[vc_row][vc_column][rev_slider_vc alias=”about-3″][vc_column_text el_class=”articles”]

मातुलसुतोद्वाहविचारः

डा.मुष्टि.वेङ्कटनागपवनकुमारशर्मा

सहायकाचार्यः-आपस्तम्बपौरोहित्यविभागः

श्रीवेङ्कटेश्वरवेदविश्वविद्यालयः तिरुपतिः

आन्ध्रप्रदेशः- 9966068864

विदितमेव सर्वेषां विदुषां यत् धर्मार्थकाममोक्षेषु चतुर्ष्वपि पुरुषार्थेषु धर्म एव प्रथमः पदार्थः। यतस्तस्मादेव अर्थकामौ सिद्ध्यतः ततो मोक्ष इति। उक्तं च भगवता व्यासेन – धर्मादर्थश्च कामश्च स किमर्थं न सेव्यते इति। चोदनालक्षणोऽर्थो धर्म इति जैमिनिना कर्मानुष्ठानरूपस्य अपूर्वजनकस्य धर्मस्य वेदमात्रैकगम्यत्वमुक्तम्। वेदमूलकत्वात् स्मृतीनां धर्मत्वमविवादम्। तथाहि- 

श्रुतिस्तु वेदो विज्ञेयो धर्मशास्त्रं तु वै स्मृतिः।

ते सर्वार्थेष्वमीमांस्ये ताभ्यां धर्मो हि निर्बभौ।। इति। 

धर्मशब्दस्यार्थः शास्त्रेषु नैकधा प्रपञ्चितः। तथाहि- यं त्वार्याः क्रियमाणं प्रशंसन्ति स धर्म इति भगवानापस्तम्बः। अलौकिकश्रेयःसाधनत्वेन विहितक्रियात्वं धर्मत्वमिति गागाभट्टः। वेदबोधितेष्टसाधनताको धर्म इति मीमांसापरिभाषाकारः। वेदेन प्रयोजनमुद्दिश्य विधीयमानोऽर्थो धर्म इति मीमांसान्यायप्रकाशे। धर्माधर्मावदृष्टं स्यादिति तार्किकाः। आचारः परमो धर्म इति साम्प्रदायिकाः। अयं हि परमो धर्मो यद्योगेनात्मदर्शनम् इति पातञ्जलाः। धर्मशब्दश्च लोके श्रेयस्साधने प्रत्यक्षादिभिर्लौकिकैः प्रमाणैः शब्दादितरैः अविहिते प्रयुज्यत इति मेधातिथिः। सर्वेष्वप्येषु पक्षेषु  इष्टानिष्टप्राप्तिपरिहारोपायत्वं न व्यभिचरतीति इष्टप्राप्त्यनिष्टपरिहारालौकिकोपायो धर्म इति सिद्धम्। एवञ्च वेदप्रमाणकं श्रेयस्साधनं कर्म धर्मशब्देन व्यवह्रियते। तत्कर्म प्रवृत्तनिवृत्तभेदाद्द्विधा वर्तते। उक्तं च मनुना- 

प्रवृत्तं च निवृत्तं च द्विविधं कर्म वैदिकम्।

इह चामुत्र वा काम्यं प्रवृत्तं कर्म कीर्त्यते।

    निष्कामं ज्ञानपूर्वं तु निवृत्तमुपदिश्यते।। इति। 

कुल्लूकभट्टव्याख्याने अस्यायमर्थः प्रकटितः। तथाहि- वौदिकं कर्मात्र ज्योतिष्टोमादि प्रतीकोपासनादि च गृह्यते स्वर्गादिसुखप्राप्तिकरसंसारप्रवृत्तिहेतुत्वात्प्रवृत्ताख्यं वैदिकं कर्म। तथा निःश्रेयसं मोक्षस्तदर्थं कर्म निःश्रेयसिकम्। संसारनिवृत्तिहेतुत्वान्निवृत्ताख्यमित्येवं वैदिकं कर्म द्विप्रकारकं वेदितव्यम्इति।  

स्मृतिषु आचारव्यवहारादयः प्रवृत्तिधर्मा इति, यतिधर्ममोक्षोपायाध्यात्मविचारादयो निवृत्तिधर्मा इत्युक्तम्।श्रौतस्मार्तादिभेदेन प्रवृत्तिधर्मः द्विधा वर्तते। ज्योतिष्टोमादिर्यागः श्रौतः। स्मार्तस्तु षड्विधः-

