[vc_row][vc_column][rev_slider_vc alias=”about-3″][vc_column_text el_class=”articles”]

  श्रीभाविसमीरोक्तदिशा वेदवाङ्मयस्य सार्वकालिकता

र विष्णु हत्वारः
शोधछात्रः
कर्नाटकसंस्कृतविश्वविद्यालयः बेङ्गलूरुः

विषयसारः

प्रबन्धेऽस्मिन् वेदस्य सार्वकालिकत्वं श्रीभाविसमीरगुरुराजलेखन्या कथं समुद्भूतम् इति प्रस्तूयते। सिद्धान्ते वेदशब्दं शृण्मः चेत् तत्र तत्साहचर्येण नित्यत्वम् अपौरुषेयत्वं तथा परममुख्यवृत्या भगवत्परत्वम् इति शब्दाः श्रूयन्ते। सर्वमिदं निराबाधतया सिध्यति चेत् सार्वकालिकत्वं सिध्यति। सार्वकालिकत्वं नाम सर्वकालसम्बन्धित्वं सम्बन्धश्च प्रतिपाद्यत्वादिरूपः स तु सर्वदाविद्यमानपदार्थस्य प्रतिपादनेनैव भवति।सर्वदाविद्यमानः नारायण एव।स च सर्वोत्तमश्च। तादृशोत्तमं यदि प्रतिपादयति इति सर्वजनादरणीयतया सार्वकालिकत्वं सिध्यति। रामायणवत्। अपि च प्रस्तुतं कथयेत् नाप्रस्तुतं तथा च सर्वजनयोग्यं वदेत् तदापि सिध्यति सार्वकालिकत्वम्।इत्येवं पञ्चरीत्या वेदस्य सार्वकालिकता निरूपितः।

मुख्यविषयः

जगति अस्मिन् साहित्यमेकं सार्वकालिकं भवति चेत् सः वेद एव। नाम वेदः सर्वदा वर्तते न नश्यति  इत्येव न तस्य सार्वकालिकत्वं , अपितु सार्वजीनं सार्वकालिकं किमपि बोधयति इत्येव मुख्यं कारणम्।ईदृशसर्वदाप्रस्तुतत्वरूपसार्वकालिकत्वं परम् अन्येषां न विद्यते इति निश्चयेन वक्तुं प्रभवामः।  अनेके ग्रन्थाः वर्तन्ते चेदपि वेदस्य स्थानं न यः कोऽपि अपहर्तुं शक्नोति। एवं, नित्य अपौरुषेयः कश्चनसाहित्यराशिः वर्तते चेत्  वेद एव। मुख्यतया भगवद्गुणप्रतिपादकः। अतिकठिणशब्दै उपबृंहितम् इदं साहत्यमिति कृत्वा ज्ञापयिता अपेक्षते ज्ञानाय। नैके विद्वांसः वेदस्य अर्थं लिलिखु ऊचुः च । अथापि    वेदैश्च सर्वैरहमेव वेद्य इति अनेकप्रमाणप्रमितभगवत्परत्वं तथा तस्य स्वरूपतः अर्थतः च सार्वकालिकत्वं संपरिरक्ष्य नोचुः। तादृशः कश्चन ज्ञानी जगति वर्तते चेत् आचार्यमध्वः तथा तत्समः द्वैतवेदान्तवाङ्मयस्य युवराजः वादिराजमुनिः। ते तु न केवलं तदर्थमेकं ग्रन्थं व्यरचयन्। अपि तु स्वसर्वग्रन्थेष्वपि अन्यान्यवेदभागानादाय व्याचख्युः। भाविसमीरवादिराजमुनीनां हरिभक्तिलता नामकग्रन्थे कथं पूर्वोक्तविषयान् प्रस्थावितवन्त इति पश्यामः। आदौ मङ्गळं सर्वं समारचय्य तदनन्तरं कुमारश्चित् पितरं वन्दमानं मन्त्रं व्याचख्युः । मन्त्रस्तु एवं चकास्ति

