[vc_row][vc_column][rev_slider_vc alias=”about-3″][vc_column_text el_class=”articles”]

चातुर्मास्येष्ट्यां वैश्वदेवपर्वणि  सृष्टेः एवं हविर्द्रव्याणां च विचारः

 

के. पुरुषोत्तमाचार्युलु

सहायाचार्यः

श्रीवेङ्कटेश्वरवेदविश्वविद्यालयः

तिरुपति

उपोद्घातः –

प्रतिसंवत्सरे चतृषुचतृषु मासेषु अनुष्ठीयमानत्वेन उपदिष्टानाम् इष्टीनां समुच्चयस्य “चातुर्मास्येष्टिः” इति व्यवहारः वेदे एवं श्रौतसूत्रेषु च श्रूयते। “वैश्वदेवेन चतुरोमासो वृञ्जतेन्द्रराजानः” इति तैत्तिरीयब्राह्मणवाक्यम्। इदं वेदवाक्यम् अत्र प्रमाणं भवति। तत्र इष्टीनां समुच्चयः तावत् “वैश्वदेवपर्व-वरुणप्रघासपर्व-साकमेधपर्व-शुनासीरीयपर्व” इति चत्वारि पर्वाणि चातुर्मास्येष्ट्यां परिगणितानि भवन्ति। तैत्तिरीय वाजसनेय ब्राह्मणग्रन्थयोः अस्याः चातुर्मास्येष्ट्याः कृते विस्तरशः विचारितं भवति।ब्राह्मणग्रन्थस्थानि वाक्यानि विधायकवाक्यानि भवन्ति। वेदे तत्तत्फलोद्देशेन क्रियमाणस्य कर्मणः विधानं एभिः वाक्यैः स्पष्टं भवति इत्यर्थः। श्रौतसूत्राणि एतेषां ब्राह्मणवाक्यानां उपबृंहकानि भवन्ति। क्रियायाः प्रयोगः तत्र ततोऽपि सुलभतया अवबुद्धः भवति। एवं भूतेषु श्रौतसूत्रेष्वपि वैश्वदेवादि चतुष्पर्वयुक्त चातुर्मास्येष्ट्याः कृते महान् विचारः कृतः। द्विविधयोः श्रौतब्राह्मणग्रन्थयोः कृत विचारणेषु कः भेदः? इत्युक्तौ श्रौतसूत्रेषु कर्मकाण्डानां केवलवेदरूपेण विचारः कृतः किन्तु ब्राह्मणग्रन्थेषु इष्टिकार्यात् प्रकृतौ जायमानान् विकारान् विचारितवन्तः। अनेन विचारणेन चातुर्मास्येष्ट्याः सम्बद्ध यज्ञविज्ञानस्य स्वरूपम् उक्तं भवति। ऋग्वेद ब्राह्मणेषु केवलं साङ्ख्यायनब्राह्मणे एव चातुर्मास्येष्टिः वर्णिता। याजुषवाङ्मये तु संहितायां, ब्राह्मणे एवं श्रौतसूत्रेषु च चातुर्मास्येष्टिवर्णनं कृतमस्ति।शतपथब्राह्मणे सुव्यवस्थितायाः चातुर्मास्येष्ट्याः विवरणं दृश्यते। एतावान् विचारः अन्यत्र न कृतः। तत्र द्वितीयकाण्डे पञ्चमषष्ठा-ध्याययोः, एवं एकादशकाण्डे पञ्चमाध्याये, ब्राह्मणेषु च एतासाम् इष्टीनां विवरणानि भवन्ति।

