अद्वैतमतोक्तः मोक्षाधिकारः
भीमानन्दः बि एच्
शोधच्छात्र:
कर्नाटकसंस्कृतविश्वविद्यालय:
8722970479
srishamasundara@gmail.com
(Summary of Article) लेखनसारः – विदितमेदं सर्वेषां यज्जगति सर्वेऽपि जीविनः सुखावाप्तये एव सर्वधा यतन्ते इति । सामान्यतः सर्वोऽपि जन्तुः सुखं मे स्यात् कदाचिदपि नाहं दुःखभाग्भवेयमिति इत्यस्यां दिशि एव सर्वधा कार्यप्रवृत्तः भवतीति । सुखावाप्तिः दुःखाभावे एव सम्भवतीति सर्वत्रिको नियमः सर्वेषामनुभवगोचरं चापि । एवं सर्वेऽपि जनाः अखण्डसुखं दुःखस्यात्यन्तनिवृत्तिं च समसमये एव प्राप्तुमिच्छन्ति । परन्तु इष्टाणां लौकिकवस्तुनां भोगसमये एव एव आनन्दानुभूतिः दुःखस्य तिरोभावः च भवति । यस्य वस्तुनः भोगात् मानवः सुखमवाप्स्यते तस्यैव वस्तुनः उपभोगात् समानः एव पुरुषः कदाचित् दुःखमनुभवति । अत्र च कारणं पौनपुन्येन समानविषयाणां भोगः रोगादिः दोषदर्शनं चेत्यादयो हि भवन्ति । यथा आरोग्यवान् पुरुषः मधुरान्नभक्षणेन आत्मानं सुखिनं मन्यते परन्तु प्रमेहादिषु (Diabetes) रोगादिषु सत्सु मिष्टान्नमपि दुःखदायकं भवति; तथा शब्दादिविषयाणामुपभोगेन प्राप्तसुखोऽपि पुरुषः असकृत् विषयभोगात् तेन अवश्यमेव दुःखितः भवति । समस्तानामपि लौकिकविषयाणां भोगेन शाश्वतं सुखं नैव भवतीति तु निश्चप्रचं वचः । तच्च शाश्वतानन्दः अखण्डसच्चिदानन्दात्मनः विज्ञानादेव भवति इति आबहोः कालादपि मुमुर्मुहुः तत्वदर्शिभिः कृतात्मसाक्षात्कारैः ऋषिभिः उच्चमानमेवास्ति ।
अद्वैतमतोक्तमोक्षः ।
आत्मविज्ञानेनैव अत्यन्तदुःखनिवृत्तिः परमानन्दप्राप्तिः च भवति । तदर्थमेव प्राचीनकालादपि आरभ्य अद्य यावत् सर्वेऽपि जिज्ञासवः आत्मब्रह्मणोः मीमांसां कृत्वा तयोरैक्यज्ञानेनोत्पद्यमानमानन्दमनुभवन्तः वर्तन्ते । ते समुत्पन्नैक्यज्ञानाः ऋषयः परमकारुणिकाः लोकोपकारार्थं दुःखार्णवतितीर्षुणामुद्धारदृष्ट्या आचार्यकुलपरम्पराद्वारा शरणागतानन्तेवासिनः समुदबोधयन् । आचार्यः पाठयति अन्तेवासी च शृणोति इत्येतादृशी श्रुतिपरम्परा प्राचीनकादपि प्रवर्तमाना भवति । अपौरुषेयाः वेदाः श्रुतिपरम्परायामन्तर्भवन्तीत्यतः ते श्रुतयः इति उच्यन्ते । अस्य महतो भूतस्य निःश्वसितमेदृग्वेदो यजुर्वेद सामवेदोऽथर्णाङ्गीरसः इत्यादीनि वेदानामपौरुषेयत्वं कथयन्ति । पुरुषनिर्मिताः ग्रन्थाः व्याख्यानानि च पौरुषेयानि ।