  1. वर्णधर्मः 2. आश्रमधर्मः 3. वर्णाश्रमधर्मः
  2. गुणधर्मः 5. निमित्तधर्मः 6. साधारणधर्मश्च

तत्राद्यः मद्यपानवर्जनादिः। द्वितीयो भैक्षाचर्यादिः। पालाशदण्डधारणादिस्तृतीयः। चतुर्थस्तु शास्त्रीयाभिषेकादिगुणयुक्तस्य राज्ञः प्रजापालनादिः। प्रायश्चित्तम् पञ्चमः। अहिंसादिष्षष्ठः। एतेषां धर्माणामनुष्ठानेन पुरुषः यथेक्षुहेतोः सलिलप्रसेचयंस्तृणानि वल्लीरपि च प्रसिञ्चति। तथा नरो धर्मपथेन वर्तयन् यशश्च कामांश्च वसूनि चाश्नुते इति स्मृतेः, तद्यथाम्रे फलार्थे निर्मिते छाया गन्ध इत्यनूत्पद्येते एवं धर्मं चर्यमाणमर्था अनूत्पद्यन्ते इति न्यायाच्च अर्थकामादिकं प्राप्नोति। सकलेष्वप्येषु धर्मेष्वधिकारितां जनयन्ति संस्काराः। ऎहिकपारलौकिकसकलकर्मजन्यफलप्राप्तियोग्यतापादककायविशुद्धिसायुज्यतादिजनककर्मविशेषत्वं संस्कारत्वमित्यार्या अभिप्रयन्ति। सामान्यतः संस्कारा द्विविधाः- ब्राह्मा दैवाश्च। तत्राद्याः गर्भाधानाद्याः। अपराः पाकयज्ञाद्येकविंशतियज्ञाः। पुनश्च द्विविधाः संस्काराः। यथा- कर्मान्तराधिकारे अनुकूलाः संस्काराः, उत्पन्नदुरितमात्रनाशकास्संस्काराश्च। उपनयनविवाहादयस्संस्काराः कर्मान्तरेषु वेदाध्ययनाग्निहोत्रादिकर्मसु अधिकारिता-मापादयन्ति। जातकर्मादयस्संस्काराः मातृगर्भमलप्राशनादिजन्यदुरितादिकमपनुदन्ति। एवं संस्काराः पुरुषाणां चित्तस्य ज्ञानयोग्यतामापदयन्ति।

सामान्यतः षोडशसंस्काराः गृह्यसूत्रेषु सूत्रकारैः प्रतिपादिताः। ते च-

1.गर्भाधानम् 2. पुंसवनम् 3. सीमन्तोन्नयनम्

  1. जातकर्म 5. नामकरणम् 6. अन्नप्राशनम्
  2. चौलम् 8. उपनयनम् 9. प्राजापत्यव्रतम्
  3. सौम्यव्रतम् 11. आग्नेयव्रतम् 12. वैश्वदेवव्रतम्
  4. गोदानव्रतम् 14. स्नातकव्रतम् 15. पाणिग्रहणम्
  5. पितृमेधः इति। 

तत्र प्रमाणं एवं वर्तते-

गर्भाधानं पुंसवनं सीमन्तो जातकर्म च।

नामान्नप्राशनं चौलं मौञ्जीव्रतचतुष्टम्।।

गोदानाख्यं स्नातकं च विवाहः पैतृमेधिकम्।

एते षोडश संस्काराः क्रमेण स्मार्तकर्मणि।। इति। 

एषु संस्कारेषु यद्यपि गर्भाधानसंस्कारः प्रथमः तथापि पाणिग्रहणाद्धि सहत्वं कर्मसु इति वचनात् प्रजासहत्वकर्मणां सर्वेषां पाणिग्रहणानन्तरभावित्वात् पाणिग्रहणसंस्कारः बहुभिः सूत्रकारैरादौ व्याख्यातः। तत्र उपनीतः वेदं वैदौ वेदान् वा अधीत्य गुरुणा अनुज्ञातः लक्षण्यां स्त्रियमुद्वहेत्। उक्तं च याज्ञवल्क्येन-

