पञ्चपादिकाविवरणोक्त-अनिर्वचनीयख्यातेः शाङ्करभाष्यसम्मतिदर्शनम्

  • विदुषी शकुन्तलाभट्टः, संशोधनसहायिका,

कर्णाटकसंस्कृतविश्वविद्यालयः,  पम्पमहाकविमार्गः, चामराजपेटे, बेङ्गलूरु – ५६००१८

शुक्तौ रजतदर्शनं किं सत्यं वा मिथ्या वा इति विकल्पद्वारा तस्य प्रातिभासिकं स्थानं कल्पितम्। तद्वत् अयं प्रपञ्चः व्यावहारिकसत्तावान् चेदपि ब्रह्मज्ञानानन्तरं स्वप्नवदिति च प्रतिपादितम् । तथा शुक्तौ जायमानरजतप्रतीतिवत् ब्रह्मणि सर्वे प्रपञ्च अध्यस्तमिति । अत्र इयं जिज्ञासा उदेति – शुक्तौ रजतस्य भावः सत्यं चेत् न बाध्येत, मिथ्या चेन्न दृश्येत; परन्तु बाध्यत्वं दृश्यत्वम् उभयमपि वर्तते इत्यतः कोऽयमिति ? तस्य समाधानमुच्यते अनिर्वचनीयख्यातिख्यापनमुखेन । सद्रूपेण वा असद्रूपेण वा सदसद्रूपेण वा निर्वाचयितुमशक्यं यद् तदेव अनिर्वचनीयमिति ।

पञ्चपादिकाविवरणरीत्या अनिर्वचनीयख्यातिः – 

ख्यातिर्नाम प्रतीतिः । भ्रमस्थले अनिर्वचनीयख्यातिरभ्युपगम्यते पञ्चपादिकाकारैः प्रकाशात्मश्रीचरणैः। “मिथ्येति अनिर्वचनीयता उच्यते”[i]“ननु सर्वमेवेदमसदिति भवतो मतम् । क एवमाह ? अनिर्वचनीयानाद्यविद्यात्मकमित्युद्घोषितमस्माभिः”[ii] इति पञ्चपादिकायाम् । “भावाभावज्ञानयोः मिथ्यात्वप्रसिद्ध्यभावात् इदं ज्ञानसमवायि मिथ्यात्वं अनिर्वचनीयार्ततामेव गमयतीत्यर्थः”[iii] । तथान्यत्र एवं च सति नानुभवविरोधः इति पञ्चपादिकावाक्यविवरणकाले – “ज्ञानद्वयपक्षे अख्यातौ अपरोक्षावभासिनः स्मर्यमाणत्वे, सर्वत्र प्रतिपन्नोपाधौ विषयसत्त्वाभावे अन्यथाख्यातौ प्रतिपन्नस्य संसर्गस्य शून्यत्वे पुरोदेशप्रतिपन्नस्य रजतस्य देशान्तरसत्त्वे च, आत्मख्यातौ बहिरवभासस्यान्तरत्वे च, अनुभवविरोधः स्यात्; न तथा अस्मत्पक्षे”[iv] इति परपक्षदोषदर्शनपूर्वकं स्वमतप्रतिष्ठापनं कृतं दृश्यते विवरणकारैः ।

भाष्यमते अनिर्वचनीयख्यातिः –

व्यासोऽपि ‘मायामात्रं तु कार्त्स्न्येनान्भिव्यक्तस्वरूपत्वात्[v] इति सूत्रे मायामात्रमिति अनिर्वचनीयोत्पत्तिवादं निराकरोति । न च ‘न तत्र रथा न रथयोगा न पन्थानो भवन्ति अथ रथान् रथयोगान् पथस्सृजते’ इति स्वप्नविषयश्रुत्युक्तसृष्ट्यसङ्गतमिति वाच्यम् । रथाद्यभाववचनं श्रुत्या रथादिसृष्टिवचनं तु भक्त्या[vi] इति भाष्ये एव समाधत्तम् । तदर्थं गौणी सृष्टिः अङ्गीकरणीया एव न तु अनिर्वचनीयम् ।

