द्वैतसिद्धान्ते विशिष्टोपादानविचारः

(टीकाकृदभिमतः पक्षः)

लेखकः-भीमसेनाचार्यः अतनूर् 

पूर्वपक्षः

विशेषणविशेष्यतत्संबन्धातिरिक्तं न विशिष्टं नाम पदार्थान्तरमभ्युपगच्छामः । तथा हि- विशिष्टं नित्यं अनित्यं वा ? यदि नित्यं स्यात् तदा आकाशादिवत् सर्वदा उपलब्धिः स्यात् । ननु अभिव्यञ्जकसद्भावे  वर्णादिवत् उपलब्धिरस्त्येव । विशिष्टाभिव्यञ्जकश्च विशेषणविशेष्ययोः संबन्धः । अतः सर्वदा नोपलब्धिरिति चेत् । अत्रापि विकल्पयामः, सः विशेषणविशेष्यसंबन्धः अभिव्यनक्ति किं सत्तया अभिव्यनक्ति ? किं वा ज्ञाततया ? नाद्यः । विशेषणविशेष्यतत्संबन्धज्ञानाभावेऽपि विशिष्टोपलब्धिः स्यात् । नैवं लोके दृष्टः । विशेषणविशेष्यतत्सम्बन्धज्ञानसत्वे एव “दण्डी देवदत्तः’ इति विशिष्टज्ञानोदयात् । न द्वितीयः । विशेषण-विशेष्य-तत्सम्बन्धज्ञानादेव विशिष्टव्यवहारोपपत्तौ तदभिव्यङ्ग्य विशिष्टविषयकज्ञानात् तद्य्ववहारकल्पने गौरवमेवात् ।

समवायिकारणाभावेन विशिष्टनिरासः

नाप्यनित्यमिति द्वितीयः कल्पः । कार्यमात्रस्य समवायिकारणजन्यत्वनियमात् । अत्र च समवायिकारणमेव नास्ति । तथा हि- न तावत् विशेषणविशेष्याभ्यां अन्यत् समवायिकारणं संभाव्यते । अन्यस्यानुपलंभात् । विशेषणविशेष्ययोरपि प्रत्येकं उपादानत्वं नाभ्युपगन्तुं शक्यम् । एकस्य उपादानत्वायोगात् । मिलितपरमाणुद्वयेनैव हि द्य्वणुकं जायते । यदि च मिलितयोः उपादानत्वं तदा “रूपी घटः’ इत्यत्र रूपी नाम विशिष्टपदार्थः रूपारब्धः घटारब्धश्च इत्यङ्गीकार्यम् । तन्न संभवति । गुणस्य क्वापि समवायिकारणत्वाभावात् ।

किञ्च यदि विशिष्टं विशेषणविशेष्याभ्यां जन्यं स्यात् तदा द्रव्यगुणारब्धस्य तदुभयात्मकत्वापत्या द्रव्यत्वगुणत्वयोः साङ्कर्यप्रसङ्गः ।

अपि च यावन्ति विशेषणानि तावन्ति विशिष्टानि अङ्गीकरणीयानि । तानि च एकस्मिन्नेव विशेष्ये वर्तन्ते चेत् अनुपपत्तिरेव । मूर्तानां सामानाधिकरण्यभावात् । विशेषणभेदेन विशिष्टभेदात् अनेकविशेषणस्थले मूर्तानां विशिष्टनां सामानाधिकरण्यानुपपत्तिः । रूपविशिष्टः क्रियाविशिष्ठः जातिविशिष्टश्च इत्येतत्त्रयं एकस्मिन् विशेष्ये घटे वर्तते इत्यङ्गीकार्यं । एकस्मिन् घटे मूर्ते अन्यन्मूर्तत्रयाधिकरण्यं असम्भावितमेव । अतः कथं विशिष्टोत्पत्तिः इति ॥

सिद्धान्तः

विशेष्यस्य उपादानत्वसमर्थनम्

अत्र ब्रूमः । विशेषणविशेष्यतत्संबन्धातिरिक्तं विशिष्टं अस्त्येव । यदत्र उक्तं उपादानं नास्त्येवेति तदयुक्तम् । विशेष्यस्यैव उपादानत्वोपपत्तेः । उक्तं हि सुधायां–  वैशेषिकाधिकरणे “अस्मत्पक्षे विशेषस्य सर्वत्राङ्गीकृतत्वतः । नास्ति दोषः क्वचित्’ इत्यनुव्याख्यानव्याख्यावसरे- “विशिष्टाकारो न विशेषणं नापि संबन्धः । किन्नाम विशेष्यम् । न च तन्मात्रम् । द्विविधो हि विशिष्टाकारः । यावद्विशेष्यभावि अयावद्विशेष्यभावी च ।

तत्र आद्यः विशेष्येणात्यन्ताभिन्नः । यथा ईश्र्वरः स्वरूपेण सर्वज्ञः । एवं यत्र यत्र विशेषणसम्बन्धः यावद्विशेष्यभावी तत्र तत्र विशिष्टाकारोऽपि तथाभूतः विशेष्येणात्यन्ताभिन्नः द्रष्टव्यः ।

