काव्यलभ्यं प्रयोजनम्

Dr. Anupama Ryali,
Associate Professor,
School of Vedic Sciences,
MIT-ADT University,
Pune, Maharashtra.
anupamaskt@gmail.com

परिचयः (Abstract)

लोके काव्यस्य महत् वैशिष्ट्यम् अस्ति | इतरशास्त्राणाम् अपेक्षया लोके काव्यस्य विपुलता, प्रसिद्धता च अस्ति | अधुनातनकाले तु काव्यास्वादिनः विरलाः एव सञ्जाताः | काव्येन को वा लाभः इति संशयः स्यात् | काव्यं किमर्थं पठनीयं, तस्य प्रयोजनं किमिति प्रश्नः स्यात् |प्रयोजनम् अनुद्दिश्य न मन्दोऽपि प्रवर्तते | अतः काव्यपठनेन सहृदयानाम् अवश्यं प्रयोजनं भवेत् | काव्यस्य प्रयोजनं तु बहुधा चर्चितं बुधजनैः | प्रत्येकं काव्यशास्त्रज्ञः स्वस्य शास्त्रग्रन्थे काव्यप्रयोजनं किमिति लक्षितम् | तदेव सङ्गृह्य सर्वेषां काव्यशास्त्रज्ञानाम् अभिप्रायं एकत्रीकृत्य काव्यलभ्यं प्रयोजनं किमिति 

कीदृशमिति च अस्मिन् पत्रे प्रस्तूयते |

काव्यम् तस्य वैशिष्ट्यं च

काव्यं नाम हृदयस्थ-अन्तर्वर्तिभावनानां, बाह्यजगतः वा आन्तरिकजगतः वा सौन्दर्यस्य शब्दद्वारा अभिव्यक्तिः | एवं काव्यं सौन्दर्याभिव्यक्तिः | विभिन्नभावनानाम् अभिव्यक्तिः काव्यम् | विभिन्नकलानाम् आविष्कारः काव्यम् | काव्यं खलु वक्तुः हृदयस्थभावप्रतिबिम्बरूपम् । कल्पनामूला, चेतः प्रसादिनी, रुचिरा भावाभिव्यक्तिः च काव्ये भवन्ति । काव्यादेरध्ययनात् रसास्वादः आनन्दानुभूतिश्च प्राप्यते । प्रायशः काव्येषु विविधशास्त्रावगाहिज्ञानमपि निगूढं भवति ।

लोकव्यवहारः भवति । आचार्यशङ्करभगवत्पादैरपि इत्थम् उदीरितम्- ‘वाग्वैखरी शब्दझरी शास्त्रविज्ञानकौशलम्’ इति |

किं वा काव्यस्य प्रयोजनम् ?

सर्वस्यापि उपदेशस्य प्रवृत्तिनिवृत्तिरूपमेव हि प्रधानं प्रयोजनम् | अत्र प्रयोजनं नाम तत्तत् काव्यमुखेन सम्पाद्यं व्यष्टिहितं वा समष्टिहितं वा भवति | काव्यस्य प्रयोजनं तु बहुधा चर्चितं बुधजनैः | काव्यं हि आनन्दानुभूतिसाधनम् | तच्च स्वान्तः सुखाय, सद्यः परनिर्वृतये, आह्लादकारकाय च भवेत् | असारेऽस्मिन् संसारे दुःखदावाग्निदग्धस्य आधिव्याधिप्रपीडितस्य पापादिविषण्णस्य मायामोहभ्रान्तचेतसो मानववृन्दस्य मनः सन्तापनिवारणाय चेतः प्रसादाय सुखावाप्तये च विद्वद्धौरेयाः तत्त्वज्ञाः काव्यशास्त्रनामकं रत्नं वाङ्मयमहोदधेः सारभूतम् उददीधरन् | रत्नमेतत् चतुर्वर्गावाप्तिसाधनं ब्रह्मानन्दसहोदरं रसम् आस्वाद्यतया जनयद् गौरवमलभत | 

भरतादारभ्य मम्मटपर्यन्तं नैकैरालङ्कारिकैः काव्यफलानि प्रतिपादितानि | तत्र च ‘काव्यम् आनन्दानुभूतिसाधनम्’, ‘त्रिवर्गसाधनम्’, ‘काव्यं चतुर्वर्गावाप्तिसाधनम्’, ‘काव्यमुपदेशानुरूपम्’ चेति प्रकटीचक्रुः |

