[vc_row][vc_column][rev_slider_vc alias=”about-3″][vc_column_text el_class=”articles”]

न्यायमीमांसादर्शनयोः प्रमासमीक्षणम् 

                      रघुवीरगोस्वामी
अनुसन्धाता , न्यायविभागस्य
राष्ट्रियसंस्कृतविश्वविद्यालयः
दूरवाणी 8927438805
 ई-मेल raghubirgoswami123@gmail.com   

सारांशः ( Abstract )

 प्रदीपप्रभायाः सन्निहितवस्तुप्रकाशत्वम् इव बुद्धिः अपि स्वसम्बद्धं समस्तम् अपि अर्थजातं प्रकाशयति । सा च बुद्धिः समवायेन आत्मनि तिष्ठति । न्यायदर्शने ज्ञानं बुद्धिः उपलब्धिः अनुभव इत्येते पर्यायतया सन्ति । अस्या बुद्धेः अधिष्ठानम् आत्मेति प्रकाशस्बरूपं ज्ञानम् आत्माश्रयम् इत्यभिधीयते ।  

      तच्च ज्ञानं न्यायनये द्विविधं स्मृतिः अनुभवश्चेति । तत्राप्यनभवः द्विप्रकारकः — यथार्थोऽयथार्थोश्च । संस्कारमात्रजन्यं ज्ञानं स्मृतिः । सा त्रिविधा वेगो भावना स्थितिस्थापकश्चेति । तत्र स्मृतिं प्रति अनुभवजन्यो भावनाख्यसंस्कारो भवति कारणम् । संस्कारोऽयम् अनुभवस्मृत्योः अन्तो व्यापार आत्मना वतिष्ठते , यद् बलात् पूर्वानुभूतविषयस्य अनादिकालव्यवधानेऽपि स्मरणं उत्पद्यते । संस्कारमात्रजन्यत्वाभिधानेन स्मृतेः प्रत्यभिज्ञातः भेदः सिध्यति । संस्कारजन्या अपि प्रत्यभिज्ञा न तन्मात्रजन्या भवति , परन्तु संस्कारेण च इन्द्रियार्थसन्निकर्षेण च सा उत्पद्यते । एवं संस्कारनाशस्यापि संस्कारमात्रजन्यत्वात् तत्र अतिव्याप्तिवारणाय स्मृतिर्लक्षणे ज्ञानम् इत्यपि पदं व्यवहृतम् । 

          ” स्मृतिभिन्नं ज्ञानमनुखभवः”   नैके विद्वांसः स्मृतिलक्षणणम् अनावश्यक मन्यते । अनुभवे लक्षिते सति ततः भिन्नत्वादेव स्मृतिलक्षणसिद्धिः इति तन्मतम् तन्न युक्तम्, प्रत्यभिज्ञायाऽपि अनुभवभिन्नत्वात् स्मृतित्वप्रसक्तेः । एवं च अनेकधा प्रमा विवृणुते । 

कीलशब्दाः – न्यायमीमांसा, दर्शनम्, प्रमा, अनुभवः, स्मृति, यथार्थानुभवः, अयथार्थानुभव, संशय-विपर्यय-तर्कभेदाः चेत्यादयः

प्रस्तावना

             यथार्थायथार्थभेदेन द्विविधः अनुभवः । तत्र यथार्थानुभवः प्रमा , अयथार्थानुभवश्च अप्रमा इत्युक्तं भवति । ” तद्वद्विशेष्यकत्वे सति तत्प्रकारकं ज्ञानं प्रमा ” इति आचार्य विश्वनाथ पञ्चाननभट्टेन लक्षिता प्रमा । कस्याऽपि वस्तुनः तद्धर्मवैशिष्ट्यज्ञानं प्रमा इति सरलार्थः । प्रमाणलक्षण अन्तरगतं “तद्वति ” इति पदं प्रतीकम् उपादाय वाक्यवृत्तिकारः आह तत् पदवाच्य घटत्वयुक्तस्य घटस्य अनुभवविशेष्यत्वं सप्रम्यर्थः एवञ्च वस्तुनः यथार्थं ज्ञानं प्रमा इति सिद्धम् । 

     तस्याः च पूर्णतः विपरीता भवत्यप्रमा । यद् वस्तु न भवति यद् धर्मवत् , तस्य तद्  धर्मवत्वज्ञानप्रमा इत्यर्थः । एवञ्च रजतत्वविशिष्टस्य रजतस्य तद् धर्मविशिष्टज्ञानं प्रमा,रजतत्वहीनायश्च शुक्तिकाया रजतत्ववैशिष्ट्यावगाहि ज्ञानम् अप्रमा इति फलितम् । न्यायशास्त्रे प्रमाया भेदचतुष्टयम् अभिमतम् ते च प्रत्यक्षानुमित्युपमितिशब्दः  अभिधाः , ये विस्तरशो अग्रे यथाप्रसङ्गं निरूपयिष्यन्ते ‌ । अप्रमा च संशय-विपर्यय-तर्कभेदाः त्रिविधा

प्रमाया उक्त लक्षणो यदि “तद्वति” इति पदस्य घटत्वादिधर्माधिकरणम् इत्यर्थः क्रियते तदा लक्षणम् इदं घटत्वज्ञाने अव्याप्तं स्यात् । यथा हि घटविशेष्यकज्ञाने घटत्वं घटधर्मः , न तथा घटत्वविशेष्यकज्ञाने घटत्वस्य कः अपि धर्मः सम्भवतीत्येवम्भूता शङ्का “तद्वति” पटस्य ” तत् सम्बन्धवति” इत्यर्थकरणेन अन्नंभट्टेन समाहिता । यद्यपि घटत्वं नास्ति कस्यापि धर्मस्य अधिकरणम् तथापि घटविशेष्यकज्ञाने यथा घटो घटत्वेन सम्बद्धो अस्ति  तथैव घटत्वविशेष्यकज्ञाने घटत्वम् अपि अस्ति घटेन सह सम्बद्धमिति न अव्याप्तिः । अस्या एव प्रमायाः करणं प्रमाणम् इत्युच्यते । 