द्वितीयस्तु विशेष्येण भिन्नाभिन्नः । यथा पर्वतोऽग्निमान् । यथा हि संयोगविशेषसचिवास्तन्तवः पटाकारेण परिणमन्ते तथा आगन्तुकविशेषणसंबन्धात् विशेष्यस्वरूपं विशिष्टाकारेण परिणते’ । इति ।

तथा च विष्णुतत्वनिर्णयटीकायामपि  उपाधेः भेदकारित्वनिरासप्रसङ्गे उक्तं टीकाकृद्भिः- “न दण्डादिना देवदत्तस्य भेदः क्रियते । किन्तु दण्डादिविशेषणसंबन्धेन देवदत्तः विशिष्टरूपं द्रव्यान्तरं उत्पादयति’ इति । तथा उपाधिखण्डनटीकायामपि उपाधेः अवयविभेदकत्वाभावनिरूपणप्रसङ्गे “दण्डकुण्डलसंबन्धात् विशिष्टद्वयस्यैवोत्पत्तेः’ इत्युक्तम् । एवं जिज्ञासाधिकरणान्यथाख्यातीयपङ्क्तिरपि– “विशेष्याश्रितं वस्त्वन्तरं (द्रव्यान्तरं) तत्’ ।) इति ।

एतादृशसुस्पष्टपङ्क्तिपर्यालोचनया विशेष्यमेव विशिष्टस्योपादानं भवति इति गम्यते । एष एव पक्षः टीकाकृदभिमतश्च इति ज्ञायते । सुधापङ्क्त्यनुसारेण व्यासतीर्थविजयीन्द्रतीर्थप्रभृतिभिः विशिष्टं द्विविधं नित्यं अनित्यं च इत्युपपादितम् ।

इदमुक्तं भवति । विशिष्टं द्विविधम् । नित्यं अनित्यं च इति । यत्र विशेषणविशेष्यौ नित्यौ( विशेषणसंबन्धः यावद्विशेष्यभावी) तत्र विशिष्टोऽपि नित्यः । स एव च यावद्विशेष्यभावीति व्यवह्रीयते । यथा ईश्र्वरः सर्वज्ञः इत्युक्तौ सर्वज्ञत्वस्य अनागन्तुकत्वात् विशिष्टोऽपि (सर्वज्ञत्वविशिष्टोऽपि) नित्य एव । सर्वज्ञत्वस्य नित्यत्वादीश्र्वरस्यापि नित्यत्वात् अतिरिक्तं विशेषणमेव नास्ति, सर्वज्ञत्वस्यानागन्तुकत्वात् । तथा च कस्तत्र विशिष्टप्रसङ्गः ? तस्मादनित्यस्थले एवातिरिक्तं विशिष्टम् ।एतादृशनित्यभूतविशिष्टस्य सर्वदा उपलब्धिरिष्टैव । तस्य श्रुत्यादिभिः सर्वदा उपलभ्यमानत्वात् ।

द्वितीयं अनित्यं विशिष्टम् । यत्र विशेषणसंबन्धः आगन्तुकः (अयावद्विशेष्यभावी) सः विशिष्टः अनित्यः । स एव च अयावद्विशेष्यभावीत्युच्यते । एतादृशविशिष्टं प्रति विशेष्यमेव उपादानम् (पूर्वोदाहृतपङ्क्यनुसारेण) ।

द्वैतद्युमणिकर्तृभिः विशेष्यमेव उपादनमिति पक्षः स्वीकृतः । “ननु सिद्धान्ते अनित्यविशेषणस्थले विशेषणसम्बन्धेन विशेष्यस्यैव विशिष्टशब्दवाच्य परिणामविशेषः जायते’ इति ।

सत्तत्वरत्नमालायामपि  “तर्हि किमुपादानमिति चेत् चूतफलादिश्यामतापगमेन रक्ततोपपत्तौ किमुपादानमिति पृच्छामः । धर्म्येवेति चेत् अत्रापि विशेष्यमेवेति ब्रूमः’ इति विशेष्यस्यैव उपादानत्वमुक्त्वा यत्र विशेषणविशेष्ययोः मिलितयोः उपादानत्वमुच्यते तत् प्रौढिवादेनैव इत्युक्तम् । “विशेष्यस्यैव उपादानत्वं उपपाद्य बाधकानि पहिहृत्य प्रौढिवादतयैव ततः परं ग्रन्थोक्तिः न तु सिद्धान्ततया । अन्यथा सुधान्यायदीपादिविरोधात्’ इति ।

पूर्वपक्ष्युक्तबाधकोद्धारः

एकस्यापि उपादानत्व(समवायिकारणत्व)समर्थनम्

ननु एकस्यैव विशेष्यस्य कथं उपादानत्वं इति वाच्यम् । एकेनैव दीर्घतन्तुना पटाम्भदर्शनात् । एकस्यैव घटरूपद्रव्यस्य रूपाद्युपादानत्वाङ्गीकारात् । एकस्यैव आत्मनः ज्ञानोपादानत्ववत् एकस्यैव विशेष्यस्य उपादनत्वं उपपद्यते । (समवायस्याप्रामाणिकत्वात् समवायिकारणं दूरतोपास्तं इति कृत्वा एतानि उपपादकानि उपात्तानि । समवायिकारणनिराकरणञ्च प्रकृतानुपयुक्तं विषयान्तरं चेति नात्र विव्रियते । अथवा उपादानसमवायिकारणयोः ऐक्यविवक्षया एतानि उपपादकानि उपात्तानि ।)

