आनन्दावाप्तये काव्य-शास्त्राध्ययनम् (शास्त्रदृष्ट्याधानम्)

Rukmangada N.
Research student,
Karntaka Samskrit University
Bengaluru 

Email- aryavvg@gmail.com

Phone : 7899073770

सारांशः –

“विद्या ददाति विनयं विनयाद्याति पात्रताम् । पात्रत्वात् धनमाप्नोति धनात् धर्मं ततः सुखम्॥“ अनेन सुभाषितेन ज्ञायते यत् विद्यायाः अन्तिमं फलं सुखमिति । “सा विद्या या विमुक्तये” इति यथार्थविद्यायाः मुक्तिकारणत्वं ब्रवीतीदं वाक्यम् । मुक्तिश्च आनन्दः । यद्यपि मतानुगुणं मुक्त्यर्थः, तत्प्राप्तिमार्गश्च भिद्यते किन्तु स्वरूपतस्तु मुक्तिर्नाम आनन्दावाप्तिः इति वक्तुं शक्यते । आत्यन्तिकदुःखध्वंसरूपः मोक्षः शास्त्रैकगम्यः तच्च सर्वैः आप्तुं दुर्लभः, शतकोटिजन्मसुकृतवद्भिः प्राप्यः । किन्तु दुःखासम्भिन्नः (“यदवाप्य पश्चात् तद्धेतुप्रयुक्तं दुःखं न स्यात् सः”) आनन्दः सर्वैः आप्तुं शक्यते इत्यतः तदत्र विमर्श्यते। स च आनन्दः काव्य-शास्त्राध्ययनेन, शास्त्रदृष्ट्यादानेन च कथं सर्वैः आप्तुं शक्यः इत्यपि अत्र चिन्त्यते ।

Key words – सुखम्, आनन्दः, आनन्दानुभूतिः, शास्त्रदृष्टिः, काव्यशास्त्राध्ययनम् ।

      अहं हि सर्वकार्याणां कर्ता भोक्ता प्रभुस्तथा । आनन्दाय सदा युक्तं कार्यं हि क्रियते मया ॥

सत्यं हि एतत्, यत्किञ्चित् क्रियते अस्माभिः तत् आनन्दावाप्तये  । “सुखं मे स्यात् दुःखं मा भूत्” इत्येव समेषां लोकानां प्रवृत्तिः । न केवलानां मानवानाम् अपि तु पशुपक्षिणामपि समाना एव प्रवृत्तिः दृष्टा लोके । अध्यासभाष्ये शङ्कराचार्याः –

“पश्वादयः शब्दादिभिः श्रोत्रादीनां संबन्धे सति शब्दादिविज्ञाने प्रतिकूले जाते ततो निवर्तन्ते अनुकूले च प्रवर्तन्ते । यथा दण्डोद्यतकरं पुरुषमभिमुखमुपलभ्य माम् अयं हन्तुमयमिच्छतीति पलायितुमारभन्ते, हरिततृणपूर्णपाणिमुपलभ्य तं प्रत्यभिमुखीभवन्ति । एवं पुरुषा अपि व्युत्पन्नचित्ताः क्रूरदृष्टीनाक्रोशतः खड्गोद्यतकरान्बलवत उपलभ्य ततो निवर्तन्ते, तद्विपरीतान्प्रति प्रवर्तन्ते । अतः समानः पश्वादिभिः पुरुषाणां प्रमाणप्रमेयव्यवहारः” इत्यूचुः ।

