[vc_row][vc_column][rev_slider_vc alias=”about-3″][vc_column_text el_class=”articles”]

संस्कृतवचोविच्छित्तीनां स्वरूपविचारः


Manorama sawn
Research Scholar
Dept.of vyakarana
NATIONAL SANSKRIT UNIVERSITY,TIRUPATI.
Mob.9390769036
sawnmanorama123@gmail.com  

वचोविच्छित्तिशब्दार्थविचारः –

प्रयुक्तानां वाक्यानां विशिष्टप्रभावः श्रोतृषु जनयितुं वक्तारः विविधान् उपायान् आश्रयन्ति। उपमाद्याः अलङ्काराः, ध्वनयः, लक्षणाद्याः व्यापाराः – एवं सर्वेऽपि प्रयत्नाः विशेषप्रभावं जनयितुमेव क्रियमाणाः प्रयासाः। तादृशप्रयत्नेषु वचोविच्छित्तयः अपि अन्तर्भवन्ति। वचोविच्छित्तयः सर्वासु भाषासु वर्तन्ते। परिनिष्ठितभाषाणां पक्वतायाः चिह्नमिव एताः परिगणनयोग्याः।  भाषाविकासक्रमे विकसितं सौगन्धिकपुष्पमिव परिगणयन्ति भाषाविदः।

संस्कतभाषायाः साहित्यशास्त्रग्रन्थेषु, व्याकरणशास्त्रग्रन्थेषु वा वचोविच्छित्तीनां निमित्तं विशेषप्रकरणं नास्ति इति कारणतः तादृशप्रयोगाः एव संस्कृतभाषायां न सन्तीति न मन्तव्यम्। एतादृशाः प्रयोगाः सामान्यप्रयोगेभ्यः भिन्नाः इति चिन्तनं प्राचीनेषु आसीदेव। जगन्नाथादिभिः पण्डितैः आलङ्कारिकैः “काचन वचोभङ्गी” इति व्यवहारः कृतः। कुन्तकाचार्येण तु वक्रोक्तिजीवने वक्रोक्तिकोटौ अस्य प्रयोगविशेषस्य अन्तर्भावः कृतः।  

व्याकरणशास्त्रे पाणिनिमहर्षिणा –“पात्रेसमितादयश्च”, “मयूरव्यंसकादयश्च” इत्यादिसूत्रेषु एतादृशप्रयोगाणां सङ्ग्रहः कृतः। महाभाष्यकारेणापि – “का तर्हीयं वाचोयुक्तिः, ऐषैषा वाचोयुक्तिः” इत्येवं प्रयोगाः बहुधा कृताः। युक्तिः – योगः, योगः- प्रयोगः इति व्याख्यातं विद्वद्भिः।

“स्वघटितपदैरसंवेदनीयं किमपि विलक्षणं चमत्कारजनकार्थबोधनं वचोविच्छितेः लक्षणम्” भवितुमर्हति। वचनस्य शब्दानाम् वा विलक्षणं किञ्चन गुम्फनं वचोविच्छित्तिः। किञ्चन पदम् वाक्यम् वा अवयवार्थलभ्ये वाच्यार्थैव न विरमति, तदतिरिक्तम् विशिष्टम् अर्थं यदि बोधयति तर्हि सा वचोविच्छित्तिः इति परिगण्यते।वचनभङ्गी, वाचोयुक्तिः, वचोविच्छित्तिः इत्यादयः पर्यायप्रयोगाः संस्कृतवाङ्मयेषु दृश्यन्ते। आङ्ग्लभाषायां तु Idiom इति पदम् अस्मिन् अर्थे प्रसिद्धम्।

वाचोयुक्तिः इति प्रयोगे “वाग्दिक्पश्यद्भयो युक्तिदण्डहरेषु” इति वार्त्तिकेन षष्ठ्या अलुक्। समासे  वाग् युक्तिः इति न अपि तु वाचोयुक्तिः इति रूपं तिष्ठति। अस्य प्रयोगः काव्यवाङ्मये बहुत्र कृतोऽस्ति। वाचोयुक्तयः आधिक्येन लक्षणाव्यापारेण संबद्धाः इति पूर्वतनानां मनीषा। यतो हि एताः वाचोयुक्तयः स्वार्थेन सहैव क्वचित् विशिष्टार्थं बोधयन्ति क्वचित् स्वार्थाद्विशिष्टम् अर्थम्। व्यञ्जनाव्यापारः अपि अत्र परिगणनीयः। वाचोयुक्तीनां प्रयोगे प्रतिभायाः महत् स्थानं वरीवर्ति।