न च एकस्यैव उपादानत्वे उपादानद्वयसंयोगाभावेन असमवायिकारणाभावः । तथा च विशिष्टं नोत्पद्येत इति वाच्यम् । सर्वमपि कार्यं असमवायिकारणजन्यं इति नियमाभावात् । सर्गाद्यकालीन परमाणुक्रियायां व्यभिचारात् । अत्र च असमवायिकारणं किमपि न च पश्यामः । अतिपीडायान्तु विशेषणविशेष्यसंबन्ध एव असमवायिकारणमिति ब्रूमः ।

मूर्तानामसामानाधिकरण्यपरिहारः

यदि विशेष्यमेव उपादानं स्यात् तर्हि रूपविशिष्टं क्रियाविशिष्टं जातिविशिष्टं च एकत्रैव स्यात् । त्रयं प्रति च एकमेव उपादानम् । एवं च विशिष्टं विशेष्याश्रितं वस्त्वन्तरं तत् इति ग्रन्थानुगुण्येन त्रयस्यापि विशिष्टस्य विशेष्याश्रितत्वं वाच्यं एवं मूर्तानां सामानाधिकरण्यानुपपत्तिः इति चेत् न,

एकस्मिन् एव विशेष्ये विशिष्टत्रयं अङ्गीक्रियते । मूर्तानां सामानाधिकरण्यदोषोऽपि नास्ति अस्मन् मते ईश्र्वराचिन्त्यक्त्या मूर्तानां अपि बहूनां अल्पप्रदेशे सत्वोपपत्तेः । तथा च विष्णुतत्वनिर्णये उक्तम्

परमाणुप्रदेशेऽपि ह्यनन्ता जीवराशयः ।

सूक्षमत्वादीशशक्त्यैव स्थूला अपि च संस्थिताः ।

सहस्रयोजनसभां प्रभवाद्विश्र्वकर्मणः ।

अनन्ता राशयोऽनन्ताः प्रजानामधिसंश्रिताः ॥ इति ।

परन्तु अत्र मध्वसिद्धन्तसारे विशिष्टानां परस्परमभिन्नत्वेन अल्पप्रदेशे अवस्थानस्य विशिष्टे बहुत्वप्रत्ययाभावस्य च उपपत्तिः इति अयमपि पक्षः उक्तः । अर्थात् विशिष्टानां परस्परमैक्यं “यत् यदभिन्नाभिन्नं तत्तेनाभिन्नं’ इति न्यायमङ्गीकृत्य उपपादितमिति भाति । यत् दण्डविशिष्टं यदभिन्नाभिन्नं कुण्डलविशिष्टाभिन्नदेवदत्ताभिन्नं अतः तत् दण्डविशिष्टं तेन कुण्डलविशेष्टेनाभिन्नम् भवति । अतः मूर्तानां समानाधिकरण्यं दोषावहं न । मूर्तद्वयस्यैवाभावात् इति उक्तम् । अग्रे विवरिष्यते च)

अयमभिप्रायः अत्रानुसन्धेयः

यत्र विशिष्टद्वयं खण्डितं (विशिष्टद्वयं भिन्नाभिन्नं) तत्र केवलं विशेष्यमेव उपादानं भवति । यथा नीलविशिष्ट-पीतविशिष्टयोः उपादानं विशेष्यः घट एव । तत्र विशिष्टयोः परस्परं भेदः एव । न अभेदः । अभेदे मानाभावात् अभेदप्रतीत्यभावाच्च । क्रमिकविशेषणस्थले तु (पूर्वं देवदत्तः दण्डविशिष्टः आसीत् पश्चात् कुण्डलसंबन्धवान् सञ्जातः) दण्डविशिष्टः एव कुण्डलविशिष्टस्य उपादानं भवति ।  दण्डविशिष्टस्य उपादानं तु केवलं विशेष्यभूतः देवदत्त एव । कुण्डलविशिष्टस्य तु दण्डविशिष्ट एव उपादानं भवति । तत्र तु दण्डविशिष्टकुण्डलविशिष्टयोः अभेद एव । उपादानोपादेययोः अभेदावश्यंभावात् (भेदाभेदौ) । नीलविशिष्टपीतविशिष्टयोः पट एव उपादानं । तयोः भेद एव । अत एव जिज्ञासाधिकरणसुधायां “विशिष्टयोः भेदेऽपि न तत् गुणाद्याश्रयः’ इत्युक्तम् ।

वाक्यार्थचन्द्रिकायां विशिष्टयोर्भेदेऽपि इति पङ्क्तिव्याख्यानावसरे उक्तम्– “सिद्धान्तेऽपि यत्राभेदप्रतीतिः तत्रैव विशिष्टयोरभेदः अन्यत्र तु भेद एव’ इति ।