एवं च आहारनिद्राभयमैथुनादिषु समाना एव प्रवृत्तिर्दृश्यते पशूनां नराणां च, सा च सुखार्था । बुद्ध्या विशिष्टः नरः । बुद्धिर्हि मानवान् पुशुभ्यः पृथक् करोति । यत्किञ्चित् कार्यं विविच्य कर्तुम्, अकर्तुम् अन्यथा-कर्तुं च समर्थवान् नरः। एवं सत्यपि बहवः आनन्दमभिलक्ष्य एव कार्यं कुर्वाणाः तदपेक्षितं कर्म न कुर्वन्ति । तदुक्तं “पुण्यस्य फलम् (आनन्दम्) इच्छन्ति पुण्यं नेच्छन्ति मानवाः”। अत एव बहवः दुःखिनः लोके दरीदृश्यन्ते । स्वकृतापराधस्य फलं सर्वेऽपि अनुभवन्ति, बहवः अन्यैः कृतस्याप्यपराधस्य फलं दुःखमनुभवन्ति । तद्यथा – जलमालिन्यं, वायुमालिन्यं, अतिभोगः इत्यादिना जायमानं अनारोग्यं, प्रकृतिविकोपः चेति ।

आनन्दपदार्थः –                             

आनन्दशब्दः नद्- धातुना उत्पन्नः समृद्ध्यर्थकः, आङ् उपसर्गपूर्वकः च । आसमन्तात् समृद्धिः, न्यूनतायाः अभावः, पूर्णता इत्यर्थः । अयं च अर्थः पूर्णतया ब्रह्मानन्दे एव सङ्गच्छते।“अविद्याकृतः ब्रह्मात्मनोर्भेदः स च ब्रह्मात्मैक्यविद्यया निरस्ते सति यः आनन्दः समाधावभिव्यज्यते स एव स्वाभाविकः परिपूर्णः एकरूपः ब्रह्मानन्दः” इति तैत्तरीयोपनिषदि टीकायाम् । अनन्दशब्दस्य समानार्थकेन शास्त्रेषु सुखम्, मोदः, हर्षः, प्रमोदः इत्यादि शब्दाः प्रयुज्यन्ते । किन्तु एते आनन्दस्य पूर्णार्थं न द्योतयन्ति । आनन्दस्य लेशमात्राभिव्यक्तिः एतेषाम् “एतस्यैवाऽऽनन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति”। सुखमिति शब्दस्य “सुहितं खेभ्यः” (इन्द्रियेभ्यः) इति व्युत्पत्तिः दर्शिता निरुक्ते । अर्थात् इन्द्रियाणां कृते यद्धितं ददाति तत्सुखम् इति । इदम् आनन्दस्य लेशमात्रं द्योतयति यतः अपूर्णानुभवत्वात् सुखस्य । सुखस्य इन्द्रियजन्यत्वात् अपेक्षाबुद्धिः भवति, न निवर्तते, अतः अपूर्णमित्युक्तम् । “अनुकूलतया वेदनीयत्वात्” सुखं, हर्षः, मोदः सर्वैः इष्यते एव ।

सुखानन्दयोरनुभवः

सुखं, हर्षः, मोदः, प्रमोदः, आनन्दः इत्येषामनुभवावस्थायां किं भवति? सुखं इति कीदृशः अनुभवः, आनन्दः इति कीदृशः अनुभवः? इति चेत् उच्यते – मधुरखादनेन यः सुखानुभवः, चित्रदर्शनसमये यः सुखानुभवः, पूज्यानां, देवतानां वा सेवायां या आनन्दानुभूतिः, कीर्तनसमये या आनन्दानुभूतिः, श्वासप्रश्वासयोः गतिविच्छेदसमये या अनुभूतिः,  इत्यादीन् अनुभवान् अवलोकयामः चेत् वक्तुं शक्यते यत् सुखावस्थायाम्, आनन्दावस्थायां, हर्षावस्थायां, मनसः शान्तावस्थायां च मनः वस्तुना सह, क्रियया सह, देवतामूर्त्या वा सह ऐक्यतां (oneness) भजते, मनः एकत्र स्थितं (feeling of stillness) भवति । तदवस्थायाम् अन्यस्य कस्यचित् पदार्थस्य चिन्तनं वा अपेक्षा वा न उदेति । सुखावस्थायां इदं (ऐक्यं/Stillness) किञ्चित्कालिकम्, परम् आनन्दावस्थायामिदं दीर्घकालिकं/शाश्वतं भवति । 

“सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखं चक्रवत्परिवर्तन्ते दुःखानि च सुखानि च” इति उक्तानुसारेण संसारे सुखानुभूतिः, दुःखानुभूतिः एकस्यानन्तरम् एकं अनुवर्तते । कदाचित् यद्वस्तु सुखं प्रददाति तदेव वस्तु दुःखं प्रदद्यात्। यथा – भर्जितं वस्तु खाद्यमानं सत् तत्समये सुखं प्रददत् अपि तदेव पश्चात् अधिकखादने सति उदरवेदनाय, कण्ठवेदनाय वा कारणं स्यात्, यथा वा Painkiller सेवनं तत्समये वेदनां न्यूनीकृत्य सुखं प्रददाति चेदपि पश्चात् Side-effect द्वारा दुःखहेतुः स्यात्। एवं च यदि सुखमभिलक्ष्य अस्माकं प्रवृत्तिः स्यात् तर्हि पश्चात् दुःखमपि अस्माभिः अनुभोक्तव्यं भवेत्। यदि आनन्दमभिलक्ष्य अस्माकं प्रवृत्तिः तर्हि आनन्दानुभूतेः पश्चात् दुःखं न स्यात्। यथा आयुर्वेदौषधस्वीकारः तत्समये तिक्तत्वात् प्रतिकूलवेदनीयमपि पश्चात् रोगनिवर्तकत्वेन आनन्दहेतुः स्यात् ।

आनन्दविषये आर्षं चिन्तनम्  

आनन्दः एव समेषामस्माकमन्तिमं लक्ष्यम् इत्यभ्युपगम्यते । पाश्चात्याः मानवानामुत्पत्तिः पापाद्भवति इति वदन्ति । किन्तु अस्माकं पूर्वजाः जगदुत्पत्तिः आनन्दाद्ध्येव भवति इत्यवोचन्।“आनन्दाद्ध्येव खल्विमानि भूतानि जायन्ते, आनन्देन जातानि जीवन्ति, आनन्दं प्रयन्त्यभिसंविशन्ति” । यतः उत्पत्तिः तत्रैव लयः इत्यतः अस्माकमन्तिमं गम्यं स्थानम् आनन्दः इति तु सिद्धमेव । गम्यमार्गोऽपि आनन्दयुक्तः एव स्यात् ।

 किं नाम शास्त्रम् –

सर्वैः आप्तुमिष्टस्य आनन्दस्य विषये अस्माकं पूर्वजानां कः अभिप्रायः? आनन्दावाप्तये काव्य-शास्त्राध्ययनं कथं सहकरोतीति विमर्श्यते । संस्कृतवाङ्मयं त्रिधा विभक्तम् । तानि – 

  1. प्रभुसंमितम् – प्रभुवत् कर्तव्याकर्तव्यम् अनुशास्ति इत्यतः प्रभुसदृशं वाङ्मयम् । वेदवाङ्मयम् ।
  2. मित्रसंमितम् – मित्रवद् कर्तव्याकर्तव्येषु मार्गदर्शनं करोतीत्यतः मित्रसदृशं वाङ्मयम् । इतिहासः, स्मृतयः पुराणानि च ।
  3. कान्तासंमितम् – कान्ता यथा प्रियवचनैः मनः तोषयति, धर्ममार्गे च प्रवर्तयति तथा कर्तव्याकर्तव्येषु विवेकं जागरयति तद्वद् इदं करोतीत्यतः कान्तासदृशं वाङ्मयम् । काव्यम् । 

