निपातननिर्वचनम्

डॉ.प्रियव्रतमिश्रः

सारांशः –

महर्षिपाणिनिना प्रकल्पितेषूपायेषु “निपातनम्” इति विशिष्टस्थानमधिरोहति शास्त्रेऽस्मिन् ।  यतोहि प्रकृतिप्रत्ययकल्पनात्मके शास्त्रे निपातनमित्यतिरिक्तः कश्चन विषयविशेषः । ते ते शब्दाः तथैव साधवो भवन्ति यथा आचार्यैरुपदिष्टाः प्रकृतिप्रत्ययप्रक्रियासंरचनं विनापि । तत्र निपातनस्य किं स्वरूपम्? षड्विधेषु सूत्रेषु निपातनं कुत्रान्तर्भवति? निपातनस्य किं कार्यम्? प्रयोजनञ्च किम्? विधिनिपातनयोर्भेदः कः? भाष्यकैयटयोः किम्मतमत्रेत्येते विषयाः यथाशास्त्रं शोधपत्रेऽस्मिन् विविच्यन्ते ।

कुञ्जिशब्दाः –

                        निपातनम्, बाधकम्, विकल्पार्थः,देश्याः, अधिकार्थविवक्षा

वाङ्मुखम् –

सुरगिरा निर्दुष्टवाग्व्यापारविधानाय काव्यरसपानाय सदसद्विचार-प्रवर्त्तकशास्त्रा-वबोधायास्ति पाणिनीयव्याकरणस्य महत्त्वं सर्वसम्मतं मतम् । तदिदं पाणिनीयव्याकरणं काले काले चमत्करोति चित्तं स्वप्रणयनशैल्या । उपचतुस्सहस्रं सूत्रैः कृत्स्नं शब्दसंसारं निर्दुष्टं प्रस्तावयत्यस्माकं पुरस्तादित्यहो! बुद्धिवैशाल्यमाचार्यस्य । अत एव काशिकाकारोऽप्याह –“ *१महती सूक्ष्मेक्षिका वर्त्तते आचार्यस्य” इति । तथाविधा व्यवस्थाः पाणिनिना शास्त्रेऽस्मिन् प्रकल्पिताः येनाञ्जसा शास्त्रमिदं सकलं शब्दजालं प्रकटयति । तत्र निपातनानां महत्त्वं शास्त्रेऽस्मिन् भृशं समचर्चि । निपातनं नाम यत्र सूत्रैः प्रकृतिप्रत्ययविभागपुरस्सरं शब्दाः न निष्पद्यन्ते प्रत्युत वाङ्मये तत्तादृशाः शब्दाः प्रयुक्ताः तान् शब्दान् निपातनेन साधयति पाणिनिः ।

निपातनविधेः स्वरूपम् –

पाणिनेः षड्विधेषु सूत्रेषु विधिसूत्रं प्राधान्यमावहति । विधिसूत्रञ्च त्रिविधम्- उत्सर्गविधिः, अपवादविधिः, निपातनविधिश्चेति । तत्र सामान्येन यो विधिः स उत्सर्गविधिरित्युच्यते । विशेषेण यो विधिः स च अपवाद इत्युच्यते । निपातनम् तु रूढ्यर्थे भवति । आचार्याणां विशिष्टशब्दप्रयोगो निपातनपदवाच्यो भवति । सूत्रेणानुपपन्नोऽप्याचार्येण सूत्रादिषु व्यवह्रियमाणशब्दो निपातनात् सिद्ध्यति । तदुक्तं काशिकायाम् –*२“ यदिह लक्षणेनानुपपन्नं तत्सर्वं निपातनात् सिद्धम् । तथाहि –

