[vc_row][vc_column][rev_slider_vc alias=”about-3″][vc_column_text el_class=”articles”]

सूतसंहितादिशा मायायाः स्वरूपम्

महेश्वरी हुल्लूर, शोधच्छात्रा
राष्ट्रियसंस्कृतविश्वविद्यालयः
तिरुपतिः

 

दुर्लभेऽस्मिन् मानुषजन्मनि आवर्तादावर्तं क्रान्त्वा प्राप्तेऽस्मिन् जन्मनि सर्वोऽपि जन्तुः सुखं मे भूयात्  इत्येव आशास्ते । तादृशसुखावाप्तये अस्माभिः क्रियमाणं कर्म शास्त्राविरुद्धं, शुद्धं च भवेत् । तर्हि कीदृशं कर्माचरणीयमिति शङ्कायां, तज्ज्ञानाय भारतीयवाङ्मयप्रपञ्चे विद्यास्थानानि निर्दिष्टानि । पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः । वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश ॥ इत्येवं चतुर्दशविद्यास्थानानि निगदितानि । एतानि सर्वाण्यपि स्थानानि मोक्षाख्यं परमसुखमेव अन्ततो प्रतिपादयन्ति । स च मोक्षः दर्शन-पुराणेतिहासेष्वपि सुष्ठु विवृतः । परं तल्लक्ष्यावाप्तये बहवः विघ्नाः, क्लेशाः स्वयमनुभूयन्ते, अनधिगमने हेतुः कः इत्यपि ज्ञातुं न प्रभवामः । तत्र माया इति काचिच्छक्तिः कारणीभूता वर्तते । अन्यथाभानहेतुत्वात् माया, विद्यया नश्यमानत्वात् अविद्या, आत्मतत्त्वतिरस्कारात् तमः, सतः विलक्षणत्वात् असत्, कर्तव्याकर्तव्यादिविषयमिथ्याप्रत्ययत्वात् अज्ञानम् इत्यादिभिः नामभिरपि सा एव माया व्यवहृता, व्यवह्रीयमाणा चास्ति । 

अष्टादशपुराणेषु अन्यतमस्कन्धपुराणान्तर्गतसूतसंहितायामपि अस्याः मायायाः स्वरूपं वर्णितम् । स्कन्धपुराणान्तर्गतषट्सु संहितासु इयं सूतसंहिता द्वितीया, चतुःखण्डोपेता, षट्सहस्रश्लोकयुता च वर्तते । इह तावत् ईश्वरः/परशिवः नाम परब्रह्मवस्तु, न तु लयकर्ता । सूतसंहितायाः प्रथमखण्डे द्वितीयाध्याये नैमिषीया ऋषयः – अस्य जगतः उत्पत्तौ किञ्चिदेकं वस्तु कारणीभूतं वर्तते । तत् किं वस्तु / तत्त्वम्? तस्य स्वरूपं किम्? इति प्रश्नान् पप्रच्छुः सूतम् । तदा सूतः पुरा प्रवृत्तामेकाम् आख्यायिकामाह – पुरा विष्ण्वादयो देवा इति । सर्वेऽपि देवाः जगतः कारणीभूतं वस्तु किमिति विचार्य, संशयाविष्टाः ते ईश्वरमपृच्छन् को भवानिति । तदा सोऽवदत् – 