काव्यलभ्यं प्रयोजनम् –

स्थूलदृष्ट्या काव्यलभ्यं प्रयोजनं किमिति प्रस्तूयते अधुना |

पुरुषार्थसाधनभूतम् काव्यम् –

भारतीयानां मानदण्डः वेदः | वेदस्य मूलं पुरुषार्थचतुष्टयम् | यत्पुरुषार्थान् बोधयति उत साधयतीति तत् काव्यम् | प्रत्येकमपि कविः लक्षणं किञ्चिदुद्दिश्यैव स्वकीयं काव्यं रचयति | सत्सु बहुषु कविषु वाङ्मयेऽस्मिन् महाकवियशप्रणयिनः, तेषां काव्यरचनोद्देश्यं तेषां मुख्यांशः यः कोऽपि वा भवतु किन्तु सर्वाण्यपि काव्यानि चतुर्वर्गमेव मुख्योद्देश्यत्वेन सन्देशयन्ति | अतः भामहादिभिर्लाक्षणिकाः काव्यानीमान्याधारीकृत्य परिशील्य च चतुर्वर्गसाधकः काव्यबन्धः इति स्वेषु लक्षणग्रन्थेषु काव्यप्रयोजनेषु पुरुषार्थचतुष्टयस्य प्राधान्यं समुद्घोषयामासुः |

नाट्यशास्त्रे भरतमुनिः इत्थं प्रत्यपादयत् –

                               त्रैलोक्यस्यास्य सर्वस्य नाट्यं भावानुकीर्तनम् ।

                               क्वचिद्धर्मः क्वचित्क्रीडा क्वचिदर्थः क्वचिच्श्रमः ।।

                               क्वचिद्धास्यं क्वचिद्युद्धं क्वचित्कामः क्वचिद्वधः ।

                               धर्मो धर्मप्रवृत्तानां कामः कामोपसेविनाम् ।।  (1.104-105)

‘लोको हि भिन्नरुचिः’ इत्याभाणकमनुसृत्य भिन्नाश्च नृणामिच्छाः | तत्र च धर्मानुगुणः कामः सज्जनस्य इति, अधर्मानुगुणः दुष्टस्य चेति भेदेन भिद्यते इति विदितमेव | ‘रामादिवत् वर्तितव्यं, न रावणादिवत्’ इत्यस्मात् सूत्रात् रामस्य कामः धर्मान्वितः, समाजहिताय चेति, रावणस्य कामः धर्मविरुद्धः, स्वस्य नाशाय चेति मार्गद्वयं प्रदर्श्य, धर्मार्थावाधारीकृत्य स्वस्य च कामः कथं साधनीयः, तथा च अरिषड्वर्गैः प्रेरितस्सन् दुष्टः कथं नश्यते इति बोधयति काव्यम् | अतः काव्यपठनेन सज्जनदुर्जनयोः कामयोः भेदः ज्ञायते | तज्ज्ञापयित्वा स्वस्य च जीवने समीचीनं मार्गमवलम्बितुं मोक्षगामिनं भवितुं मानवं प्रेरयति काव्यम् इति कथने नास्त्यतिशयोक्तिः |

तथैव भामहेन अपि काव्यालङ्कारे ग्रन्थे इत्थं प्रोक्तम् –

                                  धर्मार्थकाममोक्षेषु  वैचक्षण्यं  कलासु च ।

                                  प्रीतिं करोति कीर्तिं च साधुकाव्यनिबन्धनम् ।।(1.2)

साहित्यदर्पणकारस्य मते तु –

                                  चतुर्वर्गफलप्राप्ति: सुखादल्पधियामपि ।

                                   काव्यादेव यतस्तेन तत्स्वरूपं निरूप्यते ।। (1.2)

लौकिकप्रवृत्तिः –

काव्येन ‘लोकयात्रा प्रवर्तते’ इति भरतमुनिना उक्तदिशा काव्यस्य पठनेन लौकिकज्ञानं सम्पाद्यते |

                                  लोकवृत्तानुकरणं नाट्यमेतन्मया कृतम् ।

                                  उत्तमाधममध्यानां नराणां कर्मसंश्रयम् ।। (1.109)