*३छन्दसि निष्टर्क्य-देवहूय-प्रणीयो-न्नीयोच्छिष्य-मर्यस्तर्याध्वर्य-खन्य-खान्य-देवयज्या-पृच्छ्यप्रतिषीव्य-ब्रह्मवाद्यभाव्य-स्ताव्योपचाय्य-पृडानि” इति सूत्रेण वेदे एते शब्दाः निपात्यन्ते । निष्टर्क्यादयः शब्दाश्छन्दसि विषये निपात्यन्ते इति तद्वृत्तिः । तत्र चोक्तम्- “यदिह लक्षणेन अनुपपन्नं तत्सर्वं निपातनात्सिद्धम् । यथा- “निष्टर्क्य” इति प्रयोगः – “कृती छेदने” इत्यस्मान्निस्पूर्वात् क्यपि प्राप्ते ण्यत्, आद्यन्तविपर्ययः,निसश्च षत्वं निपात्यते । “ निष्टर्क्यं चिन्वीत पशुकामः” । एवञ्च उपरोक्तशब्दाः तथैव बोध्याः । अनेनत्वैतत्सिद्धं  सूत्रेण यन्न सिद्ध्यति तन्निपातनेन सिद्ध्यति । अत एव अन्यथा प्राप्तस्यान्यथोच्चारणं निपातनमित्यपि प्रवादः । निपातनानि च बाधकान्यपि भवन्ति । तद्यथा *४“ सर्वादीनि सर्वनामानि” इति सूत्रे भाष्ये “ सर्वनामानि” इत्यत्र “न”कारस्य णत्वं प्राप्तं *५“ पूर्वपदात्संज्ञायामगः” इति सूत्रेण अतः तस्य प्रतिषेधो वक्तव्य इति शङ्का प्रकटिता । तत्र समाधानवार्त्तिकेन “ सर्वनामसंज्ञायां निपातनाण्णत्वाभावः” इत्युक्तम् । ननु किन्नाम निपातनमिति जिज्ञासायां यथा प्रतिषेधः तथा निपातनमिति । कस्तर्हि प्रतिषेधः ?इति चेत् अविशेषेण किञ्चिदुक्त्वा विशेषेण “न” इत्युच्यते तत्र व्यक्तमाचार्यस्याभिप्रायो गम्यते “इदं न भवतीति समाहितम् । तदा समाधानभाष्येणापि इत्थमेवोक्तं निपातनमप्येवंजातीयकमेव । अविशेषेण णत्वमुक्त्वा विशेषेण निपातनं क्रियते तत्र व्यक्तमाचार्यस्याभिप्रायो गम्यते “इदं न भवतीति” । एवञ्च सिद्धान्तितसमाधानभाष्ये इत्थमेवोक्तं “ बाधकान्येव हि निपतनानि भवन्ति” ।निपातनञ्च रूढ्यर्थमपि भवतीति *६“ राजसूय…………”इत्यादिसूत्रे तत्त्वबोधिन्यां प्रतिपादितम् ।

निपातनविधेः कार्याणि –

                        निपातनात् त्रिविधं कार्यं सम्पद्यते । अप्राप्तेः प्रापणम्, प्राप्तेर्वारणम्, अधिकार्थविवक्षा च । अत एवोक्तं पाणिनीयव्याकरणस्यानुशीलनमिति ग्रन्थस्य कर्त्रा –

*७अप्राप्तेः प्रापणं चापि प्राप्तेर्वारणमेव वा ।

अधिकार्थविवक्षा च त्रयमेतन्निपातनम् ॥

क्रमेणोदाहरणान्यत्र प्रस्तूयन्ते –

पाणिनेरनुसारेण अतिपूर्वकात् शीङ्धातोर्ल्युटि “अतिशयनम्” इति रूपेण भाव्यं परञ्च *८“अतिशायने तमविष्ठनौ” इति सूत्रे तेन स्वयमेव “अतिशयनम्” इति स्थाने “अतिशायनम्” इति शब्दः प्रयुक्तः । अत एवात्र “ अतिशायनम्” इति शब्दो निपातनात् दीर्घत्वेन साध्यते । अत्र प्रमाणं भाष्याकाराणामिदं वचनमेव – *९“देश्याः सूत्रनिबन्धाः क्रियन्ते अतिशयनमतिशायनं प्रकर्षः निपातनात् दीर्घः । अत्र केनापि सूत्रेणाप्राप्ते दीर्घो निपातनत् विधीयते । तत्र “ अतिशायने तमविष्ठनौ” इति सूत्रे भाष्ये अतिशायन इत्युच्यते –किमिदमतिशायन इति ? तत्र प्रदीपे प्रश्नस्याशयं स्पष्टयति- किमयं ण्यन्तस्य निर्देश आहोस्विदण्यन्तस्य, कश्चेह शेत्यर्थ इति सन्दिहानः पृच्छति। तदा देश्याः सूत्रनिबन्धाः…..इत्युच्यते तस्या चाशय इत्थम्-

*१०देश्याः=साधुत्वेन प्रतिपाद्याः एते सूत्रे निबधन्ते प्रसङ्गेन साधुत्वप्रतिपादनार्थं, ततो निपातनाद् दीर्घत्वमित्युक्तं भवति । अनेन भाष्यकैयटेन एतत्तु स्पष्टं यत् इतरसूत्रेणाप्राप्तो दीर्घो निपातनात् विधीयते इति । इत्थञ्च निपातनस्य प्रथमं प्रयोजनम्- अप्राप्तेः प्रापणम् ।

