श्राद्धभेदविवेचनम्
डा.मु.वें.ना.पवनकुमारशर्मा
सहायकाचार्याः
पौरोहित्यसङ्कायप्रमुखः
श्रीवेङ्कटेश्वरवेदविश्वविद्यालयः
तिरुपति – 517502
श्राद्धमिति कर्मनाम। श्रद्धया स्वपितॄनुद्दिश्य यत्कर्म क्रियते तच्छ्राद्धमिति तल्लक्षणमुक्तम्। अस्मिन् श्राद्धकर्मणि होमो भोजनं पिण्डदानं चेति त्रीणि प्रधानानि भवन्ति। तत्र होमः सनातन-सोमपथ-वैभ्राजलोकेषु विद्यमानेभ्यः, साध्य-देवयोनि-देवाख्यानां जनकेभ्यः, सोम-यम-अग्न्याख्यैः देवैः सम्पृक्तेभ्यः सोमसत्-बर्हिषत्-अग्निष्वात्ता इति नाम्ना व्यवह्रियमाणेभ्यः नान्दीमुखेभ्यः क्रियते। भोजनपिण्डदाने अश्रुमुखेभ्यः वसु-रुद्र-आदित्याख्यैः देवैः सम्पृक्तेभ्यः पितृ-पितामहप्रपितामहेभ्यः क्रियेते। तत्र श्राद्धान्यनेकानि भवन्ति। तेषां भेदाः धर्मशास्त्रे बहुधा प्रपञ्चिताः। तेषां विभागः द्विधा-त्रिधा-पञ्चधा-द्वादशधा कर्तुं शक्यते। एकैकस्य श्राद्धभेदस्य एकैकं लक्षणमुक्तम्। तदत्र प्रपञ्च्यते।
श्राद्धद्वैविध्यम्
तत्रादौ श्राद्धद्वैविध्यं प्रदर्श्यते। सामान्यतः पार्वणैकोद्दिष्टभेदेन श्राद्धं द्विविधं भवति। त्रिपुरुषोद्देशेन अर्थात् पितृ-पितामह-प्रपितामहान् उद्दिश्य यत्क्रियते तत्पार्वणश्राद्धमित्युच्यते। एकपुरुषोद्देशेन अर्थात् पितरमेकमेवोद्दिश्य यत्क्रियते तदेकोद्दिष्टश्राद्धमित्युच्यते।
उक्तं च महर्षिणा कण्वेन-
एकमुद्दिश्य यच्छ्राद्धमेकोद्दिष्टं प्रकीर्तितम्।
त्रीनुद्दिश्य यत्तद्धि पार्वणं मुनयो विदुः॥ इति।
श्राद्धत्रैविध्यम्
एवं द्विविधमपि श्राद्धं पुनः नित्य-नैमित्तिक-काम्यभेदेन त्रिधा भिद्यते। ग्रहणश्राद्ध-नान्दीश्राद्धादीनां पूर्वोक्तविभागे अनन्तर्भावाद्युज्यत एवायं विभागः। उक्तं च कालदर्शे-
श्राद्धद्वयं तथोद्दिष्टमेकोद्दिष्टं च पार्वणम्।
नित्यं नैमित्तिकं काम्यमिति तच्च पुनस्त्रिधा॥ इति।
तत्र अमावास्यादिनियतोपाधौ विहितं श्राद्धं नित्यश्राद्धमित्युच्यते। उपरागादौ अनियतनिमित्ततया क्रियमाणं श्राद्धं नैमित्तिकश्राद्धमित्युच्यते। तिथिनक्षत्रवारादिषु कामनोपाधौ क्रियमाणं श्राद्धं काम्यश्राद्धमित्युच्यते।
पञ्चधा विभागः
तथा श्राद्धस्य पञ्चधा विभागोऽपि स्मृतिसिद्ध एव। स च-
- काम्यश्राद्धम् 2. नैमित्तिकश्राद्धम् 3. वृद्धिश्राद्धम्
- एकोद्दिष्टश्राद्धम् 5. पार्वणश्राद्धम् इति प्रसिद्धः।
तत्राहाश्वलायनः-
काम्यं नैमित्तिकं वृद्धिरेकोद्दिष्टं च पार्वणम्।
