अनुगतजातिनिरासः

लेखकः – पवन. हुनगुन्द
Mobile: 9481787057

नैयायिकास्तावत् अनुगतव्यहारव्युत्पत्तिसिद्ध्यर्थं अनुगतजातिं अङ्गीकुर्वन्ति । तदेव सामान्यमित्यभिधीयते । तस्य च लक्षणं प्रोक्तं   ‘[1] नित्यमेकं अनेकानुगतं सामान्यमिति  ‘ इति । नित्यव्यक्तिषु समवेतः यः धर्मविशेषः स एव जातिरित्यभिधीयते ।  तत्र द्वैतिनः अनुगतजात्यभावेऽपि अनुगतव्यवहारादीनां सिद्धिः सम्भवतीति आतिष्ठन्ते । तत्र कुतः द्वैतवादिनः अनुगतजातिं नाङ्गीकुर्वन्ति ? कथं ते नैयायिकोक्तबाधकान् परिहरन्ति इति तावत्पश्यामः ।

द्वैतसिद्धान्तरीत्या अनुगतजातिस्तु  नाङ्गीक्रियते एव ।  श्रीमदनुव्याख्याने श्रीमदानन्दतीर्थभगवत्पादाचार्यैः

नरत्वादिकमप्येवं तत्तद्धर्मतयेयते ।

न सर्वधर्म एकोऽस्ति समुदायस्तु भिन्नगः [2]

इत्यादिना  समयपादे वैशेषिकनये प्रतिपादितं दरीदृश्यते । यथा हि नरेषु तदीयं रूपादिकं प्रतिनियतं दृश्यते तथा नरत्वादिसामान्यमपि तत्तन्नियतधर्मतयैव दृश्यते । अतः नरत्वादिसामान्यं प्रातिस्विकमेव इति तत्र प्रत्यक्षमेव प्रमाणम् ।

अथवा अनुमानप्रमाणसूचनमपि अनेन भवतीति टीकाकृद्भिः श्रीमन्न्यायसुधायां[3]  प्रतिपाद्यते । ‘  यः  अनेकाश्रितो धर्मो नासौ एकैकप्रतीतौ प्रतीयते ‘  यथा द्वित्वादिधर्मः अनेकाश्रितः न एकैकप्रतीतौ प्रतीयते । इदीनीं तु नरत्वादिकं एकैकप्रतीतौ प्रतीयतेऽतो न नरत्वादिकं अनुगतं किन्तु प्रातिस्विकमेवेति ज्ञायते । किञ्च नरत्वादिसामान्यं नानुगतम् । यतो हि  एकस्मिन्नरे नष्टे नरत्वमपि नष्टमेवेति अन्यत्र नरत्वस्य दर्शनं न स्यात् । दृश्यते चान्यनरेषु नरत्वमतो नरत्वं प्रतिव्यक्तिभिन्नमित्येव स्वीकर्तव्यम् । तदुक्तं अनुव्याख्याने –

एकस्मिन्सविनष्टेऽपि यतोऽन्यत्रैव दृश्यते[4] । इति ।

एवं  च अयमत्र अनुमानप्रयोगः ‘ नष्टानष्टवर्ति नरत्वं भेदवत् विरुद्धधर्माधिकरणत्वात् छायातपवत् ‘ इति । अथवा ‘ नरत्वं विनष्टनरत्वाद्भिद्यते अविनष्टत्वाद्घटवत् ‘ इत्यपि प्रोयक्तुं शक्यते इति टीकाकृद्भिः श्रीमन्न्यायसुधायां  अभिहितम् ।

ननु  नरे नष्टेऽपि तद्गतं नरत्वं न नश्यति इति चेन्न । नरे नष्टे तदाश्रितनरत्वस्यापि नाशः अङ्गीकार्यः । आश्रयस्य नष्टत्वात् ।’  विमतं नरत्वं  विनाशवत् विनाशवदाश्रयकत्वात् ‘  इत्यनुमानविरोधापत्तेः । किञ्च नरत्वादिसामान्यं एकमेव सर्वत्रानुगतमित्यत्रापि प्रमाणं नास्ति । तथा च नरत्वं प्रतिव्यक्तिभिन्नमित्यत्र प्रत्यक्षानुमाने प्रमाणतया उक्ते वेदितव्ये ।

एवं नरत्वादिसामान्यं प्रातिस्विकमित्यत्र श्रुतिरपि प्रमाणम् ।

 [5]भिन्नाश्च भिन्नधर्माश्र्च पदार्था निखिला अपि ।

स्वैः स्वैर्धर्मैरभिन्नाश्च  स्वरूपैरपि सर्वशः ॥ इति

अस्यायमाशयः- सर्वे पदार्थाः परस्परं भिन्नाः तद्गताः धर्माश्र्च  परस्परं भिन्ना एव । अयावद्द्रव्यभाविगुणगुणिनोः सविशेषाभेदः वर्तते इति । तथा च जातेरपि धर्मत्वात् आश्रयभेदेन जातेरपि भेदोऽवश्यं अङ्गीकार्यः । तथा च जातिरूपधर्मस्याप्यनुगतत्वं नास्ति ।