एवञ्च ” प्रमीयतेऽनेन तत् प्रमाणम् ” इति  व्युत्पत्त्या येन करणेन पदार्थानां यथार्थज्ञानं उत्पद्यते तत् प्रमाणम् । इमाम् एव व्युत्पत्तिम् आश्रित्य ” प्रमाकरणम् प्रमाणम्” इति प्रमाणस्य सार्थकलक्षणम् उक्तं अनुभूयते । उक्तपूर्वमेव एतत् यद्वस्तुनां यथार्थज्ञानं प्रमा , तद् उत्पत्तौ च विशिष्टकारणं प्रमाणं अस्तीति । अत्र च “प्रमाकरणं प्रमाणम्” इति प्रमाणसामान्यलक्षणे नास्ति कस्याऽपि दार्शनिकस्य कापि विप्रतिपत्तिः । किन्तु अस्याः प्रमायाः असाधारणकारणं करणं किम् इत्यत्र परिलक्ष्यते दार्शनिकसम्प्रदायेषु महान्मतभेदः । अतश्च अस्यात्र संक्षेपेण उल्लेखो न प्रकृतम् अतिक्रामेत् । 

मीमांसादर्शने प्राभाकरभट्टयोः अनुयायिनौ द्वौ सम्प्रदायौ स्तः । तत्र प्राभाकरा अनुभूतिं ज्ञातुश्च व्यापारं प्रमाणलक्षणम् आहुः । परम अनुभूतिमात्रस्य प्रमाणत्वमयुक्तम् नानाव्यक्तीनाम् एक‌ विषयाणां एव अनुभूतेः स्वस्वभावनावशात् भिन्नभिन्नत्वात्। ज्ञातृव्यापारश्च च प्रमाणत्वस्वीकारे ते युक्तिरूपस्थापयन्ति यदर्थप्रकाशनं ज्ञातृव्यापारायत्तमः तदेव प्रमाणम् । परम एतदपि न युक्तसहम् , ज्ञातृव्यापारो अर्थप्रकाशने प्रमाणं तदा सम्भवेत् , यदि तद्व्यापारोवस्तुनो यथार्थबोधे एक करणं स्यात् । यत्र तु वस्तुनो यथार्थबोधे कारणमसत् विपरीतज्ञाने एव कारणं अस्ति , कथम् तत् अत्र प्रमाणं स्यात् ?

भाट्टाः पुनःअनधिगतस्य यथावस्थितस्य च अर्थस्य निश्चयाकज्ञानं प्रमाणम् आहुः । उक्तं च शास्त्रदीपिकायां — अनधिगतस्य यथावस्थितस्य च अर्थस्य निश्चयाकज्ञानं प्रमाणम् इति । परम इदमपि लक्षणमव्याप्तिदोषग्रस्तत्वादयुक्तम् । गृहीतग्राही धारावाहिकं ज्ञानं प्रमाणं तैः अभिमतम्, तम च अव्यापृमिदं लक्षणम् । मीमांसकानां मन्यद अस्ति प्रमाणलक्षणम् — ” अपूर्वार्थज्ञानं निश्चितं बाधवर्जितं निर्दुष्टकारणारब्धम् लोकसम्मतं च ज्ञानं प्रमाणम्”  इति  मीमांसका मन्यन्ते यत् ज्ञानं स्वतः परोक्षमपि  ज्ञाततालिंगकानुमानगम्यम् । अन्यैः च दार्शनिकाः इदं मीमांसकमतं महता समारम्भेण आलोचितम् । अस्मिन् विषये वयम् अग्रे विचारयिष्यामः । 

अत्र प्रथमं मतं न्यायभाष्यकारवात्स्यायनस्य अस्ति — “उपलब्धिहेतुः  प्रमाणम् ” वार्तिककारेण उद्योतकारेणापि समर्थितम् एतदेव मतम् । ततः परं न्यायमञ्जरीकारः जयन्तभट्टः प्रमाकरणं प्रमाणम् ,  न्यायकुसुमाञ्जलीकारः उदयनश्च यथार्थानुभवं प्रमाणम् आह । अत्र इदं स्मर्तव्यं यद् उदयनात् प्राक् न्यायवैशेषिकदर्शने प्रमाणस्य स्थाने अनुभवपदं प्रयुज्यमानो न परिलक्ष्यते। 

नैयायिकपण्डिताःज्ञानाज्ञानोभयात्मिका सामग्री  प्रमायाः करणम् आहुः । अतः च तैः कारणसाकल्यम् इन्द्रियमनःपदार्थप्रकाशादिकारणसामग्री  प्रमाणम् इत्युक्तम् भवति ।  उद्योत्करस्य न्यायभाष्यटीकायां न्यायवार्तिके समुल्लिखितस्यायं सारांशः अर्थप्रकाशात्मत्वादि इन्द्रियमेव प्रमाणं भवति , उपलब्धिहेतोः एव प्रमाणत्वात् , प्रमा उत्पत्तौ हि इन्द्रियार्थसन्निकर्षापेक्षे प्रमातृप्रमाणे च ज्ञानसाधने भवतः ‌। गौतमः प्रमाणसामान्यलक्षणाय च पृथक् सूत्रं कञ्चित् स्वयामास ‌‌। प्रमाणशब्दनिरूक्त्यैव तत् सामान्यलक्षणसिद्धिम् अभिप्रेत्य पृथक् लक्षण आवश्यकता स न अनुभूतवान् । एवमेव अर्थं ध्वनयता भाष्यकारवातस्यायनेनापि उपलब्धिसाधनस्य प्रमात्वम् उक्तम् तद् हि प्रमा शब्दव्युत्पत्तैव लब्धम् , “प्रमीयतेऽनेन” इति विग्रहे मानार्थक मांधातोः करणेल्युटि प्रमाशब्दः व्युतपत्तेः । 