नारायणः एव भक्तेः ज्ञानस्य च मूलं स्रोतः भवति । ज्ञानस्य भक्तेश्च प्रवाहः नारायणादेव निर्गम्य समस्तस्य जगतः मङ्गलाय प्रवृत्तः भवति । अद्वैतदर्शनस्य वैष्णवदर्शनस्य च परमात्मा एव उत्पत्तिस्थानं भवति । शुकदेवात् अद्वैतज्ञानधारा प्रवृत्ता । शुक-गौडपाद-गोविन्दभगवत्पाद-शङ्कराचार्याणां परम्परा एषा अद्वैतस्य आचार्याणां मुख्यपम्परा भवति । वैष्णवमते प्रसिद्धाः चत्वारः साम्प्रदायाः भवन्ति । ते च यथा- श्रीवैष्णवसाम्प्रदायः ब्रह्मसाम्प्रदायः रुद्रसाम्प्रदायः सनत्कुमारसाम्प्रदायः च इति । एते च चत्वारः साम्प्रदायाः परमात्मना लक्ष्मिब्रह्मरुद्रसनत्कुमाराणां द्वारा उत्पन्नाः भवन्ति । नाराणात् आरभ्य गुरुपरम्परयाः क्रमः प्रत्येकस्मिन् साम्प्रदाये अपि द्रष्टुं शक्यते । श्रीवैष्णवसाम्प्रदायस्य प्रधानाचार्याः श्रीरामानुजाचार्याः भवन्ति । एतेषां च विशिष्टाद्वैतमतं भवति । ब्रह्मसाम्प्रदायस्य प्रवर्तकः आचार्याः आनन्दतीर्थाः भवन्ति । एते मध्वाः भवन्ति । एतेषाञ्च साम्प्रदायाः द्वैतसाम्प्रदायः भवति । रुद्रसाम्पदायस्य् आचार्याः श्रीविष्णुस्वामिनः तेषां च अनुयायिनः श्री वल्लभाचार्याः च भवन्ति । एतेषाञ्च मतं शुद्धाद्वैतमतं भवति । सनकसाम्प्रदायस्य आचार्याः निम्बार्काः भवन्ति । एतेषां च द्वैताद्वैतसाम्प्रदायः भवति । चैतन्यसाम्प्रदायः माध्वमतस्य शाखासु अन्यतमा भवति । तथा चेदपि दार्शनिकानां दृष्टौ अस्य मतस्य अनुयायिनः द्वैतवादात् इतरत् “अचिन्त्यभेदाभेदवादं” मन्वते । पाञ्चरात्रमेव प्रमाणमिति सर्वेऽपि अङ्गीकुर्वन्ति चेदपि श्रीवैष्णवमतं पाञ्चरात्रेण विशेषतया प्रभावितं भवतीति ज्ञेयम् । वैष्णवपुराणेषु श्रीरामानुजाः विष्णुपराणम् अङ्गीकुर्वन्ति । चैतन्यवल्लभाचार्यौ श्रीमद्भागवतमेव अङ्गीकुरुतः । इतः परमस्मिन् परिच्छेदे निगमागमूलकत्वेन प्रवृत्तान् पञ्चवैष्णवदर्शनान् संक्शेपतयात्र पश्यामः ।
वर्णाश्रमादीन् विहाय केवलः तीव्रमुमुक्षुः एव मोक्षे अधिक्रियते इति महदौदार्यं तत्र तत्र शास्त्रकृद्भिः दर्शितं वर्तते । तद्विषये अधुना विव्रियते ।
आत्मबोधः इति ग्रन्थे शङ्कराचार्याः वदन्ति यत् – यथा शुद्धे जले तत्तद्भूमिगतरसाः आकृतयः वर्णादयः च उपाधिवशादेव केवलमारोपिताः भवन्ति तथा केवलोपाधिवशादेव आत्मनि जातिवर्णाश्रमादयः कल्पिताः भवन्ति शुद्धे आत्मनि वर्णाश्रमादयः किमपि नैव भवन्ति इति । तद्यथा –
नानोपाधिवशादेव जातिवर्णाश्रमादयः ।
आत्मन्यारोपितास्तोये रसवर्णादिभेदवत् ॥ इति ।
उपदेशसाहस्री इत्यस्मिन् ग्रन्थे शङ्कराचार्यैरुक्तं यत् –
ब्राह्मणपुत्रोऽदोऽन्वयो ब्रह्मचार्यासम् । इति ।
योगवासिष्ठः इति ग्रन्थे भगवान् वसिष्ठमुनिः वदति यत् – विवेकहीनः एव मनुष्यः जातिहीनः जात्यन्धः च भवति । यस्तु विवेकी सः दिव्यचक्षुः भवति इति । तद्यथा –
विवेकान्धो हि जात्यन्धः शोच्यः सर्वस्य दुर्मतिः ।
दिव्यचक्षुर्विवेकात्मा जयन्त्यखिलवस्तुषु ॥ इति ।