गुरवे तु वरं दत्वा स्नायीत तदनुज्ञया।

वेदं व्रतानि वा पारं नीत्वा ह्युभयमेव वा।।

अविप्लुतब्रह्मचर्यो लक्षण्यां स्त्रियमुद्वहेत्।। इति।

ततः कन्यालक्षणानि चोक्तानि याज्ञवल्क्येन- 

अनन्यपूर्विकां कान्तामसपिण्डां यवीयसीम्।।

अरोगिणीं भ्रातृमतीमसमानार्षगोत्रजाम्।

पञ्चमात्सप्तमादूर्ध्वं मातृतः पितृतस्तथा।। या.स्मृ

उपर्युक्तलक्षणेषु प्रथमं वर्तते अनन्यपूर्विकामिति। दानेनोपभोगेन वा या पुरुषान्तरेणापरिगृहीता सा अनन्यपूर्विकेत्यर्थः। तामुद्वहेदित्यर्थः। कान्तामिति द्वितीयं लक्षणम् । कान्ता नाम कमनीया, परिणेतुर्मनसः आनन्दकारिणीत्यर्थः। एवमसपिण्डामिति तृतीयं लक्षणम्। मातृतः पितृतः असपिण्डामुद्वहेदित्यर्थः। चतुर्थं लक्षणमुक्तं यवीयसीमिति। वयसा प्रमाणतश्च (मानतः) न्यूनां उद्वहेदित्यर्थः। अरोगिणीमित्यस्य रोगरहिताम्, भ्रातृमतीमित्यस्य सभ्रातृकाम्, असमानार्षगोत्रजामित्यस्य समाने आर्षगोत्रे यस्यासौ समानार्षगोत्रस्तस्माज्जाता समानार्षगोत्रजा न समानार्षगोत्रजा असमानार्षगोत्रजा तामिति क्रमशः तत्तल्लक्षणानामर्थोऽवगम्यते।

लक्षणेष्वेतेषु असपिण्डामित्यस्य विवरणं ददाति पञ्चमात्सप्तमादूर्ध्वं मातृतः पितृतस्तथेति। मातरमारभ्य तत्पितृपितामहादिगणनायां पञ्चमसन्तानवर्तिनी मातृतः पञ्चमीत्युच्यते। एवं पितरमारभ्य तत्पित्रादिगणनायां सप्तमपुरुषसन्तानवर्तिनी पितृतः सप्तमीत्युच्यते। ततोऽर्ध्वमुत्पन्नां कन्यामुद्वहेदिति गम्यते। तत्र मातुलसुतामुद्वहेद्वा न वेति अस्मिन् शोधव्यासे विचार्यते।

तत्र शातातपेन एवमुपदिष्टम्-

मातुलस्य सुतामूढ्वा मातृगोत्रां तथैव च।

समानप्रवरां चैव गत्वा चान्द्रायणं चरेत्।। इति।  

उपरितनवचने मातुलस्य सुतां नोद्वहेदित्युक्तम्। तथा चोक्तं मनुना- 

पैतृष्वसेयीं भगिनीं स्वस्रीयां मातुरेव च।

मातुश्च भ्रातुराप्तस्य गत्वा चान्द्रायणं चरेत्।। इति। 

एवमनेकानि वचनानि मातुलसुतोद्वाहनिषेधपराणि वर्तन्ते। तत्र क आशयस्त्वेतेषां वचनानामिति जिज्ञासायां या कन्या मातुलस्य सुता वर्तते सा सापिण्ड्ये अन्तर्भवति, तादृश्याः कन्यायाः ग्रहणे पातित्यं भवतीति हेतोः वचनान्येतानि स्मृतिकारैरुपदिष्टानीति निबन्धकर्तॄणां भणतिः। कैश्चिन्निबन्धकर्तृभिस्तु मातुलसुतायाः स्वस्य च सापिण्ड्यस्य आभावात् नैतानि वचनानि मातुलसुतोद्वाहनिषेधपराणीति उच्यते। तत्रेयं चिन्ता- किं नाम सापिण्ड्यम् ? कथं सापिण्ड्यनिरूपणं कर्तव्यमिति। तत्र दिङ्ग्मात्रेणादौ सापिण्ड्यस्वरूपं प्रदर्श्यते। 

सापिण्ड्यं द्विविधं वर्तते। यथा- अवयवसापिण्ड्यम् निर्वाप्यसापिण्ड्यञ्चेति। तत्र अवयवसापिण्ड्यं नाम एकः पिण्डो देह आरम्भको  यस्या यस्य वा सा सपिण्डा स सपिण्डस्तद्भावस्सापिण्ड्यमिति व्युत्पत्त्या समानः एकः देहावयवः यस्य सः सापिण्डः तद्भावस्सापिण्ड्यमित्युच्यते। सापिण्ड्यमिदं सम्बन्धविशेषत्वेनोच्यते। अस्य स्वरूपमेवं भवति-

