[vc_row][vc_column][rev_slider_vc alias=”about-3″][vc_column_text el_class=”articles”]

पारस्करगृह्यसूत्रम्

            विद्वान्- डि. बङ्गारगिरिः

Abstract 

पारस्करगृह्यसूत्रम्

यस्मिन्नग्नौ पाणिं गृह्णीयात्स गृह्यः” इतिगृहम्,उपासनम्, आवसथ्यः, इति गृह्यपर्यायाः । तत्र भव इति व्युत्पत्या गृह्यः, औपासनः, आवसथ्यः इति संज्ञाः स्मार्तार्ग्नेः । पारस्करगृह्यसूत्रे “गृह्यस्थालीपाकानां कर्म, “आवसथ्याधानम् इति गृहीताः। अत्र क्रियमाणानां कर्मणामपि गृह्यसंज्ञेति तेषां कर्मणां संक्षेपेण कथनम् गृह्यसूत्रम् । शाखाभेदात् अनेकमुनिप्रणीतम्, तथाऽनेकविधम्। तद्यथा- आपस्तम्बगृह्यम्, आश्वलायनगृह्यम्,गोभिलगृह्यम्,इत्यादि । तेभ्यो व्यावर्तयितुम् पारस्कर इति विशेषणम् । पारस्करेण प्रणीतं गृह्यसूत्रम् पारस्करगृह्यसूत्रमिति फलितम्।

 

यस्मिन्नग्नौ पाणिं गृह्णीयात्स गृह्यः” इतिगृहम्, उपासनम्, आवसथ्यः, इति गृह्यपर्यायाः । तत्र भव इति व्युत्पत्या गृह्यः, औपासनः, आवसथ्यः इति संज्ञाः स्मार्तार्ग्नेः । पारस्करगृह्यसूत्रे “गृह्यस्थालीपाकानां कर्म, “आवसथ्याधानम् इति गृहीताः। अत्र क्रियमाणानां कर्मणामपि गृह्यसंज्ञेति तेषां कर्मणां संक्षेपेण कथनम् गृह्यसूत्रम् । शाखाभेदात् अनेकमुनिप्रणीतम्, तथाऽनेकविधम्। तद्यथा- आपस्तम्बगृह्यम्, आश्वलायनगृह्यम्,गोभिलगृह्यम्,इत्यादि । तेभ्यो व्यावर्तयितुम् पारस्कर इति विशेषणम् । पारस्करेण प्रणीतं गृह्यसूत्रम् पारस्करगृह्यसूत्रमिति फलितम्।

प्रथमकाण्डे

प्रथमकण्डिकायां कुशकण्डिका, द्वितीयायामावसथ्याधानम् । तृतीयेऽष्टमीपर्यन्तं विवाहः, नवम्यां नित्यहोमः। दशम्यां नैमित्तिकम् । एकादश्यां चतुर्थीकर्म, द्वादश्यां पक्षादिः गर्भाधानञ्च ।त्रयोदश्यां गर्भोषधी,चतुर्दशी पञ्चदशीषोडशीषु क्रमेण पुंसवन-सीमन्त जातकर्माणि,सप्तदश्यां नामकरण-निष्क्रमौ, अष्टादश्यां प्रवासागतविधिः, एकोऽनविंशत्याम्अन्नप्राशनम् इति ।

द्वितीयकाण्डे-

प्रथमायां चौलम् । ततोऽम्यष्टम्यन्तमुपनयनम् ।ततो नवम्यां पञ्चमहायज्ञाः। दशम्यामुपाकर्म । एकादश्यामनध्यायाः ।द्वादश्यां उत्सर्जनम् । त्रयोदश्यां लंगलकर्म । चतुर्दश्यां श्रवणाकर्म ।पञ्चदशीतस्तिसृषु क्रमेण इन्द्रलंगयज्ञ-पृषातका-सीतायज्ञाः ।

तृतीय काण्डे- 

प्रथमायां नवान्नम् । द्वितीयस्यामाग्रहायिणी स्रस्तरारोहणंच, तृतीयस्यामन्वाष्टका,चतुर्थी शालाकर्म,पञ्चम्यां मणिकावधानम्,  षष्ट्यां शिरोरोगौषधम्,सप्तम्यां दासवशीकरणम् ततोऽष्टमीप्रभृति-चतसृषु शूलगव-वृषोत्सर्गौर्ध्वदैहिकपशुयागाः क्रमेण,द्वादश्यामवकीर्णव्रतम्, त्रयोदश्यां सभाप्रवेशनम्, चतुर्दश्यां पञ्चदश्यां च रथारोहणादि अध्ययनविधिश्चेति।