“दण्डी एव कुण्डली जातः’ “दण्डी सन् कुण्डली जातः’ इति क्रमिकविशेषणस्थले अभेदप्रतीति सद्भावात् दण्डविशिष्टकुण्डलविशिष्टयोः अभेद एव । गुणविशिष्टक्रियाविशिष्टयोः नीलरूपविशिष्टपीतरूपविशिष्टयोः अभेदप्रतीत्यभावात् तयोः भेद एव इत्यर्थः । “दण्डकुण्डलसम्बन्धात् विशिष्टद्वयस्यैवोत्पत्तेः’ इति उपाधिखण्डनटीकाग्रन्थोऽपि एतदभिप्रायक एव । (एक(शुद्ध)विशेष्योपादनकत्वे भेदः इत्यर्थकः)

एक(शुद्ध)विशेष्योपादानकत्वाभावे तु अभेद एव । पूर्वोक्तानुसारेण । अत एव तत्वोद्योतादौ “सोऽयं देवदत्तः’ इति प्रत्यभिज्ञाविषययोः तत्ताविशिष्ट-इदन्ताविशिष्टयोः परस्परं ऐक्योक्तिः । यथोक्तं तत्वोद्योतटीकायां -“तथापि किमत्र तत्वम् । श्रोतृबुद्ध्यनुसारेण त्रयमपीति ब्रूमः’ । तथा “अनुस्मृतेश्च इत्यादिना तृतीयपक्षाङ्गीकारोपीति’ इति ।

तत्ताविशिष्ट एव इदन्ताविशिष्टस्योपादानं केवलं विशेष्यं नोपादानम् । अतः तत्र अभेदः युज्यते । एक(शुद्ध)विशेष्योपादानकत्वाभावात् ।

 द्वैतद्युमणौ एकस्मिन् वस्तुनि च विशेषणविशेष्यसम्बन्धेन  एकविशिष्टपरिमाणवत् अनेकविशेषणसंबन्धैरपि एकविशिष्टमेव परिणमते । अनेकद्रव्यैः एकगृहादिरूपविशिष्टोत्पत्तिदर्शनात् । पूर्वं एकविशेषणसम्बन्धेन एकविशिष्टोत्पत्यनन्तरं विशेषणान्तरस्य सम्बन्धे तु तादृशविशिष्ट एव विशेषणसंबन्धप्राप्त्या विशिष्टस्यैव विशिष्टान्तरात्मना परिणामः । अत एव “दण्डी एव इदानीं कुण्डली जातः’ “दण्डी सन् कुण्डली जातः’ दण्डिरूपविशिष्टस्यैव कुण्डल्यात्मना परिणामावगाहि प्रत्ययः संगच्छते । तर्हि चैत्रः कुण्डली जातः इति शुद्धतादात्म्यावगाहिप्रत्ययः कथमिति न वाच्यम् । शुद्धे संबन्धद्वारेण इव कुण्डलरूपविशेषणस्य दण्डिरूविशिष्टसंबन्धात् शुद्धविशिष्टोभयतादात्म्यापन्नतयैव विशिष्टान्तरपरिणामसंभवात् इति प्रतिपादितम् ।

विशिष्टाकार-विशेष्ययोः भेदशङ्कापरिहारौ

ननु पटो नाम व्यतिषङ्गे सति (ऊर्ध्वाधरीभावेन संयोगविशेषः) यत्तन्तूनां विशिष्टं रूपम् तदेव । तथा च पटो नाम विशिष्टाकारः । तन्तुविशिष्टाकारश्च तन्त्वाश्रितः । विशिष्टं विशेष्याश्रितं द्रव्यान्तरं तत् इति अन्यथाख्यातिस्थलीयग्रन्थानुरोधात् । पटस्तु तन्त्वनाश्रितः । उपादानोपदेययोः अभेदेन आश्रयाश्रयिभावाभावात् । इह तन्तुषु पटः इति प्रतीत्यसिद्धेश्च । तथा च पट-विशिष्टाकारयोः तन्त्वनाश्रितत्वाश्रित्वरूपविरुद्धधर्माधिकरणयोः कथमभेदः इति चेत् न- 

अभेदेऽपि विशेषशक्त्यैव पट-विशिष्टाकारयोः तन्त्वाश्रितत्वानाश्रितत्वयोः सम्भवात् । कथमन्यथा त्वग्ग्राह्याग्राह्ययोः पट-रूपयोः अभेदः । यथा अभिन्नयोः पट-रूपयोः त्वग्ग्राह्यत्वाग्रह्यत्वे विशेषशक्त्यैव निर्वाह्ये तथा प्रकृतेऽपि अभेदेऽपि पटविशिष्टाकारयोः तन्त्वनाश्रितत्वाश्रितत्वे विशेषशक्त्यैव निर्वाह्ये । अतः तयोः पटविशिष्टाकारयोः अभेदः युज्यते ।