संस्कृतभाषयामपि एवंविधाः असंख्याकाः प्रयोगाः उपलभ्यन्ते । व्याकरणशास्त्रे, काव्येषु, नाटकेषु प्रयुक्तानां केषाञ्चन प्रयोगाणाम् विवेचनं स्थालीपुलाकन्यायेनात्र क्रियते।

वाचोयुक्तीनीं प्रयोगोः आदिकाव्ये एव विस्तारतया दृश्यते। मधुमयभणितीनां मार्गदर्शी महर्षिः इति चम्पूरामायणकर्तुः वचनम् अस्मिन्नपि विषये संगच्छति। अत्रोदाहरणमेकमुपस्थाप्यते।-

  पाणावामलकं यथा –

 ततः पश्यति धर्मात्मा तत् सर्वं योगमास्थितः।

पुरा यत् तत्र निर्वृत्तं पाणावामलकं यथा 

“तत्र समाधौ। पुरा पश्यति। अपश्यदित्यर्थः। यन्निर्वृत्तं जातम्। इदमुपलक्षणम् । यच्च भावि तच्चरित्रं पश्यति स्मेति यावत् ।” पणौ विद्यमानम् आमलकं यथा स्पष्टं तथा पूर्ववृत्तमपि वर्तमाने नेत्रयोः पुरतः प्रवर्तमामनमिव अपश्यत् इति अर्थं महर्षि ध्वनयति।

“पाणावामलकं यथा पाणिगतधात्रीफलमिव पुरा पूर्वं पश्यति तत्त्वतोऽजानादित्यर्थः”। “तत्र रामादौ पुरा यन्निर्वृत्तं निष्पन्नं तत्सर्वं वृत्तं पाणौ आमलकमिव पश्यति स्म।” And like an embolic myrobalan on his palm इति आङ्गलानुवादः। महर्षेः मार्गमनुसरन् चम्पूरामायणकारोऽपि तादृशप्रयोगमेव अकरोत्। “करबदरसमानम्” इति वाचोयुक्तिः कविना प्रयुक्तः। यथा-अथ सरसिजयोनेराज्ञया रामवृत्तं

      करबदरसमानं प्रेक्ष्य दृष्ट्या प्रतीच्या।

शुभमतनुत काव्यं स्वादु रामायाणाख्यं

मधुमयभणितीनां मार्गदर्शी महर्षिः।।श्लो.सं।

करबदरसमानम् इत्यत्र स्पष्टतया इति विशेषार्थः परिदृश्यते।  ब्रह्मणः आज्ञया -आदेशेन, करबदरसमानं – हस्ताववस्थितबदरीफलतुल्यम्, रामवृत्तं -रामचरितम्, प्रतिच्या – आन्तरिक्या दृष्ट्या दृशा, प्रेक्ष्य-आलोक्य, शुभं-सकलजनकल्याणकरम्, स्वादु – हृद्यम् रामायणाख्यम् काव्यम्, अतनुत -विरचितवान्।

ऋज्वायतम्, नतोन्नतम्

ऋज्वायतां च विरलां च नतोन्नतां च

सप्तर्षिवंशकुटिलां च निवर्तनेषु ।

निर्मुच्यमानभुजगोदरनिर्मलस्य

सीमामिवाम्बरतलस्य विभज्यमानाम्।।

“ऋज्वायताम् सरलां दीर्घां च, विरलां सावकाशां च असंहताम् नतोन्नतां दन्तुरां च नता चोन्नता च तां, अनेन क्षणादेव पद्मावती पङ्क्तिर्भिन्नरचनोपशोभिताभवदिति ज्ञायते, ऋज्वायतत्वञ्चार्थादेव विनष्टमिति विज्ञेयम् ।”

