कृषिविषये ज्यौतिषस्य योगदानम्

शशाङ्क हेगडे
शोधच्छात्रः
ज्यौतिषविभागः
कर्नटकसंस्कृतविश्वविद्यालयः
बेङ्गलूरु

पुरुषेण पुरुषार्थान् साधितुं शरीरं प्रामुख्यं भजते शरीरमाद्यं खलु धर्मसाधनम् इति वचनात्। शरीरस्य पोषणे अत्यावश्यकं भवति अन्नम् ।  वेदवाक्यं स्मर्यते अन्नात् पुरुषः इति । न मात्रं मनुष्यस्य । उक्तं – देवासुरमनुष्याश्च सर्वे चान्नोपजीविनः देवासुरमनुष्याश्च अन्नेनैव उपजीविनः भवन्ति । अतः सर्वप्रयत्नेन कृषिः कार्या । वृष्टिमूला कृषिः सर्वा इति कृषिपराशरग्रन्थोक्तदिशा ज्ञायते वृष्टिज्ञानं सर्वप्राथम्येन  अवलोकनीयमिति । वृष्टिः वर्षति वा न वा कथम् अवगन्तव्यम् इति अनुदिशति ज्योतिश्शास्त्रम् । आदौ संवत्सरस्य राजानं मन्त्रिणं मेघाधिपञ्च परिवीक्ष्य वृष्टिं चिन्तयेदिति । 

गुरौ शोभना वृष्टिः भार्गवे वृष्टिरुत्तमा

पृथिवी धूलिसम्पूर्णा वृष्टिहीना शनौ भवेत्

वयं सर्वे जानीमः यत् नवग्रहाणां प्रभावो वर्तते सर्वेषां जन्तूनां तथा भूमेश्चोपरि । यथा अमापूर्णिमायां समुद्रतरङ्गानां ऊर्ध्वप्लवनं पश्यामः इदं चन्द्रस्य प्रभावेण भवतीति तु मन्यन्ते आधुनिकाः अपि । एवमेव संवत्सरस्याधिपः गुरुश्चेत् शोभना वृष्टिः तथा शुक्रेऽपि । यदि शनैश्चरश्चेत् पृथिवी धूलिसम्पूर्णा वृष्टिहीना च भवति । सर्वेषां ग्रहाणां अधिपत्वेन वृष्टिव्यत्ययो भवति । सम्प्रति कुजो राजायते । अस्य फलं वर्तते एवं – 

शस्यहानिर्भवेत्तत्र नित्यं रोगश्च मानवे

यस्मिन्नब्दे कुजो राजा शस्यशून्या मेदिनी

विशेषेण यस्मिन् संवत्सरे कुजः अधिपः भवति मनुष्यः रोगेण युक्तो भवति । अयमिदानीमप्यनुभवयोग्योऽस्ति ।

ग्रहाणां सञ्चारेण वृष्टिज्ञानम् 

ग्रहणामुदये चास्ते तथा वक्रातिचारयोः

प्रायो वर्षन्ति हि घना नृपाणामुद्यमेषु

ग्रहाणां उदयास्तवक्रातिचारगतिहेतुना वर्षं वैविध्यं प्राप्नोति । गतशार्वरीसंवत्सरे तथा अस्मिन् प्लवसंवत्सरेऽपि गुरुशुक्रयोः अस्तोदयवक्रगतिवशात् कथं मेघाः ववृषुः इति जनाः अजानन् इतोऽपि वर्षिष्यति इत्यपि ज्ञास्यन्ति च । अत एव ज्योतिषस्य प्रत्यक्षत्वम् अनुभवयोग्यम् इत्यपि । ग्रहाणां नक्षत्राणां च सम्बन्धेन वृष्टिविषयः –

आदित्यशुक्रावेकर्क्ष एकांशे बुधसंयुतौ

यदि भूर्वर्षपूर्णास्याज्जलर्क्षांशे संशयः

इति प्रश्नमार्गे वर्षलक्षणे उक्तम् । रविशुक्रौ एकस्मिन्नेव राशौ राश्यंशके च बुधेन युक्तौ चेत् अधिका वृष्टिः । सः अंशकः जलराशिश्चेत् असंशयेन वर्षतीति । शुक्रबुधावपि एकस्मिन्नेव राशौ तुल्यनवांशके भवतः शुक्रस्य अधस्तात् कुजश्चेत् वर्षसमागमो भवति । रवेः सङ्क्रमणवशात् वृष्टिः कथिता –