मम्मटस्य काव्यप्रयोजनलक्षणं तु साक्षात् लौकिकप्रवृत्तिमेव निर्दिशति | यथा –

                                  काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये।

                                  सद्यः परनिर्वृतये कान्तासम्मिततयोपदेशयुजे।।(I-2)

तत्र कीर्तिर्धने कवेरेव, व्यवहारवित्ति-कान्तासम्मितोपदेशौ सहृदयस्य एव अनर्थनिवारणं काव्यकरणेन कवेः पठनेन सहृदयस्य च सम्भवतीति तथा आनन्दोऽपि सहृदयस्य तदवस्थायां कवेश्च सम्भवतीति कैश्चित् व्याख्यातृभिः अकारि |

कर्तव्यताबोधकवैदिकप्रमाणम् – काव्यमुपदेशानुरूपञ्च  –

उपदेशस्त्रिविधः – प्रभुसम्मितः, मित्रसम्मितः कान्तासम्मितश्च | वेदश्शब्दप्रधानः प्रभुसम्मितश्च | पुराणानि तु अर्थप्रधानानि सुहृत्सम्मितानि च | तानि च वेदपरमार्थानेव सुबोधतया कथारूपेण उपवर्ण्य, मित्रमिव कर्तव्याकर्तव्योपदेशं कुर्वन्ति | कान्तासम्मितं काव्यम् | सुशीला कान्ता यथा प्रवर्तयति तथैव काव्यमपि सरसतामापाद्य ‘रामादिवत्वर्तितव्यं न तु रावणादिवत्’ इति कर्तव्याकर्तव्यम् उपदिशति | वेदाः शासकाः, पुराणानि बोधकानि काव्यानि च रञ्जकानि | सरसोपदेशस्तु काव्ये विशेषः | यथोक्तं नाट्यशास्त्रे भरतमुनिः –

                                   हितोपदेशजननं नाट्यमेतद् भविष्यति ।

                                   एतद् रसेषु भावेषु सर्वकर्मक्रियासु च ।। (1.110)

उपसंहारः –

काव्यपठनावसरे मानवः तत्कालं आनन्दम् अनुभूय तादृशमानन्दं शाश्वतं कर्तुं सक्रियो भवेत् | सत्काव्यानि च सहृदयं ब्रह्मानन्दसम्पादने सादरं वितन्वन्ति | वस्तुतः इदमेव काव्यलभ्यं परमं प्रयोजनमिति कथने नास्ति लेशमात्रोऽपि संशयः|

उपयुक्तग्रन्थसूचिः –

  1. काव्यालङ्कारः, भामहः, वारणासी, चौखम्बा संस्कृतसंस्थान,  2002.
  2. काव्यालङ्कारसूत्रवृत्तिः, आचार्यवामनः, वारणासी, चौखम्बा अमरभारती, 1977.
  3. काव्यानुशासनम्, हेमचन्द्रः, वारणासी, कृष्णदास अकादमी, 2000.
  4. काव्यप्रकाशः, मम्मटः, वारणासी, चौखम्बा कृष्णदास अकादमी, 2016.
  5. नाट्यशास्त्रम्, भरतमुनिः, वारणासी, सम्पूर्णानन्दसंस्कृतविश्वविद्यालयः, 2015.
  6. वक्रोक्तिजीवितम्, राजानककुन्तकः, वारणासी, विश्वविद्यालयप्रकाशनम् , 2007.
  7. रसगङ्गाधरः, प्रथमम् आननम्, पण्डितराजजगन्नाथः, कोलकत्ता, दि एशियाटिक् सोसायिटि,

    पुनर्मुद्रणम्, 2018.

  1. काव्यालङ्कारसूत्राणि, आचार्यवामनः, वारणासी, चौखाम्बा सुरभारतीप्रकाशनं, 2013.
  2. साहित्यदर्पणम्, आचार्यविश्वनाथः, वारणासी, चौखम्बाविद्याभवन, 1957.
  3. साहित्यसोपानानि, डाँ. दिवाकर्लवेङ्कटावधानि, संस्कृतानुवादकः डाँ. ईमनि

      वेङ्कटसत्यनारायणमूर्तिः, तिम्मसमुद्रम्, आन्ध्रप्रदेशः, 2004.