कु॒मा॒रश्चि॑त् पि॒तरं॒ वन्द॑मानं॒ प्रति॑ नानाम रुद्रोप॒यन्त॑म्।

भूरे॑र्दा॒तारं॒ सत्प॑तिं गृणीषे स्तु॒तस्त्वं भे॑ष॒जा रा॑स्य॒स्मे

अयं मन्त्रराजः तावत् भगवतः विष्णोः सर्वोत्तमत्वं तथा रुद्रस्य जगत्शिक्षकत्वं द्वयमपि सूचयति।तेन सार्वकालिकत्वं सिध्यति। तथा हि पदविभागः – कुमारः, चित्,  पितरं, वन्दमानं,  प्रति, नानाम, रुद्र, उपयन्तं, भूरेः, दातारं, सत्पतिं, गृणेषु, स्तुतः, त्वं, भेषजा, रासि, अस्मे, इति।

अर्थः-  हे रुद्र- भगवतः पुत्रभूतमहेश्वर, उपयन्तं- समीपमागतं, वन्दमानं- भवन्तं नमस्कुर्वन्तं, [दैत्यमोहनार्थं नमस्कुर्वन्तं] पितरं- जनकं श्रीकृष्णं, प्रतिनानाम- पुनः भक्त्यादिसहिततया ननाम। तेन- कृष्णेन, स्तुतः त्वं- स्तोत्रीकृतः त्वं, भूरेः- अत्युत्कृष्टमोक्षस्य, दातारं- प्रदातारं, सत्पतिं- सकलसज्जनानां पतिं- स्वामिनं, गृणीषे- स्तौषि, स्तुतः-एवमस्माभिः स्तोत्रितः, अस्मे- अस्माकं, भेषजा-औषधानि, रासि-देहि।

कथा तु एवं वर्तते  कृष्णः पुत्रार्थं कैलासं जगाम। रुद्रं तेपे। तदा रुद्रेणानुगृहीतः सः रुग्मिण्यां प्रद्युम्नं प्राप। तदा नमनादिकं जातम्। तदा अन्ये केचन अकथयन् परमात्मा चेत् कृष्णः तर्हि पुत्रार्थं कुतः रुद्रस्य समीपं जगाम? तथा च कृष्णः न सर्वोत्तमः इति साधयन्ति। परं अत्र गुरुराजाः साक्षात् वेदवाक्यमादृत्य वेदार्थं ज्ञापयन् सन् विष्णुसर्वोत्तमत्वं समर्थयन्ति। ते पृच्छन्ति ‘ कृष्णं तत्पितरं स्तुत्यं नम्यं च स्पष्टमाहहि।ईदृग् रुद्रः क्व कृष्णः क्व वदन्तु प्रतिवादिनः’॥ तपन्तं कृष्णमेव पुनः नेमे चेत् रुद्रः सः कदा कृष्णसमः भवितुमर्हति ।जगति को वा स्वशरणागतं स्वस्तुवन्तं पुनः नमति ? परन्तु लोके ज्येष्ठोऽपि पिता कदाचित् शिशुं तोषयितुं करोति हि। तथा च पितृस्थानीयः कृष्णःरुद्रं मोहार्थं ननाम। न च विनिगमने मानाभावः वाच्यम् । विषयोऽयं श्रुतेः याथार्थ्यज्ञानेनापि भवति तथाहि –