जीवेश्र्वरौ इति प्रतीतिसिद्धद्वित्वस्यानुपादनत्वशङ्का

ननु तथापि घटेश्र्वरौ जीवेश्र्वरौ इत्यादिप्रतीतिसिद्धस्य द्वित्वविशिष्टस्य किमुपादानम् । द्वित्वस्य नित्यत्वं तु अङ्गीकर्तुं न शक्यते । “समुदायस्तु भिन्नगः’ इत्यत्र द्वित्वादीनां अनित्यत्वस्य उक्तत्वात् ।

किञ्च यत्र विशेषणसंबन्धः अयावद्विशेष्यभावी तत्र विशिष्टोऽप्यनित्यः इत्युक्तं टीकायाम् । 

किञ्च “अभिन्नो भगवान् स्वेन तदन्येन विभेदवान्’ इत्यत्र सुधायां “द्वित्वादिव्यतिरिक्ता इति शेषः’ इत्युक्तम् । तेन ज्ञायते जीवेश्र्वरयोः अयावद्द्रव्यभाविभिः द्वित्वादिभिः चिन्तादिभिश्च भेदाभेदसद्भावेन तद्य्वतिरिक्तधर्माणां नित्यत्वं अङ्गीकृतम् । तथा च द्वित्वसंबन्धस्य आगन्तुकत्वात् द्वित्वविशिष्टस्य अनित्यत्वं वाच्यम् । अनित्यत्वे च किमुपादानम् । विशेष्यमेवेति वाच्यम् । तच्च न संभवति । सर्वथा अविकारिवस्तुनोः जीवेश्र्वरयोः उपादानत्वासम्भवात् ।

किञ्च “नाचेनविकारः स्यात् अचेतनस्य’ इति प्रकृत्यधिकरणानुव्याख्यानानुसारेण अचेतनस्य चेतनं प्रति उपादानत्वं, अचेतनं प्रति चेतनस्य उपादानत्वं चेतनत्वयुक्त्या निराकृतम् ।

यदि द्वित्वादिविशिष्टस्य चेतनभूतजीवेश्र्वरविकारत्वं स्यात् तदा उपादानगतस्वरूपानुगतिमत्वं प्रसज्येत । कार्ये कारणस्वरूपानुगमदर्शनात् । घटादयो मृद्विकाराः मृदनुगतिमन्तो दृष्टाः । न च द्वित्वादिविशिष्टे ईश्र्वरानुगतिः जीवानुगतिर्वा दृष्टा । अतः कथं द्वित्वादिविशिष्टं प्रति उपादानसंभवः ।

“घटसंयुक्तः आकाशः’ आकाशस्यानुपादनत्वशङ्का

एवमेव घटसंयुक्तः आकाशः इत्यत्र घटविशिष्टं प्रति आकाशस्य उपादानत्वं न संभवति । आकाशस्य नित्यत्वात् अविकारित्वाच्च । भूताकाशस्य उपादानत्वं अभ्युपगम्यते तस्य विकारित्वात् इति चेत् । तथापि अव्याकृताकाशस्य कथमुपादानत्वम् । तत्रापि घटवैशिष्ट्यं वक्तुं शक्यते एव ।

भावाभावयोरनुपादनत्वशङ्का

किञ्च  क्वचित् भावपदार्थः विशेष्यो भवति । विशिष्टाकारश्च अभावः । यथा घटः न जानाति । अत्र घटः ज्ञानवदात्मको न इति प्रतीतेः ज्ञानवत्तादात्म्यनिषेधरूपः अन्योन्याभावः एव नञर्थः । तथा च ज्ञानवत्तादात्म्यनिषेधरूपः अन्योन्याभावः  एव विशिष्टाकारः विशेष्यश्च घटः भावरूपः । भावाभावयोः विधिनिषेधात्मकत्वात् कथं विशेष्याभिन्नं (भिन्नाभिन्नं) विशिष्टं इत्युच्यते ।

क्वचिच्च अभावः विशेष्यः विशिष्टाकारश्च भावः । यथा अभावः अस्ति अभावः प्रमेयः, घटसंबन्धवान् अभावः इत्यादि । अत्र अभावः विशेष्यो भवति । अत्र विशिष्टं प्रति अभावस्य उपादानत्वं वाच्यम् । तच्च न संभवति । अभावेऽपि विकाराभावेन उपादानत्वाभावात् ।

भावविशेष्यक(उपादानक)अभावरूपविशिष्टोपादेयस्थले (घटो न जानाति इत्यत्र) कथं उपादेयभूताभावरूपविशिष्टं प्रति उपादनत्वम् । अभावस्य निरुपादानकत्वात् ।

किञ्च विशेष्यं यदि उपादानं स्यात् तर्हि उपादेयस्य विशिष्टस्य विशेष्याश्रितत्वं कथम् । सिद्धान्ते उपादानोपादेययोः अभेदं स्वीकृत्य “इह तन्तुषु पटः’ इति प्रतीतेरसिद्धिरेवोक्ता । तन्तवः पटः इति प्रतीतिरेव सर्वेषां अस्तीत्युपपादितम् । तथा च “विशिष्टं विशेष्याश्रितं वस्त्वन्तरं तत्’ इति वाक्यानुसारेण उपादानभूतविशेष्याश्रितत्वं कथं उपपादनीयम् । इति चेत्