अहमेको जगद्धातुरासं प्रथममीश्वरः ।

वर्तामि च भविष्यामि न मत्तोऽन्योऽस्ति कश्चन ॥  इति ।

ततः तेषां सन्देहं निवारयति –  मन्मायाशक्तिसङ्‍कॢप्तं जगत्सर्वं चराचरम् ।

साऽपि मत्तः पृथग्विप्रा नास्त्येव परमार्थतः ॥

समस्तप्राणिभिः सहितं चराचरं यत् जगत् दृश्यते, तत्सर्वं मे मायाशक्त्या कल्पितं वर्तते । सा मायापि मत्तः पृथग्वर्तते अपि च तस्याः परमार्थतः सत्त्वाभावात् अद्वितीयभङ्गः न जायते । अत्रायमभिसन्धिः – यदनुविद्धानि हि यान्यवभासन्ते तत्र तानि परिकल्पितानि यथा अयं सर्पः, अयं दण्डः, इयं धारा इत्यादयः रज्जौ इदमंशेनानुविद्धतया भासमानाः सर्पादयः केवलं परिकल्पिताः न तु रज्जौ ते अंशाः विद्यन्ते । तद्वत् इदं जगदपि सत्पदार्थमाश्रित्य प्रकाशते । सदभावे सन्घटः, सन्पटः इत्यादिव्यवहार एव नास्ति । सत्स्वरूपात्मनैव जगदिदं प्रकाशते । सत्स्वरूपात्मवस्तुभिन्नं सर्वं वस्तु जडं, स्वप्रकाशरहितम् । आत्मा तु स्वयम्प्रकाशः, ज्ञानस्वरूपः, सच्चिदानन्दैकरसश्च वर्तते । सच्चिदानन्दैकरसः परमात्मा अनादिः, अनन्तश्च वर्तते । मन्माया इत्यनेन तस्मिन् विद्यमाना मायापि अनादिरेवेति सिद्धं भवति । यद्यपि माया सत्त्वरजस्तमोगुणात्मिका चेदपि सांख्यमतानुसारेण प्रकृतिरिव परतन्त्रा, ईश्वराधीना चास्ति । अतैव शक्तिरित्युक्तम् । विवरणाचार्य अपि शक्तिः परतन्त्रा इत्येव अवोचन् । रजस्तमश्चाभिभूय सत्त्वं भवति भारत । रजस्सत्त्वं तमश्चैव तमस्सत्त्वं रजस्तथा इति स्मृत्या त्रयः अपि गुणाः परस्परम् अभिभावकाः भवन्ति, तस्माद् माया त्रिविधेति वक्तुं शक्यम् । रजस्तमसोः अत्यन्ताभिभवेन विशुद्धसत्त्वप्रधाना, रजस्तमोभ्याम् ईषदुद्भूतायां मलिनसत्त्वप्रधाना, तमसः अत्यन्तमुद्भवेन तथा अत्यन्ताभिभूतयोः सत्त्वरजसोः सत्वाभावात् केवलतमोमयी चेति त्रिधा विभक्ता माया । विशुद्धसत्त्वप्रधाना माया मायिनं वशी न कुरुते, किन्तु तस्य वशे भवति । मायोपाधिविशिष्टः मच्छब्देनाभिधीयमानः ईश्वर एव जगत्कर्ता सर्वज्ञः इत्यादिभिः शब्दैः बोध्यते । ब्रह्मसूत्रेऽपि फलमत उपपत्तेः इति सूत्रेणापि इदं स्पष्टीकृतम् । मलिनसत्त्वप्रधाना माया तु मायिनं वशीकरोति, तच्चैतन्यं जीवः, संसारी, भोक्ता इत्यादिभिः व्यवह्रीयते । तृतीया केवलतमोमयी माया ईश्वरस्वरूपं तिरोहितं कृत्वा, भूत-भौतिकपदार्थान् जगच्च भोग्यरूपेण प्रकाशयति । श्लोके विद्यमानेन मन्मायाशक्तिशब्देन भोगप्रदः ईश्वरः, तदधीना माया च प्रतिपादिता । तथैव द्वितीयदशप्राप्तं मायोपाधिविशिष्टं चैतन्यं भोक्ता एव जीव इति, तृतीयं च मायोपाधिविशिष्टं चैतन्यं भोग्यं, जडं, जगद्रूपेण दृश्यते । भोगप्रद-भोक्ता-भोग्यमित्यादयः माययैव कल्पिताः, न तु परमार्थतः, अपि तु  तेषामभाव एव । भोक्ता भोग्यं प्रेरयितारं च मत्वा सर्वं प्रोक्तं त्रिविधं ब्रह्ममेतत् इति श्वेताश्वतरोपनिषदि स्फुटं विवृतम् । त्रिषु विभागेषु भोक्ता जीवः, भोग्यं भोग्यविषयः अथवा पदार्थः, प्रेरयिता ईश्वरः । ब्रह्मज्ञानपर्यन्तमेव विभागः भवति, ततः परं सर्वः विभागः ब्रह्मरूपेणैव अवभासते । ब्रह्म वेद ब्रह्मैव भवति इति श्रुतिः ।    