समानः एकः पिण्डो देहावयवः येषां ते सपिण्डा इति लक्षणमनुसृत्य पुत्रस्य साक्षात् पितृदेहावयवत्वेन पित्रा सह, तथाच परंपरासम्बन्धेन पितामहादिभिरपि शरीरान्वयसत्वात् सापिण्ड्यं भवति। एवं च साक्षात् मातृशरीरावयवत्वेन मातामहादिभिः, परंपरासम्बन्धेन मातामहशरीरान्वयत्वेन मातुलादिभिरपि सापिण्ड्यं भवति। निर्वाप्यसापिण्ड्ये यथा सापिण्ड्यं साप्तपौरुषमिति सापिण्ड्यावधिरुच्यते एवमवयवसापिण्ड्येऽपि पञ्चमात्सप्तमादूर्ध्वं मातृतः पितृतस्तथा, सपिण्डता तु पुरुषे सप्तमे विनिवर्तते इत्यादिभिर्वचनैः पितृपक्षे सप्तमात्, मातृपक्षे पञ्चमात् पुरुषादूर्ध्वं सापिण्ड्यनिवृत्तिरुक्ता। 

निर्वाप्यसापिण्ड्यं नाम यदुद्देशेन पिण्डनिर्वपणादिकं क्रियते तस्य योऽन्वयः पिण्डनिर्वपणाद्युद्देश्यत्वरूपः तद्रूपसापिण्ड्यमित्यर्थः। तत्र निर्वाप्यसापिण्ड्यस्वरूपं मत्स्यपुराणे एवं प्रतिपादितम्-

लेपभाजश्चतुर्थाद्याः पित्राद्याः पिण्डभागिनः।

पिण्डदस्सप्तमस्तेषां सापिण्ड्यं साप्तपौरुषम्।। इति।

अस्यायमर्थः- श्राद्धकर्मणि प्रपितामह-वृद्धप्रपितामह-प्रवृद्धप्रपितामहाः लेपभाज इति व्यवह्रियन्ते। तन्नाम पिण्डदानानन्तरं पिण्डोपरि दत्तं हस्तलेपं भजन्त इति एते लेपभाजः। एवं पितृ-पितामह-प्रपितामहाः श्राद्धे दीयमानान् पिण्डान् भजन्त इति एते पिण्डभाजः भवन्ति। आहत्य षट् पुरुषास्सञ्जाताः। श्राद्धकर्ता तु सप्तमः। एवं सप्तपुरुषव्याप्यं सापिण्ड्यं भवति। एवञ्च श्राद्धकर्ता पुत्रादिभिः करिष्यमाणश्राद्धेषु देवतात्वेनोद्दिश्यतीति पुत्रादिभिरप्यस्य सापिण्ड्यं निर्विवादम्। एवं स्वपित्रादिभिष्षड्भिः स्वपुत्रादिभिष्षड्भिश्च सापिण्ड्यं भवतीति तदिदं सर्वं निर्वाप्यसापिण्ड्यमित्युच्यते। 

अनयोः सापिण्ड्ययोः को भेद इत्युक्तौ अवयवसापिण्ड्यभावः स्ववंशे ये उत्पन्नाः तैस्सह सम्बन्धं ज्ञापयति। निर्वाप्यसापिण्ड्यभावस्तु स्ववंशे उत्पन्नानां पित्रादीनां सम्बन्धं ज्ञापयन् वंशेतरैः पिण्डभाग्भिः गुर्वादिभिः पुरुषैस्सहापि सम्बन्धविशेषं ज्ञापयति। द्वयोरपि एतयोस्सापिण्ड्यलक्षणयोः एकैकं दूषणमुक्तं तत्तद्ग्रन्थकारैः।

यथा- अवयवसापिण्ड्यलक्षणे एकशरीरावयवान्वयः यथा पित्रादिषु साक्षाज्ज्ञायते एवं परम्परया विधात्रवयवान्वयश्च ज्ञायते। अतः तेनाप्यस्य (देवदत्तस्य) सापिण्ड्यं भवतीति एकशरीरावयवान्वयरूपसापिण्ड्यलक्षणमतिव्याप्तमिति अवयवरूपसापिण्ड्ये दूषणम्।

एवञ्च यदुद्देशेन पिण्डो निर्वाप्यते तेन सह सापिण्ड्यमिति चेत् यन्नाम्ना पातयेत्पिण्डं तं नयेद्ब्रह्म शाश्वतम् इति वचनसिद्धगयाश्राद्धदेवतात्ववतां मित्रादीनाम्, सर्वाभावे तु नृपतिः कारयेत्तस्य रिक्थतः इति वचनाद्राज्ञोऽपि श्राद्धकर्तृत्वेन सापिण्ड्यापत्तिरिति निर्पाप्यसापिण्ड्ये दूषणम्। अनयोर्दूषणयोः पर्यालोचनेनेदं ज्ञायते यत् सापिण्ड्यलक्षणमतिव्याप्तं भवतीति। तत्परिहारस्तु एकेनैव सापिण्ड्यावधिप्रतिपादकेन वचनेन भवति। तत्राह देवलः-

