजनानाम् सन्तोषाय कारणीभूता, सकलभुवनेश्वरी, शुभकरी स्वमायया एव प्रकटितरूपा, पार्वती-लक्ष्मी-सरस्वतीति रूपत्रयैः विभाविता  महाराज्ञी ललिता नम्यते कविना। तृतीयं ’श्रीमत्सिंहासनेश्वरी”(१) इति नाम स्तौति “अतिगुरुमहिमापूर्णे” इति आरभ्य श्लोकद्वयेन। अत्यधिकमहिमासम्पन्ने, साम्राज्यदायिनि, गतिदायिनि, मतिदायिनि, नादकोविदे मां पाहि। अमृतांशुः नाम चन्द्रः, अमृतांशुमौली चन्द्रशेखरः तस्य जाया पार्वती; हे पार्वति! सुवर्णसिंहासनस्थिते, सदासुखदायिनि! सदा त्वां प्रणमंतं मां रक्षस्व इति कविः प्रार्थयति। चतुर्थं ललितानाम “चिदग्निकुण्डसम्भूता”(१) । तन्नाम स्तौति “अमलकरचित्कला..” इति। देवी निर्मलचित्तानां हृदयान्तर्गतज्योतिमध्ये उद्भवति;  देवानामनन्दादात्री सा देवी मां पातु इति। पञ्चमं नाम “देवकार्यसमुद्यता”(१); सा असुरगणम् सम्पूर्णम् नाशयितुम् देवकार्यार्थम् उद्भूता, अगणितमहिमाभरिता तादृशी देवी माम् अहङ्कारबुद्धेः अग्निकुण्डात् पातु इति कविः प्रार्थयति, यतो हि अहंकारः भवति चेत् सम्पूर्णसमर्पणाभावेन स्तुतिः नैव शक्यते इति कवेः आशयः।

          देव्याः पुण्यं रूपं वर्णयितुमारभते कविः अष्टमश्लोकतः “अयुताधिकरविदीप्ते” इत्यादिभिः श्लोकैः। ललित्रासहस्रनाम्नः षष्ठेन नाम्ना “उद्यद्भानुसहस्राभा”(२) इत्यनेन सम्बद्धः अस्ति अयं श्लोकः।

  • ललितासहस्रनामस्तोत्रम् – २(अ) १(श्लो)  
  • ललितासहस्रनामस्तोत्रम् – २(अ) २(श्लो)  

देव्याः तेजःप्रकाशं वर्णयन् वदति देवी पूर्वदिशि पर्वतश्रेणौ उद्यमानानाम् अयुतसूर्याणां प्रकाश इव प्रकाशयुक्ता राराजते इति।  तदनु “चतुर्बाहुसमन्विता”(१) इति नाम्नः साक्षात्स्तुतिः नोपलभ्यतेऽत्र। “रागस्वरूपपाशाढ्या”(१) इति नाम्नः स्तुतिः तथा “क्रोधाकाराङ्कुशोज्वला” (१) इति नाम्नः स्तुतिः च नवम, दशम, एकादशमश्लोकेषु कृतमस्ति।

देवी अखिलसुरजननी, स्वगुणैः एव शोभितं पाशं धधती माता मामनिशं पालयतु इति कविः स्तौति। ललिता कठिणपाशहस्ता करे पुण्ढ्राङ्कुशधारिणी  पुरुषार्थप्रदायिनी, निर्मलज्ञानस्वरूपिणी चास्तीति वदति। “मनोरूपेक्षुकोदण्डा”(२) इति नाम विवृणोति अमलज्ञानाकारे इति। देव्याः हस्ते यः इक्षुचापः दृश्यते तं इक्षुचापं कविः मनोरूपकं इक्षुचापः इति वदति। इक्षुचापस्य ग्रन्थयः षट्चक्रद्योतकाः इति कविः कल्पयति। देव्याः मुखं वर्णयन् कविः नूतनचम्पकपुष्पसदृशया नासिकया शोभते देव्याः मंगलकरं करुणापूरितं च वदनमिति कथयति। एवमेव प्रत्येकस्यापि नाम्नः विवरणात्मिका स्तुतिः सुष्टु उपस्थापिता  कविवरेण।

