[vc_row][vc_column][rev_slider_vc alias=”about-3″][vc_column_text el_class=”articles”]

भारतीयसंस्कृतौ तन्त्रशास्त्रम्

वेदोपनिषद्गीतादिभारतीयपवित्रग्रन्थपङ्क्तौ महोच्चं स्थानमलङ्करोति परापरतत्त्वज्ञानेन सह मन्त्रतन्त्रप्रयोगयागविग्रहाराधनाद्यनुष्ठेयक्रियासहस्रवि-षयगोचरं तन्त्रशास्त्राख्यं धर्मशास्त्रम् । एतत्तु सन्तापमयसंसारकान्तारस्य अग्निना अखिलार्तिहारिणा  हरिणा ब्रह्मणे समुपदिष्टमासीत्  बुद्धमहावीरकालादपि व्याकरणसूत्रकारपाणिनेरपि, गीतामनुस्मृतिकाराभ्यामपि बहु प्राचीनं तच्छास्त्रं वासुदेवसङ्कर्षणप्रद्युम्नानिरुद्धचतुर्मूर्त्यात्मकस्य भगवत आराधनं विदधत् पुरा भरतभूमौ सर्वत्र सम्यक् लब्धप्रचारमेवातिशयेन जृम्भते स्मेति ग्रीक्रराजदूतस्य मेगास्तनिसो लेखै: चीनायात्रिकलेखैरनेकैः शिलालेखैश्च सुस्पष्टमवगम्यते । तन्त्रशास्त्रं तावत् ऋषिकुलप्रणीतम् । मुनिजनाः साक्षात्कृतवैदिकमन्त्राः। एते न केवलं पारत्रिकलोकाप्तये प्रायतन्त किन्तु, तदनुगुणां तदनुकूलां सर्वभूतहितावहां साधनपद्धतिमपि साक्षादकुर्वन् तां शास्त्रदीपेन प्रादर्शयन् च । तदेतत् शास्त्रं तन्त्रशास्त्रसंज्ञया प्रथितम् । `भारतस्य प्राचीनतमशास्त्रेषु तन्त्रशास्त्रमन्यतमम् ।

 किं नाम शास्त्रम् ?

मानवानां ऐहिक – आमुष्मिकाभिवृद्ध्यर्थं अनेकानि शास्त्राणि प्राचीनानि अर्वाचानीनि च दृश्यन्ते । तत्र प्राचीनभारतीयशास्त्रेषु वैदिकतन्त्रशास्त्रं अनुपमं अत्युपयुक्तं च। तत्त्वान्वेषणाय एतच्छास्त्रमतीवावश्यकम्। प्राचीनविदुषामनुग्रहेण लब्धमिदं शास्त्रं अद्यतनकालेऽपि प्रस्तुतमुपयुक्तं च। तत्र तावत् किं शास्त्रमिति विचार्यते । शास्तीति शास्त्रमिति व्युत्पत्त्या “शासु – अनुशिष्टौ ” इति धातुना निष्पन्नं पदम्। अस्मिन् जीवने किं कार्यं किमकार्यमिति निर्णेतुं यत्प्रवृत्तम् तदेव शास्त्रमित्युच्यते । तदेवोक्तं भगवता श्रीकृष्णेन गीतायां –

तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ ।” इति।

यद्यपि एतादृशास्त्रपदवाच्यत्वं शास्त्राभासेष्वपि वर्तते । तथापि ते शास्त्रत्वेन न गृहीतुं योग्याः। एवं चेत् किं शास्त्रमिति शङ्कायाः परिहारः श्रीमध्वाचार्यैः स्वग्रन्थे –

ऋगाद्याः भारतं चैव पुराणं पंचरात्रकम् ।

मूलरामायणं चैव शास्त्रमित्यभिधीयते ॥

इति प्रमाणपुरस्सरं कानि शास्त्रपदवाच्यानि भवन्ति इति निरूपितम्।

तन्त्रपदस्य अर्थनिरूपणम्

तन्त्रशब्दस्य व्याख्यानं प्राचीनैः एवं क्रियते –

तनोति विपुलानर्थान् तत्त्वमन्त्रसमन्वितान्।

त्राणं च कुरुते यस्मात् तन्त्रमित्यभिधीयते”॥

तन्त्रमिति पदे अक्षरद्वयं वर्तते । तत्र त इति प्रथमाक्षरस्य अर्थः श्लोकस्यास्य पूर्वार्धन उच्यते। त्र इति द्वितीयाक्षरस्य अर्थः उत्तरार्धेन प्रतिपाद्यते। तथा च साधनावश्यकान् तन्त्रमन्त्रयुक्तान् बह्वर्थान् प्रतिपादयत् यच्छास्त्रं रक्षणं करोति तच्छास्त्रं तन्त्रमिति अभिधीयते। इदं तन्त्रशास्त्रं प्रायोगिकविज्ञानं तत्त्वज्ञानाङ्गभूतं वर्तते। 