पञ्चमात्सप्तमादूर्ध्वं मातृतः पितृतस्तथा।

सपिण्डता निवर्तेत सर्ववर्णेष्वयं विधिः।। इति। 

अस्यायमर्थः- पितृद्वारात् सप्तमपुरुषादूर्ध्वं मातृद्वारात् पञ्चमपुरुषादूर्ध्वं सापिण्ड्यं निवर्तते। अर्थात् कूटस्थमारभ्य वरस्य पिता यदि सप्तमो भवेत्, कूटस्थमारभ्य माता यदि पञ्चमी भवेत् तदा सापिण्ड्यं निवृत्तं भवति। तन्नाम पितृद्वारकसापिण्ड्यविचारे सप्तमादूर्ध्वं सापिण्ड्यनिवृत्तिः। मातृद्वारकसापिण्ड्यविचारे पञ्चमादूर्ध्वमिति सापिण्ड्यावधिप्रतिपादक-वचनाशयः। अनेन वचनेन मातृत्वपितृत्वादिसम्बन्धे सत्येव पञ्चमसप्तमपर्यन्तमेवेत्युभय-नियमस्वीकारात् द्वयोरपि सापिण्ड्यलक्षणयोर्नास्त्यतिप्रसङ्गः। 

विवाहे कथं सापिण्ड्यगणना कार्या इति जिज्ञासायामत्रोदाहरणं प्रदर्श्यते-

मूलपुरुषः देवदत्तः(1)। तत्पुत्रो ब्रह्मदत्तः(2)। तत्पुत्रो विष्णुदत्तः(3)। तत्पुत्रो शिवदत्तः(4)। तत्पुत्रो मित्रदत्तः(5)। तत्पुत्रो हरदत्तः(6)। तत्पुत्रो यज्ञदत्तः(7)। तत्पुत्रः श्रीदत्तः अष्टमः इति वरविषये पितृद्वारकं सापिण्ड्यं भवति। 

मूलपुरुषो देवदत्त एव(1)। तत्पुत्रो मातृदत्तः(2)। तत्पुरुषो रुद्रदत्तः(3)। तत्पुरुषो भानुदत्तः(4)। तत्कन्या श्रीदेवी(5)। तत्कन्या श्रीदत्तभक्ता(6) इति वधूविषये मातृद्वारकसापिण्ड्यं भवति। पञ्चमात्सप्तमादूर्ध्वं मातृतः पितृतस्तथेति न्यायस्यात्र प्रवृत्तेः अष्टमः श्रीदत्तः षष्ठीं श्रीदत्तभक्तामुद्वहेत्।

एवं सापिण्ड्यविचारे एते अंशाः अवश्यमवधेया भवन्ति। इदानीं मातुलसुतापरिणयने दोषबीजत्वेन सापिण्ड्यसम्बन्धं प्रदर्शयन्ति केचन ग्रन्थकाराः। केचन वरस्य तया सह सापिण्ड्यस्याभावात् परिणयनयोग्यैव सेति वदन्ति। तत्र कथं व्यवस्थेति विचारे क्रियमाणे मातुलसुतापरिणयनं मनुना निषिद्धमिति मातुलस्य सुतामूढ्वा मातृगोत्रां तथैव च। समानप्रवरां चैव गत्वा चान्द्रायणं चरेत्।। इति वचनमुपस्थापयन्ति केचन निबन्धकाराः। 