सृष्टिविचारः –

प्रकृते अस्मिन् शोधपत्रे चातुर्मास्येष्टिविषयीभूत तैत्तिरीय, शतपथब्राह्मणेषु विचारित सन्दर्भप्रमाणवाक्यैः समन्वित चातुर्मास्येष्टि विज्ञानस्य चर्चा क्रियते। पूर्वमेवोक्तं तत्र चातुर्मास्येष्ट्यां वैश्वदेववरुण-प्रघास-साकमेध-शुनासीरीयसंज्ञया चत्वारि पर्वाणि भवन्तीति। तेषु पर्वसु वैश्वदेवपर्व प्रथमं भवति। इदं वैश्वदेवपर्व फाल्गुनमासे पौर्णम्यां प्रारभ्यते। चातुर्मास्येष्ट्याः, सृष्टिप्रक्रियायाश्च मध्ये सम्बन्धः अस्तीति शतपथब्राह्मणे, तैत्तिरीयब्राह्मणे च स्पष्टमुक्तमस्ति। सेयं सृष्टिविषयिणी चर्चा एवं क्रियते… सृष्ट्यादौ अस्मिन् जगति प्रजापतिः एकः एव आसीत्। तदा “प्रजाः स्रष्टव्याः” इति प्रजापतिः अकामयत। तदर्थं तपः अकरोत्। तपसः प्रभावेण प्रजापतिः प्रजाः असृजत। किन्तु तेन सृष्टाः प्रजाः प्रजापतिसविधे स्थिराः न अभूवन्, नातिष्ठन्। प्रथमपर्याये प्रजापतिना सृष्टाः प्रजाः पक्षिरूपेण अजायन्त। अतः अस्थिराः ताः प्रजाः स्वसृष्टिकर्तुः दूरतः अगच्छन्। “प्रजापतिर्हवा इदमग्र एक एवास। स ऐक्षत कथं नु प्रजायेयेति। सोऽश्राम्यत्सतपोऽ-तप्यत। सप्रजा असृजत ता अस्य प्रजास्सृष्टाः पराबभूवुस्तानीमानि वयांसि। पुरुषो वै प्रजापतेर्नेदिष्ठं द्विपदा अयं पुरुषस्तस्माद् द्विपदो वयांसि”1। प्रजापतिः अचिन्तयत् “पूर्ववत् अहं इदानीमपि एकः एवास्मि” इति। सः द्वितीयं सृष्टिं अकरोत्। तदा अपि उत्पन्नाः प्रजाः सर्पभिन्नचलनेन सरीसृपाः भूत्वा प्रजापतेः पृथक् अभवन्।ताः क्षुद्ररूपाः भूत्वा दूरतः अगच्छन्। प्रजापतिः पुनः पूर्ववत् विचिन्त्य तृतीयवारं सृष्टिं चकार। तृतीयस्यां सृष्ट्यामुत्पन्नाः प्रजाः सर्पाः भूत्वा स्वेच्छया गतवन्तः। “स ऐक्षत प्रजापतिः। “यथान्वेव पुरैकोऽभूवमुन्वेवाप्येतर्हेक एवास्मीति। स द्वितीयां ससृजे। ता अस्य परैव बभूवुस्यादिदं क्षुद्रं यदन्यत्सर्पेभ्यः। तृतीयां इत्याहुस्ता अस्य परैव बभूवुस्त इमे सर्पा एतान्वेव दयीर्याज्ञवल्क्य उवाच। त्रयी रु तु पुनर्ऋचा”2। इति मन्त्रः तदा प्रजापतिः पुनः तपः अकरोत् किमर्थमेताः प्रजाः मत्तः दूरं गच्छन्तीति विचारमप्यकरोत्। विचारे कृते सः ज्ञातवान् यत् आहारसम्पादनार्थं प्रजाः “मत्तः दूरं गच्छन्ती” इति। अतः पर्यायेण सः स्वस्तनौ दुग्धपूर्णौ कृत्वा सृष्टिमकरोत्। तेन चतुर्थवारसृष्ट्या उत्पन्नाः प्रजाः आहारार्थं कुत्रापि अगत्वा प्रजापतेः स्तनौ आश्रित्य तत्रैव अतिष्ठन् “सोर्च्चञ्छाम्यन् प्रजापतिरीक्षां चक्रे। कथं नु मे प्रजाः सृष्टाः पराभवन्तीति सहैतदेव ददर्शानशनतया वै मे प्रजाः पराभवन्तीति स आत्मन एवाग्रे स्तनयोः पयआप्याययाञ्चक्रे। सप्रजा असृजत ता अस्य प्रजाः सृष्टास्तना एवाभिपद्य तास्ततस्सम्बभूवुः। ता इमा अपराभूताः”3 इति मन्त्रः। 