मुण्डकश्रुतौ श्रूयते यत् – केवलेनैव धीरेण विभुः परमात्मा प्राप्तुं शक्य इत्यादिः । तद्यथा – यत्तदद्रेश्यमग्राह्यमगोत्रमवर्णमचक्षुः श्रोत्रं तदपाणिपादम् ।
नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद्भूतयोनिं परिपश्यन्ति धीराः ॥ इति ।
बृहदारण्यकोपनिषदि यः एतदक्षरं ब्रह्म विजानाति सः एव ब्राह्मणः इति निर्दिष्टं वर्तते । तद्यथा –
यो वा एतदक्षरं गार्ग्यविदित्वास्माल्लोकात्प्रैति स कृपणः ।
अथ एतदक्षरं गार्गी विदित्वास्माल्लोकात्प्रैति स ब्राह्मणः ॥ इति ।
विविधेषु नास्तिकास्तिकदर्शनेषु पाश्चात्यदर्शनेषु चापि मोक्षस्वरूपविषये तद्विज्ञानस्य विषये तत्साधकस्य विषयेऽपि अल्पमनल्पं वा वैमत्यमस्त्यैव । तथा हि मोक्षज्ञानप्रसारायैव कटिबद्धेषु श्रुतिप्रामाण्येनैव पुष्टेषु वेदान्तमतेष्वपि भिन्नस्वरूपः एव मोक्षः प्रतिपाद्यते । अद्वैतवेदान्तशास्त्रे तावत् जीवब्रह्मणोरैक्यत्वं प्रतिपाद्यते । दृश्यमाणं जगत् केवलनैवाध्यासेन प्रतिभासते यथार्थज्ञानेन च तस्य अस्तित्वं न भवतीति अपि उच्यते । अत्यन्तदुःखनिवृत्तिः परमानन्दप्रप्तिश्च अत्र मोक्षस्वरूपं भवति । एवमात्मब्रह्मणोः समरसत्वं प्रतिपाद्य अद्वैतमतं सर्वत्र अतिशयलोकप्रियतां प्राप्य सर्वैरपि नितरामेव आद्रियते ।
अत्र च अद्वैतवेदान्तमतोक्तरीत्या मोक्षसम्बद्धाः विषयाः सङ्गृह्य विव्रियन्ते ।
परमात्मानं विज्ञाय धीरः ज्ञानी हर्षशोकादिद्वन्द्वमतिक्रामते । सः मोदस्थानं परमात्मानं विज्ञाय स्वयमपि आनन्दी भवतीति उपनिषदि उच्यते । तद्यथा –
मत्वा धीरो हर्षशोकौ जहाति । इति ।
स मोदते मोदनीयं हि लब्ध्वा । इति च ।
कठोपनिषदि उच्यते यत् ब्रह्म नाशरहितं श्रेष्ठं च भवति । एतमक्षरं विदित्वा ज्ञानी कृतकृत्यः भवति इति । तद्यथा –
एतद्देवाक्षरं ब्रह्म एतद्देवाक्षरं परं । एतद्देवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत् ॥ इति ।
पुनस्तत्रैव उच्यते – प्राप्तब्रह्मज्ञानः विपश्चित् कदापि जन्म न प्राप्नोति नैव मरणं प्राप्नोति । एषः जन्मरहितः त्रिविधपरिच्छेदरहितः नाशरहितः पुरातनस्सन्नपि नवीनः नाशमाने शरीरे भवन्नपि नाशरहितः भवतीति । तद्यथा –
न जायते न म्रियते वा विपश्चिन्नायं कुतश्चिन्न बभूव कश्चित् । अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥ इति ।
नायं हन्ति न हन्यते । इति च ।
सर्वस्य जन्तोः हृदयगुपायां निहितः आत्मा अणोः अपि अणीयान् महतः अपि महीयान् भवति । एतादृशमात्मानं यः जानाति सः शोकान्मुक्तः परमात्मनः प्रसादात् आत्मज्ञानं प्राप्य संसारदुःकातिगो भवति इति । तद्यथा –
अणोरणीयान्महतो महीयानात्मास्य जन्तोर्निहितो गुहायाम् । वीतशोकः धातुप्रसादान्महिमानमात्मनः । इति ।