विशेषविचारः

सूत्रमिदं शाखाद्वयमवलम्य प्रवृत्तमित्येकः सूत्रान्तरेभ्यो विशेषः। एवमेवगृह्यान्तरेऽनुपलभ्यमाना मणिकावधानशिरोगौषधदासवशीकरणादयो विषयाः अत्र सन्तीति द्वितीयो विशेषः।  सूत्राणां तदीयमंत्राणां चोच्चारणंतु “छन्दोवत्सूत्राणि” [“प्रतिज्ञापरिशिष्टम्”] इति शास्त्रात् तत्तच्छाखानुसारेण कार्यम् । तेन पारस्करगृह्यसूत्राणां तदीयमंत्राणां चोच्चारणे-रेफहकाराभ्यां संयुक्तस्य वर्णान्तरेणाऽसंयुक्तस्य पदादिस्थयकारस्य,रय्या इत्यादौ द्वित्वं यकारस्य च सर्वत्र जकारोच्चारणं कर्तव्यम्। उपसर्गपरस्य यकारस्य तु न जकारोच्चारणम् । एवं वेदेऽपि”न यत्” (२०/१२) वि यत् (१२/३४) सयोजते इत्यादौ तथा “यजुषे यजुष“ इत्यादावाम्रेडितेऽपि न जकारोच्चारणम् विशेषविधानात्।“अनुयोज अभि यज्ञम्” इत्यादौतु  उपसर्गपरस्यापि पदादियकास्य जकारोच्चारणं भवति विशेषविधानात् । 

एवं पदादिस्थवकारस्य सर्वत्र द्वित्वोच्चारणम् । वा, वाम्,वः,वै, एषु न द्वित्वोच्चारणं भवति । रेफस्य असंयुक्तान्यहलां ऊष्मणां  ऋकारेण संयुक्तस्य सर्वत्र रेफोच्चारणं भवति । 

एवमृकारस्यापि रेकारोच्चारणम् । तथा  लकारस्यापि ऊष्मणासंयुक्तस्य लेकारोच्चारणम् । षकारस्य ट वर्गं विना सर्वत्र खकारोच्चारणम् । अनुस्वारस्य दीर्घात्परस्य ह्रस्व गुं कारोच्चारणम् । ह्रस्वात्परस्यतु दीर्घगूंकारोच्चारणम्। “देवानाम् हृदयेभ्यः” इत्यत्र दीर्घगूंकारः । एवं संयोगे परेऽपि ह्रस्वात्परस्यापि अनुस्वारस्य न दीर्घ गूंकारोच्चारणम् ।अत्र केचित् गुं गूं इत्यनयोः स्थाने खम् इति पठन्ति, तन्न समीचीनम् । तथाऽविधानात् । प्रतिज्ञापरिशिष्टे गुम् इत्याकारिकाया आनुपूर्व्याः स्पष्टमुल्लेखाच्च । खम् इत्युच्चारणे ह्रस्वदीर्घयोः स्पष्टतया भेदोऽपि न स्यात् । एवं “गर्भधम्, सहस्रपात्,रश्मीन्,”इत्यादौ अर्धमात्रिक-मकाराद्युच्चारणानन्तरं द्वयोरोष्ठयोर्विश्लेषं कृत्वा तादृशस्यैव मकारादेरुच्चारणे ऋगन्तादिनियमेन मात्रात्रयादिविरामोऽर्द्धमात्रिको मकारादिः सस्वरश्चोच्चारितः प्रतीयते।न तु वस्तुतस्तत्र समाचारो मकारादिर्ज्ञेयः ।अवसानगतमकारादीनुच्चार्य तत ओष्ठविश्लेषः कर्तव्यः इत्यत्र प्रमाणं तु 

अनुस्वारे विवृत्यां तु विरामे चाक्षरेद्वये । द्विरोष्ठ्यौ तु विगृण्हीयात् ।“इति

एवं निरृतिरित्यत्र रेफ ऋकारयोर्योगे स्वरभक्तिप्रयोगो भवति न वेति विचारे याज्ञवल्क्यशिक्षायां-