प्रजापतेः प्रजासृष्टिविषयकः यः अत्र शतपथब्राह्मणे उक्तः। अयमेव उल्लेखः ऋग्वेदद्रष्ट्रा एकेन ऋषिणा ऋङ्मन्त्रे अपि कृतः “प्रजाह तिस्रो अत्यमीयुः”4 इति। ऋषिः याज्ञवल्क्यः स्वयममुं विषयं कथयति तस्यैव ऋङ्मन्त्रस्य व्याख्यां कुर्वन्। तस्यापि मन्त्रस्य कियतापि भेदांशेन पूर्वे शतपथे उक्तमर्थं एव बोधयति याज्ञवल्क्यः। पक्ष्यादि त्रिविधरूपेषु प्रजानां उत्पत्तिः प्रजापतिना कृत इत्युक्तं शतपथे, ऋग्वेदमन्त्रैरपि सैव त्रिप्रकारकसृष्टिः उच्यते। अत्र मन्त्रे द्वितीयपादोक्ते प्रजापतेः द्वितीय सृष्ट्यामुत्पन्नाः सरीसृपरूपाः प्रजाः अर्कमाश्रित्य सञ्जाताः। ताः प्रजापतिं त्यक्त्वा पृथक् नागच्छन् इत्युक्तम् “न्यन्या अर्कमभितोविविश्रे” इति वाक्यम्। अस्य मन्त्रस्य तृतीयपादे सर्वाः प्रजाः महत्तत्वं जानन्ति। सर्वेषु प्राणिषु प्रजापतिः व्याप्य तिष्ठति इत्युक्तम् “महेद्ध तस्थौ भुवनेष्वन्तः” इति वाक्येन। अनेन प्रकारेण अमुं ऋङ्मन्त्रम् आधारीकृत्य याज्ञवल्क्यः शतपथब्राह्मणे प्रजानाम् उत्पत्तिविषयकविचारे कांश्चन नियमान् अब्रवीत् ….

1) प्रजापतिः जगतः सृष्टिकर्ता अस्ति। स एव ब्रह्मा। तस्मादेव समस्तं जगत् सृष्टं भवति।

2) सृष्टिप्रारम्भे द्विविधाः प्रजाः सञ्जाताः। तासु प्रथमाः स्वोत्पत्तिकारणभूतं प्रजापतिं त्यक्त्वा पृथक् व्यभजन्त। ताः प्रजाः त्रिविधाः, पक्षिणः, सरीसृपाः, सर्पाश्चेति। द्वितीयस्तरे याः प्रजाः ताः स्वजन्महेतुभूतं प्रजापतिं अत्यक्त्वैव तस्य स्तनपायिनः तेन सहैव अवसन्। अत्र पक्ष्यादित्रिविधरूपाः प्रजाः किमर्थं स्वपितरं प्रजापतिं त्यक्तवन्तः? स्तनपायिनः प्रजाः किमर्थं न त्यक्तवन्तः? इत्यत्र इदमत्र लोकव्यवहारोदाहरणपूर्वकं समाधानम्।

3) प्रजानाम् उत्पत्तिसमये स्त्रीणाम् एवं पशूनां स्तनाः पयःपूर्णाः भवन्ति। अतः एव जाताः प्रजाः पृथक् न गच्छन्ति।

4) पयः एव अन्नं भवति प्रजानां येन प्रजापतिना सर्वप्रथमं तासां पोषणधारणाद्यर्थं पयः एव सृष्टम्।

5) अन्नं प्रजाः। यतः अन्नेनैव प्रजाः पोषिताः भवन्ति। याः प्रजाः स्तनपायिनः सन्ति ताभ्यः पयो हि अन्नं भवति। अतः ताः सर्वदा स्वमातुः स्तनाभ्यां क्षीरं गृह्णन्ति। याः प्रजाः स्तनपायिनः न भवन्ति ताः स्वशिशुभ्यः पयोभिन्नमन्नं प्रयच्छन्ति।

6) प्रथमतः प्रजापतिना सृष्टाः पक्षिणः, सरीसृपाः, सर्पाः ये सन्ति तेषां स्वपोषणार्थं अन्नपदार्थस्य आवश्यकता नास्ति। यतः अन्नं सर्वव्याप्तं भवति।

पराभूताः अपराभूताः इति द्विविधानां प्रजानां सृष्ट्यनन्तरं शतपथब्राह्मणे चातुर्मास्येष्टिषु अन्तभूतस्य वैश्वदेवपर्वणः वर्णनं कृतमस्ति। वैश्वदेवपर्वणि विभिन्न-देवताभ्यः विभिन्न-द्रव्याणां एवं अष्टविधानां हविषां विनियोगविधानं प्रोक्तमस्ति। किमर्थं तानि अष्टहवींषि प्रदीयन्ते इत्यपि तत्र वर्ण्यते। पूर्वोक्तः सर्वः अपि सृष्टिविषयकः अर्थवादः वैदिकसृष्टिविज्ञानस्य कृते सहकारकः भवति। “तद्वै पय एवान्नम्। एतध्यग्रे प्रजापतिरन्न-मजनयत्। तद्वा अन्नमेव प्रजा अन्नाद्धि सम्भवन्तीदं हि यासां पयो भवति स्तनावेवाभिपद्यत तास्ततः सम्भवन्त्यथ यासां पयो न भवति जातमेव ता अदयन्ति तदुता अन्नादेव सम्भवन्ति तस्मादन्नमेवप्रजाः”5