परंतु “रजन्यां सुप्तो वासरं भारते वर्षे मन्यते ; तथा मुहूर्तमात्रवर्तिनि स्वप्ने कदाचित् बहून् वर्षपूगान् अतिवाहयति । निमित्तान्यपि च स्वप्ने न बुद्धये कर्मणे वा उचितानि विद्यन्ते ; करणोपसंहाराद्धि नास्य रथादिग्रहणाय चक्षुरादीनि सन्ति ; रथादिनिर्वर्तनेऽपि कुतोऽस्य निमेषमात्रेण सामर्थ्यं दारूणि वा । बाध्यन्ते चैते रथादयः स्वप्नदृष्टाः प्रबोधे ; स्वप्न एव च एते सुलभबाधा भवन्ति, आद्यन्तयोर्व्यभिचारदर्शनात् — रथोऽयमिति हि कदाचित्स्वप्ने निर्धारितः क्षणेन मनुष्यः सम्पद्यते, मनुष्योऽयमिति निर्धारितः क्षणेन वृक्षः । स्पष्टं चाभावं रथादीनां स्वप्ने श्रावयति शास्त्रम् — न तत्र रथा न रथयोगा न पन्थानो भवन्ति’ इत्यादि । तस्मान्मायामात्रं स्वप्नदर्शनम्” [vii] इति भाष्ये स्पष्टम् । अनेन सूत्रेण सामग्रीव्यतिरेकात् कालव्यतिरेकाच्च रथादीनाम् अनुत्पत्तिं च वदता शुक्तिरजतादिस्थलेऽपि अनुत्पत्तिः सूचिता ।

जागरिकप्रपञ्चोऽप्येवमेव । जाग्रद्प्रपञ्चस्यापि “तदनन्यत्वमारम्भणशब्दादिभ्यः”[viii] इति सूत्रेण मायामात्रत्वमुक्तम् । “न चास्माभिः स्वप्नेऽपि प्राज्ञव्यापारः प्रतिषिध्यते, तस्य सर्वेश्वरत्वात् सर्वास्वप्यवस्थास्वधिष्ठातृत्वोपपत्तेः ; पारमार्थिकस्तु नायं सन्ध्याश्रयः सर्गः वियदादिसर्गवत् — इत्येतावत्प्रतिपाद्यते ; न च वियदादिसर्गस्याप्यात्यन्तिकं सत्यत्वमस्ति ; प्रतिपादितं हि ‘तदनन्यत्वमारम्भणशब्दादिभ्यः’ इत्यत्र समस्तस्य प्रपञ्चस्य मायामात्रत्वम् । प्राक् तु ब्रह्मात्मत्वदर्शनात् वियदादिप्रपञ्चो व्यवस्थितरूपो भवति ; सन्ध्याश्रयस्तु प्रपञ्चः प्रतिदिनं बाध्यते — इत्यतो वैशेषिकमिदं सन्ध्यस्य मायामात्रत्वमुदितम्”[ix] इति भाष्ये स्पष्टतया जगतः माया उक्ता ।

तस्य प्रपञ्चस्य अन्यवस्तुत्वाभावः (अनन्यस्वभावः ) ‘वाचारम्भणं विकारो नामधेयं’ इति श्रुत्या अवगन्तुं शक्यते । वाचैव केवलमारभ्यते यतो नाममात्रं न तु वस्तुतः इति श्रुत्यर्थः । अत एव च ‘अनन्यत्वेऽपि कार्याकारणयोः कार्यस्य कारणत्वं, न तु कारणस्य कार्यात्मत्वमिति’[x] इति कारणस्य अनन्यत्वं सूचितं ‘न तु दृष्टान्ताभावात्’[xi] इति सूत्रभाष्ये  । कार्यस्य वस्तुत्वाभावः तेषामाशयः ।

मृदि घटादयः न उत्पद्यन्ते ; परंतु दृश्यन्ते तावदेव । अन्यथा कार्यस्यापि सत्यत्वमापतेत । अत एव कार्याधिकरणभाष्ये उत्पत्तिश्रुतीनां तथा एकत्वश्रुतीनां मध्ये विशेषं दर्शयित्वा भाष्यकारैः – “मृदादिदृष्टान्तैर्हि सतो ब्रह्मणः एकस्य सत्यत्वं विकारस्य च अनृतत्वं प्रतिपादयच्छास्त्रं नोत्पत्त्यादिपरं भवितुमर्हति”[xii] इत्युक्तम् । सत इत्यस्य आद्यन्तयोः सत्त्वेन मध्येपि असत्त्वानुमानेन कालत्रयाबाध्यत्वरूपमनृतमित्यर्थः । मध्ये कदाचित् सत्वेन प्रतीतिस्तु भ्रम एवेति तदाशयः । उत्पत्यादीनां भ्रमविषयाणामेव तत्रानुवाद इति विकारत्वादिप्रतीतिरपि भ्रम एवेति तात्पर्यम् ।