श्राद्धं पञ्चविधं प्राहुर्विप्राः शास्त्रस्य वेदिनः॥ इति।
द्वादशधा विभागः
विश्वमित्रेण द्वादशधा श्राद्धभेदाः प्रपञ्चिताः। लेशबोधाय पट्टिकाद्वारा तेऽत्र प्रदर्श्यन्ते।
1. नित्यश्राद्धम् | 2. नैमित्तिकश्राद्धम् | 3. काम्यश्राद्धम् |
4. वृद्धिश्राद्धम् | 5. सपिण्डीकरणश्राद्धम् | 6. पार्वणश्राद्धम् |
7. गोष्ठीश्राद्धम् | 8. शुद्धिश्राद्धम् | 9. कर्माङ्गश्राद्धम् |
10. दैवश्राद्धम् | 11. यात्राश्राद्धम् | 12. पुष्टिश्राद्धम् |
अत्र यद्यपि पञ्चधा द्वादशधा श्राद्धविभागः प्रोक्तः तस्य पूर्वोक्तश्राद्धत्रैविध्यान्तर्गतत्वात् नित्य-नैमित्तिक-काम्यावान्तरविवक्षयैव प्रोक्तः न तु पार्थक्यविवक्षयेति ज्ञेयम्। पूर्वोक्तानां नित्यादिद्वादशविधश्राद्धानां लक्षणान्यत्र क्रमशः प्रदर्श्यन्ते।
नित्यश्राद्धलक्षणम्
मातापितृमरणदिने क्रियमाणम् आब्दिकश्राद्धम्, प्रतिदिनं क्रियमाणं नित्यश्राद्धम्, अमावास्यायां क्रियमाणं दर्शश्राद्धं महालयपक्षे क्रियमाणं पक्षश्राद्धञ्च नित्यश्राद्धशब्देन व्यवह्रियन्ते। तथाहि-
मृताहेऽहरहर्दर्शे श्राद्धं यच्च महालये।
तन्नित्यमुदितं सद्भिर्नित्यवत्तद्विधानतः॥ इति।
तत्र प्रतिदिनं क्रियमाणं नित्यश्राद्धं विश्वेदेववर्जं कर्तव्यमिति, अशक्तौ उदकेनापि कर्तव्यमिति पारस्करेण तल्लक्षणमेवमभिहितम्-
अहन्यहनि यच्छ्राद्धं तन्नित्यमिति कीर्तितम्।
वैश्वदेवविहीनं तु अशक्तोप्युदकेन च॥ इति।
इतराणि श्राद्धानि तु वैश्वदेवसहितानि, त्रिदैवत्यानि, षड्दैवत्यानि, बहुदैवत्यानि च भवन्ति।
नैमित्तिकश्राद्धलक्षणम्
निमित्तं पुरस्कृत्य यत् श्राद्धं क्रियते तन्नैमित्तिकश्राद्धमित्युच्यते। निमित्तानि च बहूनि विद्यन्ते। यथा- मरणम्, सङ्क्रान्तिः, उपरागः, पुत्रजन्मेत्यादीनि। एतेषु निमित्तेषु क्रियमाणानि प्रेतश्राद्ध-सपिण्डीकरणश्राद्ध-उदकुम्भश्राद्ध-सङ्क्रान्तिश्राद्ध-ग्रहणश्राद्ध-नान्दीश्राद्धानि नैमित्तिकानीति उच्यन्ते। तत्रोक्तं गालवेन-
प्रेतश्राद्धं सपिण्डत्वं सङ्क्रान्तिग्रहणेषु च।
संवत्सरोदकुम्भं च वृद्धिश्राद्धं निमित्ततः॥ इति।
नैमित्तिकश्राद्धेषु प्रेतश्राद्धं वैश्वदेवविहीनं कर्तव्यम्। तथैव अयुग्मान् ब्राह्मणान् आशयेत्। आवाहन-अग्नौकरणरहितं कर्तव्यम्। इतराणि नैमित्तिकश्राद्धानि पार्वणविधिना कार्याणि।
काम्यश्राद्धलक्षणम्