हविर्विचारः –

1) आग्नेयम्, अष्टाकपालम्, पुरोडाशम्। 

2) सौम्यं चरुम्। 

3) सावित्रं, द्वादशकपालं पुरोडाशम्। 

4) सारस्वतं चरुम्। 

5) पौष्णं चरुम्। 

6) मारुतं सप्तकपालं पुरोडाशम्। 

7) वैश्वदेवी आमिक्षा। 

8) द्यावापृथिव्य एककपालं पुरोडाशम्। 

एतेषु प्रथमं हविः अष्टाकपालं पुरोडाशं अग्नये देवायां समर्प्यमाणं भवति। इदं प्रथमं हविः अग्नये एव किमर्थं समर्पयेत्? अन्यस्मै किमर्थं न? इत्यत्र ब्राह्मणं वदति उत्तरम् – देवेषु अग्निः प्रमुखः प्रथमः भवति। प्रजननशक्तिः तस्मिन् अग्निदेवे महती अस्ति। तमग्निं विना लोके प्रजोत्पत्तिः न भवति। लोके यत् प्रजननकार्यं वर्तते तस्य अग्निः एव कारणं भवति। तैत्तिरीयब्राह्मणेऽपि इदमेवोक्तं “अग्नि मुखा एव देवताः प्रीणाति”। अग्निं वा अन्वन्या देवताः। अयमर्थः – तत्तत्फलं प्राप्तुं देवेभ्यः समर्प्यमाणं तत्तद्द्रव्यं अग्निद्वारा एव समर्पयेत्।तेनैव अन्ये देवाः समर्पितं द्रव्यं प्राप्य फलानि यच्छन्ति। अत्र शतपथे अमुमेव अर्थं बोधयति अयं मन्त्रः। “सवा अग्नेयोरष्टाकपालः पुरोडाशो भवति। अग्निर्वै देवतानां मुखं प्रजनयिता सप्रजातिस्तस्मादाग्नेयो भवति6।” द्वितीयं हविः चरुः। इदं सोमदेवतायै समर्पयेत्। चरुः सोमदेवतायाः प्रतिरूपं भवति। सोमः वस्तुतः रेतस्वी वर्तते। अग्नौ सोमद्रव्यस्य चरोः आहुत्या प्रजनयितृरूपे अग्नौ रेतोरूपस्य सोमस्य प्रथमम् आधानं भवति। इदं आधानं अग्नेः, सोमस्य च युगपद्भवति। अग्निः सृष्टेः प्रजनयिता इति पूर्वमुक्तम्। किन्तु यावत्पर्यन्तं तस्मिन् अग्नौ सोमरूपस्य रेतसः आधानं न भवति तावत्पर्यन्तं अग्नौ प्रजननशक्तिः न जायते। तयोः अग्नीषोमयोः परिणामः एव इदं जगत्। “अग्नीषोमात्मकं जगत्” इति यदुच्यते तदपि वाक्यमिदमेव द्रढयति यत् क्षरब्रह्मरूपस्य जगतः मूलकारणं अग्नीषोमयोः साहचर्यमेवेति। अत्रायं मन्त्रः -“अथ सौम्यश्चरुर्भवति। रेतोवै सोमः। तदग्नौ प्रजनयितरि सोमं रेतः सिञ्चति। तत्पुरुषस्तान्मिथुनं प्रजननम्”7 वैश्वदेवपर्वणि तृतीयं हविः “द्वादशकपालः पुरोडाशः” हविरिदं सवितृदेवतायै प्रदीयमानं द्रव्यं भवति।सवितृदेवाय इदं किमर्थं प्रदीयते इति ब्राह्मणं व्याचष्टे सविता एव प्रसविता अस्ति। अग्नीषोमयोः साहचर्येण जातं ब्रह्माण्डं एतस्मात् सवितुः कारणेन प्रसूतं (प्रसवितं) भवति व्यक्तं भवतीत्यर्थः। अयं सविता प्रजापतेः प्रतिरूपः वर्तते। अतः तृतीयं हविः द्वादशकपालः पुरोडाशः सवित्रे देवाय प्रदेयम् इत्युक्तं भवति। अत्रायं मन्त्रः “अथ सावित्रं द्वादशकपालोवाष्टाकपालोवा पुरोडाशो भवति। सवितावै देवानां