तदित्थं न्यायनयेन सहैव तद् अतिरिक्ततत्तद् दार्शनिकमतान्यपि अन्वालोच्य वयं निष्कर्षमतम् अभिसन्दध्मो यत् सर्वेषां दार्शनिकानां मतमन्ततोगत्वा  “प्रमाकरणं प्रमाणम्” इति अत्रैव विरमति । तत् च क्वचित् इन्द्रियम् , क्वचित् इन्द्रियार्थसंनिकर्षः क्वचित् च ज्ञानरूपं भवति । न्यायः सद्वादीदर्शनम् अतः च तेन वस्तुमात्रनिर्णयः वस्तुस्थित्युनसन्धानेनैव विधीयते । इयं च अत्र वस्तुस्थितिः – व्यवहारः उपलब्धानां चतसृणां प्रमाणां‌ प्रत्यक्षानुमित्युपमितिशब्दानां कारणानि विश्लेषयदि्भरस्माभिः उक्तानि त्रीण्येव तत्त्वानि कारणतया दृश्यते एषु च त्रिषु तत्त्वेषु कदाचित् किञ्चित् करणं कदाचित् व्यापारः कदाचित् च फलरूपेण अवतिष्ठते । किञ्चित् प्रति कस्यचित् करणत्वे‌ तत्र व्यापारः अपि अवश्यम एव कल्पो भवति , व्यापारवत् साधारणकारणसैव करणत्वात् । तज्जन्यत्वे सति तज्जन्यजनकः च व्यापारः भवति । प्रकारान्तरेण अभिधातुं शक्यते यद् व्यापारो नाम तत् मध्यवर्ति वस्तु , यत् कार्यकारणयोः मध्ये सम्बन्धं स्थापयति । तद्यथा – यदि निर्विकल्पकज्ञानं फलं स्यात् तर्हि इन्द्रियं करणम् , इन्द्रियसन्निकर्षः व्यापारः , फलं च निर्विकल्पकज्ञानमेव भवति । एवं सविकल्पकज्ञानरूपफलं प्रति इन्द्रियार्थसन्निकर्षः करणं निर्विकल्पकज्ञानं च अवान्तरव्यापारः भवति । एवमेव सविकल्पकज्ञानमनु उत्पद्यमानं हानोपादानोपेक्षाबुद्धिरूपफलं प्रति निर्विकल्पकं ज्ञानं भवति करणम् , सविकल्पकज्ञानम् अवान्तरव्यापारः च भवति । तथैव च अनुमित्युपमितिशाब्धवोधरूपा प्रमां प्रति क्रमशः व्याप्तिज्ञानसादृश्यज्ञानपदज्ञानान्येव असाधारणं कारणं रूपाणि भवन्ति प्रमाणानि । यद्यपि प्रमातृप्रमेयादीन्यपि प्रमां प्रति कारणानि भवन्ति , तथापि साधकतमत्वाभावात् व्यापारवद्‌ असाधारण कारणत्वाभावान्न तानि प्रमाणकौटो निविशन्ते – 

“अतश्चोक्तानि त्रीण्येव तत्त्वानि न्यायनये प्रमाणनि , नान्यानि ‌

अत्र प्रसङ्गे धारावाहिकज्ञानस्य प्रामाण्या  प्रामाण्यविषये‌ प्रश्न उपस्थापयितुं शक्यते । तत्र इदं न्यायमतम् — प्रमायाः प्रमाणस्य च लक्षणे ” अनधिगत पदस्य अनुल्लेखात् उक्तज्ञानस्याऽपि प्रमात्वे तत् करणस्य च प्रमाणत्वे न काचित् हानिः । वाचस्पतिमिश्र-उदयनाचार्य-जयन्तभट्ट प्रभृतिभिः विद्वद्भिः अनधिगतार्थविषयत्वे ग्रन्थे – ” न्यायवार्तिकतात्पर्यटीकायां ” समुल्लिखितस्य अत्र विषये अयमस्तिसारसंक्षेपः — अस्ति धारावाहिकज्ञानस्याऽपि प्रामाण्यं लोकसिद्धम् , परं सूक्षकालभेदम् आदाय अनधिगतविषयकत्वं अङ्गीकृत्य न तस्य ज्ञानस्य प्रामाणिकत्वं मन्तुं युक्तम् तस्य कालभेदस्य अतिसूक्ष्मत्वात् स्थूलदृष्टिभिः अस्माभिः अधिगन्तुम् शक्यत्वात् । परन्तु अर्थप्रदर्शनस्य एव ज्ञानस्य प्रयोजनत्वात् तस्य च पूर्वोत्तरज्ञानयोः तुल्यत्वात् उभयोऽपि  विज्ञानयोः प्रामाणिकत्वम् अभ्युपेयम् । एवञ्च न्यायवैशेषिकदर्शनयोः धारावाहिकज्ञानस्थले उत्तरविज्ञानानाम् अपि प्रामाण्यम् अधिगतम् परं न सूक्षकालशकलान् परिगणस्य अनधिगतविषयकत्वम्  अभ्युपगम्य , तेषां मते तस्याः आवश्यकतान् स्वीकारात्।

परं यत्र दर्शनसम्प्रदाये प्रमाणलक्षणे अनधिगतपदं व्यवहृयते , तेषां कृते जागर्ति इयं समस्या यद् धारावाहिकज्ञानं प्रामाणिकं स्यात् न वेति ? स्यात् चेत् कथम् ? 