समाधानम् 

उच्यते-

यदत्र उक्तं द्वित्वादिविशिष्टं प्रति किमुपादानमिति । जीव एवेति ब्रूमः । न च “नाचेतनविकारः’ इति वाक्यसिद्धाविकारिणः चेतनभूतस्य च जीवस्य कथमुपादानत्वमिति  वाच्यम् । चेतने विनाशाहेतुभूतविक्रिया सिद्धान्ते अङ्गीकृता । सुखदुःखाभ्यां जीवे उन्नाहादिरूपविक्रिया आङ्गीकृता । जिज्ञासाधिकरणसुधायां- “क्रियवेशादिरूपायाः विक्रियायाः विनाशाद्यहेतुत्वात्’ इत्युक्तम् । नाचेतनविकारः स्यात् इति वाक्यं तु विनाशहेतुभूतविकारनिशेधपर एव । अन्यथा द्वित्वादिविशिष्टं प्रति उपादानासिद्धेः ।

एवमेव जीवश्र्वरौ इत्यत्र ईश्र्वरस्य जीवस्य वा उपादानत्वाङ्गीकारे न कोऽपि दोषः । न च  निर्विकारश्रुतिव्याकोपः इति वाच्यम् । 

पराधीन विशेषप्तिरनिवर्त्योन्यथा भवः ।

क्षीरादिवद्विकारः स्यान्नैव स स्यात् हरेः क्वचित्

इत्यत्रानुभाष्ये तट्टीकासुधायां च पराधीनविशेषावाप्तिरूपस्य द्रव्यान्तरापत्तिरूपस्य वा विकारस्य भगवति निषेधेन श्रुतिः पराधीनविशेषावाप्तिरूप-द्रव्यान्तरापत्तिरूपनिषेधपरा । भगवतः द्वित्वोपादानकत्वे पूर्वोक्तविकारापत्तिः नैव भवति । न हि क्षीरस्य तद्भावापगमेन दधिभाववत् पूर्वभावापगमेन भावान्तरापत्तिः भगवतः दृष्टा । (“घटो रूपी’ इत्यत्रापि रूपविशिष्टं प्रति घटस्योपादनकत्वे तथा अप्रतीतेः ।) तथा चेश्र्वरस्य द्वित्वोपादनकत्वे न कोऽपि विरोधः ।

एवमेव घटसंयुक्तः आकाशः इत्यत्र (भूताकशस्य) शब्दोपादानत्ववत् घटसंयोगविशिष्टं प्रति आकाशस्य उपादानत्वं वक्तुं शक्यम् । तादृशविकारस्य कौटस्थ्याविरोधित्वात् । उक्तं हि व्यासतत्वज्ञतीर्थैः– “एतच्च विशिष्टोपादानत्वं न कौटस्थ्यविरोधि । अत आकाशादीनां संयोगाद्युपादनत्ववत् विशिष्टोपादानत्वेऽपि न दोषः । अत एव तत्वविवेके गोबलीवर्दन्यायेन कार्यकारणाभ्यां पृथक् विशिष्टशुद्धयोः उपादानम् । तद्वदभावाभेदे न कोऽपि दोषः’ इति ।

अव्याकृताकाशस्यापि पूर्वोक्तन्यायेन उपादानत्वाङ्गीकारे न कोऽपि विरोधः ।

यदप्युक्तम् क्वचित् भावपदार्थो विशेष्यो भवतीत्यादिना विधिनिषेधात्मकयोः विशिष्टशुद्धयोः ऐक्यं कथमिति । तदप्ययुक्तम् । यतो हि “प्रध्वंसः प्रागभावाद्वा घटाद्वा पृथक्, प्रमेयोऽभिधेयश्च इति प्रतीतिबलात् अभावेऽपि भावधर्माः सन्ति ।

उक्तं हि अनुव्याख्याने

भावो ह्यभावश्च स एव हि ।

अभावस्य च धर्माः स्युः भावास्तेषां च तेऽखलिाः ।

प्रत्यक्षमानतः सर्वं एतन्नो वारणक्षमम् । इति ।

यदत्रोक्तं क्वचिच्चाभावः इत्यादिना तदपि न ।

भावविशेष्यक अभावरूपविशिष्टस्थले (घटो न जानातीत्यत्र) ज्ञानवत्तादात्म्यनिषेधरूपः अन्योन्याभावः एव विशिष्टाकारः । तत्र च विशेषणसंबन्धस्य (ज्ञानाभावसंबन्धस्य) यावद्विशेष्यभावित्वेन तादृशविशिष्टस्य नित्यत्वमेवाङ्गीक्रियते । एवं च यत्र विशेषणसंबन्धः अनागन्तुकः सः विशिष्टः नित्य एव ।