सोऽयं स्वपरया शक्त्या बद्धवत्प्रतिभासते ।

एकैव परमा शक्तिर्माया दुर्घटकारिणी ॥

आत्मा नित्यमुक्तश्चेदपि स्वाश्रिततया मायाशक्त्या जीव इव प्रतिभासते । इयं च माया आवरणशक्त्या सर्वमावृत्य एकरूपेण स्तिथा । अत एव परमाशक्तिरित्युक्ता । असम्भवमपि कार्यं साधयति । परमात्मज्ञानेन या नाशमेति सैव माया इत्युच्यते । यतोहि चैतन्याश्रिता सा अज्ञानवशात् चैतन्ये कल्पिता । तदुक्तं – शिवस्यानन्तरूपा सा विद्यया तस्य नश्यति । या विनश्यति सा माया चिन्मात्रे परिकल्पिता ॥  इति । कल्पितस्य वस्तुनः नाशे सति अधिष्ठानमात्रं अवशिष्यते । यथा रज्जुसर्पे नायं सर्पः किन्तु रज्जुरेवेति ज्ञानं प्राप्यते तदा सर्पः सम्पूर्णतया नश्यति । तदुक्तं –

अधिष्ठानावशेषो हि नाशः कल्पितवस्तुनः ।

भावस्यैव ह्यभावत्वं नाशोऽभावस्य भावता ॥ इति ।

कल्पितवस्तूनां सर्वेषामपि भावाभावरूपेण सत्तात्वं विद्यते । यथा इदं रजतमिति ज्ञाने रजतं शुक्तौ कल्पितं, परं यदा नेदं रजतमिति ज्ञानमुत्पद्यते अविद्यमानं रजतं नश्यति । एवमेव रज्जुसर्पादावपि अभावरूपस्य सर्प-रज्ज्वादीनां नाशे सति अयं दण्डः इति ज्ञानमुत्पद्यते, तथा ब्रह्मणि मायया कल्पितोऽयं प्रपञ्चः ब्रह्मज्ञानेन नश्यति । अधिष्ठानस्य ब्रह्मणः साक्षात्कारेणैव जीवोऽपि मुक्तिं प्राप्नोति । तर्हि इदृश्याः मायायाः स्वरूपं कि? कीदृशी सत्ता तस्याः? इति शङ्कायामाह – 

सत्तातिरिक्तं चेदस्ति शून्यवत् शून्यमेव तत् ।

भवेन्नैवात्र सन्देहो नास्ति माया च वस्तुतः ॥  इति ।

सत्ताजातिः इति यदि स्वीक्रियते सद्भिन्ना व्यक्तिः भवेत्, तदभावात् सत्ता शून्यवती भवेदित्यत्र नास्ति सन्देहः । पारमार्थिकसत्तापि अस्याः मायायाः नास्ति । तर्हि सदसद्रूपा किमिति प्रश्ने, ज्ञाने सति बाध्यमानत्वात् न सद्रूपा, नापि असत् , दृश्यत्वात् । अतः सदसद्भ्याम् अनिर्वचनीया माया । तदुक्तं विवेकचूडामणौ – 

सन्नाप्यसन्नाप्युभयात्मिका नो भिन्नाप्यभिन्नाप्युभयात्मिका नो । 

साङ्गाप्यनङ्गा ह्युभयात्मिका नो महाद्भुतानिर्वचनीयरूपा ॥ 

अविचारितरूपा हि माया सर्व विमोहिनी इति । परमात्मनिष्ठानां योगिनां तु मायेयं साक्षिणि कल्पिता ज्ञानं भवति । अज्ञानिनाम्, अनात्मानम् आत्मेति ये मन्यन्ते / भ्रान्ताः तेषां साक्षिरूपेण भासते । आत्मज्ञानेन बाधिता चेदपि प्रारब्धकर्म समाप्तिपर्यन्तं पुनः पुनः भाति । तस्मादेव मायाकार्यमिदं शरीरादिव्यवहारोऽपि प्रारब्धकर्मसमाप्तिपर्यन्तम् ब्रह्मज्ञानिनं, जीवन्मुक्तमपि अनुसरति ।

[/vc_column_text][/vc_column][/vc_row]