शास्-धातुना उत्पन्नः अनुशासनार्थकः शास्त्रशब्दः । १. “प्रवृत्तिर्वा निर्वृत्तिर्वा नित्येन कृतकेन वा । पुंसां येनोपदिश्येत तच्छास्त्रमिति कथ्यते ॥” इति च शास्त्रलक्षणम् । २. पूर्वजाः स्वानुभवान् लोकोपकाराय शब्दैः उपनिबबन्धुः । तस्मात् शास्त्रं पूर्वजानामनुभूतिः इत्यपि वक्तुं शक्यते। ३. “अथ यदि ते कर्मविचिकित्सा वा वृत्तविचिकित्सा वा स्यात् । ये तत्र ब्राह्मणाः संमर्शिनः । युक्ता आयुक्ताः। अलूक्षा धर्मकामाः स्युः । यथा ते तत्र वर्तेरन्। तथा तत्र वर्तेथाः ………. तथा तेषु वर्तेथाः।“ इत्यनेन विवेकिनः, धर्मकामाः, महात्मानः शास्त्रपदेन लक्ष्यन्ते । एवं च वेदान्तादि शब्दरूपाणि, महात्मनां जीवनशैली (The case study of Rushis) तथा महात्मानः शास्त्रपदेन अभिधेयाः इति वक्तुं शक्यते ।

 एवं च शास्त्राणाम् अध्ययनं तदा सार्थकं भवति यदा तेन शास्त्रदृष्टिः अर्थात् विवेकः प्राप्तः स्यात् । एवं च शास्त्राध्ययनमित्यनेन शास्त्रदृष्टेः आधानं, विवेकपूर्वकं ज्ञानमत्र अभिलषितम् । पञ्चतन्त्रं, रघुवंशादि काव्यान्यपि कर्तव्याकर्तव्यतां बोधयन्ती तद्वारा शास्त्रदृष्ट्याधाने सहकुर्वन्ति ।

 आनन्दावाप्तये काव्य-शास्त्रादीनि –

काव्य-शास्त्राणाम् अध्ययनं, शास्त्रदृष्टिः, शास्त्रेण उपस्थापितविचाराः, शास्त्रशैली च आनन्दावाप्तौ कथं सहकरोतीति उपस्थाप्यते – 

१. काव्यानन्दः, शास्त्रानन्दः – काव्यानां पठनेन, नाटकानां दर्शनेन च, रसनिष्पत्या सहृदयानां भावनात्मकः आनन्दः उपजायते । ये च बुद्धिमत्तायै प्राधान्यं यच्छन्ति तैः काव्येषु छन्दोलङ्कारादीनाम् अवलोकनेन, शास्त्राध्ययनसमये उपस्थापितोपपत्त्यनुपपत्तिभिः(शैल्या) बौद्धिकः आनन्दः अनुभूयते। अत्रोक्तिः – “काव्य-शास्त्रविनोदेन कालो गच्छति धीमताम्” इति । काव्यपठनसमये, नाटकादीनां दर्शनसमये, शास्त्राध्ययनसमये च यः आनन्दः सः काव्यानन्दः/शास्त्रानन्दः।  

२. कार्य-कारणज्ञानम् – शास्त्रे विषयोपन्यासः कार्य-कारणोपन्यासपूर्वकः भवति । एवं च जगति यच्च यावच्च सम्भवति तत्र केनचित् कारणेन भाव्यमेव इति तु स्थितम् । जीवेन कदाचित् दुःखं, क्रोधः, अशान्तिः अनुभूयते तत्र किञ्चित् कारणं भवत्येव । तत्कारणान्वेषणाय शास्त्रसंस्कारः सहकरोति । जगति दुःखरूपसंसारस्य हेतुत्वेन कामः मन्युश्च उपन्यस्तः वेदे। “कामोऽकार्षीत्…… कामः कर्ता नाहं कर्ता….मन्युरकार्षीत्..…मन्युः कर्ता नाहं कर्ता….” इति । मूलकारणे नष्टे तत्कार्यभूतान्यपि स्वयं नश्यन्ति इति तु सिद्धमेव । एवं दुःखकारणनाशपूर्वकः आनन्दः उपजायते ।