“यथा च तक्षोभयथा”[xiii] इति सूत्रस्य भाष्ये “कामादयश्च मनसो वृत्तयः इति श्रुतिः ; ताश्च स्वप्ने दृश्यन्ते ; तस्मात्समना एव स्वप्ने विहरति ; विहारोऽपि च तत्रत्यो वासनामय एव, न तु पारमार्थिकोऽस्ति ; तथा च श्रुतिः इवकारानुबद्धमेव स्वप्नव्यापारं वर्णयति”[xiv] इत्युक्तम् । यथा तन्त्रान्तरे घटादिप्रपञ्चस्य अपारमार्थिकत्वं तथा अत्रापि न स्वाप्नस्येत्यर्थः । अस्माकं तु व्यावहारिकोऽपि प्रपञ्चः दीर्घस्वप्न एवेति बोध्यम् । तदनन्यत्वाधिकरणस्य भाष्ये “यथा च मृगतृष्णिकोदकादीनाम् ऊषरादिभ्योऽनन्यत्वं दृष्टनष्टस्वरूपत्वात् स्वरूपेणानुपाख्यत्वात्, एवमेव भोग्यभोक्त्रादिप्रपञ्चजातस्य ब्रह्मव्यतिरेकेणाभावः” इति ‘सर्वव्यवहाराणामेव प्राग्ब्रह्मात्मता विज्ञानात् सत्यत्वोपपत्तेः स्वप्नव्यवहारस्येव प्राक् प्रबोधात्”[xv] इति च उक्तम् । “अविभागेऽपि परमात्मनि मिथ्याज्ञानप्रतिबद्धो विभागव्यवहारः स्वप्नवदव्याहतः”[xvi] इति नविलक्षणत्वाधिकरणभाष्ये उक्तम् ।

 अनिर्वचनीयस्य स्वरूपम् –

अत्रायं पूर्वपक्षः – यत्तु अनिर्वचनीयं सदसद्विलक्षणं जलादिमृगतृष्णादौ उत्पद्यते , एवं ब्रह्मणि प्रपञ्चः मृदादौ घटादिः स्वाप्नश्चेति, चेन्न । तादृशानिर्वचनीयख्यातिः अप्रसिद्धा; तत्र सदादिभेदस्य वक्तुमशक्यत्वात् । किं च तस्य सद्भिन्नत्वादसत्वम् असद्भिन्नत्वात् सत्वमापततीति उभयरूपत्वमेवायाति, तत्र सत्वमापतितमिति भेदाभेदयोरिव तयोर्न विरोधः । तदुक्तं साङ्ख्यसूत्रेषु  ‘नासतः ख्यातिर्नृशृङ्गवत्[xvii] सतोः बाधदर्शनात्[xviii]नानिर्वचनीयस्य तदभावात्[xix] नान्यथाख्यातिः स्ववचनविरोधात्[xx] इति । किञ्च अनिर्वचनीयोत्पत्तौ घटादिना मृदादेरिव ब्रह्मणोऽपि विकारित्वापत्तिः । भ्रमविषयेण तु न विकारित्वं, कामुककृतैः कान्ताविषयैः ‘सुप्ता किं नु मृता नु किं मनसि मे लीना विलीना नु किं ?’ इति विकल्पैः कान्ताया विकारित्वाभावात् । वस्तुतः मृदि घटादिविकारो भ्रम एव । न तु कोऽपि पदार्थः इति तदनन्यत्वाधिकरणस्याशयः ।

सिद्धान्तः – किं च प्रसिद्धसामग्रीव्यतिरेकेऽपि यया सामग्र्या शुक्त्यादौ रजताद्युत्पत्तिः तया सामग्र्या विषयासत्वेऽपि तदसन्निकर्षेऽपि ज्ञानाङ्गीकारेऽपि न बाधकम् । किं च अनिर्वचनीयोत्पत्तौ तस्य तादृशरजतत्वाद्याश्रयत्वेन तज्ज्ञानस्य भ्रमत्वेन आपत्तिः । तस्य तदवृत्तिधर्मप्रकारकत्वाभावात् । न च रजतत्वमेव अनिर्वचनीयं आश्रयस्तु शुक्तिरेवेति चेत् न दोषः । तदुक्तं योगसूत्रे ‘विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठितम्’ इति । ‘विपर्यय इति लक्ष्यम्; मिथ्याज्ञानमिति लक्षणम् । तद्विवरणमतद्रूपेति । तद्रूपप्रतिष्ठितत्वाभाववत् । यत् ज्ञानप्रतिभासिरूपं रजतत्वादि तदाश्रयत्वाभाववत् विशेष्यकमित्यर्थः’[xxi] इति वाचस्पतिमिश्राः । व्यासस्यापि इदमेव च मिथ्याज्ञानमित्यभिप्रेतम् । साङ्ख्यदूषितानिर्वचनीयख्यातेरपि तत्सूत्रत्वानुरूढत्वाच्च । तेन ‘सदसद्ख्यातिर्बाधाबाधाभ्याम्’[xxii] इति साङ्ख्यसूत्रोक्तसदसद्ख्यातेरेव तदभिमतं लक्ष्यते । यावद्विशेषदर्शनमबाधः तदुत्तरं बाधः इति सूत्रार्थः ।