वस्तुतस्तु “नष्टानामपि वस्तूनां भेदो नैव विनश्यति’ इति वाक्यानुसारेण अन्योन्याभावस्य नित्यत्वेन तादृशविशिष्टाकरस्य नित्यत्वं युज्यते । अतः तत्र उपादानापेक्षा नास्त्येव ।

घटाभावसंबन्धवान् भूतलः इत्यत्र घटाभावविशिष्टं तु नाभावरूपः । “विशिष्टं वस्त्वन्तरं तत्’ इत्युक्तत्वेन तस्य अभावातिरिक्तत्वेन घटोपादानकत्वं वक्तु शक्यते एव ।

परन्तु एतत्क्षणसम्बन्धवान् अभावः इत्यादिप्रतीतिसिद्धघटसंबन्धविशिष्टं प्रति विशेष्यस्य अभावस्य कथं उपादानत्वं इति तु चिन्त्यम् । विशेषणसंबन्धस्य आगन्तुकत्वेन विशिष्टस्य नित्यत्वं नास्त्येव । विशेष्यस्य अभावस्य च उपादानत्वं असंभावितम् । सिद्धान्ते द्रव्यस्य गुणस्य वा उपादानत्वं अभ्युपगतं नतु अभावस्य ।

विशेष्यस्य उपादानत्वे विशिष्टस्य उपादानाश्रितत्वं (विशेष्याश्रितत्वं) कथं इत्यपि विचारणीयम् । तयोः अभेदात् । विशेषबलात् निर्वाहे तु इह तन्तुषु पटः इत्यत्रापि विशेषबलात् निर्वाह्यतां प्रतीत्यपलापस्तु मा क्रियतां इति समानः समाधिः ।

व्यासतीर्थाभिमतपक्षः

व्यासतीर्थैस्तु उपाधिखण्डनमन्दारमञ्जर्यां– विशिष्टं प्रति विशेषणानि उपादानानि भवन्ति इत्युक्तम् । यथोक्तं मन्दारमञ्जर्याम्– “तत्र अनित्येषु विशिष्टेषु तद्विशेषणानि उपादानानि न विशेष्यमपि । येन मूर्तानां सामानाधिकरण्यप्रसङ्गः’ इत्युक्तम् । तथा च विशेषणोपादानत्वपक्षे मूर्तानां सामानाधिकरण्यदोषोऽपि नास्त्येव । यतो हि विशेषणस्य उपादानत्वेन   एकस्मिन् भूतले घटपटयोरिव विशिष्टयोः एकस्मिन् विशेष्ये सत्वोपपत्तेः ।

द्रव्यगुणाद्वयारब्धत्वानङ्गीकारेण जातिसाङ्कर्यदोषोऽपि नास्ति । विशेष्यसन्निधानं तु निमित्तकारणं भवति । एकस्य उपादानत्वं तु प्रागेवोपपादितम् ।

ननु दण्डविशिष्टं प्रति विशेषणीभूतस्य दण्डस्य उपादानत्वं युज्यते । तस्य द्रव्यत्वात् । रूपविशिष्टं प्रति गुणभूतस्य रूपस्य कथमुपादानत्वं ? तस्य गुणत्वात् । “समवायिकारणत्वं द्रव्यस्यैव’ इत्युक्तत्वेन गुणस्य समवायिकारणत्वं (उपादानात्वं) न युज्यते इति चेत् न,

गुणस्यापि द्रव्यारम्भकत्वं अस्मन्मते अभ्युपगतम् ।  किञ्च गुणत्वं आरम्भकत्वसमानाधिकरणं सत्तासाक्षाद्य्वाप्यजातिमत्वात् द्रव्यत्ववत् इत्यनुमानेन गुणस्यापि आरम्भकत्वसिद्धेः । “एकं रूपं’ इत्यबाधितप्रतीतेः रूपादेरपि सङ्ख्यारम्भकत्वदर्शनात् । 

परन्तु विशेष्यस्य विशिष्टोपादानत्वं प्रसाध्य विशेषणस्य उपादानत्वमिति पक्षस्य सत्तत्वरत्नमालायां – यदि विशेषणं उपादानं स्यात् तर्हि विशिष्टं आनयेत्युक्तौ नियमेन विशेषणस्य आनयनं स्यात् । न च तद्युज्यते । चित्रगुरानीयतां इत्यादौ विशेषणस्य आनयनाभावात् इति दोषः उपात्तः । तदुक्तं सत्तत्वरत्नमालायां– “न च दण्डादिविशेषणाभावे विशिष्टानुदयात् दण्डविशिष्टं प्रति विशेषणमेवोपादानं इति वाच्यम् । तर्हि विशिष्टानयनादौ नियमेन विशेषणस्याप्यानयनाद्यन्वयप्रङ्गात् । चित्रगुरनीयतां इत्यादौ तदभावः एव दृश्यते’ । इति ।

इदमत्र विचारणीयम् । कथमिदमापादनम् । चित्रगुरानीयातां इत्यत्र विशिष्ट एव नास्ति । किन्तु उपलक्षितः । यथोक्तम् सुधायां वैशेषिकाधिकरणे– “व्यधिकरणं व्यावर्तकं उपलक्षणम् । यथा नीलरूपगतं नीलत्वं उत्पलस्य । अन्ये तु कार्यप्रवेशाप्रवेशाभ्यां विशेषणोपलक्षणयोः भेदमाचक्षते । यथा लम्बकर्ण आनीयतां चित्रगुरानीयतामिति’ इति । अतः अत्र व्यभिचारप्रदर्शनं कथं संगच्छते । 

किञ्च चित्रगु इत्यत्र चित्रगोविशिष्टपदार्थसत्वेऽपि कं नियममवलम्ब्य इदमत्रापादनम् । विशिष्टस्य यद्भवति विशेषणस्यापि तद्भवति इति नियममाश्रित्य वा? अथवा उपादेयस्य यद्भवति उपादानस्यापि तद्भवति इति नियममाश्रित्य वा?