हे रुद्र पितरं कृष्णं कैलासं प्रति तर्हिचित् ।

उपयन्तम् उपायान्तं वन्दमानं च लीलया॥

उपागमनमप्यस्य लीयैव न तु वस्तुतः।

            इति सूचयितुं चात्राकारं श्रुतिरगूहयत्॥ इति।

श्रुतौ उपयन्तम् इति निर्देशः वर्तते। व्याकरणरीत्या तत्र उपायान्तम् इति स्यात् खलु? तत्र तर्हि उपयन्तं इति निर्देशः दुष्टो वा  इति चेन्न  अस्य कृष्णस्य नमस्कारः न भक्त्यादिसहिततया, अपितु लीलया एव, नाम क्रीडार्थम् आजगाम ननाम च। तत्र नमस्कुर्यादेव इति नियमो नास्ति। अपि च दुष्टमोहनार्थम् इति च। नमस्काराङ्गभक्त्याद्यूनतां सम्पादयति श्रुतिः अक्षरविलोपनेन। न केवलमनेन पदेन कृष्णः पिता, रुद्रः पुत्रः इति ज्ञायते किन्तु कुमारश्चित् पदेनापि। चित् पदस्य एव इत्यर्थः। तथा च कुमार एव इति सिध्यति। तदर्थमेव उवाच गुरुराजः ‘ न तूपचारतः पुत्रो वसुदेवकुमारवत्’ नाम वसुदेवकुमारः श्रीकृष्णः यथा न वसुदेवस्य औरसपुत्रः किन्तु औपचारिकपुत्रः, तद्वत् त्वं न, इति श्रुतिरेव कथयति। अपि च नानाम इति पदमपि परमात्मनः सर्वोत्कृष्टत्वं वक्ति। तथा हि तत्र ननाम इति वदेत् व्याकरणरीत्या। नानाम इत्यत्र अकार अधिकतया वर्तते तेन रुद्रः भक्त्यादिसहिततया एव नमश्चकार नतु कृष्णवत् औपचारिकनमनम्।अकाराधिक्येन अधिका भक्तिः वर्तते न सामान्यमनुष्यवत्। ननु नमनवेलायां भक्तिरावश्यकी एव तस्य कथने कापेक्षा चेत् कृष्णवत् अभक्तः सन् न ननाम भक्तः सन् एव। अन्यथा कृष्ण इव अयमपि भक्त्यादिरहितः सन्  एव ननाम इति आक्षेपः स्यात्। तथा च रुद्रादपि उत्कृष्टः परमात्मा। तादृशपरमात्मानं स्तौति इति कृत्वापि सर्वजनादरणीयं पुरुषं स्तौति चेत् अवश्यं सार्वकालिकत्वं सिध्यति। रामायणादिवत्। रामं यदि न अप्रतिपादयिष्यत् तदा सार्वकालिकोऽयं ग्रन्थरत्नः इति न स्यात् हि। अनादरणीयपरुषविषयकथनेन ग्रन्थेऽपि अनादरो हि। अपि च  व्याख्यायां तावत् निगदितं  ततः पापेन चकितः प्रति नानाम तं प्रभुम्’ इत्यनेनापि वेदस्य सार्वकालिकत्वं ज्ञायते। तथा हि वेदसाहित्यं लोकशिक्षणं करोति। यदा पिता आगच्छति तदा पुत्रः तं नमेत्। कथं पुत्रः वर्तेत, कथं पित्रा सह व्यवहरेत्? इत्यादि अनेकमौलिकविषयान् प्रणिनाय। पितृपुत्रसम्बन्धः न केवलं कृतयुगे नापि त्रेताद्वापरयोः अपि तु कलियुगे च।