विद्वान्श्रीवेङ्कटरामभट्टमहोदयेन विरचितासु अनेकासु कृतिषु अत्यन्ता उत्कृष्टा काव्यप्रतिभयासु शोभिता प्रसिद्धाकृतिः वर्तते इयम् आर्यासहस्री कृतिः।

          काव्यानि कविजनानां लोकोत्तरवर्णनानै पुण्येनजनितानि। यद्यपि तानि यशः अर्थः व्यवहारज्ञानं शिवेतरक्षतिः चतुर्विधपुरुषार्थफलप्राप्तिः इत्यादिभिः बहुप्रयोजकानि भवन्ति तथापि काव्यानन्दः एव काव्यप्रयोजनेषु सकलप्रयोजनमौलिभूतः इति सर्वाङ्गीकृतत्वात्काव्यानि परमानन्दप्रयोजनकानीत्येव लोकेजेगीयन्ते। तादृशे आनन्दजनकत्वे अग्रिमस्थाने तिष्ठति इदानीन्तन कविषु सुप्रसिद्धेन श्रीवेङ्कटरामणभट्टमहोदयेन रचिता इयम् आर्यासहस्री कृतिः।

आधारग्रन्थाः

೧. ಪವನಿ ನಿರ್ಮಲ ಪ್ರಭಾವತಿ; ಶ್ರೀ ಲಲಿತಾ ಸಹಸ್ರನಾಮ ಸ್ತೋತ್ರ ಸಾರ ಸರ್ವಸ್ವ; ತೆಲುಗು ಮೂಲಕೃತಿ. ಕನ್ನಡಾನುವಾದ; ಲಲಿತಾ ಶಾಸ್ತ್ರಿ; ಮಧೂಸ್ ಪ್ರಿಂಟರ‍್ಸ್ ಅಂಡ್ ಪಬ್ಲಿಷರ‍್ಸ್, ಬೆಂಗಳೂರು- ೨೦೦೧.
೨. ವಿದ್ವಾನ್ ಬಿ. ವೆಂಕಟರಾಮ ಭಟ್ಟ; ಆರ್ಯಾಸಾಹಸ್ರೀ; ಭಾರ್ಗವಪ್ರಕಾಶನ, ಬೆಂಗಳೂರು- ೨೦೧೯.
೩. ಪ್ರೊ. ಮಲ್ಲೇಪ್ಮರಂ ಜಿ. ವೆಂಕಟೇಶ; ಧ್ಯಾನ ಸೂತ್ರ; (ಸಾಂಸ್ಕೃತಿಕ ಅನುಸಂಧಾನದ ಮೂಲ ಚಿಂತನೆ) ತಳುಕಿನ ವೆಂಕಣ್ಣಯ್ಯ ಸ್ಮಾರಕ ಗ್ರಂಥಮಾಲೆ, ಗೋಕುಲಂ ೩ನೇ ಹಚಿತ, ಮೈಸೂರು- ೨೦೧೪.
೪. ಸ್ವಾಮಿ ಚೇತನಾನಂದ; ದೇವರೊಡನೆ ಬಾಳಿದವರು; ವಂಗ ಭಾಷೆ; ಕನ್ನಡಕ್ಕೆ ಡಾ. ಹೆಚ್. ರಾಮಚಂದ್ರ ಸ್ವಾಮಿ, ಶ್ರೀ ರಾಮಕೃಷ್ಣ ಆಶ್ರಮ, ಯಾದವಗಿರಿ, ಮೈಸೂರು- ೧೯೯೪.
೫. ಪ್ರೊ. ಮಲ್ಲೇಪ್ಮರಂ ಜಿ. ವೆಂಕಟೇಶ (ಪ್ರಧಾನ ಸಂಪಾದಕರು); ಸಂಪಾದಕಿ ಬಿ.ವಿ. ವಸುಮತಿ ರಾಮಚಂದ್ರ; ಸಾರಸ್ವತ ವಿದ್ವಾನ್ ಬಿ. ವೆಂಕಟರಾಮಭಟ್ಟರ ಸಂಸ್ಮರಣ ಸಂಪುಟ; ಭಾರ್ಗವಪ್ರಕಾಶನ, ಬೆಂಗಳೂರು- ೨೦೧೯.

[/vc_column_text][/vc_column][/vc_row]