“गतावेकत्र बद्धमानसानां तेषां श्रेणी कस्मिंश्चित्समये समाहिता वर्तते, क्रमेण च गतिभिन्नतयाऽन्यथा संपद्यते पुनश्च पूर्ववदिति स्वभावो द्रष्टव्यः। निवर्तनेषु – परावर्तनेषु सप्तर्षिणां वंशः-तारामण्डलविषेशः तदिव कुटिला वक्राम् च, निर्मुच्यमानभुजगोदरनिर्मलस्य निर्मुच्यमानं भुजगोदरं सर्पोदरं, विभज्यमानां पृथक् क्रियमाणान् इव यथा एनां सारसपक्तिं पश्यामि।” इति च। ऋज्वायतम्, नतोन्नतम् इत्यादीनां समानार्थकप्रयोगाः लोगभाषासु दृश्यते।

पुरुषसारज्ञः  

अरोगस्तरुणो वाग्मी वपुष्मान् देशकालवित्।

लोके पुरुषसारज्ञः साधुरेको विनिर्मितः।

पुरुषसारज्ञः साधुः परकार्यसाधनशीलः विनिर्मितः विशेषेण अन्यनिर्मितविलक्षणत्वेन निर्मितं निर्मितिर्यस्य सः अघटितघटनापटीयानित्यर्थः। लोके सर्वभुवनेषु एकः परप्रतापादिनाऽद्वितीय एव।”   निग्रहानुग्रहाय पुरुषाणां धर्मिष्ठत्वाधार्मिष्ठत्वरुपसारज्ञाता। स एक एव रामो लोके साधुः सर्वगुणयुक्तो ब्रह्मणा कृतः। पुरुषसारज्ञः सकृद्दर्शनमात्रेण पुरुषहृदयसर्वस्वज्ञः, लोके एकः अद्वितीयः साधुरिति विनिर्मितः निश्चितः इत्युक्तसाधुविशेषत्वज्ञापनम्। And discerned character, the one honest person ever created इति श्लोकार्थः।

अहंपूर्वाः यस्य चाहारसमये सूदाः कुण्डलधारिणः।

अहंपूर्वाः पचन्ति स्म प्रसन्नाः पानभोजनम्। रामा.अयो.2.99

 “सूदाः पाचकाः अहंपूर्वाः अहमहमिकावन्तः प्रशस्तं आयुः सत्वबलारोग्यसुखप्रीतिविवर्धनाः। रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्विकप्रियाः इत्युक्तप्रकारेण श्रेष्ठम्।” “अहं पूर्व येषां ते त्वत्तः पूर्वमहं पक्ष्यामीत्यन्योन्यं कथयन्तः सन्त इत्यर्थः” How will my son, at the approach of whose meal-time,

गगनासक्तलोचनः

“हे नक्षत्रभूषिते निशे तव प्रभातं नेच्छामि प्रभातकालभाविरामवियोगभिया न वाञ्छामीत्यर्थः”। “त्वया इति पाठे त्वया गतया जायमानं प्रातः कालमित्यर्थः। तव, इति पाठे त्वत्संबन्धिप्रातः कालमित्यर्थः”।“With his eyes fixed at the sky, आर्तवत् महारोगादिना पीडित इव दुःखं विललाप श्रृण्वतां यथा दुःखं भवति तथा विललापेत्यर्थः”।

विललापार्तवद्दुखं गगनासक्तलोचनः।

न प्रभातं त्वयेच्छामि निशे नक्षत्रभूषिते। रामा.अयो.13.17

रामो द्विर्नाभिभाषते

तद्ब्रूहि वचनं देवि राज्ञो यदभिकाक्ष्ङितम्।

करिष्ये प्रतिजाने च रामो व्दिर्नाभिभाषते। रामा.अयो.18.30

 

“रामो द्विरिति । यदुक्तं तदुक्तमेव, तद्विरुद्धं न पुनर्वदतीत्यर्थः। तत्तदभावविषयतया द्विरावृत्तं भाषणं न करोतीति यावत्”। “प्रतिजाने प्रतिज्ञां करोमि। स्वस्वाभाविकं गुणमाह, रामः रामशब्दतादात्म्यापन्नः द्विः प्रतिज्ञाविपरीतं न अभिभाषते”। “रामो द्विर्नाभिभाषते विना प्रतिज्ञया रामो द्विरुक्तिं न करोतीत्यर्थः”। “Rama does not contradict what he has once spoken”.