प्रसविता। प्रजापतिर्मध्यतः प्रजनयिता। तस्मात्सावित्रो भवति”8। वैश्वदेवपर्वणि प्रथमहविःपञ्चके सावित्रं हविः द्वादशकपालः पुरोडाशः मध्ये पठ्यते। कुतः इतिचेत् प्रजापतिः देवानां मध्ये तिष्ठन् सर्वेषां मिथुनानां निर्माणं करोति। याः प्रजाः उत्पन्नाः भवन्ति तासां प्रजानां उत्पत्तेः कारणभूतः अग्निः प्रजापतिः भवति। मध्ये सवितृरूपेण प्रजापतिः प्रजानाम् उत्पत्तेः प्रसवं करोति। सावित्रहविषः पश्चात् चतुर्थं हविः सरस्वत्यै, पञ्चमं हविः पूष्णे च प्रदीयते। इमे हविषी चरुद्रव्यरूपेण भवतः। सृष्टिप्रक्रियायाम् अग्नेः एवं सोमस्य सहचरितत्वात् अनन्तरं द्वितीयं साहचर्यं भवति सरस्वत्याः एवं पूष्णश्च मध्ये। सरस्वती स्त्रीस्वरूपिणी पूषा च वृषाणः तत्वं भवति। द्वाभ्यामेताभ्याम् साहचर्येण प्रजापतिः प्रजानां सृष्टिमकरोत्। अग्नीषोमयोः प्रथमसहवासेन उत्पन्नाः प्रजाः “ऊर्ध्वाः” इति, सरस्वतीपूष्णोः द्वितीयसहवासेन जाताः प्रजाः “अवाचीः” इति च संज्ञया आहूताः भवन्ति शतपथब्राह्मणेन। “ऊर्ध्वाः” एवं “अवाचीः” इत्यत्र अभिप्रायः कः? इतिचेत् सायणाचार्यस्य मतमिदं यत् ऊर्ध्वाः प्रजाः पृथिव्याः उपरि भवन्ति। अवाचीप्रजाः पृथिव्याः अधोभागे च भवन्तीति। अत्रायं मन्त्रः – “अथ सारस्वतश्चरुर्भवति पौष्णश्चरुः। योषा वै सरस्वती वृषा पूषा तत्पुनर्मिथुनं प्रजननम्। एतस्माद्वा उभयतोमिथुनात्प्रजापतिः प्रजाः ससृजइतश्चोर्ध्वा इतश्चावाचीस्तथो एवैष एतस्मादुभयत एव मिथुनान्प्रजाः सृजतइतश्चोर्ध्वा इतश्चावासीस्तस्मादेतानि पञ्चहवींषि भवन्ति”9। शतपथब्राह्मणं सरस्वतीपूष्णोः मिथुनं स्त्रीपुरुषयोः मिथुनत्वेन वर्णयति। किन्तु मैत्रायणीसंहितायां तावत् वर्णितं यत् सरस्वती वाग्रूपा भवति। पूषा पशुरूपः इति च। पशुः वस्तुतः पोषणधर्मवान् अस्ति। शतपथब्राह्मणे सरस्वती पूष्णोः मिथुनेन यत् दृष्टं स्त्रीपुरुषयोः तत्वं तत् वस्तुतः वाचः एवं पोषणशक्तेः च स्वरूपं भवति। पिण्डस्य उत्पत्तेः अनन्तरमेव तत्र पिण्डे वाक्शक्तिः पोषणशक्तिश्च जायते। सा शक्तिः एव अग्निसोमसवितृसरस्वतीपूष्णां रूपेण कार्यं करोति। अतः एतेभ्यः देवेभ्यः हविःप्रदानं सृष्टेः प्रजननकार्ये सुव्यवस्थार्थं भवेत्। एतानि पञ्च चातुर्मास्येष्ट्याः प्रत्येकास्मिन् पर्वणि समानरूपेण सम्पादितानि भवन्ति। अतः एतेषां “समयीनि” इति संज्ञा शतपथब्राह्मणे दृश्यते। कृष्णयजुर्वेदे तु तेषां “सञ्चरहविः” इति संज्ञा कृता। वैश्वदेवपर्वणि सप्तमं हविः भवति सप्तकपालपुरोडाशः। इदं च हविः मरुद्देवेभ्यः समर्प्यते। शतपथब्राह्मणान्तर्गतेन आख्यानेन अस्य हविषः प्रयोजनमुक्तं भवति।