नाद्यः । विशिष्टस्य यद्भवति इति नियमस्य सिद्धान्तेऽनङ्गीकृतत्वात् । अतः विशेषणस्य आनयनाद्यभावेऽपि न क्षतिः । न द्वितीयः । विशेष्योपादनस्थलेऽपि अयं दोषः समानः । यदि विशेष्यं उपादानं स्यात् तर्हि उपादेयस्य विशिष्टस्य यद्भवति नियमेन उपादानस्य विशेष्यस्यापि तत्स्यात् । न च तद्युज्यते । (दण्डनाशात् विशिष्टनाशदशायां) “दण्डी ध्वस्त’ इत्यादौ विशेष्यस्य ध्वंसान्वयाभावात् । अतः कथमिदमापादनं इति  विचारणीयम् । महान्तः प्रमाणम् ।

व्यासतीर्थैः एव अन्योऽपि पक्षः स्वीकृतः । विशेषणविशेष्ययोः उपादानत्वं अस्तु । न च मूर्तानां सामानाधिकरण्यानुपपत्तिः । परमाणुप्रदेशेऽपि मार्तानान्तजीवावस्थानवत् ईश्र्वराचिन्त्यशक्त्या अस्याप्युपपत्तेः इति ।

विशिष्टस्य द्रव्यत्वानङ्गीकाराच्च । यदि विशिष्टं द्रव्यं स्यात् तर्हि मूर्तानां सामानाधिकरण्य प्रसङ्गः । न चेदानीं तथा । अतः मूर्तानां सामानाधिकरण्यं नास्ति । “गुणाद्याश्रयाश्रितं वस्त्वन्तरं तत्’ इति सुधोक्तत्वात् ।

(अत्र “द्रव्यान्तरं’ इत्यपि पाठो दृश्यते । सुधासत्यव्रतीयटिप्पण्यां “विशिष्टं विशेष्याश्रितं द्रव्यान्तरं’ इत्युक्तेः । शे.वा.चन्द्रिकायां “विशिष्टं च विशेष्याश्रितं द्रव्यान्तरं इत्यन्यथाख्यातिस्थलीयसुधाग्रन्थानुरोधात्’ इति । यादुपत्ये “विशिष्टं च विशेष्याश्रितं द्रव्यान्तरं इति पूर्वाध्याये उक्तत्वात्’ इति । एतैः वाक्यैः ज्ञायते विशेष्टोऽपि द्रव्य एव इति । परन्तु जिज्ञासाधिरकणसुधायां पंक्तिरेवं मुद्रिता- “वस्त्वन्तरं तत्’ इति । परिमळार्यैः “विशिष्टं पदार्थन्तरं इति भावेनाह- वस्त्वन्तरमिति ॥ इति इयं पंक्तिः व्याख्याता । तथा च द्रव्यान्तरं वस्त्वन्तरं च इति द्वेधाऽपि पाठः)

जाति साङ्कर्यदोषोऽपि नास्ति । द्रव्येण उपादानेन गुणत्वप्रतिबन्धात् गुणेनोपादानेन च द्रव्यत्वप्रतिबन्धात् । तदुभयारब्धस्य द्रव्यगुणानन्तर्भाविनः पदार्थान्तरत्वाङ्गीकारात् । इति ॥

॥ श्रीकृष्णार्पणमस्तु ॥

परामृष्टग्रन्थाः

 

१. अनुव्याख्यानम्

२. श्रीमन्न्यायसुधा

३. विष्णुतत्वविनिर्णयः

४. व्यासतत्वज्ञतीर्थविरचिता विष्णुतत्वनिर्णय टिप्पणी

५. मध्वसिद्धान्तसारः

६. द्वैतद्युमणिः

७. उपाधिखण्डनम्

८. उपधिखण्डनमन्दारमञ्जरी

९. तत्तत्वरत्नमाला

१०. सुधावाक्यार्थचन्द्रिका

११.सुधा शेषवाक्यार्थचन्द्रिका

१२. सुधा सत्यव्रतीया टिप्पणी

१३. परिमळः

१४. सुधा यादुपत्यम्

१५. चत्वारः द्वित्वप्रबन्धाः

 

प्रबन्धा

भीमसेनाचार्यः अतनूरु

द्वैतवेदान्ताध्ययनसंशोधनकेन्द्रम् बेङ्गळूरू