प्राप्तेर्वारणं तावत् द्वैतीयीकं कार्यं निपातनस्य । तद्यथा – “अवद्यम्” इति पदम् *११“अवद्यपण्यवर्यागर्ह्यपणितव्याविरोधेषु” इति सूत्रेण निपात्यते । अत्र “वदः सुपि क्यप् च” इति सूत्रेण यत्क्यपोः उभयोरेव प्राप्तयोर्निपातनात् यदेव भवति सोऽपि गर्हायामेव । तदुक्तं दीक्षितेन “वदेर्नञुपपदे वदः सुपीति यत्क्यपोः प्राप्तयोर्यदेव सोऽपि गर्हायामेवेत्युभयार्थं निपातनम्” इति । एवञ्च प्राप्तस्यात्र निपातनेन वारणमिति द्वितीयं प्रयोजनम्।

तार्त्तीयीकं प्रयोजनं तावत् अधिकार्थविवक्षा । तद्यथा यत्र प्रत्ययानुसारेण निपातितशब्दार्थो न घटते तत्र निपातनत्वेन तदर्थाभ्युपगमोऽपि भवति । यथा – अध्यारूढशब्दात् *१२“अधिकम्” इति सूत्रेण निपातत्वात् कन्प्रत्यये उत्तरपदलोपे च “अधिकम्” इति शब्दो निष्पद्यते । अध्यारूढशब्दः कर्त्तुः कर्मणो वा वाचकः । अतस्तत्स्थाने निपातितोऽधिकशब्दोऽपि तदर्थक एव । स चार्थः “अधिको द्रोणः खार्याम् अधिका खारी द्रोणेव  इत्यादिषु प्रयोगेषु परिलक्ष्यते । अयमर्थावगमोऽपि विषयभेदे भवति न तु समानार्थे । यदि पुनरधिशब्दात् समाधानक्रियावचनात् कन् निपात्यते तदा कर्त्तृकर्मणोरन्यतरस्यैवाभिधानं प्राप्नोति । अध्यारूढशब्दस्तु उभयार्थ इति तस्यैवेदमङ्गीकृतसाधनभेदें निपातनमुचितम् । तदुक्तं कैयटेन *१३–लौकिकप्रयोगे अधिकशब्देन विषयभेदेन कर्त्तृकर्मणोरभिधानदर्शनादङ्गीकृतसाधनभेदेमध्यारूढस्येदं निपातनं स चोभयार्थ इति न कश्चित् दोषावसरः” । तदेवमत्र निपातनबलेनार्थद्वयस्यावगमो भवति – कर्त्तुः कर्मणश्च । एवं क्रमेणाधिकार्थविवक्षा निपातनेन साध्यते ।

कदाचिच्च विकल्पार्थोऽपि निपातनं भवति । अत एवोक्तं काशिकायाम्- विकल्पार्थं निपातनम्” इति । तदित्थम्- *१४“वा दान्तशान्तपूर्णदस्तास्पष्टच्छन्नज्ञप्ताः” इति सूत्रे दम्,शम्,पुरी,दस्, स्पश्,छद्, ज्ञप् इत्येतेषां ण्यन्तानां धातूनां वा अनिट्त्वं निपात्यते । दान्तः, दमितः  इत्यादीन्युदाहरणानि । अत्र इट्प्रतिषेधो णिलुक्च निपात्यते । ज्ञपेस्तु भरज्ञपिसनामिति विकल्पविधानात् यस्य विभाषेति नित्ये प्रतिषेधे प्राप्ते विकल्पार्थं निपातनमिति

निपातनविधेः प्रयोजनम् –

                        निपातनाद् विभिन्नविधीनां सम्पादनं भवति । तदुक्तं प्रदीपे- अनेकप्रयोजनसम्पत्तिर्निपातनाद्भवतीति । तत्र *१५“तत्पुरुषे तुल्यार्थतृतीया-सप्तम्युपमाना-व्ययद्वितीयाकृत्याः” इति सूत्रे सिद्धान्तवार्त्तिकं “निपातनात्सिद्धम्” इत्यवतीर्णम् ।तत्र किं नाम निपातनमिति जिज्ञासायाम् “अनेकप्रयोजनसम्पत्तिर्निपातनाद्भवतीति कैयटेन प्रावादि । निपातनात् शब्दनिष्पत्तौ सूत्रीयशब्देषु च लाघवं जायते । समाने अहनि इत्यर्थे *१६“ सद्यः परुत्परार्यैषमःपरेद्यव्यद्यपूर्वैद्युरन्येद्युरन्यतरेद्युरितरेद्युपरेद्युरधरेद्युरुभयेद्युरुत्तरेद्युः” इति सूत्रेण निपातनाद् समानस्य सभावो द्यश्च प्रत्ययो भवति । निपातनाभावे तु समानस्य सभावो द्यश्चाहनि इति सूत्रनिर्देश आवश्यकः । निपातनादल्पप्रयत्नेनाप्यधिकार्थलाभो भवतीति “अधिकम्” इति शब्दनिपातने दर्शितमेव ।