तत्रेदं निदानम्- मातुलस्य सुता मातृतः तृतीया भवति। पञ्चमात्सप्तमादूर्ध्वं मातृतः पितृतस्तथेति वचनात् सा सापिण्ड्येऽन्तर्भवति। अतः तां नोद्वहेदिति तेषामाशयः। नैतत्साधु। दत्तायाः कन्यायाः स्वपितृकुले सापिण्ड्याभाव एवोक्तः स्मृतिषु। अत्रेदमवधेयम्- ब्राह्म-दैव-आर्ष-प्राजापत्य-आसुर-गान्धर्व-राक्षस-पैशाचरूपेण अष्टधा विवाहः भवति। तत्र ब्राह्म-दैव-आर्ष-प्राजपत्यविवाहेषु कन्यादानं, होमाश्च भवन्ति।एवञ्च स्वगोत्राद्भ्रश्यते नारी क्रमणात्सप्तमे पदे इति वचनात् प्रधानहोमाङ्गसप्तपदीनिधानानन्तरं कन्या स्वगोत्रं मुञ्चति। गोत्रनिवृत्तौ तदनुगपिण्डनिवृत्तिरपि भवति। आसुर-गान्धर्व-राक्षस-पैशाचाख्येषु विवाहेषु दानदीनामभावात् सापिण्ड्यनिवृत्तिर्न भवति। तन्नाम पितृगोत्रेणैव तस्याः पिण्डोदकक्रियाः कर्तव्याः।  अत एवोक्तं मार्कण्डेयपुराणे-

ब्राह्मादिषु विवाहेषु या तूढा कन्यका भवेत्।

भर्तृगोत्रेण कर्तव्यास्तस्याः पिण्डोदकक्रियाः।।

गान्धर्वादिविवाहेषु पितृगोत्रेण धर्मवित्।। इति।

 तथा च स्मृतिः-

चतुर्थीहोममन्त्रैस्तु मांसमज्जास्थिभिस्सह।

एकत्वमागता भर्तुः पिण्डे गोत्रे च सूतके।। इति।

कूर्मपुराणे च-

अप्रत्तानां तथा स्त्रीणां सापिण्ड्यं साप्तपौरुषम्।

प्रत्तानां भर्तृसापिण्ड्यं प्राह देवः प्रजापतिः।। इति।

अतः ब्राह्मादिविवाहोढाया मातुः मातामहादिभिस्सापिण्ड्यं नास्ति। स्वमातुः सापिण्ड्याभावत् स्वस्यापि सापिण्ड्यं नास्तीति चेत् अत्रायमाक्षेपः-

ननु पितरो यत्र पूज्यन्ते तत्र मातामहा अपि।अविशेषेण कर्तव्यं विशेषान्नरकं व्रजेत्।। इति वचनात् दौहित्रः अवश्यं मातामहानां श्राद्धं कुर्यात्। तेन विवाहितानां सापिण्ड्यनिवृत्तावपि तत्पुत्रस्य मातामहरूपदेवतैक्येन मातुलादिषु सापिण्ड्यं दुर्वारमितिचेत्, न, ब्राह्मादिविवाहोढापुत्राणां मातामहश्राद्धस्यैव अभावात् उपरितनं वचनं आसुरादिविवाहोढाविषयमथवा रिक्थग्रहणदौहित्रविषयं वा। उक्तं च सौदर्शने-

ननु च- मातामहानामप्येवं तन्त्रं वा वैश्वदैविकम्। तथा- मातामहानामप्येवं श्राद्धं कुर्याद्विचक्षणः। मन्त्रोहेन यथान्यायं शेषं मन्त्रविवर्जितम्।। तथैव- पृथङ्मातामहानां च वैश्वदेवसमन्वितम्। कुर्वीत भक्तिसम्पन्नं तन्त्रं वा वैश्वदैविकम्।। इति याज्ञवल्क्यविष्णुस्मृत्योः विष्णुपुराणे च विधिदर्शनात् मातामहश्राद्धमपि नित्यमवगम्यते। तत्किमिति सूत्रकारभाष्यकारौ न ब्रूतः?

उच्यते। नैव तत्रापि स्मृत्यन्तरेषु पित्र्यवत्सर्वस्यैव जीवतो द्विजस्यावश्यं मातामहश्राद्धमपि नियमेन कर्तव्यमिति विधित्सितम्। कृते अभ्युदयः, अकरणे न प्रत्यवाय इति। कस्य तर्हि नियमेन कर्तव्यमिति विधिरिति चेत्, यः पुत्रिकाकृताया आसुरादिविवाहोढाया वा पुत्रो मातामहेन सह मातुस्सापिण्ड्यं करोति, तस्य मातामहश्राद्धं नियतमेव, अकरणे च प्रत्यवायः।…… अथवा यो दौहित्रोऽपुत्रस्य मातामहस्य अखिलार्थहारी तस्यैतच्छ्राद्धं नियतम्। यथाह लौगाक्षिः- श्राद्धं मातामहानां च ह्यवश्यं धनहारिणा। दौहित्रेण विधिज्ञेन कर्तव्यं विधिवत्सदा।। इति। इममेवार्थं भारुचिरप्याह-  यस्मिन् पक्षे अपुत्रो मातामहः, पुत्रिकासुतश्च अखिलद्रव्यहारी तस्मिन् पक्षे तस्य पिण्डदाननियमः इत्यादिना ग्रन्थेन इति। 