“करिणी कुर्विणी चैव हरिणी हरिता तथा । 

तथा हंसपदा चैव पञ्चैताःस्वरभक्तयः”॥

इत्यादिना पञ्चानामेव स्वरभक्तीनां विधानात् तत्र च अस्यान्तर्भावात्। दाक्षिणात्यसंप्रदाये स्वरभक्तिपाठाभावाच्च तत्र स्वरभक्तिर्नास्तीति केचित्कथयन्ति। परन्तु वयं मन्यामहे- तत्रापि स्वरभक्तिप्रयोगः शास्त्रीय एव। यद्यपि शिक्षायां नोक्तं तथापि “अथापरान्तस्य रेफोष्म ऋकारौ(रै) रेकारसहितोच्चारणम्” इति कात्यायनपरिशिष्टे प्रतिज्ञासूत्रे नित्रर्परित्यावपि स्वरभक्तेर्विधानात् । न चैवं वाच्यंयाज्ञवल्क्यशिक्षायां मन्त्रमात्रविषयकत्वेन तद्विषये तस्या एव प्राबल्यात्,प्रतिज्ञासूत्रं च ब्राम्हणविषयकमिति।तथा कथने प्रमाणाभावात् ।  प्रत्युत तत्रैव “माध्यन्दिनीयकेमन्त्रे स्वरप्रक्रिया, इत्येवोपक्रमात् तस्य च “ये मन्त्रा इषेत्वादि खम्ब्रम्हान्तास्तेषु” इत्यनन्तव्याख्यानात् प्रतिज्ञासूत्रस्यापि मन्त्रविषयत्वस्य स्पष्टतोऽवगमात्। एवं “चानुक्तमविरोध्यन्यतो ग्राह्यम्” इति न्यायेन प्रतिज्ञासूत्रानुसारेण षष्ठ्यपि स्वरभक्तिरवश्यं स्वीकार्येति प्रतीयते । शिक्षास्थं पञ्चपदन्तु उपलक्षणतया नेयम् । तथैवहि प्रातिशाख्येऽनुक्तानामपि विषयानविरोधिनः शिक्षादितः स्वीकुर्मस्तथैव शिक्षानुक्तस्यापि परिशिष्टतः स्वीकरणेन न कश्चिद्दोषः। अत एव विकल्पमन्तरा पञ्चानामिव षष्ठ्यापि स्वरस्भक्तिः प्रतिज्ञासूत्रबलान्नियमेन प्राप्नोति । न च सम्प्रदायविरोधः, गौडीयसम्प्रदायेऽत्रापि स्वरभक्तिप्रयोगस्य नियमेन दर्शनात् । अतो वेदे पाठभेदस्यानुचितत्वात् प्रमाणसिद्धोऽयं निरृतिरित्यादौ स्वरभक्तिपाठ एकरूपेण कर्तव्य इति प्रतिभाति । एवं यज्ञ इत्यादावपि एकरूपपाठेनैव भाव्यमिति । 

गृह्यसूत्रविहितानि कर्मणि यद्यपि गृह्येऽग्नौ प्राप्नुवन्ति ।

कर्मस्मार्तं विवाहाग्नै कुर्वीत प्रत्यहं गृही ।                                    

दायकालाहृते वाऽपि श्रौतं वैतानिकाग्निषु ॥ 

पञ्चयज्ञविधानं च पक्तिं चान्वाहिकीं गृही” इति वचनात् न स्वेऽग्नावन्यहोमः स्यान्मुक्त्वैकां समिदाहुतिम्।स्वगर्भसत्क्रियार्थांश्च यावान्नासौ प्रजायते”॥ इत्यादिवचनात् । “पञ्चसुबहिःशालायां विवाहे चूडाकरण उपनयने केशान्ते सीमान्तोन्नयन उपलिप्त उद्धतावोक्षितेऽग्निमुपसमाधाय इति पञ्चसुबहिःशालाविधानसामर्थ्यात् आवसथ्य इत्यन्वर्थसंज्ञाकरणेन च विना वचनमावसथ्याग्ने बहिः प्रणयनाभावादावसथ्याग्निमतोऽपि सीमन्तादयः संस्काराः सर्वाणि शान्तिक-पौष्टिक-कर्मणि च लौकिकेऽग्नावेव भवन्ति न स्मार्तेऽग्नौ। उपाकर्मणि शिष्यकर्तृका उदम्बरसमिदाहुतिस्तु  “मुक्तैकां समिदाहुतिम्” इति वचनबलादावसथ्येऽग्नौ भवन्ति । एवं च आवसथ्याग्निमतो नित्यहोमः, पक्षादिकर्म,पञ्चमहायज्ञाः,सप्तपाकयज्ञमहासंस्थाः पित्रोर्मरणे सपिण्डेनाग्नौकरणम् पार्वणादावाग्नौकरणं च गृह्याग्नौ भवन्ति । आवसथ्याग्नेः पञ्चमहायज्ञाः, अग्नौकरणं,उपाकर्महोमःलौकिकाग्नौभवन्ति । सप्तपाकसंस्थासु पिण्डयज्ञे च नैवाधिकारो निरग्नेः । सप्तपाकसंस्थाः अपि न प्रतिसांवत्सरमनुष्ठेयाः किन्तु एकदा सकृदेव तासामनुष्ठानम्। 