मीमांसाकैरपि अत्र विचारः उपविहितः । तत्र प्रामाण्यम् अनुसरन्तः शालिकनाथप्रभृतयोः विद्वांसः न्यायनये इव सूक्ष्मकालभेदविचारम्  अन्तरेण अनुभूतिमात्रत्वाद् उक्तज्ञानं प्रमाणम् आहुः , अतः परं भट्टमतानुयायिनः पार्थसारथिमिश्रादिभिः सूक्षकालभेदो विचारितः । प्रकरणपञ्जिकायां शालिकनाथः उक्तस्य अयं सारः — धारावाहिकज्ञानस्थले सर्वाणिऽपि ज्ञानानि परस्परनिरपेक्षाणि । तत्र पूर्वविज्ञानकारणसामग्रीजन्यत्वात् च उत्तरविज्ञानां न उत्पत्तिः न वा प्रातीतितः । कश्चित् भेदः तेषु दृक्गोचरी भवति  । अतः च सर्वाणि ज्ञानानि प्रमाणानि ।  अतः परं भाट्टाः पार्थसारथिमिश्रप्रभृतयोः विद्वांसः सूक्षकालभेदम् विचारयन्तः एव उत्तरविज्ञानानां प्रामाण्यम् अभ्युपगच्छन्ति । शास्त्रदीपिकायां चोक्तं — ” किमत्र घट आसीदस्ति वा ? ” एवं पृष्टे ” इदानीमत्रैवक्षणे दृष्टो मया घटः ” इति यदिदम् उत्तरम् कथ्यते , तत् न खलु कालभेदविचारं विना सम्भवति । अतः च कालभेद अभ्युपगम्यमावश्यकः।  तस्मिश्चाधिते सति उत्तरविज्ञानेषु अनधिगत – विषयकत्वं सिध्यति । 

एवञ्च प्रमाणप्रमाणयोः विषयैनैकेषां दार्शनिकमतानां  न्यायमतेन सह तुलनात्मके  विवेचने प्रस्तुते सति निर्गलितो अयमर्थो आविर्भवति यत् तत्रास्ति किञ्चित् सादृश्यं  किञ्चित् वैसादृश्यमपि । तत्र प्रमायाः करणं प्रमाणम् , प्रमा च यथार्थज्ञानम् इत्यत्र सर्वेषां मतैक्यं । प्रमायाः प्रमाणस्य च स्वरूपविषये संख्याविषये च तेषु विद्यते वहुलं मतान्तरम् । न्यायमते स्मृतिरप्रमा , अन्यत्र तु एकेतां प्रमा स्वीकृते । एवमेव  धारावाहिकज्ञानस्य प्रामाण्यविषये न्यायशास्त्रससस्य वेदान्त मीमांसादार्शनिकसमप्रदायैः सह सत्यपि मतैक्ये तस्य उपपादनप्रणाल्यां दृष्टिकोणे च महत् वैमत्यं  विभाति । एवमेव च प्रमाया उत्पत्तौ   संख्यायां , प्रामाण्यस्य च प्रक्रियायां न्यायनयेन सहेतरदार्शनिकमतानां महत् अन्तरं चकास्ति , यत्र यथा प्रसङ्गं प्रकटयितुं प्रयतिष्यामहे ।

न्यायसिद्धान्ते प्रमालक्षणम्: —

प्रमा , प्रमितिः यथार्थानुभवः विद्या इत्यर्थान्तरम् । प्रमीयते इति प्रमा । सूत्रकारेण गौतमेन प्रथमसूत्रे —”प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानानांतत्त्वज्ञानान्निःश्रयसाधिगमः” इति मोक्षस्योपायतया तत्त्वज्ञानम् प्रतिपादितम्।  अतः परं   द्वितीयसूत्रे —

” दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञाना-

नामुत्तरोत्तरापाये तदन्तरापायादपवर्गः ।।

अपवर्गस्य प्राप्तिप्रकारोपवर्णणनपरे तत्त्वज्ञानात्‌ भ्रमज्ञानध्वंसस्य प्रतिपादितया तत्त्वज्ञानं प्रमात्मकं ज्ञानम् एवेति सूत्रकारगौतमस्य आशय इति सुदृढम् अस्माभिः ज्ञायते । मिथ्याज्ञानात्मकं भ्रमज्ञानं प्रमात्नकेन तत्त्वज्ञानेन निवर्त्यतेति वचनेन प्रमाणलक्षणघटकं यथार्थम् इति अनुभूयते । 

भाष्यकारेण न्यायभाष्ये ‘ उपलब्धिसाधनानि प्रमाणानि ‘ इत्यत्र उपलब्धिपदं बुद्धिपरतया सूत्रकारगौतमप्रयुक्तं प्रमापरतया प्रयुक्तम् आशां — “वुद्धिरूपलव्धिर्ज्ञानमित्यनर्थान्तरम् “ ज्ञानस्य निर्विषयकस्य अभावाद् अत्र उपलब्धिपदेन अर्थविषयकज्ञानत्वरूपप्रमात्वम एव न्यायभाष्यकृता अङ्गीकृतम् इति लभ्यते । अत एव प्रथमसूत्रभाष्ये अर्थविषयकज्ञानस्य प्रमात्वमसूचि न्यायभाष्यकृता —

” यत्तदर्थविज्ञानं सा प्रमितिः ”   प्रमात्वम् अभ्युपगच्छता  उद्योतकरेणापि प्रमायाः अर्थविषयकज्ञानत्वम् इत्यसूचि । टीकाकारवाचस्पतिमिश्रेण अर्थविषयकज्ञानत्वम् एव प्रमा इत्युक्ते , अप्रमायाम् स्मृतौ च अतिव्याप्तिमुद्वीक्ष्य ‘अर्थाव्यभिचारि स्मृतिव्यतिरिक्तं ज्ञानं प्रमा’ इति प्रमाणलक्षणं स्पष्टीकृतम् । अर्थाव्यभिचारित्वं नाम यथावस्थित अर्थविषयकत्वम् —

              “लोकाधीनावधारणो हि शब्दार्थसम्बन्धः।

लोकश्च स्मृतेरन्यामुपलब्धिमर्थाव्यभिचारिणीं प्रमामाचष्टे।”

टीकापरिशुद्धौ  आचार्यः उदयनेन अविपरीतानुभवः प्रमा इति प्रमाणलक्षणम् उक्तम् –” प्रमा चाविपरीतोपलब्धिः। अतोऽविपरीतानुभवजनकत्वलक्षणमव्यभिचारित्वमेव प्रमाणममित्यर्थः ।”  