अनेन विचारेणेदं ज्ञायते यत् मातामहश्राद्धं आसुरादिविवाहोढापुत्रस्यैव नियमितमिति। अतः तस्य आसुरादिविवाहोढापुत्रस्य मातामहादिभिस्सापिण्ड्यं भवतीति च। 

एवञ्च ब्राह्मादिविवाहोढायाः स्वपितृकुले सापिण्ड्यस्याभावात् तस्यां जातस्य मातुलसुतापरिणयने असपिण्डा च या मातुः असगोत्रा च या पितुः। सा प्रशस्ता द्विजातीनां दारकर्मणि मैथुने।। इति मनुवचनस्य न कापि क्षतिः। तथा च मातुलस्य सुतामूढ्वेति वचनं आसुरादिविवाहोढापुत्रविषयमिति समन्वयः। एवं स्मृतितः मातुलदुहितृपरिणयनं सिद्धम्।

श्रुतिरपि अमुमेवार्थं श्रावयति। तत्र वाजसनेयके श्रूयते- 

तस्मादु समानादेव पुरषादत्ता चाद्यश्च जायते। 

उत तृतीये संगच्छावहै पुरुषे संगच्छावहै।। इति।

अस्यार्थः चन्द्रिकायामेवमुक्तः- समानादेकस्मात्पुरुषादत्ता भोक्ता भर्ता आद्यश्च भोग्यो द्वावप्युत्पद्येते। भार्यालक्षणं च जायते जाया जायपती जायेते इति यावत्। ननु एकस्मादुत्पन्नयोर्जायापतित्वे मातृभगिन्योरेव जायापतित्वमुक्तं स्यात् इत्याशङ्क्याह- उत हि तृतीयपुरुष इत्याह। अनेन दौहित्रपौत्रयोर्मातुलदुहितृपौतृष्वसेयीपरिणयनमुक्तं भवति। तयोः कूटस्थमारभ्य तृतीयवत् सङ्गच्छामहे विवहामह इत्यर्थ इति। 

ऋग्वेदेऽपि श्रूयते-

आयाहीन्द्र पथिभिरीडितेभिर्यज्ञमिमं नो भागधेयं जुषस्व।

तृप्तां जुहुर्मातुलस्येव योषा भागस्ते पैतृष्वसेयी वपामिव।। इति। 

अस्यायमर्थः- हे इन्द्र। पथिभिर्मार्गैः ईडितेभिः प्रशस्तैर्नः अस्माकं इमं यज्ञं आयाहि आगच्छ। आगत्य चेदमस्माभिर्दीयमानं भागधेयं जुषस्व। अत एव यजमानास्तृप्ताः मार्जनादिना संस्कृतां वपामवधानरूपां त्वामुद्दिश्य जुहुस्त्यक्तवन्तः। अत्र दृष्टान्तद्वयं यथा मातुलस्यैव योषा दुहिता दौहित्रस्य भागो भजनीया परिणेतुं योग्या यथा च पौतृष्वसेयी पौत्रस्य तथाऽऽयं ते तव भागो वपाख्यः। इति।  

एवं श्रुतितः अपि सिद्धं मातुलकन्यापरिणयनम्। श्रुतिस्मृतिविहितो धर्मस्तदलाभे शिष्टाचारः प्रमाणमिति वासिष्ठात् श्रुतिसिद्धेऽपि मातुलस्य सुतामूढ्वेति स्मृतिविरोधः अस्तीति चेत् श्रुतिस्मृतिविरोधे श्रुतिरेव गरीयसीति वचनात्, तेषां मातुलसुतापरिणयननिषेधवचनानां आसुरादिविवाहोढाविषयत्वेन विरोधस्य परिहृतत्वात् इदं मातुलसुतापरिणयनं श्रुतिस्मृतिसिद्धमेवेत्यत्र नास्ति संशयः। 

एवं देशधर्मेण मातुलसुतापरिणयनं अनुगृहीतम्। उक्तं च बोधायनेन-

पञ्चधा विप्रतिपत्तिर्दक्षिणतः अनुपनीतेन भार्यया च सह भोजनम्। पर्युषितभोजनं मातुलपितृष्वसृदुहितृपरिणयनमिति। तथोत्तरत ऊर्णाविक्रयशीधुपानमुभयतो दद्भिर्व्यवहारः। आयुधीकं समुद्रयानमिति। इतर इतरस्मिन् देशे कुर्वन् दुष्यति देशप्रामाण्यादिति। 