अपि च सर्वजनानुकरणीयः अंशः अन्यथा लोकमर्यादोच्छेदः। एवं सार्वकालिकः वेदः यदि केवलं भगवद्विषयं, यज्ञयागादिकं, तद्युगधर्मं इत्यादि किञ्चित् अवदिष्यत् तदा तत् तत्कालिकम् अथवा तत्जनानां कृते इति वा स्यात्। परं तु यदा एतादृशमौलिकं सर्वजनसम्बद्धं किञ्चित् वदति तदा सार्वकालिकत्वं सिध्यति। सार्वकालिकत्वं नाम सर्वकालसम्बन्धित्वं ननु। सम्बन्धश्च प्रतिपाद्यप्रतिपादकः भावः। इदानीम् अप्रस्तुतं यदि अकथयिष्यत् तदा  प्रतिपाद्यप्रतिपादकत्वरूपसम्बन्धः इदानीमभावात् सार्वकालिकत्वं व्याहन्येत। ननु यदि अयमर्थः सिद्धः नाम रुद्रः पुत्रः सन् सम्मानितवान् इत्यादि तदा सार्वकालिकत्वं सिध्यति अन्यथा न चेन्न तदर्थमितोपि एकमुत्तरं दास्यन्ति गुरुराजाः उपयन्तम् इति।   लटः शतृशानचावप्रथमासमानाधिकरणे’ सूत्रानुरोधेन लटः शतृशानचौ प्रत्ययौ स्तः। तत्र शानच् प्रत्ययः तावत् तङानावात्मनेपदं सूत्रेण विहितात्मनेपदे भवति। तथा च वदि धातोः तावत् आत्मनेपदे शानच् प्रत्ययः भवति तदा वन्दमानं नाम आत्मार्थे वन्दनं कुर्वन्तम् इति। क्रियायाः फलं यदा कर्तृगामि भवति तदा एव आत्मनेपदप्रयोगः सम्पद्यते। इममेव विषयं  स्वरितञितः कर्त्रभिप्राये क्रियाफले सूत्रेण निजगाद पाणिनिः। तथा च भगवान् श्रीकृष्णः रुद्रान्तर्यामिणं स्वस्मै एव नमश्चकार इति सिध्यति। अपि च तत्र रुद्रस्य नमनकथनवेलायां परस्मैपदप्रयोगः कृतः तेन ज्ञायते रुद्रः परमात्मने नमस्करोति। न स्वं प्रति । तथासति आत्मनेपदप्रयोगः स्यात्। गुहाशया एव न देहमानिने इति  मम नमस्कारः न कस्य वा अन्यस्य कृते, अपि तु हृदयगुहास्थस्य परमात्मनः इति स्वमेव उवाच पार्वत्यै। तथा च कृष्णस्य नमस्कारः यथा रुद्रस्थस्वस्यैव तथा रुद्रस्यापि नमनं कृष्णस्थरुद्रस्यैव इति च्योद्यावकाशः नास्ति।एतादृशव्याख्यानं परं गुरुराजवचसा एव ज्ञायते। प्रति अक्षरस्य प्रतिपदस्य सार्थक्यं चिन्तयन्ति। अस्य मन्त्रस्य सायणभाष्यमपि वर्तते , वन्दमानम् आयुष्मान्भव सौम्य इति स्तुवन्तं पितरं कुमारश्चित् यथा कुमारः। चिदित्येतदुपमार्थे। हे रुद्र उपयन्तम् अस्मत्समीपे गच्छन्तं त्वां प्रति ननाम प्रतिनतोऽस्मि । अपि च भूरेः बहुनो धनस्य दातारं सत्पतिं सतां पालयितारम्। ‘ पत्यावैश्वर्ये ‘ इति पूर्वपदप्रकृति स्वरत्वम्। हे रुद्र एवंभूतं त्वां गृणीषे स्तौमि। मिपः ‘ तिङां तिङो भवन्ति ‘ इति से आदेशः। स्तुत: च त्वम् अस्मे अस्मभ्यं भेषजा भेषजानि रासि देहि ॥अत्र नानाम, उपयन्तं कुतः इत्यादिकं नैव चिन्तितम् ।