सामान्यस्याननुगतत्वे न्यायमते प्रतिपादितबाधकानि

  1. ननु सामान्यस्याननुगतत्वं नाङ्गीकर्तुं शक्यम् । तथाङ्गीकारे बाधकसद्भावात् । तथा हि यदि सामान्यमननुगतं तर्हि सङ्गतिग्रहणरूपव्युत्पत्तिरेव न स्यात् ।सर्वेषु गोपिण्डेषु तावत् गोशब्दव्युत्पत्तिरपेक्षिता । सा च व्युत्पत्तिः विना अनुगतसामान्यङ्गीकारेण न हि सिद्ध्यति । वृद्धव्यवहारोपदेशादिना व्युत्पत्तिः सम्भवति ।व्यवहारोपदेशादिकं च प्रतिपिण्डं कर्तुमशक्यम् पुरुषायुषपर्यवसानप्रसङ्गात् । उपदेशादिना विना व्युत्पत्त्यङ्गीकारे नियामकाभावात् गोशब्दस्य गवीव अश्र्वेऽपि व्युत्पत्तिः स्यात् । अनुगतगोत्वरूपसामान्ये अङ्गीकृते तु नायं दोषः सम्भवति । गोशब्दप्रवृत्तिनिमित्ततया उपदेशादिना अनुगतगोत्वेऽवगते सति   गोत्वविशिष्टपिण्डः यो यो वर्तते स सर्वो गोशब्दवाच्य’ इति व्युत्पित्सुः प्रत्येति । तस्मादनेकेष्वेकशब्दसङ्गतिग्रहणान्यथाऽनुपपत्तिरेवानुगतधर्मसत्वे प्रमाणमित्यवगन्तव्यम् । ननु भूतमूर्तपदशक्यतावच्छेदसामान्यरहितेष्वपि पृथिव्यादिषु भूतादिशब्दव्युत्पत्तिः दृष्टा इति चेन्न । तत्रापि अनुगतजातिघटितबाह्यैकेन्द्रियग्राह्यत्वादिरूपोपाधिमत्वेन व्युत्पत्तिसम्भवात् ।
  2. किञ्च अनुगततन्तुत्व-पटत्व-रूपसामान्याभावेकार्यकारणभावावधारणं दुःशकं प्रसज्येत । ततश्र्च कार्यार्थिनः कारणे प्रवृत्तिः न स्यात् । अनुगतसामान्याङ्गीकारे तु नायं दोषः । यत्र तन्तुत्वं वर्तते तत्र पटकारणत्वमपि भवेत् इति निश्र्चित्य पटार्थी तन्तुग्रहणे प्रवृत्तो भवति । कार्यकारणभावज्ञानं च तस्य सुकरमिति अनुगतसामान्यमङ्गीकार्यम् । कार्यकारणभावग्रहान्यथानुपपत्तिरेव अनुगतजातिसत्वे प्रमाणमित्युक्तं भवति । किञ्च कार्यकारणभावविषये हि अन्वयव्यतिरेकौ उपदेशो वा प्रमाणमिति वक्तव्यम् । अनुगतकार्यतावच्छेदककारणतावच्छेदकधर्मशून्ययोः  पदार्थयोः, अन्वयव्यतिरेकयोः ज्ञातुमशक्यत्वात् । अतः कार्यकारणभावावधारणार्थं अन्वयव्यतिरेकयोर्ज्ञानमावश्यकम् । तज्ज्ञानं च  विना अनुगतसामान्यं  दुःशकमिति ।

किञ्च नियमव्यभिचारज्ञानं च दुःशकं भवति । एकतन्तुपटव्यक्त्यपेक्षया नियमस्य रासभेऽपि सत्वात् रासभोऽपि पटं प्रति कारणं स्यात् । पटान्तरं प्रति रासभो व्यभिचारी चेत् अयं तन्तुरपि पटान्तरं प्रति व्यभिचारीति तन्तोरपि पटकारणत्वं   न स्यात् । तथा च तन्त्वादौ नियमस्य, रासभादौ व्यभिचारस्य ज्ञानमनुगतसामान्यं विना दुःशकं प्रसज्येत ।