आपस्तम्बधर्मसूत्रे स्मृतिषु पुराणेषु च काम्यश्राद्धानि विहितानि। तिथि-नक्षत्र-वारेषु, अलभ्ययोगेषु, मन्वादिषु युगादिषु च तत्तत्काम्यं पुरस्कृत्य क्रियमाणं श्राद्धं काम्यश्राद्धमिति कथ्यते। उच्यते च-
तिथ्यादिषु च यच्छ्राद्धं मन्वादिषु युगादिषु।
अलभ्येषु च योगेषु तत्काम्यं समुदाहृतम्॥ इति।
काम्यश्राद्धमिदम् अभिप्रेतार्थसिद्ध्यर्थं काम्यं पार्वणवत्स्मृतम् इति वचनात् पार्वणविधिना कर्तव्यम्।
वृद्धिश्राद्धलक्षणम्
विवाहोपनयनादिकर्मसु तदङ्गतया पितृनुद्दिश्य क्रियमाणं श्राद्धं वृद्धिश्राद्धमित्युच्यते। अस्यैव श्राद्धस्य नान्दीश्राद्धम्, नान्दीमुखम्, आभ्युदयिकश्राद्धम्, मङ्गलश्राद्धम्, कर्माङ्गश्राद्धमित्यादीनि नामान्तराणि वर्तन्ते। कन्यापुत्रविवाहेषु, नवागारप्रवेशे, नामकर्मणि अन्येषु च कर्मसु तत्तत्कर्मादौ क्रियमाणं श्राद्धं नान्दीश्राद्धमिति आभ्युदयिकश्राद्धमिति चोच्यते। पुत्रोत्पत्तिप्रतिष्ठासु तन्मौञ्जीत्यागबन्धने। चूडायां च विवाहेषु वृद्धिश्राद्धं विधीयते॥ पुत्रजन्मविवाहादौ वृद्धिश्राद्धमुदाहृतम्। अग्न्याधानाभिषेकादाविष्टापूर्ते स्त्रिया ऋतौ। वृद्धिश्राद्धं प्रकुर्वीत आश्रमग्रहणे तथा॥ इत्यादिवचनैः आभ्युदयिकस्यैव वृद्धिश्राद्धमिति नामान्तरमस्तीति ज्ञायते।
तल्लक्षणमेवमभिहितम्-
वृद्धौ यत्क्रियते श्राद्धं वृद्धिश्राद्धं तदुच्यते।
सर्वम्प्रदक्षिणं कार्यं पूर्वाह्णे तूपवीतिना॥ इति।
इदं च श्राद्धं पूर्वाह्णे उपवीतिना प्रादक्षिण्येन कार्यमिति ज्ञायते।
सपिण्डीकरणश्राद्धलक्षणम्
सपिण्डीकरणकर्मणा मृतस्य प्रेतभूतस्य दैवरूपत्वप्राप्तिः पूर्वैः पितृभिस्सह समानोदक-सापिण्ड्यसिद्धिश्च भवति। तत्प्रभृति पितृशब्देन व्यवह्रियते। अस्मिन् सपिण्डीकरणे पितरमेकोद्दिष्टविधानतः, पितामहादीन् पार्वणविधानतः सम्पूजयेत्। प्रेतपात्रोदकं तत्पित्रादिपात्रस्थोदकैः, प्रेतपिण्डं तत्पित्रादिपिण्डैस्सह संयोजयेत्। इदं संयोजनमेव सपिण्डीकरणे मुख्यं कर्म।
उक्तं च-
गन्धोदकतिलैर्युक्तं कुर्यात्पात्रचतुष्टयम्।
अर्घ्यार्थं पितृपात्रेषु प्रेतपात्रं प्रसेचयेत्॥
ये समाना इति द्वाभ्यामेतज्ज्ञेयं सपिण्डनम्॥ इति।
पार्वणश्राद्धलक्षणम्
पर्वणि अमावास्यायां, सङ्क्रान्त्यादिषु च यत् श्राद्धं क्रियते तत् पार्वणश्राद्धमित्युच्यते।
तदुक्तम्-
अमावास्यायां यत्क्रियते तत्पार्वणमिति स्मृतम्।
क्रियते वा पर्वणि यत्तत्पार्वणमिति स्थितिः॥ इति।