वादिराजोक्तदिशा यदि पश्यामः तदा पौराणीकी कथापि सम्वादिनी भवति। द्वितीयं सार्कालिकत्वं तावत् वेदस्य यदा अपौरुषेयत्वं तथा भदवत्परत्वं सिध्यति तदा एव अङ्गीकर्तुं शक्यते। तथा हि वाक्यं तावत् केनचित् कृतं चेत् तदा तत्पूर्वं नास्ति इति स्वभावत एव सिध्यति हि। तदा तस्य सर्वकालवृत्तित्वं कथं वा सिध्यति? अत अन्ततो गत्वा तस्यापौरुषेयत्वम्  अङ्गीकुर्यादेव। ननु अपौरुषेयः कश्चनशब्दो वर्तते वा, लोके दृष्टः सर्वोऽपि शब्दः पौरुषेय एव।  तथा च अपौरुषेयमिति पदं नास्ति अतः कथं तत्समुदायभूतः वेदः? चेन्न,  तत्र कर्तृप्रसिद्धिः वर्तते  अत्र परं नास्ति इति चेन्न यतोऽहि कर्तृप्रसिद्ध्यसद्भावः न अपौरुषेयत्वसाधकः। कस्यचिद्वाक्यविषेशस्य वक्ता न ज्ञायते इत्यनेन तद् अपौरुषेयमिति न भवति इति चेन्न वाक्यान्तरे तु तत्काले वा कर्तृप्रसिद्धिः वर्तते। परं तु अत्र सर्वे ब्रह्मादयः पाठकाः तथा श्रोतार एव न कर्तार इति सिद्धमेव तस्य अपौरुषेयत्वम् । अतः श्रुतिरिति संज्ञा श्रुतयश्चाखिलैः श्रुतै इति। ननु वेदः नाम क्रमविशिष्टवर्णराशिः। वर्णाः नित्याः व्याप्ताः तत्र क्रमः कथं युज्यते । क्रमिकः चेत् अवश्यमुत्पन्नः भवेत्। अकारोत्तरगकारोत्तरनकारोत्तरेकार……….. इत्येवं गच्छति। अग्निमीळे……..इत्यादि सिध्यति। तथा च अकारोत्तरगकारः चेत् तदा गकरः प्राक् नासीत् इति सिध्यति खलु। तथा च उत्तरत्वघटितक्रमविशिष्टवेदः नापौरुषेय इति चेन्न ईशबुद्धिस्थितास्सदा इत्यादि बहुधाकथितत्वात् उत्तरत्वघटितं चेदपि तत् सर्वदा परमात्मनः बुद्धौ वर्तते इति कृत्वा तत्र तु क्रमविशिष्टतया एव वर्तते। तत्र वा कथं भवति इत्युक्तौ भगवद्विषेशक्त्या भवति। ननु सर्वत्र व्याप्तवर्णानां कथं पौर्वापर्यं चेत् उच्यते बुद्धिगतपौर्वापर्येण वर्णेषु पौर्वापर्यं। औपाधिकं  पौर्वापर्यं कथं घटते ? यथा घटरूपोपाधिनाजायमानघटाकाशः उपाधिनाशात् नाश्यति तद्वत् इहापि औपाधिकः नश्येत् चेन्न तत्र उपाधिः अनित्यः तज्जन्यः औपाधिकोपि अनित्यः भवति। परम् अत्र वर्णाः नित्याः तदुपाधिभूता भगवद्बुधिरपि नित्या एव। तथा कुत्रानित्यतायाः प्रसक्तिः? विषयेऽस्मिन् दृष्टान्तं कथयति यथा अज्ञानस्यानादित्वात् तदौपाधिकसंसारोऽपि अनादि इति सर्वेऽङ्गीकुर्वन्ति। परमात्मा बिम्बः नित्य इति कृत्वा जीवोपि नित्य एव इति सिध्यति। तथा च वर्णेषु पौर्वापर्यं पूर्वबुद्धिगृहीतत्वात् पूर्वत्वं पश्चाद्बुद्धिगुहीतत्वात् परत्वं वर्णे भवति। कथं पूर्वबुद्धिगृहीतत्वं परबुद्धिगृहितत्वं नित्याः किल चेत् पूर्वापराबुद्धिः