३. देह-देहिनोः ज्ञानम् – देहात्मबुद्धौ(देहः एव आत्मा इति बुद्धिः) सत्यां काम-मन्य्वोः उत्कर्षः सहजं दृश्यते लोके । यदा देहः भिन्नः तद्देहकार्यहेतुभूतः देही अन्यः इति ज्ञानं भवति तदा देहे अभिमानः न्यूनः भवति । देहविषये यदि अभिमानः न्यूनः तर्हि दुःखहेतवः नश्यन्ति । तेन अत्मनः उन्नतये पुण्यपापादि दृष्ट्या पुण्यावप्तये धर्मकर्येषु सहजा प्रवृत्तिः भवति ।

४. सर्ग-प्रतिसर्गज्ञानम् – जगदुत्पत्ति-विनाशज्ञानेन स्वविषयकज्ञानमुत्पद्यते ।“जातस्य हि ध्रुवो मृत्युः धृवं जन्म मृतस्य च” इत्यादीनां ज्ञानेन देहविषकाभिमानरूपः शोकहेतुः नश्यति । अनन्दरूपेण चैतन्येन समग्रं जगदिदमुत्पद्यते अन्ते च तत्रैव प्रतिसर्गं याति । एवं च अहम् अनन्दात्मकस्य चैतन्यस्यैव अंशः, “अमृतस्य पुत्रोऽहम्” इति रूपेण ज्ञानमुत्पद्यते । स्वविषयकं यथार्थज्ञानम् आनन्दावाप्तिहेतुः ।

५. बुद्ध्याद्यन्तःकरणज्ञानम् – “मन एव मनुष्याणां कारणं बन्ध-मोक्षयोः” । बुद्ध्याद्यन्तःकरणज्ञानेन अस्माकं प्रवृत्तिहेतुज्ञानमुदेति । कार्यस्य प्रवर्तने निवर्तने कारणीभूतस्य मनसः बुद्धेः वा यदा सम्यक् ज्ञानमुदेति तदा कर्तव्ये प्रवृत्तिः अकर्तव्ये निग्रहः सुलभाय स्यात् । 

६. जीवनयापनाय मार्गदर्शनम् । “सत्यं वद। धर्मं चर । स्वाध्यायान्माप्रमदः” इत्यादिभिः आदेशवाक्यैः, कैश्चित् दृष्टान्तैः, आख्यानैः च समग्रं संस्कृतं वाङ्मयम् अस्माकं जीवनं प्रति मार्गं निर्दिशति । तदनुगुणजीवनयापने सति आनन्दावाप्तिः सुलभा एव ।

शास्त्राणि कदाचित् साक्षात् स्ववाक्यैः कर्तव्याकर्तव्यतां बोधयन्ति, कदाचित् उपाख्यानैः, कदाचित् अर्थवादैः। यद्यपि शास्त्राग्रन्थाः बहवः, उपस्थापनविषयाः च भिद्यन्ते, मार्गाः भिद्यन्ते किन्तु समेषां गम्यं स्थानं तु समानं । शास्त्राध्ययनफलमन्तिमम् एकं स च विवेकज्ञानम्, तेन च आप्तुमिष्टः आनन्दः ।

उपसंहारः

“कर्मण्येवाधिकारस्ते मा फलेषु कदाचन” इति कर्मणि प्रवृत्तिः, “सर्वेषु जीवेषु आत्मदृष्टिः” च शास्त्राध्ययनेन संस्कृतस्य मनसः एव भवितुमर्हति । अतः आनन्दावाप्तये, शास्त्रदृष्ट्याधानाय, अर्थात् विवेकज्ञानाय च काव्य-शास्त्राध्ययनं सहकरोति । तथा विवेकज्ञाने सत्यपि कदाचित् अस्माकं व्यवहारः दुर्योधनवत् “जानामि धर्मं न च मे प्रवृत्तिः” इतिवद् भवति, किन्तु तेन आनन्दावाप्तिर्न भवति इति तु तस्यैव उदाहरणेन सुविदितम् । तदभ्युपगम्य यदि आप्तुमिष्टस्य आनन्दस्यैव आप्तिः अपेक्षिता तर्हि तादृशस्य विषयानन्दस्य, काव्यानन्दस्य, आत्मानन्दस्य च अनुभूतौ काव्य-शास्त्राध्ययनं, शास्त्रदृष्टिः नितरां सहकरोति, मार्गदर्शकं च स्यात् । 