  1. अनुगतसामान्याभावे व्याप्तिज्ञानमप्यनुपपन्नं स्यात् । तथा हि अत्रापि अनुगतधर्मविधुराणां व्यावृत्तानामन्वयव्यतिरेकौ दुरधिगमौ स्याताम् ।
  2. सामान्यापवादश्च न स्यात् । द्वयोः प्रमाणयोः एकस्वरूपविषयत्वे अन्यतरस्याप्रामाण्यमेव स्यात् । भिन्नविषयत्वे तु अपवादविषय इति न कश्चन सिद्ध्यति । तथा हि ‘ न हिंस्यात् सर्वा भूतानि ‘ इति उत्सर्गस्य ‘ अग्निषोमीयं पशुमालभेत ‘  इति अपवादस्य हिंसारूपैकस्वरूपविषयत्वे विधिनिषेधयोरन्यतरस्याप्रामाण्यं भवति । एकस्वरूपविषयत्वाभावे तु उभयोरपि प्रमाणत्वात् क उत्सर्गः क अपवादः । तथा च हिंसात्वरूपसामान्यमाश्रित्य प्रवृत्तोत्सर्गप्रमाणविषयत्वप्रसक्तिमानेव अपावदप्रमाणविषयो भवति ।  तथा चानुगतजातिरङ्गीकार्या इति भावः ।

किञ्चानुगताकारप्रत्ययः अनुपपद्यमानः अनुगतं सामान्यं साधयति । न च व्यावृत्तेष्वनुगताकारबुद्धिः सम्भवति । तथा सति प्रतीतेर्भ्रान्तित्वं स्यात् । ‘ गौः ‘  इति अनुगतप्रत्ययः अन्यापोहं वदति तथाच नानुगतसामान्यस्यावश्यकता इति चेत्तर्हि अपोहस्यापि व्यावृत्तत्वात् पुनरनुगतप्रतीतिरनुपन्नैव भवति । अतो अनुगतसामान्याङ्गीकार एव उचितः । तथा च विधिप्रत्ययस्य विधिविषयत्वं सुष्टु उपपद्यते । अपोहविषयत्वे तु विधिप्रत्ययसम्पादनं दुःशकं प्रसज्येत   । एवं गोत्वादिसामान्यस्यानुगतत्वे नित्यत्वमनिवार्यमेव इति ।

सादृश्येनैव व्युत्पत्त्यादिकम्

एवं प्राप्ते श्रीमदाचार्यैः प्रतिविहितं व्युत्पत्तिरपीत्यादिना –

[6]इति व्युत्पत्तिरपि हि सादृश्येनैव गम्यते ।

व्युत्पत्तिः , कार्यकारणभाववधारणं, व्याप्तिज्ञानं, सामान्यापवादन्यायः इत्येतत्सर्वं सादृश्येनैव उपपद्यते इत्यभ्युपगम्यते । सादृश्यं तावदस्मसन्मते पदार्थान्तरम् । तेन सादृश्येनैव व्युत्पत्त्यादिकं सर्वमुपपद्यते तस्मात् गोत्वादेरनुगतत्वं नित्यत्वं च कल्पनीयम् ।

सादृश्येन तावत् शब्दव्युत्पत्तिः सम्भवति । शक्तिग्रहोपायास्तावद्बहवः सन्ति । तत्र यदोपदेशतो व्युत्पत्तिः सम्भवति  तदा अयं गौः इत्युपदेशवाक्यं  व्याप्तिग्राहकतयोपयुज्यते । सादृश्यरूपोपधानेन सर्वेषु गोपिण्डेषु युगपदेककालावच्छेदेन अय’मिति शब्दः प्रवर्तते । तत्र अयं गौ’रित्यस्य अयमेतत्सदृशाः सर्वेऽपि गोशब्दवाच्या इत्यर्थः वक्त्राभिप्रेतो भवति । श्रोत्रा च तथावधार्यते । उभयोः वक्त्रुश्रोत्रोरपि सार्वत्रिकव्युत्पत्तिकामसत्वेन  ‘ अयं गौः ‘  इतिवाक्यस्यैकपिण्डविषयकत्वकल्पनानुपपत्तेः । शब्दस्य वाचकत्वशक्तिरपि सादृश्यव्यापिका इत्येवाभ्युपगम्यते । एतदेवोक्तमनुव्याख्याने

 