न्यायकुसुमाञ्जलौ उदयनाचार्यः महता आग्रहेण प्रमाविचारं प्रवर्तमानञ्चकार । तत्र यथार्थानुभवत्वम् एव प्रमायाः लक्षणम् इति सिद्धम् । आविष्कृताः च अनधिगतार्थविषयकप्रमालक्षणे प्रचुरः दोषाः  —

                                               ” अव्याप्तेरधिकव्याप्तेरलक्षणमपूर्वदृक ।

यथार्थानुभवो मानमनपेक्षतयेष्यते ।।

न्यायदर्शनस्य प्रथमसूत्रान्ते ‘तत्त्वज्ञानाद्’ इत्युक्ततया , प्रत्यक्षसूत्रे ‘ अव्यभिचारि ‘ इति प्रयुक्ततया च यथार्थानुभव एव प्रमेति लक्षणं नैयायिकैः अभ्युपगम्यते – ” यथार्थो ह्यनुभवः प्रमेति प्रामाणिकाः पश्यन्ति । तत्त्वज्ञानादिति सूत्रणात् । अव्यभिचारि ज्ञानमिति च । मितिः सम्यक् परिच्छित्तिः । सम्यक् अनुभवापरपर्यायः तत्त्वानुभवः प्रमा इति शिवादित्यः न्यायमञ्जरीकारजयन्तभट्टेन  अव्यभिचारिणी संशयभिन्ना च अर्थोपलब्धिः प्रमा इति प्रमालक्षणम् निगदितम्  — ” अव्यभिचारिणीसंदिग्धामर्थोपलब्धिं विदधती बोधाबोधस्वभावा सामग्री प्रमाणम् ।”  

       बैशेषिकैः प्रमापर्यायतया विद्यापदं व्यवहृयते । मिथ्याज्ञानपर्यायतया च अविद्यापदम् । दोषाजन्यज्ञानत्वम्  — ” अदुष्टं विद्या ” वा विशेष्यावृत्यप्रकारकज्ञानत्वम् विद्यायाः लक्षणं उच्यते । मणिग्रन्थे प्रमायाः अष्टलक्षणानि अनुद्य खण्डितानि । अन्ते सिद्धान्तरूपाणि सप्तलक्षणानि प्रतिपादितानि ।   

     उक्तपूर्वेषु लक्षणेषु  “इमौ घटपटौ ” इति समूहालम्वन  प्रमायामव्याप्तिः अस्ति । सा च घटत्वावच्छिन्नायां  विषयतायां  स्वसमानाधिकरणात्यन्ताभावप्रतियोगिपटत्वानवच्छिन्नत्वं पटत्वावच्छिन्नायां विषयतायां च तादृशघटत्वानवच्छिन्नत्वं  वर्तते इति तादृशविषयताद्वयनिरूपकत्वम् उक्तप्रमायामक्षतमिति रीत्या वारणीया ‌ — ” समुहालम्बने च विषयताभेदान्न प्रमाप्रमालक्षणे अव्याप्त्यतिव्याप्ती ” । 

विश्वनाथाचार्येन  प्रमालक्षणद्वयम् उक्तं —

१) ‘तद्वद्विष्येकत्वे सति तत्प्रकारकज्ञानत्वं प्रमायालक्षणं 

         ” भ्रमज्ञानं तु ज्ञानमत्रोच्यते प्रमा । 

           अथवा तत्प्रकारकं यज्ज्ञानं तद्वद्विशेष्यकम्

            तत्प्रमा……………… ।‌‌।”

२) भ्रमभिन्नत्वे सति ज्ञानत्वं प्रमाया लक्षणम् ।

    अत्र द्वितीयलक्षणे शुक्तिरजतयोः इमे रजते इति ज्ञानं ,  रजते रजतविषयकत्व अंशे प्रमा इति युज्यते । परन्तु तत्र भ्रमभिन्नत्वं नास्तीति तत्र प्रमात्वं न स्यादिति भवति अनुपपत्तिः । अतः प्रथमलक्षणम् उक्तम् । 

प्रमापरपर्यायस्य यथार्थ अनुभवस्य तद्वन्निष्ठविशेष्यतानिरूपिततन्निष्ठप्रकारताशालित्वज्ञानत्वं लक्षणम् इति तर्कसंग्रहकारः । यथा रजते इदं रजतम् इति ज्ञानं । 

भाट्टसिद्धान्ते प्रमालक्षणम्  : —

प्रमा , प्रमितिः यथार्थानुभवः इति पर्यायाः । धर्मे चोदनायाः प्रामाण्यं व्यवस्थापयद्भिः मीमांसासूत्रकारैः अव्यतिरेकः अर्थस्य अनुपलब्धत्वं , पुरुषनिरपेक्षत्वं इति हेतुत्रितयम् उपदर्शितम् । यथा —

     ” अव्यतिरेकश्चार्थेऽनुपलब्धे तत्प्रमाणं वादरायणस्य अनेपक्षत्वात् ” इति । तत्र अबाध्यत्वमव्यतिरेक इत्यनेन पदेन कथ्यते ‌ । प्रामाणान्तराज्ञातत्वं अर्थस्य अनुपलब्धत्वम् इत्यनेन परिचीयते ‌ । भ्रमविप्रलिप्सादिकारणदोषहीनत्वं पुरुषनिरपेक्षत्वम् इत्यनेन प्रतिपाद्यते अर्थात् अज्ञातविषयकं करणदोषबाधकज्ञानरहितं ज्ञानं प्रमा इति सूत्रकारगौतमाभिमतं प्रमा लक्षणं फलितम्  — ” प्रमा च अज्ञातयथावस्थितवस्तुविषयकं ज्ञानम् ” । तत्र स्मृतौ अतिव्याप्तिवारणाय अज्ञात इति पदम् निवेशनीयम् । भ्रान्ति  संशये च तद् वारणाय करणदोष इति विशेषणम् ‌पदं निवेशनीयम् । अत एव दृढं ज्ञानान्तरेण संवादहीनं यद् उत्पन्नं ज्ञानं तत् प्रमाणम् इति ,  भाट्टेनापि श्लोकवार्तिके न्युरूपि प्रमास्वरूपम्  —