तन्त्रप्रभेदः

भारतीयवाङ्मयप्रपञ्चे नैकानि तन्त्रशास्त्राणि लभ्यन्ते। वैष्णवशाक्तशैवकापालिकादिभेदेन तानि प्रसिद्धानि परन्तु बहूनि दृश्यमानानि तन्त्रशास्त्राणि तामसोपयोगाय प्रयुक्तानीति दष्टव्यम् मुख्यतया तन्त्रशास्त्रे त्रयो विभागाः दृश्यन्ते। रुद्रसर्वोत्तमत्वप्रतिपादकाः शैवतन्त्राः, शक्तिपारम्यप्रतिपादकाः शाक्ततन्त्राः, विष्णुपारम्यप्रतिपादकाः वैष्णवतन्त्रा इति। सात्त्विकराजसतामसभेदेनापि इदं विभज्यते । तत्र सात्विकं अनर्थदूरां स्वपरहितोभयकारिणीं सफलतरां सिद्धिं विधातुमलम् । दृश्यते हि लोके सात्विकसिद्धिसम्पन्नैः शापानुग्रहशक्त्या शिष्टरक्षणदुष्टशिक्षणे विधीयेते, तद्व्यतिरिक्ततया तामससिद्धिमद्भिः वामाचारादिना क्रियमाणा अनर्थपरम्परा च । क्रमेण एतेषामालम्बनभूताः तन्त्रग्रन्थाः सात्विकराजसतामसभेदेन व्यवह्रियन्ते । सात्विकतन्त्रग्रन्थेषु साक्षात् विष्णुना रचितः तन्त्रसाराख्यः अन्यतमः । अतिविस्तृतोऽयं ग्रन्थः कालव्यालकवलीकृतः, येन जनानां अप्रतीकारा हानिः समापद्यत । 

तन्त्रशास्त्रस्य विषय:

तन्त्रशास्त्रेष्वपि मुख्यं प्रतिपाद्यं भगवत्तत्वमेव । विविधाः मन्त्राः, पूजाक्रमः, प्रतिमा प्रतिष्ठापनार्थं देवालयनिर्माणविधिः, प्रतिमानिर्माणविधिः, प्रतिमाप्रतिष्ठायाः पूर्वं बिम्बशुद्धिमारभ्य प्रतिमाधिवासपर्यन्तविधयः, प्रतिमाप्रतिष्ठापनविधिः, सन्निधानाभिवृद्ध्यर्थं कलशाभिषेकविधिः, तथा अनेकविधाः न्यासाः, निरूप्यन्ते । गर्भगृहस्य शुद्धिः तत्र वास्तुपूजा विधिः, तथा प्रायश्चित्तविधिः, जीर्णोद्धारविधिः इत्याद्दनेके प्रधानभूताङ्गभूताश्च प्रतिपाद्यन्ते । विशेषतः सर्वेषु तन्त्रशास्त्रेषु मन्त्रोद्धरणं क्रियते । मन्त्राणां गोपनीयत्वेन सूचनैव दीयते । न तु स्पष्टतया प्रतिपाद्यते । यतो हि ते च मन्त्राः गुरुमुखादेवावगन्तव्याः । एवं चानेके अनुष्ठेयाः फलप्रदाः विषयाः तन्त्रशास्त्रेषु निरूपिताः । अपरश्च यमनियमाद्यष्टाङ्गोपेतः योगः योऽयं जगति भारतीययोगदानत्वेन प्रथितः सोऽपि तन्त्रशास्त्रस्य विषयः | योगस्य कर्मणश्च सम्बन्धस्तन्त्रशास्त्रे प्रत्यपादि । विना योगेन प्राणायाम – ध्यान, समाधिरूपेण अनुष्ठानस्य साफल्यं नास्ति । ध्यानादियोगेऽपि षट्चक्रचिन्तनादिरूपाः सबीजनिर्बीजभेदेन भिन्नाः नैकविधाः योगाः तन्त्रशास्त्रेषु प्रतिपाद्यन्ते ।