प्रतिपद्विषुवति यदि भूर्वर्षविहीना पुनर्द्वितीया चेत्

यदि तृतीया वर्षं निजसमये भवति धान्यमल्पं

मेषसङ्क्रान्तिः प्रतिपदि चेत् न वर्षति द्वितीयातृतीयायां योग्यसमये न भवतीति । करणानुरोधेन वदति –

बवकरणे सति विषुवे बहुवर्षं धान्यसंपदोऽनर्थाः

व्याघ्रे समुचितवर्षं पशुनाशः किञ्च दुर्भिक्षम्

मेषसङ्क्रमणकालः बवकरणे बहुवर्षं धान्यसमृद्धिश्च । व्याघ्रकरणे सम्यग्वर्षणं पशुनाशश्च इत्यादयः । सङ्क्रान्तेः ग्रहस्थित्या वर्षज्ञानम् –

भानोर्यद्यजसङ्क्रमः स्व उदये सर्वत्र संवत्सरे

वृष्टिस्यादुचिता विलम्बनमपि प्रारम्भणे स्यान्मनाक्

इन्दोश्चेद्बहुवर्षसस्यविभवा भौमस्य चेत्स्वल्पकम्

वर्षं उच्चनचादिमे तु समयेनान्त्ये तथा नेहसि

अजसङ्क्रमे लग्ने रविश्चेत् उचिता वृष्टिः । प्रारम्भे विलम्बः अपि भवेत् । चन्द्रश्चेत् वृष्टिरुत्तमा सस्यसमृद्धिश्च । कुजश्चेत् आद्यन्ते न वर्षति मध्ये अल्पीयसी वृष्टिरिति प्रश्नमार्गे विषयाः कथिताः । अग्रे कृषिपराशरे एवं निरूपितः ।

चित्रामध्यगते जीवे भिन्नभाण्डमिव स्रवेत्

ततः स्वातिं समासाद्य महामेघान् विमुञ्चति

बृहस्पतिः यदा चित्रानक्षत्रे भवति तदा अधिका वृष्टिरिति । ततः स्वातिं आसाद्य यथायोग्यवृष्टिं वर्षयति ।

पुष्येणोपचितान् मेघान् स्वातिरेका व्यपोहति

श्रवणे जनितं वर्षं रेवत्येका विमुञ्चति

पुष्यनक्षत्रजनितां अधिकां वृष्टिं स्वातिः मुञ्चति । श्रवणेन जनितं वर्षं रेवती मोचयति इति ।

अनावृष्टिलक्षणे हेतुः –

ध्रुवे वैष्णवे हस्ते मूले शक्रे चरन् कुजः

सद्यः करोत्यनावृष्टिं कृत्तिकासु मघासु

कुजः उत्तराफल्गुनी उत्तराषाढा उत्तराभाद्रा रोहिणी श्रवण  हस्त मूल ज्येष्ठा कृत्तिका एवं मघा नक्षत्रे भवति तदा अनावृष्टिः भवति । अन्यः श्लोकोऽपि ।

कुजपृष्ठगते भानुः समुद्रमपि शोषयेत्

एव विपरीतस्तु पर्वतानपि प्लावयेत्

कुजस्य पृष्ठभागे यदि रविः तदानीं समुद्रोऽपि शुष्यात् । यदि विपरीतः रवेः पृष्ठभागे कुजश्चेत् पर्वतप्लाविनी वृष्टिः वर्षेत् इति । चित्रानक्षत्रगतः शुक्रः सद्योवृष्टिनाशं करोति । सिंहराशौ यदा कुजः तदा पृथ्वी अङ्गारमयी वृष्टिहीना भवति एवमेव सूर्येण युक्तश्चेत् वृष्टिनाशो भवति इति श्लोकोक्तिः यथा –