अरिष्टं व्रज पन्थानम् – 

अहं च ते सदा पुत्र शान्तिस्वस्तिपरायणा।

अरिष्टं व्रज पन्थानं वत्स कार्यार्थसिद्धये।   

 मातृ दास्या विमोयनार्थम् प्रस्थिताय गरुडाय तस्य माता विनता एवं आशिषः प्रयुनक्ती। अरिष्टम्, रिष हिंसायां कर्त्तरि क्त, नञ् समासः, सूतिकागृहं। व्रज गतौ “गोचरसंचरेति” (3.3.119) अनेन सूत्रेण घप्रत्ययेन निपातनात् साधुः। समूहः ।इत्यमरः। पतन्ति यान्त्यनेन।  

अस्मिन् श्लोके ‘अरिष्टं व्रज पन्थानम्’ इति प्रयोगाः विशिष्टाः। कार्यसाधनार्थम् प्रस्थितस्य भवतः मार्गे विघ्नः मा भूयासुः इति कथनस्य आशयः मार्ग यद्यपि करणत्वेन भवति। तथापि अत्र तृतियाविभक्ते प्रयोगाः न दृश्यते। अपि तु द्वित्तीया विभक्ते प्रयोगाः ‘पन्थानम्’ इति कृताः। अरिष्ट इति पद पन्थानम् इति पदस्य विशेषणम् ‘कालाध्वनऽत्यन्तसंयोगे’ (2.3.5) इति सूत्रेण अध्व वाचकस्य पथिन् शब्दस्य द्विवचने कृते पन्थानम् इति सीद्धति। एतस्य सूत्रस्य आधारेण प्रयाणस्य मार्गे कोचीत्ऽपि विघ्नः माऽभूत इत्यर्थः कल्पोईतुम् योग्यम्।  “अरिष्टं गच्छ पन्थानम्” इति रामायणे अपि।

उपसंहारः – संस्कृतवाङ्मये आदिमकालतः एव वचोविच्छित्तीनां प्रयोगाः सन्तीति कानिचन उदाहरणानि आदिकाव्यातः रामायणतः, महाभारतात् काव्येभ्यः च अत्र कानिचन उदाहरणानि  उपपादितानि। 

 

सङ्केताक्षरसूची-

का.प्र-काव्यप्रकाशः च.अ – चतुर्थः अङ्कः
रामा.- वाल्मीकिरामायणम् ति.टी. -तिलकटीका
महा.-महाभारतम् रा.टी – रामायणशिरोमणिटीका
चं.रा-चम्पूरामायणम् वा – वार्त्तिकम् 
अष्टा.-अष्टाध्यायी गो.टी -भूषणटीका(गोविन्दराजीयम्)
स्व.वा- स्वप्नवासवदत्तम् श्लो. सं – श्लोकसंख्या

 

सन्दर्भग्रन्थाः –

  1. Mr. Moonier Monier-williams,-English-sanskrit dictionary, munshiram manoharlal publishers pvt.ltd, 2000,
  2. Arthur Anthony mac-donell- A practical Sanskrit dictionary, Motilal Banarsidass publishers private limited,delhi.2002
  3. Dr. Ravi Prakash Arya – introduction by Dr. Ramashraya sharma -Ramayana of Valmiki, parimala publications, Delhi, 2004.
  4. आदिकविश्रीवाल्मीकिमहामुनिः-रामायणम्, श्रीलालबहादुरशाश्त्रीराष्ट्रियसंस्कृतविद्यापीठम्, नवदेहली,1998
  5. श्रीमम्मटाचार्य-काव्यप्रकाशः,चौखम्बा संस्कृत संस्थान, वारणसी,
  6. महाभारत, The Bhandarkar oriental research institute pune,2013.
  7. महाकविभास-स्वप्नवासवदत्तम्,चौखम्बा सुरभारती प्रकाशन, वारणसी, 2014.
  8. श्रीभोजराजसार्वभौम-चम्पुरामायणम्, चौखम्बा कृष्णदास अकादमी, वारणसी,2016.
  9. पाणिनि-अष्टाध्यायी,चौखम्बा सुरभारती प्रकाशनम्, वारणसी,1995.

*****

[/vc_column_text][/vc_column][/vc_row]