सर्वेषु युगपच्छब्दः सदृशेषु प्रवर्तते [7]। इति ।

शक्तिः सादृश्यगा यतः[8] इति च ।

तथा  चायमत्र समुदितार्थः । व्युत्पत्त्यर्थं तावन्नानुगतं किमप्यङ्गीकरणीयम् । सादृश्येनैव सार्वत्रिकव्युत्पत्त्युपपत्तेः । ननु सादृश्यमननुगतमेव कथं तेन सादृश्येन व्युत्पत्तिः सम्भवति । सादृश्यस्यानुगतत्वे सामान्यस्यैवानुगतत्वमङ्गीक्रियताम् । किमपराद्धं सामान्येन । सादृश्यस्य प्रातिस्विकत्वे कथं सार्वत्रिकव्युत्पत्त्यङ्गत्वमिति तत्र टीकाकृद्भिः  श्रीमन्न्यासुधायां[9] समाहितम् । ‘  न हि सादृश्यं शब्दशक्तिविषयतया प्रवृत्तिनिमित्ततया वा अभ्युपगम्यते किन्तु लिङ्गतया ‘  इति । सादृश्यं न शक्तिविषयः नापि प्रवृत्तिनिमित्तम् । यथा न गन्धवत्वं  पृथिवीशब्दवाच्यम् , नापि गन्धवत्वं पृथिवीशब्दप्रवृत्तिनिमित्तम् किन्तु पृथिवीत्ववत्या व्यक्तेः पृथिवीशब्दवाच्यत्वे लिङ्गमेव । तथा सादृश्यमपि लिङ्गतयोपयुज्यते । तथा च ते ते व्यावृत्तकारा पदार्था एव     तैस्तैर्व्यावृत्तैः द्रव्यगुणकर्मसामान्यादिभिर्निमित्तैः तत्तच्छब्दवाच्याः । तथा हि दण्ड्यादिशब्दे दण्डरूपं द्रव्यम्, शुक्लादिशब्दे गुणः, पाचकादिशब्दे पाचनरूपं कर्म, गवादिशब्दे व्यावृत्तमेव सामान्यं प्रवृत्तिनिमित्तमिति द्रष्टव्यम् । यथा दण्डरूपादयः यथा व्यावृत्ता अपि प्रवृत्तिनिमित्ततया अङ्गीक्रियन्ते तथा व्यावृत्तं गोत्वादिसामान्यं प्रवृत्तिनिमित्तं भवति । सादृश्यं तु व्यावृत्तमपि एतेषामवबोधे लिङ्गतयोपयुज्यते ।

यदा ‘ अयं गौः ‘  उपदेशपूर्विका व्युत्पत्तिः, तदा तद्वाक्यं व्याप्तिग्राहकं भवति । तद्वाक्यस्य ‘  अयं चैतत्सदृशा सर्वे गोशब्दवाच्याः ‘  इत्यर्थसद्भावात् । व्यवहारपूर्विकव्युत्पत्तौ तु भूयोव्यवहारादिदर्शनेन सादृश्यव्याप्यताज्ञानं भवति । ततश्च ‘अयं गौः’  इति वाक्येनावगतव्याप्तिः पुरुषः अनुमिमीते  ‘ अयं गोशब्दवाच्यो भवितुमर्हति तत्सदृशत्वात् ‘  इति । तत्र ‘ यः तत्सदृशः स गोशब्दवाच्यः’  इति व्याप्तिरवगन्तव्या । सादृश्यस्याननुगतत्वेऽपि स्वप्रतियोगित्वसम्बन्धेन अतीतादीभिः  स्वानुयोगित्वसम्बन्धेन पुरोवर्तिभिः सम्बद्धत्वात् त्रिविक्रमवत्[10]  अनुगतकार्यकारित्वमङ्गीक्रियते इति न कश्चन दोषः । एवमेव सादृश्येनैव कार्यकारणभावावधारणादिकं च सम्भवतीति द्रष्टव्यम् । तथा चानुगतजात्यनङ्गीकारे किमपि बाधकं नैव पश्याम इति रूपादिवज्जातिरूपधर्मा अपि प्रातिस्विका एव नानुगता  इति सिद्धम् । एवं द्वैतसिद्धान्ते अनुगतजातिं विना सर्वव्यवहारोपपत्तिः सम्भवतीति समर्थितम्  इति ध्येयम् ।

।। श्रीकृष्णार्पणमस्तु ।।

[1] . तर्कसङ्ग्रहः जातिनिरूपणम् . चौ. सं. स. पुट सं. 75

[2] . श्रीमदनुव्याख्यानम् वैशेषिकाधिकरणम् । 2.2.122

[3] श्रीमन्न्यायसुधा. वै.अ. पुटसं. 3661 उ.म पु.

[4] . अनुव्याख्यानम् वै.अ  2.2.123

[5].  अनुव्याख्यानोदाहृता श्रुतिः  वै.अ 2.2.124

[6].  अनुव्याख्यानम् वै.अ 2.2.126

[7] .अनुव्याख्यानम् वै.अ 2.2.127

[8]. अनुव्याख्यानम् .वै. अ 2.2.128

[9] . वैशेषिकाधिकरण् श्रीमन्न्यायुसधा. पुटसं. 3699 उ.म पु.

[10] . तर्कताण्डवम् . श्रीव्यासतीर्थाः द्वै. वे. प्र. पुटसं. 553

mba Sanskrit Sansthan, 2000