पाकयज्ञानां गृह्याग्नेश्च सर्वेषु सूत्रेषु ऐतरेयब्राम्हणे (९.१०.६.३.४०२) शतपथब्राम्हणे (१२.३.५.५.४.२.२०)तैत्तिरीयसंहितायां (५.५.६.२.) च निर्देशोऽस्ति। एवं च विवाहस्य  ऋग्वेदे (२०.१५) उपनयनस्य(२२.५.) शतपथे च (२२.५.४ ) और्ध्वदेहिकविदेः अथर्ववेदे (२०.२४.२६.) पञ्चमहायज्ञानां च शतपथे (२२.५.६.२.) निर्देशोऽस्ति।

तत्रादौ प्रथमकण्डिकायां कुशकण्डिका  (अग्निमुखविधिः) । “एष एव विधिर्यत्र क्वचिद्धोमः” इति सूत्रादयं कुशकण्डिकाविधिः गार्ह्ये,स्मार्ते,तान्त्रिके, लौकिके च हवनकर्मणि सर्वत्रावश्यकः । यत्र तु “उपनयनप्रभृत्यौपासनस्य परिचरणम्”अत्र समिदाधानम्अनादिष्टानिब्रह्माजुहुयात्”इत्यादौ विशेषविधिः, तत्र उपनयनकुशादानप्रभृतीनामेव यावदुक्तानां कर्मणामनुष्ठानम्। न सकलकुशकण्डिकायाः । एवं पञ्चमहायज्ञेऽपि स्वाहाकारेण होमे प्राप्तेऽपि पुनः“स्वाहाकारैर्जुहुयात्” इति सूत्रणात् कुशकण्डिकाव्युदासः। अतश्च सर्वत्र शान्तिके पौष्टिके कर्मणि प्रायश्चित्तादौ च कुशकण्डिकाऽनुष्ठातव्यैव। श्रौतेषु कर्मसु तु श्रौतसूत्रोक्ता समन्त्रिका कुशकण्डिका भवति । 

सर्वाणिगृह्यसूत्राणि शाखावलम्बीनि। शाखाश्च  “एकशतमध्वर्युशाखाः,सहस्रवर्त्मा सामवेदः,एकविंशतिधा बाह्वृचम्,नवधाऽऽथर्वणोवेदः” इति महाभाष्ये पतञ्जलिमहर्षिणा परिगणितः। शाखाशब्दो न वेदावयवाची,सर्वासामपि शाखानां शाखान्तरनैरपेक्ष्येण यावदपेक्षितार्थावबोधकत्वात्। अतः शाखाशब्देन एकैकासंहिता (एकैकोभागः)उच्यते । अतो यावत्यो वेदसंहिताःतावत्यः शाखाः। एवं च अध्ययनाध्यापनेन शाखाभेदः संजातः ।

शाकल-बाष्कलयोः शाखयोः स्वाध्यायो यत्किञ्चित् भिद्यते। गृह्यसूत्रं तु आश्वलायनीयं शांखायनीयं चेति द्वयमुपलभ्यते। शुक्लयजुर्वेदे काण्व-माध्यन्दिनशाखयोः अध्ययनभेदेऽपि पारस्कर गृह्यसूत्रमेवमेव। सूत्रमिदं शाखाद्वयमधिकृत्य प्रवृत्तम्। यतः सूत्राणामयं नियमो यद् यामेकां शाखामवलम्ब्य तानि प्रवर्तन्ते तदा तत्रत्यान् मन्त्रान् प्रतीकमात्रं गृहीत्वा विनियुज्यते। शाखान्तरस्थानां सत्यावश्यके विनियोगप्रसङ्गे समग्रं मंत्रं पठित्वैव विनियुज्यते। अत्र तु सूत्रे काण्वशाखीया अपि “मित्रस्यत्वा”इत्यादयो मंत्राः प्रतीकमात्रेण विनियुक्ताः। अतो न एकामेव माध्यन्दिनीयशाखामेकान्ततोऽवलम्बते सूत्रमिदम्। किन्तु काण्वशाखामपीतिस्पष्टमवगम्यते।

एवं कात्यायनश्रौतसूत्रमपि शाखाद्वयमधिकृत्य प्रवृत्तमिति कात्यायनश्रौतसूत्र कर्कभाष्ये स्पष्टम्।[/vc_column_text][/vc_column][/vc_row]