मरुद्गणविचारः – 

मरुद् देवानां गणाः सप्त भवन्ति। एकैकस्मिन् गणे सप्तसप्त मरुतः सन्ति। ते स्वतश्शक्तिमन्तः। ते सङ्ख्यया सप्तेति कृत्वा तेभ्यः सप्तकपालपुरोडाशद्रव्यं हवीरूपेण दीयते। प्रजानां रक्षणार्थं तेभ्यः इदं सप्तकपालपुरोडाशहविः दत्तं भवति। एतेषां सप्तानां मरुद्गणानां विचारः तैत्तिरीयसंहितायां, तैत्तिरीयब्राह्मणे, तैत्तिरीयारण्यके च वर्तते। सप्तसु गणेषु सप्तसप्त मरुतः तत्र वर्णिताः एवम्-

1)प्रथमगणः – ईदृङ्, अन्यादृङ्, एतादृङ्, प्रतिदृङ्, मितः, सम्मितः, सभराः।

2)द्वितीयगणः – शुक्रज्योतिः, चित्रज्योतिः, सत्यज्योतिः, ज्योतिष्मान्, सत्यः, ऋतपाः,  अत्यंहाः।

3)तृतीयगणः – ऋतजित्, सत्यजित्, सेनजित्, सुषेणः, अन्त्यमित्रः, दूरे अमित्रगणः।

4)चतुर्थगणः – ऋतः, सत्यः, धृवः, धरुणः, धर्ता, विधर्ता, विधारयः।

5)पञ्चमगणः – ईदृक्षासः, एतादृक्षासः, सदृक्षासः, प्रतिसदृक्षासः, मितासः,  सम्मितासः, सभरसः।

6)षष्ठः गणः – धुनिः, ध्वान्तः, धूनः, धूनयन्, निलिम्पः, विलिम्पः, विक्षिपः।

7)सप्तमः गणः – उग्रः, धुनिः, ध्वान्तः, ध्वनः, ध्वनयन्, सहसह्वान्, सहमानः।

एवं सप्तमरुद्गणाः परिचायिताः। अथ वैश्वदेवपर्वणि सप्तमं हविः आमिक्षा भवति। आमिक्षानाम तप्तं पयः इत्यर्थः। इदं हविः विश्वेदेवेभ्यः समर्प्यमाणं वर्तते। “पयस्या” इति अस्य आमिक्षाख्यद्रव्यस्य शतपथे व्यवहारः वर्तते। इदमामिक्षाख्यं हविः सर्वदेवताकं भवति। अतः “वैश्वदेवी” इत्यपि कथ्यते। वैश्वदेवपर्वणि अष्टमं हविः एककपालपुरोडाशः। इदं द्यावापृथिवीभ्यां दीयते। अस्य हविषः द्यावापृथिवीभ्यां प्रदाने इदं प्रयोजनं .. पूर्वं यैः हविर्भिः प्रजापतिना प्रजानां सृष्टिः कृता ताः निर्दिष्टं प्रदेशं अलभमाणाः इतस्ततः सञ्चरन्तः आसन्। अनेन द्यावापृथिव्य हविषा प्रजापतिः ताभ्यः चतसृषु दिक्षु निवासस्थानं पर्यकल्पयत्।

उपसंहारः – 

अनेन प्रकारेण वेदे चातुर्मास्येष्ट्यङ्गभूतवैश्वदेवपर्वणः विचारः समाप्तः। अस्य सम्पादनेन अत्र न केवलं यागप्रक्रियायाः ज्ञानं लभ्यते। अपि तु सुव्यवस्थितं सृष्टि-विज्ञानमपि लभ्यते।।

 

***

अन्त्यटिप्पणी

  1. श.प.ब्रा-2.5.1.1
  2. श.प.ब्रा 2.5.1.2
  3. श.प.ब्रा 2.5.1.3
  4. ऋ.वे 8.101.14
  5. श.प.ब्रा 2.5.1.6
  6. श.प.ब्रा 2.5.1.8
  7. श.प.ब्रा 2.5.1.9
  8. श.प.ब्रा 2.5.1.1
  9. श.प.ब्रा 2.5.1.11

[/vc_column_text][/vc_column][/vc_row]