कीटभृङ्गन्यायः इव अस्य जीविनः जननमरणात्मकात् संसारात् उद्धारः भवतु इति इच्छाशीर्वादेन परमात्मा एव अमुकं चिनुते चेदेव तस्य उद्धारः सम्भवति नान्यस्य इति कठश्रुतौ श्रूयते । तद्यथा –
नायमात्मा प्रवचनेन लभ्यो …… यमेवैष वृणुते तेन लभ्यः । इति ।
आचार्यशङ्करः आत्मबोधः इति ग्रन्थे कथयति यत् – वह्निं विना यथा पाककार्यं न सिद्ध्यति तथा तत्वज्ञानं विना मोक्षः नैव सिद्ध्यति इति । बोधः एव साक्षात् मोक्षसाधनं भवतीति । तद्यथा –
बोधोऽन्यसाधनेभ्यो हि साक्षान्मोक्षैकसाधनम् ।
पाकस्य वह्निवद्ज्ञानं विना मोक्षो न सिद्धयति ॥ इति ।
तत्र आत्मबोधग्रन्थे उच्यते यत् – यथा असर्पभूतायां रज्जौ भ्रान्त्या सर्पदर्शनेन भयं भवति । तथा सर्वोऽपि आत्मानं जीविनं ज्ञात्वा संसारभयग्रस्थः भवति । अहमुपाद्युपहितः जीवः न किन्तु सर्वशक्तः परमात्मा एवेति यः जानाति सः एव समस्तभयरहितः भवति इति । तद्यथा –
रज्जुसर्पवदात्मानं जीवं ज्ञात्वा भयं वहेत् ।
नाहं जीवः परात्मेति ज्ञातश्चेन्निर्भयो भवेत् ॥ इति
यथा दीपदर्शने अन्यदीपस्यावस्यकता नैव भवति तथा ज्ञानस्वरूपस्य आत्मनः दर्शनार्थं ज्ञानार्थं अन्यबोधस्य प्रासङ्गिकता नैव भवतीति दर्शयति । तद्यथा –
स्वबोधे नान्यबोधेच्छा बोधरूपमाऽत्मनः ।
न दिपस्यान्यदीपेच्छा यथा स्वात्मप्रकाशने ॥ इति ।
सर्वानुपाधीन् इदमात्मा न इदमात्मा नैवेति श्रुतिवचनानुसारं निषिद्ध्य महावाक्यैः जीवात्मपरमात्मनोः ऐक्यत्वं विद्याज्जीवः मुमुक्षुः इति आत्मबोधे शङ्कराचार्यः कथयति । तद्यथा –
निषिद्ध्य निखिलोपादीन् नेति नेत्येति वाक्यतः ।
विद्यादेकं महावक्यैर्जीवात्मपरमात्मनोः ॥ इति ।
पुनस्तत्रैव आत्मबोधग्रन्थे अविद्यया निर्मितं शरीरादिकं दृश्यवस्तु जलस्य बुद्बुदवत् विज्ञाय एतद्विलक्षणं अविद्योपाधिरहितं निर्मलं ब्रह्म विज्ञाय आत्मनो यथार्थस्वरूपं जानीयात् इति कथयति । तद्यथा –
आविद्यकं शरीरादिदृश्यं बुद्बुदवत् क्षरम् ।
एतद्विलक्षणम् विद्यादहं ब्रह्मेति निर्मलम् ॥ इति ।
मुण्डकश्रुतौ परमात्मनः साक्षात्कारानन्तरमेव अहं ममेत्यादयः हृदयग्रन्थयः भिद्यन्ते । प्रमाणगताः प्रमेयगताः सर्वसंशयाः छिद्यन्ते । सर्वविधपापानि क्षीयन्ते इति श्रूयते । तद्यथा –
भिद्यते हृदयग्रन्थिश्चिद्यन्ते सर्वसंशयाः ।
क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्ट्वे परावरे ॥ इति ।
आत्मबोधः इति ग्रन्थे शङ्करार्येणोच्यते यत् – जीवन्मुक्तः तद्ब्रह्म विज्ञाय सर्वविधोपाधिगणान् त्यक्त्वा भ्रमरकीटवत् ब्रह्मणः सच्चिदानन्दरूपादिः ज्ञात्वा तन्मयो भवेदिति । तद्यथा –
जीवन्मुक्तस्तु तद्विद्वान् पूर्वोपाधिगुणांस्त्यजेत् ।
सच्चिदानन्दरूपत्वाद् भवेद्भ्रमरकीटवत् ॥ इति ।