तन्त्रशास्त्रस्य माध्वपम्परायाः योगदानं बहु वर्तते । माध्वैः बहवः ग्रन्थाः रचिताः । तत्र केचन अत्र निरूप्यन्ते।

तन्त्रसारसङ्ग्रहः

तन्त्रसारसङ्ग्रहः श्रीमदाचार्यरचिता अपूर्वतमा कृतिः । कल्पवृक्षवत् सकलाभीष्टप्रदायको ग्रन्थवर इति त्रिविक्रमाचार्या : मुक्तकण्ठमिमं ग्रन्थं श्लाघितवन्तः । पूर्वं परमकारुणिक: परमात्मा समेषां सज्जनानां वाञ्छितार्थप्राप्तये सप्तोटिमहामन्त्रानुपदिदेश । न तान् सर्वान् जप्तुं सर्वे प्रभवन्ति । अतः संसिद्धसप्तकोटिमहामन्त्राः श्रीमदानन्दतीर्थभगवत्पादाचार्यास्तेषु मन्त्रेषु सारभूतान् द्वासप्ततिसङ्ख्याकानष्टसङ्ख्याकांश्च मन्त्रान् अस्मिन् तन्त्रसारसङ्ग्रहे उपदिदिशुः । सर्वाभीष्टदा: सर्वारिष्टनिवारकाश्चैते मन्त्राः । भगवतः षोडशोपचारपूजाविधानं होम-तदङ्गस्थण्डिलादिविधानं चक्राब्जादिमण्डलक्रममर्चानिर्माणप्रकारं देवालयनिर्माणप्रकारं च प्रत्यपीपददत्राचार्यवर्यः । देवालयोपयुक्ते आगमशास्त्रे, शिल्पशास्त्रे च श्रीमदाचार्याणां अनुपमपाण्डित्यस्य निदर्शनभूतः अयं ग्रन्थः, भगवदाराधनजपादिप्रकारप्रदर्शनेन सज्जनानां सात्विकसदाचारशीलजीवनस्य सर्वदा मार्गदर्शनं करोति ।

सदाचार स्मृति:- 

सर्वाश्रमिणां सर्ववर्णिनां च नित्याचाराः च संक्षेपेणोक्ताः । नित्याचार विषये अयमेव अणुग्रन्थः । अत्र विशेषतः प्रत्याचरणं हरिसंस्मरणं विहितम् । अत एवास्य नामैव वक्ति सतां आचार: निर्दुष्ट आचारः इति सदाचार भवति । अतः सज्जनानां यः निर्दुष्ट आचारः स एव सदाचारः भवति। आचारस्य निर्दुष्टत्वं च वेदविहितत्वं भगवदर्पणबुद्ध्या फलकामनाराहित्येनानुष्ठेयत्वम् । तादृश सदाचारस्य प्रतिपादकोऽयं ग्रन्थः सदाचारस्मृतिरिति नाम्ना प्रथितः । अतः तन्त्रशास्त्रस्थ आचारविषये अयं ग्रन्थः योगदानं विदधाति ।

पद्यमाला –

इयं कृतिः टीकाचार्य इति प्रथितेन जयतीर्थयतिना विरचिता । पद्यमाला शब्दस्य पद्यानां छन्दोबद्धश्लोकानां मालिकेति नामनिर्वचनेनैव श्लोकरूपोऽयं ग्रन्थः इति ज्ञायते । अत्र विस्तरेण देवपूजाविधिः निरूप्यते । आसनदेवताः अत्र अपूर्वतया उक्ताः। आवाहनविषये अनुसंधानं, षोडशोपचारपूजा च अत्र अपूर्वतया निरूपितम्। नैवेद्यविषये विस्तरेणानुसंधानं चात्र निरूपितम् । एवं पूजाविषये निःसन्देहेन प्रक्रिया निरूपितेत्यत्यपूर्वोऽयं ग्रन्थः । 