अस्मिन् श्राद्धे सपत्नीकपित्रादीन्, सपत्नीकमातामहादीनावाह्याभ्यर्च्य भोजयेत्।
गोष्ठीश्राद्धलक्षणम्
बहूनां विदुषामागमने पितृतृप्त्यर्थं गोष्ठ्यां यच्छ्राद्धं क्रियते तद्गोष्ठीश्राद्धमित्युच्यते। तथाहि-
गोष्ठ्यां यत्क्रियते श्राद्धं गोष्ठीश्राद्धं तदुच्यते।
बहूनां विदुषां संपत्सुखार्थं पितृतृप्तये॥ इति।
शुद्धिश्राद्धलक्षणम्
शुद्धिसम्पादनार्थं पितृनुद्दिश्य यच्छ्राद्धं क्रियते तत् शुद्धिश्राद्धमित्युच्यते। उक्तं च महाविष्णुना गरुडाय-
क्रियते शुद्धये यत्तु ब्राह्मणानां तु भोजनम्।
शुद्ध्यर्थमिति तत्प्रोक्तं वैनतेय मनीषिभिः॥ इति।
कर्माङ्गश्राद्धलक्षणम्
निषेककाले, सोमयागे, सीमन्तोन्नयने, पुंसवने तदङ्गतया क्रियमाणं नान्दीश्राद्धं कर्माङ्गश्राद्धमित्युच्यते। तथा च प्रमाणम्-
निषेककाले सोमे च सीमन्तोन्नयने तथा।
ज्ञेयं पुंसवने चैव श्राद्धं कर्माङ्गमेव च॥ इति।
दैवश्राद्धलक्षणम्
देवानुद्दिश्य सप्तम्यादितिथिषु विशिष्टेन हविष्येन यच्छ्राद्धं क्रियते तद्दैविकश्राद्धमित्युच्यते। इदं च श्राद्धं नित्यश्राद्धवत् कर्तव्यम्। तथाहि-
देवानुद्दिश्य यच्छ्राद्धं तत्तु दैविकमुच्यते।
हविष्येण विशिष्टेन सप्तम्यादिषु यत्नतः॥ इति।
यात्राश्राद्धलक्षणम्
देशान्तरं गच्छन् अथवा देशान्तरादागतो वा यच्छ्राद्धं करोति तत् यात्राश्राद्धमित्युच्यते। इदं च श्राद्धं सर्पिषा कर्तव्यम्। केवलेन अन्नेन तृप्तेरशक्यत्वात् सर्पिः प्रधानकेन श्राद्धं कर्तव्यमित्युक्तम्। तत्र प्रमाणम्-
गच्छन् देशान्तरं यद्धि श्राद्धं कुर्यात्तु सर्पिषा।
तद्यात्रार्थमिति प्रोक्तं प्रवेशे च न संशयः॥ इति।
पुष्टिश्राद्धलक्षणम्
शरीरपुष्ट्यर्थं अर्थपुष्ट्यर्थं च यत् श्राद्धं क्रियते तत् पुष्टिश्राद्धमित्युच्यते। अत्रेदं ज्ञायते यत् पितृपूजनेन शरीरपुष्टिः अर्थपुष्टिश्च भवतीति। अत एवोच्यते-
आयुः पुत्रान्यशः स्वर्गं कीर्तिं पुष्टिं बलं श्रियम्।
पशून् सौख्यं धनं धान्यं प्राप्नुयात्पितृपूजनात्॥ इति।
पुष्टिश्राद्धलक्षणमेवमुक्तं भविष्यपुराणे-
शरीरोपचये श्राद्धमर्थोपचय एव च।
पुष्ट्यर्थमेतद्विज्ञेयमौपचायिकमुच्यते॥ इति।
एवं प्रकारेण द्वादशविधश्राद्धलक्षणानि स्मृतिषु पुराणेषु च प्रतिपादितानि।
षण्णवतिश्राद्धानि