” तस्माद् दृढं यदुत्पन्नं न च संवादमृच्छति ।

ज्ञानान्तरेन तद् ज्ञानं प्रमाणमिति मीयताम् ।। ”

अत्र प्रमाणम् इति शब्दः भाट्टेन भावार्थतया प्रमापरत्वेन प्रयुक्तः । 

          भाट्टचिन्तामणिकारगागाभट्टेन यथार्थानुभवत्वम् एव प्रमात्वम् इत्युक्ता अज्ञातविषयकं बाधकज्ञानहीनं ज्ञानं प्रमा इति,  तत् स्पष्टीकृतम् ‌ — ” किं प्रमात्वम् ? उच्यते — यथार्थानुभवत्वम् । याथार्थ्यं च तद्वद्विशेष्यकत्वे सति तत्प्रकारकज्ञानत्वम् । अनुभवत्वं च स्मृतिभिन्नज्ञानत्वम् । स्मृतिजनकतावच्छेदकजातिविशेषो वा । स्मृतित्वं च ज्ञातविषयकज्ञानत्वम् , संस्कारजन्यज्ञानत्वं वा । एवं चाज्ञातविषयकं बाधकज्ञानरहितज्ञानं प्रमेति फलितम् ।” । मानमेयोदयकारः नारायणः अपि अज्ञाततत्त्वार्थज्ञानमेव प्रमा इति तत् लक्षणमलिलक्षत् — ” प्रमा चाज्ञाततत्त्वार्थज्ञानमेवात्र भिद्यते  “ । अत्र लक्षणघटकेन अज्ञानपदेन ज्ञातविषयोः स्मृत्यनुवादयोः निरासः। भाट्टमते अनुवादादीनां प्रामाण्यं नास्वीक्रियते । तार्किकैः तद् स्वीक्रियत इति अन्यदेतत् । । अनुवादे हि नाम पूर्वस्मात् ज्ञानात् न तावत् कश्चित् विशेषः दिदृक्षते  अर्थपरिच्छेदे व्यवहारे वा । प्रमाणानि हि फलार्थं अङ्गीक्रियन्ते । एवञ्च फलविशेष्य अनुवादवाक्येषु खपुष्पायमानतया स्मृतिवत् अनुवादानामपि न प्रामाण्यं अभ्युपगन्तव्यम् । 

              ननु अस्तु यदि अज्ञातावगतिऽपि प्रमाणलक्षणघटकं  , तर्हि ‘घटोऽयम्’ , ‘घटोऽयम्’ इति धारावाहिकज्ञानेषु द्वितीयादिज्ञानानां अप्रमात्वापत्तिः इति चेत् — मा एवम् । तत्राऽपि  ‘अयम् अयम् ‘ इति उत्तरेषां कालांशानां प्रागज्ञातानाम् अवगमनात् उत्तरक्षणसम्बन्धिघटसद्भावस्य पूर्वज्ञानेनाकलनात् । लक्षणघटकेन तत्त्वपदेन भ्रान्तिसंशयादीनि अयार्थज्ञानानि निरस्यन्ते । एवञ्च कुमारिलभट्टमते अज्ञाततत्त्वार्थज्ञानम् एव प्रमा इति सिद्धम् । नये अस्मिन् प्रमाशब्देन लक्षणया तत्कार्यभूतं प्राकट्यमऽपि प्रतिपाद्यतेति प्रकट्यरूपप्रमाकरणतया ज्ञानस्याऽपि प्रमात्वम् उपपद्यते । अत एव भाट्टाः फलप्रमाणवादिनेति प्रथन्ते

प्राभाकरसिद्धान्ते प्रमालक्षणम्  — 

प्रभाकरमते अयथार्थानुभव एव नास्ति अतः यदि अनुभवः सः अवश्यं यथार्थ एव इति अनुभूति एव प्रमा– 

” अनुभूतिः प्रमाणं सा स्मृतेरन्या स्मृतिः पुनः ।

           पूर्वविज्ञानंसंस्कारमात्रजं ज्ञानमुच्यते ।

       न प्रमाणं स्मृतिः पूर्वप्रतिपत्तेरपेक्षणात् ।

          अन्योन्यनिरपेक्षास्तु धारावाहिकबुद्धयः ।।”

सा च अनुभूतिः स्मृतिभिन्ना । स्मृतेः अनुभवत्वाभावात् इति न प्रमाणम्

प्रमासमीक्षणम्  : —

नैयायिकैः ज्ञानं द्विविधा विभक्तं स्मृतिः अनुभवश्चेति । अनुभवः पुनः यथार्थायथार्थभेदेन द्विविधा विभक्तं । तद् विभागविषये भाट्टाः नैयायिकाननुसरन्ति । तैरपि अनुभवद्वैविध्यम् स्वीकृतम् । तद् हि लक्षणा च स्मृतिः ऊरीकृता । किन्तु प्राभाकराणामऽपि स्मृतिः अनुभवभेदेन ज्ञानं द्विविधम् इत्यत्र न काऽपि विप्रतिपत्तिः । परन्तु अनुभवद्वैविध्यम् एव तेषामनिष्टम् , तेषां मते अयथार्थस्यैव अनुभवस्य अभावात्। अतः तेषां मते सर्वोऽपि अनुभवः यथार्थ एव इति प्रमैव भवितुम् अर्हति ।

        नैयायिकैः प्रमा प्रमितिः यथार्थानुभवः इति पदानि प्रमापर्याया व्यवहृतानि । भाट्टैः तु तान्येव पदानि परिगृहीतानि । वैशेषिकैः पुनः प्रमापर्यायतया विद्यापदं व्व व्यवहृतम् ।प्रभाकरेश्च प्रमापर्यायतया प्रमाणमपदमऽपि व्यवहृतम् — ” प्रमाणमनुभूतिः ” साधनपरतयापि प्रमाणपदं तैः व्यवहृयते । प्रभाकराः स्मृतेः अप्रमाण्य स्वीकारे नैयायिकानां पक्षमेव अनुवर्तन्ते । परन्तु अयथार्थानुभव स्वीकारे न्यायविरूद्धं पक्षम् आश्रयन्ते  