सद्यो निकृन्तयेद्वृष्टिं चित्रामध्यगतो भृगुः

अङ्गारको यदा सिंहे तदाङ्गारमयी मही

एव रविणा युक्तः समुद्रमपि शोषयेत् इति ।

इत्थं वृष्टिज्ञानम् ।

हलप्रसारणम् 

वृष्ट्यनुरोधेन भूमौ हलप्रसारणं कार्यम् । हलप्रसारणार्थं अनेकाः मुहूर्ताः शुभकृत्यकालविशेषाः उक्ताः ।

हलप्रसारणं कार्यं कृषकैः शस्यवृद्धये

शुक्रेन्दुजीववारेषु शशिजस्य विशेषतः

दशम्येकादशी चैव द्वितीया पञ्चमी तथा

त्रयोदशी तृतीया सप्तमी शुभावहा

शुक्रसोमगुरुबुधवासरे हलप्रसारणं कार्यम् । दशमी एकादशी द्वितीया पञ्चमी त्रयोदशी तृतीया सप्तमी तिथयः शुभप्रदाः स्युः ।

हलप्रसारणे निषिद्धदिनं तत्फलं चाह –

हन्त्यष्टमी बलीवर्दान्नवमी सस्यघातिनी

चतुर्थी कीटजननी पतिं हन्ति चतुर्दशी

अस्यार्थस्तु स्पष्टः एव । अग्रे शुभलग्नमपि आदिशति –

वृषे मीने कन्यायां युग्मे धनुषि वृश्चिके

एतेषु शुभलग्नेषु कुर्याद्धलप्रसारणम्

वृषभमीनकन्यामिथुनधनुवृश्चिकलग्नानि शुभानि इति । निषिद्धलग्नानि एवं वर्तन्ते –

मेषलग्ने पशुं हन्यात् कर्कटे जलजाद्भयम्

सिंहे सर्पभयं चैव कुम्भे चोरभयं तथा

मेषे पशुनाशः कर्के जलीयजन्तुभ्यः भयम् । सिंहलग्ने सर्पभयं कुम्भलग्ने तु चोरभयमिति ।

ज्योतिषोक्तदिशा सुक्षितौ शुभदिने च हलप्रसारणं बीजस्थापनादिकं कृत्वा कृषिकर्मणि अत्यन्तप्रामुख्यं भजते बीजवापनम् । वापनार्थं मुहूर्ताः –

वैशाखे वपनं श्रेष्ठं ज्यैष्ठे तु मध्यमं स्मृतम्

आषाढे चाधमं प्रोक्तं श्रावणे चाधमाधमम्

विशाखानक्षत्रं अत्यन्तं श्रेष्ठं बीजवपनकर्मणि । ज्येष्ठा तु मध्यमं आषाढानक्षत्रं अधमं श्रवणनक्षत्रं तु अधमाधमम् इति ।

उत्तरात्रयमूलेन्दुमैत्रपैत्रेन्दुधतृषु

हस्तायामथ रेवत्यां बीजवापनमुत्तमम्

उत्तराफल्गुनी उत्तराषाढा उत्ताराभाद्र मूला ज्येष्ठा अनुराधा मघा मृगशिरा रोहिणी हस्त रेवती नक्षत्राणि उत्तमानि भवन्ति । मुहुर्तचिन्तामणिग्रन्थेऽपि – राधामूलमृदुध्रुवर्क्षवरुणक्षिप्रैर्लतापादपारोपः इति । विशाखा मूलं चित्रानुराधामृगशिरारेवत्यः रोहिणी च उत्तरास्तिस्रः शततारा अश्विनीपुष्याभिजितः एवं चतुर्दश नक्षत्राणि एतैः पादपानां लतानां आरोपः वापनं कार्यम् इति । श्रीपतिरपि –

सावित्रतिष्याश्विनवारुणानि मूलं विशाखा मृदुध्रुवाणि

लतौषधीपादपरोपणेषु शुभानि भानि प्रतिपादितानि

श्रीकृष्णोक्तिः कर्मण्येवाधिकारः इति । अतः मया यथामति वापितं बीजं योग्यं फलं सः कृष्णः प्रदद्यादिति शम् । 

अधारग्रन्थाः 

कृषिपराशरः

मुहूर्तचिन्तामणिः

प्रश्नमार्गम् 

Shashank hegde

S/O Govind hegde

Bisalakoppa

Po:Ajjibal

Tq:Sirsi(U.K.)

Ph:8762632689