विषेशतः वर्तते। तादृशपूर्वबुद्धिगृहीतत्वात् पूर्वत्वं वर्णगं भवति। अस्माकं सिद्धान्ते परं भगवतः सृष्टिसंहारेच्छे भवतः सर्वदा। अथापि तत्र परमात्मनः इच्छा या व्यक्ता भवति तदा तत्कार्यं भवति। इदानीं पालनेच्छा व्यक्ता इतिकृत्वा पालनं भवति। न तेन अन्येच्छा नास्ति इति न । तद्वत् बुद्धिरपि। नाम इदानीमेतावता बृहत्प्रबन्धेन तावत् क्रमविशिष्टतया एव वेदः सर्वदा भवति। यः सर्वदा भवति सः सार्वकालिकः। अपि च अपौरुषेयः। नाम केनापि पुरुषेण न कृतः तथा च पुरुषदोषनिबन्धनदोषः नास्ति। अदुष्टतया सर्वदा तिष्ठति इति कृत्वापि सार्वकालिकत्वं सिध्यति। यद् अदुष्टं वचः तद् सर्वग्राह्यं सार्वकालिकं भवति। रामायणवत्। पुरुषकृतरामायणे एव ईदृशीस्थितिः चेत् अपौरुषेयग्रन्थस्य किमु वदेत्। सार्वकालिकत्वं वक्तुं मुख्यं कारणं यत् भगवन्तं सर्वदा प्रतिपादयति। यदि मुख्यतया एव रुद्रं अप्रतिपादयिष्यत् तदा रुद्रः लीयते चेत् तादृश वेदभागस्य कागतिः। नाम प्रलये रुद्राभावत्। तत्काले सः मन्त्रः कं वदेत् । मन्त्रोपि नष्ट इति वक्तुं न शक्यते। यतो तर्हि पुनः सृष्टिः  केन भवति इति विचिन्तयेत्। तेनैव चेत् तदा तत्केन ज्ञातं तेनैव वेदेन अन्याभावात् तर्हि अन्योन्याश्रयः।इत्यादि अनेकदोषदुष्टत्वात् वेदः सर्वदा तिष्ठति। तथा सति कं वा प्रतिपादयेदेव। रुद्रमिति वक्तुं न शक्यते। तदा अभावात्।  तथा च यदि मुख्यवृत्या परमात्मानं स्तौति इति अवदिष्यत् तदा परमात्मा प्रळयेऽपि वर्तते इति कृत्वा प्रतिपादकत्वं तदापि वर्तते इति सिध्यति। तेन भगवतः कृष्णस्य वेदैश्च सर्वैरहमेव वेद्यः वचनमपि रक्षितं भवति। अपि च वेदं सम्यगधिगच्छामः चेत् ज्ञायते तत्र बहवः श्रुतयः वर्तन्ते ‘ सत्यं वद, धर्मं चर, स्वाध्यायान्मा प्रमदः, वाक्यानि तावत् सर्वदानुष्ठानयोग्यं सार्वकालिकं बोधयति हि। कश्चन स्वर्णस्थेय इदानीं तस्य प्रायश्चित्तं जातं परं तु तस्य खिन्नता भवति सः दुःखहृदयः सन् कथं वा जीवति। तदा वेदः वदति स्वर्णस्थेयात् वृषलीगमनमैथुनसङ्मात् इत्यादि। सः दुःखं परित्यज्य जीवनोत्साही भवति। प्राग् ते एव वेदमन्त्राः तावत् यज्ञार्थमुपयुञ्जते स्म इदानीं तादृशकांश्चनभागानादाय अनुसन्धानादिकं कुर्वन्ति इत्यनेनापि सर्वकालप्रस्तुतत्वरूपसार्वकालिकत्वं सिध्यति। एवं  भाविसमीरोक्तदिशा वेदवाङ्मयस्य सार्वकालिकता इति विषयम् आदृत्य लिखनेन अलम् 

इति शम्

[/vc_column_text][/vc_column][/vc_row]