         नैयायिकैः बहूनि प्रमालक्षणानि व्याख्यातानि । तेषु सर्वेषु अपि लक्षणेषु निर्दोषं परिष्कृतं लक्षणं — ‘तद्वति तत्प्रकारकानुभवो प्रमा ‘ इति । अत्र तद्वन्निष्ठविशेष्यतायाः तन्निष्ठप्रकारतायाश्च निरूपकत्वसम्बन्धेन अनुभवे अन्वयः , न तु परस्परं प्रकारताविशेष्यतयोः , तथा च तद्वन्निष्ठविशेष्यतानिरूपकत्वे सति तन्निष्ठप्रकारतानिरूपकत्वे च सति अनुभवत्वमिति लक्षणं बोध्यम् । रजते ‘इदं रजत’- इतिज्ञाने – रजतं विशेष्यम्  , रजतत्वं विशेषणं प्रकारः, रजतत्ववत् रजतनिष्ठविशेष्यतानिरूपकत्वे सति रजतत्वनिष्ठप्रकारतानिरूपकत्वे सति अनुभवत्वं तत्र वर्तते इति तस्य प्रमात्वं बोध्यम् । एतद् लक्षणे  विशेष्यत्वप्रकारत्वयोः निरूपकत्व सम्बन्धेन अनुभवे अन्वयो भवति । परन्तु तथा सति रङ्गरजतयोः — यत्र ‘इमे रजतरङ्गे’ इति समूहालम्वनं ज्ञानं जातम् , सोऽयमनुभव अयथार्थः‌, तत्र यथार्थानुभवलक्षणस्य अतिव्याप्तिः , यद्यथा – ‘ इमे रजतरङ्गे’ इति ज्ञाने  — रजतत्वनिष्ठा प्रकारता रङ्गनिष्ठा च विशेष्यता वर्तते , एवं रङ्गत्वनिष्ठा प्रकारता रजतनिष्ठा विशेष्यता च वर्तते । तादृशप्रकारताद्वयस्य विशेष्यताद्वयस्य च निरूपकानुभवत्वमपि तत्र अस्ति । तथा च रजतत्ववत् रङ्गनिष्ठविशेष्यतानिरूपकत्वे सति रजतत्वनिष्ठप्रकारतानिरूपकत्वम् , एवम् — रङ्गत्ववत् रजतनिष्ठविशेष्यतानिरूपकत्वे सति रङ्गत्वनिष्ठप्रकारतानिरूपकत्वं च तत्र अनुभवे वर्तते इति भवति अतिव्याप्तिः । तद् वारणाय – विशेष्यतया निरूपितत्वसम्बन्धेन प्रकारतायामन्वयो नत्वनुभवे, अनुभवे तु प्रकारताया एव निरूपकत्वसम्बन्धेन अन्वयः , तथा च ‘ तद्वन्निष्ठविशेष्यतानिरूपिता या तन्निष्ठप्रकारता तादृशप्रकारतानिरूपकानुभवत्वं  यथार्थत्वम् इति निष्कर्षः । ‘इदं रजतम्’ इत्यत्र रजतत्ववत् रजतनिष्ठविशेष्यतानिरूपिता रजतत्वनिष्ठा प्रकारता वर्तते तत्र लक्षणसमन्वयः । उक्तसमूहालम्बनभ्रमस्य तु रङ्गांशे रजतत्वावगाहित्वेन रजतत्वनिष्ठप्रकारताया रङ्गत्ववत् रङ्गनिष्ठविशेष्यतानिरूपितत्वान् रजतत्ववत् रजतनिष्ठविशेष्यतानिरूपितात्वा अभावात्, एवं रजतांशे रङ्गत्वावगाहित्वेन रङ्गत्वनिष्ठप्रकारताया रजतत्ववत् रजतनिष्ठविशेष्यतानिरूपिता रजतत्वप्रकारता न मिलति रङ्गत्ववत् रङ्गनिष्ठविशेष्यतानिरूपिता रङ्गत्वनिष्ठा प्रकारता च न मिलति । अतः तत्र न अतिव्याप्तिः इति ध्येयम्। ययोः विषयतयोः निरूप्यनिरूपकभावः तन्निरूपितविषयितयोरेवाऽवच्छेद्याऽवच्छेदकभाव इति सिद्धान्तः । तद्वत्त्वम् – येन सम्बन्धेन प्रकारो विशेष्ये वास्तविकः स सम्बन्धः प्रकारतावच्छेदकः तेन तद्वत्त्वं ग्राह्यम् इत्यपि बोध्यम् । 

अथ पाठान्तरम्  — ” तजज्ञानस्य रंगाशे रजतत्वावगाहित्वेन रजतांशे रङ्गत्वावगाहित्वेन च रजतत्वप्रकारताया रङ्गत्ववन्निष्ठविशेष्यतानिरूपितत्वऽपि रङ्गत्वनिष्ठप्रकारतायां रजतत्ववन्निष्ठविशेष्यतानसरूपितत्वे रजतत्वप्रकारताया रजतत्ववन्निष्ठविशेष्यतानिरूपितत्वाभावात् , एवं रङ्गत्वप्रकारताया रङ्गत्ववन्निष्ठविशेष्यतानिरूपितत्वाऽभावाच्चे”ति।‌।

एवम् एव भाट्टैः अपि तत्र तत्र ग्रन्थेषु बहूनि प्रमाणलक्षणानि व्याख्यातानि । गागाभट्टाचार्येन यथार्थानुभव एव प्रमा इत्युक्ता, अज्ञातविषयकम् , वाधकज्ञानहीनं च ज्ञानं प्रमा इति स्पष्टीकृतम् । मानमेयोदयकारः तु अज्ञाततत्त्वार्थज्ञानम् एव प्रमा तामलिलक्षत् । प्रभाकरमीमांसाप्रकाशकारेन  शालिकनाथेन तु अनुभूतिः एव प्रमा इति प्रकरणपञ्जिकायां उक्तम्।