किं च शुक्तिरजतस्थले अधिष्ठाननाशेन तन्नाशो वाच्यः । न च तस्य वस्तुनाशकता दृष्टा । अत एव गौतमादिभिः उत्पत्तिः तत्र नोक्ता । अन्यथा घटादिवत् तत्रापि उत्पत्तिमेव वदेयुः । शुक्त्यादि समवायिकारणं चाकचक्यादि असमवायिकारणं दोषो निमित्तकारणमिति वक्तुं शक्यत्वात्  अन्यथाख्यातिरेव उक्तं तदीयैः । भागवते उक्तम् –

ऋतेऽर्थं यत् प्रतीयेत प्रतीयेत चात्मनि

तद्विद्यादात्मनो मायां यथाऽभासो यथा तमः [xxiii] इति ।

यत् विनाप्यर्थं आत्माधिष्ठाने प्रतीयेत, यच्च आत्मरूपे न प्रतीयेत, तत् प्रत्ययाप्रत्यरूपमात्मनो मायां विद्यात् ; यथा द्विचन्द्रादिः आभासः यथा च तमः राहुः ग्रहमण्डले सन्नपि न प्रतीयते । असदर्थप्रकाशनस्यैव मायात्वात् । ते सर्वे व्यवहारकाले सत्वेन प्रतीत्यर्हत्वात् न केवलमतद्रूपा । प्रतिक्षणं परिणामितया प्रतीतेः बाधदर्शनात् विशेषदर्शनबाध्यत्वाच्च न केवलं वास्तवसद्रूपा । अत एव वास्तवोभरूपापि न । अत एव अनिर्वाच्या । सत्येव वा असत्येव वा इति निर्धार्य वक्तुमशक्यत्वात् । तर्हि किं उभयलक्षणा ? न । मिथ्याभूतत्वात् प्रतिभासमात्रविषयत्वात् । तदुक्तम्- “यत्तत् कारणमव्यक्तं नित्यं सदसदात्मकम्”[xxiv] इति । ‘ईश्वरस्यात्मभूते इव अविद्याकल्पिते नामरूपे तत्त्वान्यत्वाभ्यामनिर्वचनीये’[xxv] इति भाष्यस्याप्ययमेवार्थः । अविद्या अत्र वासनारूपा । ईश्वरस्यात्मभूते इव इत्यनेन आरोपितसत्ता उक्ता । अविद्याकल्पिते इत्यनेन असत्त्वमुक्तम् । एवमेव “अविद्याकल्पितेन च नामरूपलक्षणेन रूपभेदेन व्याकृताव्याकृतेन तत्त्वान्यत्वाभ्यामनिर्वचनीयेन ब्रह्मपरिणामादि सर्वव्यवहारास्पदत्वं प्रतिपाद्यते । पारमार्थिकत्वेन च रूपेण सर्वव्यवहारातीतमपरिणतमवतिष्ठते’[xxvi] इति कृत्स्नप्रसक्त्यधिकरणे  श्रुतेस्तु शब्दमूलत्वात् इति सूत्रार्थसन्दर्भे उक्तम् ।

तत्र अविद्या पूर्वतनसंस्काररूपा । व्याकृतं स्थूलम् । अव्याकृतं तज्जन्यसंस्कारः अस्थूलम् । ‘नेह नानास्ति किञ्चन’ इत्याद्या श्रुतिरपि बहिः सर्वप्रकारसत्तारोपणं निषेधति ।