परामृष्टाः ग्रन्थाः –

 

  • स्वामी गौरीशङ्कर भिक्षु, सर्वलक्षणसङ्रहः, २००४, प्रकाशकः चौखम्बा संस्कृत सीरीज आफिस्, वाराणसी, चौखम्ब प्रेस ।

 

    1. सम्पादकः श्री एस्. सुब्रह्मण्यशास्त्री, उपनिषद्भाष्यम्, खण्डः १, क्रिस्ताब्दः २००४,  श्री दक्षिणामूर्ति मठ प्रकाशनम्, महेश अनुशन्धान संस्थानम्, वाराणसी ।

 

  • सम्पादकः ए. एन्. गङ्गाधर शास्री, तैत्तरीय यजुर्वेदीययजुरारण्यकम्, २००५, श्री विद्यागनपति प्रकाशनम्, बेङ्गलूरु ।
  • सम्पादकौ तारानाथ न्याय तर्कतीर्थः तथा अमरेन्द्रमोहन तर्कतीर्थः, न्यायदर्शनम्, १९८५, मुन्शिराम् मनोहरलाल प्रकाशनम्, राणि झान्सी मार्गः, देहली ।
  • कर्णाटदेशीयझळकीग्रामनिवासिश्रीमद्रामभट्टात्मजेन महामहोपाध्याय-भीमाचार्येण विरचितः, न्यायकोशः, महामहोपध्याय अभ्यङ्करोपाह्व-वासुदेवशास्त्रिणा तृतीयावृत्त्यर्थमुपबृंहितः संशोधितश्च, चौखम्बा सुरबभरती प्रकाशनम्, वाराणसी, १९२८ (पुनर्मुद्रणम्) । 

 

  1. स्यार-राजा-राधाकान्तदेव-बाहादुरेण विरचितः,शब्दकल्पद्रुमः, पाणिनिमतानुसारि-प्रत्येकशब्दव्युत्पत्ति-मूलग्रन्थातिरिक्तबहुलशब्दार्थ-प्रमाण-प्रयोग-पर्याय-धातुपदोदाहरणादिभिः नूतनसङ्कलितबहुलशब्द-तदर्थ-तत्प्रमाण-प्रयोगादिसहितः सुप्रशस्तपरिश्ष्टेन च सार्धं श्रीवरदाप्रसादवसुना तदनुजेन श्रीहरिचरणवसुना च अशेषसास्त्रविशारदकोविदवृन्दसाहाय्येन संपरिवर्धितः । 

नागराक्षरैः प्रकाशितश्च, बाबा प्रसादबसु तथा बाबा चरण बसुप्रकाशितः, मुद्रणम् के.पि.बसु, कल्कत्ता, शकाब्दः १८२३।

    1. आचार्य जगदीशशास्त्रिणा सम्पादितः (१९८०) ब्रह्मसूत्रशाङ्करभाष्यम्, मोतिलाल बनारसीदास, वाराणसी. 

 

  • अन्नम्भट्टविरचितः (१९८०) “तर्कसङ्ग्रहः” श्री रमकृष्ण मठ प्रकाशनम्, मैलापुर्, मद्रास्.
  • स्वामी आदिदेवानन्दस्वामिभिः सम्पादितः (१९९८)पातञ्जल-योगदर्शनम् व्यासभाष्यसहितम्, श्रीरामकृष्ण आश्रम, मैसूरु ।

 

  1. नारायण राम आचार्य काव्यतीर्थेन सम्पादितः (पुनर्मुद्रणम्-२०१४)“सुभाषितरत्नभाण्डागारम्” चौकम्ब संस्कृत प्रतिष्ठानम्, दिल्ली.