यतिप्रणवकल्पः

अस्य यतिप्रणवकल्पस्य कर्ता विष्णुतीर्थः अयं विष्णुतीर्थः आचार्य मध्वस्यानुजः | अस्मिन् ग्रन्थे संन्यासिनामाचारं विशेषतः वक्ति, तथा वृन्दावनप्रतिष्ठापनादिकं वृन्दावनस्य पूजाविधिमपि वक्ति, तथा संन्यासिनां नित्यकर्तव्यपूजाविधिमपि निरूपयति | अतः अयं ग्रन्थः तन्त्रशास्त्रस्य विशेषविषयस्य प्रतिपादकत्वात् विष्णुतीर्थैः योगदानं कृतम्

योगदीपिका

नारायणपण्डिताचार्येण रचिता योगदीपिका अपूर्वतया सत्कर्मप्रयोगान् वैष्णवसंप्रदायानुसारेण वक्ति । अत्र मण्टपसंस्कारादिविषयान् नित्यानुष्ठानं चक्राब्जमण्डललक्षणं च प्रधानतः विव्रियते । अत एव अस्य योगदीपिकेत्यन्वर्थं नामधेयम् । नारायणपण्डिताचार्येण तन्त्रशास्त्रस्य महत् योगदानं अनेन ग्रन्थेन कृतम् ।

तन्त्रशास्त्रस्य उपयोगः

 तन्त्रशास्त्रं मूलतः तत्त्वज्ञानमेव। तत्त्वज्ञानार्जनोपायाः, अर्जितस्य तत्त्वज्ञानस्य प्रत्यक्षतः सिद्धेरुपायाश्च तन्त्रशास्त्रस्य लक्ष्याः । तन्त्रशास्त्रस्य विषयान्तर्गताः ये मन्त्र-पूजा-होम-यज्ञ-यन्त्र-व्रतोपवासादयः ते आरुरुक्षूणां साधकानां तत्त्वज्ञानप्राप्त्युपायाः, तथा, आरूढानां अपरोक्षज्ञानिनां तत्त्वज्ञानफलभूताणिमादिसिद्धेः प्राप्तिद्वारा स्वयमनुभवितुं जिज्ञासून् प्रति ताः सिद्धीः प्रदर्श्य तन्मनसि तत्त्वज्ञानमहत्त्वमनुभावयितुं चोपायाः । 

उपसंहरः

एतत् शास्त्रं साधकानां सिद्धानां च महोपकारकम् वर्तते । अस्मिन् तन्त्रशास्त्रेऽनारूढासक्तिः कोऽपि तत्त्वतः तत्त्वज्ञानी भवितुं नार्हति ।  अपूर्वाः प्रमेयाः प्रतिपादिताः तथा आचमनादारभ्य स्नानविधिः, संध्यावन्दनं, देवपूजादिविषयाणां मार्गदीपिका भवति यतो हि-“विष्णुस्मृति विहीना तु पूजा स्यादासुरी मताइति हरिस्मरणपूर्वकं पूजादीनां कर्तव्यत्वं निर्दिष्टम् तथा अध्यात्मचिन्तकानामपि भगवद्रूपाण्यनुसन्धातुं मार्गदर्शकः, एवं सर्वविधानां जिज्ञासूनां योग्यतानुसारेण मानसिकस्थित्यनुसारेण कर्मणि मनोयोगं दीपयति । सत्कर्म प्रतिपादकत्वात् तद्वारा अन्तःकरणशुद्धिः, शुद्धान्तःकरणे भगवत्तत्वज्ञानं, तत्वज्ञानेन भगवदपरोक्षः, अपरोक्षेण भगवद्प्रसादः, भगवतः पूर्णप्रसादेन स्वस्वयोग्यतानुसारेण स्वरूपाभिव्यक्तिरूपः मोक्ष एव परमं प्रयोजनम् अस्य वर्तते। तन्त्रशास्त्रं सर्वैः तत्त्वज्ञानार्थं, भगवत्प्रसादार्थं, ऐहिकफलार्थमपि   आश्रयणीयमेव भवति । 

End notes

 भगवद्गीता, १६.५ प्रकाशन – गीताप्रेस्, संवर्सरः – २०२०

2 स्कन्दपुराण, प्रकाशन – गीताप्रेस्, संवर्सरः – २०००

3 भारतीय संस्कृतिकोश, खंड ३, संपादक महादेवशास्त्री जोशी 

Name -Vinaya kumara

Poorna prajna samshodhana mandiram 

Bengaluru

Ph – 77975377382

Email- vinaykumardesai1008@gmail.com

[/vc_column_text][/vc_column][/vc_row]