विधिनिपातनयोर्भेदः –

                विधिसूत्रेषु प्रकृतिप्रत्ययादीनां निर्देशो भवति,निपातनसूत्रेषु सिद्धशब्दानाम् । तदुक्तं प्रदीपे – *१७विधिनिपातनयोश्चायं भेदो यत्रावयवा निर्दोश्यन्ते समुदायोऽनुमीयते स विधिः, यत्र तु समुदायःश्रूयतेऽवयवाश्चनुमीयन्ते तन्निपातनम्” । तद्यथा – *१८पङ्क्तिविंशति………..इति सूत्रेण विंशत्यादयः शब्दाः निपात्यन्ते ।भाष्ये चेत्थमुक्तम्- इमे विंशत्यादयः सप्रकृतिकाः सप्रत्ययकाश्च निपात्यन्ते । तत्र न ज्ञायते का प्रकृतिः ? कश्च प्रत्ययः ?इति । कैयटेन च अथ प्रकृतित्वमेषां कस्मान्न विज्ञायते ? पञ्चम्याः प्रत्ययस्य चानुपादानात्, अनिष्पन्नस्य च प्रकृतित्वाभावात् । प्रत्ययत्वं तर्हि कस्मादेषां न भवति ? लोके केवलानां प्रयोगादर्शनात् । *१९“शताच्च ठन्यतावशते” “विंशत्यादिभ्यः” इति शास्त्रे च केवलानामुच्चारणात् । विधिनिपातनयोश्चायं भेदो यत्रावयवा निर्दिश्यन्ते समुदायोऽनुमीयते स विधिः, यत्र तु समुदायः श्रूयते अवयवाश्चानुमीयन्ते तन्निपातनमिति ।

एवञ्च निपातनविषये इह मनाक् विहङ्गवीक्षणं व्यधायि यथाशास्त्रमित्यलं पल्लवितेन ।

 

सन्दर्भाः-

१.काशिका-४-२-७४                    ११. वै.सि.कौ. २८४९

२. का.-३-१-२३                          १२. अ. ५-२-७३

३.तत्रैव                                      १३. म.भा.प्र.५-२-७३

४. म.भा.-१-१-२७                      १४. का. ७-२-२७

५. अ. ८-४-३                             १५. म.भा. ६-२-२

६. वै.सि.कौ.२८६५                     १६. वै.सि.कौ. २६७३

७. पा.व्या.अ. पृ १०३                  १७. म.भा.प्र ५-१-५९

८. म.भा. ५-३-५५                      १८. तत्रैव

९. तत्रैव                                     १९. वै.सि.कौ. १६८६

१०. म.भा.प्र.५-३-५५

 

 

 

 

विमृष्टग्रन्थाः –

१.व्याकरणमहाभाष्यम्–पतञ्जलिः – सं.गिरिधरशर्माचतुर्वेदी- चौखम्बा सुरभारती प्रकाशन,वाराणसी- २००५

२. वै.सिद्धान्तकौमुदी-भट्टोजिदीक्षितः-सं.श्रीगोपालदत्तपाण्डेयः-चौखम्बासुरभारतीप्रकाशन,वाराणसी-२०११

३.काशिकावृत्तिः -वामनजयादित्यौ सं-    प.ईश्वरचन्द्रः – सुधी प्रकाशन, वाराणसी-२००६

४. अष्टाध्यायी- पाणिनिः- सं- श्री चन्द्रवसुः- चौखम्बा संस्कृत संस्थान, वाराणसी- २००३

 

                                                — सहायकाचार्यो व्याकरणविभागे

                                श्रीरामसुन्दरसंस्कृतविश्वविद्याप्रतिष्ठानम्, रमौली

                                                    (आदर्शसंस्कृतमहाविद्यालयः)

                                                  दरभङ्गा-८४७२०१ (बिहारम्)

                       M-9939622062 Email – shabda.priyavrat@gmail.com