अर्थस्तु- इतरो दाक्षिणात्यः इतरस्मिन्नुत्तरदेशे मातुलसंबंधादिकं कुर्वन् दुष्यति। न स्वदेशे। तथेतर उदीच्यः इतरस्मिन् दक्षिणदेशे शीधुपानादि कुर्वन् दुष्यति न स्वदेशे। इति। 

अतः यस्मिन् देशे पुरे ग्रामे त्रैविद्ये नगरेपि वा। यो यत्र विहितो धर्मस्तं धर्मं न विचारयेत्।। यस्मिन् देशे य आचारो न्यायदृष्टस्तु कल्पितः। तस्मिन्नेव स कर्तव्यो देशाचारः स्मृतो भृगोः।। इति देवलोक्तेः मातुलसुतापरिणयनं दाक्षिणात्यानां न दोषावहम्। मातुलसुताया इव मातृष्वसृसुतायाः पितृष्वसृसुतायाश्च अपि परिणयनं सिद्ध्यति सापिण्ड्याभावादिति चेत् अस्वर्ग्यं लोकविद्विष्टं धर्ममप्याचरेन्न तु इति याज्ञवल्क्योक्तेः शिष्टगर्तितमिदं मातृष्वसृसुतादिपरिणयनं न कार्यम्। 

उपसंहारः

मातुलसुतापरिणनयनं श्रुति-स्मृति-पुराण-शिष्टाचारसम्मतमेव। तथाहि- उद्वहेत सगोत्रां यस्तनयां मातुलस्य च। ऋषिभिश्चैव तुल्यां च स तु चान्द्रायणं चरेत्।। पैतृष्वसेयीं भगिनीं स्वस्रीयां मातुरेव च। मातुश्च भ्रातुराप्तस्य गत्वा चान्द्रायणं चरेत्।। एतास्तिस्रस्तु भार्यार्थे नोपयच्छेत बुद्धिमान्। ज्ञातित्वेनानुपेयास्ताः पतन्ति ह्युपयन्नधः।। तृतीयां मातृतः कन्यां तृतीयां पितृतस्तथा। शुल्केन चोद्वहिष्यन्ति विप्राः पापविमोहिताः।। यो मे त्वं हृदयाज्जातो वयस्यं न प्रयच्छति। पापान्मातुलसम्बन्धात्प्रजा वै ते भविष्यति।। पितृपत्न्यः सर्वा मातरः। तद्भ्रातरो मातुला दुहितरश्च भगिन्यः। तदपत्यानि भागिनेयानि यथा संस्कारकारकानि स्युः।। इत्यादीनि यानि यानि वचनानि मातुलसुतोद्वाहनिषेधपराणि दृश्यन्ते तानि सर्वाणि आसुरादिविवाहोढापुत्रस्य मातुलकन्योद्वाहनिषेधविषयाणीति, उदूह्यते दाक्षिणात्यैर्मातुलस्य सुता द्विजैः। इत्यादीनि वचनानि ब्राह्मादिविवाहोढापुत्रस्य मातुलकन्याविवाहानुग्राहकाणीति धर्मशास्त्रतत्त्वम्।।

सहायकग्रन्थसूची

  1. आपस्तम्बगृह्यसूत्रम्- पण्डित.चिन्नस्वामिशास्त्री, चौखाम्बासंस्कृतसीरिज, वाराणसी, 1985
  2. धर्मकोशः- संस्कारकाण्डः, लक्ष्मणशास्त्री जोशी, प्रज्ञापाठशालमण्डलम्, पूना, 1959
  3. मनुस्मृतिः – जयन्तकृष्णहरिकृष्णदवे, भारतीयविद्याश्रेणी ग्रन्थः-40, मुम्बई-1984
  4. सापिण्ड्यकल्पलतिका- जगन्नाथशास्त्रीहोशिङ्गः, सारस्वतीभवनम्, बेनारस्, 1927
  5. सापिण्ड्यम् – जगन्नाथ रघुनाथ घारपुरे, धर्मशास्त्रग्रन्थमाला, ग्रन्थाङ्कः-27, मुम्बई, 1943
  6. स्मृतिमुक्ताफलम् – श्राद्धकाण्डः, जे.आर्. घारपुरे, धर्मशास्त्रग्रन्थमाला, ग्रन्थाङ्कः-25, मुम्बई, 1940

  अन्त्यटिप्पणी[/vc_column_text][/vc_column][/vc_row]