नित्यनैमित्तिककाम्यभेदेन श्राद्धत्रैविध्यं पूर्वं प्रतिपादितम्। तत्र विद्यमानेषु प्रेतश्राद्ध-सपिण्डीकरणश्राद्ध-नित्यश्राद्ध-ग्रहणश्राद्ध-आब्दिकश्राद्ध-उदकुम्भश्राद्ध-वृद्धिश्राद्धवर्ज्यम् इतराणि श्राद्धानि षण्णवतिसङ्ख्याकानि भवन्ति। उक्तानि चैतानि ज्येतिश्शास्त्रे-
मन्वाद्याश्च महालया युगदिनान्यादित्यसङ्क्रान्तयो
दर्शाश्च व्यतिपातवैधृतिमहा तिस्रोष्टकाः पैतृके।
कालाष्षण्णवतिस्मृता इह परा दातुस्सुपुण्यप्रदा
वायो तोय वनं रिपौ रिपु लपौ लापौ रिपस्तत्क्रमात्॥ इति।
अस्यायमर्थः-
वामाङ्कगत्या अक्षरसङ्ख्यया वायाविति शब्देन चतुर्दशसंख्यावाचकेन चतुर्दश मन्वादय उच्यन्ते। षोडश संख्यावाचकेन तोयशब्देन षोडशमहालयाः उच्यन्ते। चतुस्संख्यावाचकेन वनशब्देन चत्वारि कृतादियुगादय उच्यन्ते। द्वादशसंख्यावाचकेन रिपाविति शब्देन मेषाद्या द्वादश संक्रान्तय उच्यन्ते। द्वादशसंख्यावाचकेन रिपुशब्देन द्वादशामावास्या उच्यन्ते। त्रयोदशसंख्यावाचकेन लपशब्देन त्रयोदश व्यतीपाता उच्यन्ते। लापा इति त्रयोदशसंख्यावाचकेन शब्देन त्रयोदश वैधृतय उच्यन्ते। द्वादशसंख्यावाचकेन रिपुशब्देन द्वादशाष्टका उच्यन्ते। एवं षण्णवतिसंख्याकानि श्राद्धानि सम्पन्नानि। तथा चोक्तं संग्रहकारेण-
अमा-मनु-युग-क्रान्त-धृति-पात-महालयाः।
अन्वष्टकाश्च तिथयः षण्णवत्यः प्रकीर्तिताः॥ इति।
एतानि च षण्णवतिसङ्ख्याकानि श्राद्धानि प्रतिवत्सरं स्वपित्रादीनुद्दिश्यानुष्ठेयानि। तेन आयुर्वृद्धिः पुत्रपौत्राद्यभिवृभिश्च भवति। तथैव पुत्रश्च स्वपित्रॄन् अन्नादिना तर्पयन् ऋणान्मुक्तो भवति। देवकार्यादपि सदा पितृकार्यं विशिष्यत इत्युक्तेः पित्रादीनुद्दिश्य श्रद्धया विश्वासेन च श्राद्धादिकर्म कुर्वन् मनुष्यः पितृदेवतानुग्रहपूर्णस्सन् सर्वार्थसिद्धिं च प्राप्नोति।
अन्त्यटिप्पणी
आधारग्रन्थसूची
का.नि.चं. – कालनिर्णयचन्द्रिका
ग.प. का.सा. – गदाधरपद्धतिः – कालसारः
द्वै.प. – द्वैतपरिशिष्टम्
नि.सिं. – निर्णयसिन्धुः
नृ.प्र. श्रा.सा. – नृसिंहप्रसादः – श्राद्धसारः
वि.पा. पं.स्त. – विधानपारिजातः – पञ्चमस्तबकः
वी.मि. श्रा.प्र. – वीरमित्रोदयः – श्राद्धप्रकाशः
श्रा.क. – श्राद्धकल्पलता
श्रा.चं. – श्राद्धचन्द्रिका
श्रा.चिं. – श्राद्धचिन्तामणिः
श्रा.प्र. – श्राद्धप्रकाशः
श्रा.मं. – श्राद्धमञ्जरी
स्मृ.चं. श्रा.कां. – स्मृतिचन्द्रिका – श्राद्धकाण्डः
स्मृ.मु. श्रा.कां. – स्मृतिमुक्ताफलम् – श्राद्धकाण्डः
स्मृ.सा. – स्मृतिसारोद्धारः