वाचस्पतिमिश्राः अपि अध्यासभाष्ये आहुः – ‘मृगतृष्णजलादि न सत्  नासत् , नापि सदसत्, परस्परविरोधात् इति अनिर्वाच्यमेवारोपणीयं मरीचिषु तोयमास्थेयम् । तदनेन क्रमेण अध्यस्तं तोयं परमार्थतोयमिव अत एव पूर्वदृष्टमिव । तत्त्वतस्तु न तोयं न च पूर्वदृष्टम् । किं तु अनृतमनिर्वाच्यम्, एवं च देहेन्द्रियादिप्रपञ्चोऽपि अनिर्वाच्यः । अपूर्वोऽपि पूर्वमिथ्याप्रत्ययोपदर्शित इव परत्र चिदात्मन्यध्यस्यते । चिदात्मा तु श्रुत्यादिगोचरः सत्त्वेनैव निर्वाच्यः”[xxvii] इति ।

अस्यार्थः – न सत् ; बाधयोगात्; नासत् – असतश्चक्षुषाद्यनुभवविषयत्वाभावात् । नापि सदसत् – अनारोपितोभयात्मकम्, अनारोपितोभयरूपत्वस्य विरुद्धत्वात् । अनिर्वाच्यमेव- आरोपितसदसत्वादिधर्मेण निर्धार्य वक्तुमशक्यम् । यत् अध्यस्यते तत् अनृतमनिर्वाच्यमित्यर्थः । अपूर्वः – ज्ञानात् पूर्वमविद्यमानः । तदाह- मिथ्याप्रत्ययोपदर्शित इवेति । मिथ्याप्रत्ययशब्देन तज्जन्यसंस्कारः । अत एव अध्यस्यत इत्येवोक्तम् न तु उत्पद्यत इति ।

एवमध्यासोऽपि अनिर्वाच्य एव । तदुक्तं तैरेव ‘ तं केचित् अन्यत्र अन्यधर्माध्यस इति वदन्ति इत्यत्र – “स च अध्यासः अनिर्वचनीयः सर्वेषां सम्मतः”[xxviii] इति । एतेन असतो बाधे बौद्धमतप्रवेश इत्यपास्तम् । तेन तत्रारोपितसत्वस्यापि अनङ्गीकारात् ।

जगतः उत्पत्तिविनाशावपि ब्रह्मणि सत्यत्वेनारोपितम्? इति प्रश्ने, तत्तसामग्रीभ्रमः तत्तद्विषयभ्रमे कारणमिति कार्यकारणभावमाश्रित्य तद्विषये अनादिवासनावशात् आरोपितावेव उत्पत्तिविनाशौ न तु सत्यम् इत्येव सिद्ध्यति ।

‘न तु दृष्टान्ताभावात्’ इति सूत्रभाष्ये आचार्यैरुक्तम् – “यथा स्वयं प्रसारितमायया मायावी कदापि न संस्पृशते अवस्तुत्वात्, एवं परमात्मापि संसारमायया न संस्पृश्यते । मायामात्रं ह्येतत्, यत् परमात्मनोऽवस्थात्रयात्मना अवभासनं रज्ज्वा इव सर्पादिभावेन इति । अवस्थात्रय इति उपलक्षणम् । अनेन सर्वजन्यवस्तुनि अवभासमात्रमित्युक्तं न किंचिदपि पारमार्थिकमिति । अनादिवासनावशात् ‘यतो वा इमानि’ इत्यादयो श्रुतयः भ्रमविषयम् अनुवदन्तीति अलं विस्तरेण “[xxix]

 

 

 

[i] पं.पा.प्र.व

[ii] तत्रैव

[iii] पं.पा.वि.प्र.व

[iv] पं.पा.वि.प्र.व

[v] ब्र.सू.३.२.३

[vi] ब्र.सू.शा.भा ३.२.१

[vii] ब्र.सू.शा.भा ३.२.३

[viii] ब्र.सू २.१.१४

[ix] ब्र.सू.शा.भा ३.२.४

[x] ब्र.सू.शा.भा २.१.९

[xi] ब्र.सू. २.१.९

[xii] ब्र.सू.शा.भा ४.३.१४

[xiii] ब्र.सू. २.३.४०

[xiv] ब्र.सू.शा.भा २.३.४०

[xv] ब्र.सू २.१.१४

[xvi] ब्र.सू २.१.४

[xvii] सा.सू

[xviii] सा.सू

[xix] सा.सू

[xx] सा.सू

[xxi] सा.त.कौ

[xxii] सा.सू

[xxiii] भा.म.पु —२

[xxiv] प.पा.वि.प्र.व

[xxv] तत्रैव

[xxvi] ब्र.सू.शा.भा.२.१.२७

[xxvii] भामती अ.भा

[xxviii] तत्रैव

[xxix] ब्र.सू.शा.भा २.१.—-