       अत्र प्रतिपादितेषु त्रिष्वपि मतेषु नैयायिकमतम् एव साधीयः । तथा हि — भाट्टः उक्तलक्षणे अज्ञातपदं अर्थहीनं । धारावाहिकज्ञानेषु द्वितीयादिज्ञानानां पूर्वज्ञानावगतार्थविषयकतया तेषां प्रमात्वस्य अक्षतत्वमपि वाच्यम् । परमसूक्षाणां कालकलांशानां पिशितनेत्रैः ग्रहीतुम् अशक्यत्वात् । क्षणस्य अतीन्द्रियतया प्रत्यक्षविषयता च न उत्पद्यते  

       भाट्टः उक्तलक्षणे अस्मिन् अन्यः कश्चन दुष्टः । संसारे अस्मिन् कस्मिन्नपि जन्मनि गृहीतत्व अवश्यम्भावेन तादृशबोधस्य कदापि अगृहीतग्राहकत्वरूपप्रमात्वं न एव घटते। न च वाच्यं प्रकृतजन्मावच्छेदेन एव अगृहीतग्राहित्वं प्रमात्वम् उद्दिष्टम् । एवञ्च अन्यस्मिन् जन्मनि जातत्वे अपि न कश्चित् दोषः इति । एवं तर्हि अस्मिन् एव जन्मनि येन वा वेदार्थो ज्ञातः , रोगादिभिः विस्मृतः च पुनः श्रुतः, तत्र पुनःश्रवणरूपस्य शाब्दबोधस्य ज्ञातविषयकतया अज्ञातविषयकत्वम् असम्भवीति भाट्टः उक्तप्रमालक्षणस्य अव्याप्तिः दूरद्धरेति । अतः न इदं लक्षणम् उपादेयम् ।

           एवम एव प्रभाकरोक्तम् अनुभूतिः प्रमा इति लक्षणम् अपि न समीचीनम् ‌ अव्याप्तिः अतिव्याप्तिदोषदुष्टत्वात् । तथा हि — प्रभाकरमते हि सर्वस्मिन् अपि ज्ञाने , ज्ञानं-ज्ञाता-ज्ञेयमिति त्रिपुटी भासते । तत्र ज्ञातृज्ञानांशयोः प्रमात्वं च तेषां इष्टम् — 

” सर्वविज्ञानहेतुस्था मितौ मातरि च प्रमा ।

साक्षात्कर्तृत्वसामान्यात् प्रत्यक्षत्वेन सम्मता ।।

एवञ्च स्मृतेऽपि पूर्वोक्तत्रितयविषयकतया तत्रापि स्वांशे ज्ञात्रंशे च प्रमात्वम् अवश्यं सिदधेत् । तत् तु न सिध्यति , स्मृतेः अनुभवरूपत्व अभावात् । एवम् एव अनुवादवाक्यार्थज्ञानस्य अपि अनुभवरूपतया प्रमात्वप्रसक्त्या तेषां वाक्यानां प्रामाण्यं प्रसज्यतेति प्रमालक्षणस्य अतिव्याप्तिः भाट्टैः आशङ्किता

     अतः नैयायिकः उक्तं तद्विशेष्यकत्वे सति तत्प्रकारकं ज्ञानं प्रमा इति लक्षणम् एव इतरमत अपेक्षया निर्दोषं लक्षणम् इति सिद्धम् । मुक्तावलीकारविश्वनाथः प्रमालक्षणे मणिकारावधिप्राचीन नैयायिकैः व्यवहृतम् अनुभवपदं त्यज्य ज्ञानपदम् एव प्रयुज्यते , न अनुभवपदं कुत्रापि दृश्यते । एवञ्च तद् उक्तस्य लक्षणस्य याथार्थस्मृतौ अतिव्याप्तिः आशङ्किता। स्वयमेव मुक्तावल्यां ‘स्मृतेरपि प्रमात्वमिष्यत एव ‘ इति समाधानमप्युक्तम् । एवञ्च अतिव्याप्तिः । तथा च अनुभवघटितस्य एव प्रमाणलक्षणस्य प्रतिपादनात् स्मृतिकरणस्य पञ्चप्रमाणस्य आपत्तिश्च नास्ति ‌ अत एव सूत्रकारगौतमेनापि प्रमाज्ञानपर्यायतया ‘तत्त्वज्ञानम्’ इति स्मृतिसाधारणं ज्ञानपदम् एव व्यवहृतम् , न त्वनुभवपदम् । अतः यथार्थस्मृतेः प्रमात्व स्वीकारेऽपि न कापि हानिः इति भावयामः । 

सन्दर्भग्रन्थसूची

  • तर्कसङ्ग्रहः , श्रीकृष्णवल्लभाचार्यः , चौखम्बा विद्याभवन , वाराणसी ,२००३
  • न्यायदर्शन  , फणिभूषण तर्कवागीश , July, 1981/B .
  • कारिकावली , हि. शङ्कररामशास्त्री, मद्रास्, १९२३.
  • तत्त्वचिन्तामणिः ( प्रथमखण्ड ) , एन.एस. रामानुजाताताचार्यः , तिरुपतिः,१९७२.
  • न्यायकुसुमाञ्जलिः , पि. लक्ष्मीनारायण शास्त्री, मद्रास् , १९३९.
  • न्यायमञ्जरी ,सूर्यनारायणशुक्लः , वाराणसी, १९७१ .
  • परिशुद्धिः , अनन्तलालठक्कुरः , दर्भाङ्गा , १९६७ .
  • न्यायसारः , एस् . सुब्रह्मण्यशास्त्री, मद्रास् , १९६१.
  • Nyaya-mimamsadarsanayoh: Pramana vichara , Dr. S.B. raghunathacharya , 1983 .
  •  तर्कभाषा , जि. आर .भण्डारकरः , मुम्बई , १९३७

[/vc_column_text][/vc_column][/vc_row]