[vc_row][vc_column][rev_slider_vc alias=”about-3″][vc_column_text el_class=”articles”]

मणिकारदीधितिगदाधरोक्तसिद्धान्तव्याप्तिविमर्शः

  • लेखकः-मधुसूदनपाण्डुरङ्गी

सिद्धान्ते व्याप्तिलक्षणमुक्तं तदेवोक्तवक्ष्यमाणदोषदुष्टतया न केवलमस्मद्रीत्या अपि तु तत्सिद्धं सर्वथैवा-नुपपन्नम्। तथाहि तल्लक्षणं प्रतियोग्यसमानाधिकरणयदवच्छिन्नसमानाधिकरणात्यन्ताभावप्रतियोगता- नवच्छेदकावच्छिन्नसाध्यसामानाधिकरण्यंव्याप्तिरत्यन्ताभावगर्भा।तथाहेतुसमानाधिकरणान्योन्याभावप्रतियोगतावच्छेदकतानवनवच्छेदकावच्छिन्नसाध्यसामानाधिकरण्यं व्याप्तिरत्यन्योन्याभावगर्भं चेति। तदुभयमपि प्रसिद्धेषु वह्मादिसाध्यकेषु धूमादिसाधनेष्वव्याप्तेः। धूमादिसाध्यकाग्न्यादिसाधनेष्वतिव्याप्तेश्चायुक्तम् । तथाहि तन्मते अत्यन्तभावान्योन्याभवयोर्नित्यत्वेन धूमवति पर्वतादौ पक्षे महानसादौ सपक्षे च वह्निकालात्पूर्वकाले तयोः साध्यात्यन्तभावसाध्यवदन्योन्याभावयोः सामान्यावच्छिन्नप्रतियोताकयोरपि साध्यकालेऽपि सत्वेन साध्यतावच्छेदकस्य वह्नित्वस्य हेतुसमानाधिकरणात्यन्ताभावप्रतियोगितावच्छेदत्वात्। तादृशान्योन्याभावप्र-तियोगतावच्छेदकतावच्छेदकत्वाच्च। अतिस्फुटव्याप्तिदोषः।  न च तदानीं [1]तौ  नस्त इति वक्तुं युक्तम् ।

पूर्वावस्थितयोस्तयोः कर्माभावेन अपसरणानुपपत्तेः। नित्यत्वे च विनाशानुपपत्तेश्च। न च स्वरूपसम्बन्धेन सत्वेऽपि प्रतीतिप्रयोजकप्रतियोगिदेशान्यदेशत्वरूपसम्बन्धेन नस्त इति [2]वाच्यम्।  स्वरूपसंबधेनैव अव्याप्तेरुक्तत्वात्। यत्तु प्रतीतिप्रयोजकं प्रतियोगिदेशान्यदेशत्वमभावस्येत्युक्तं तदप्यर्भकप्रतारणमात्रम्[3]। क्षोदाक्षमत्वात्। प्रतियोगिदेशान्यदेशत्वं हि अभावे देशस्य प्रतियोगिदेशप्रतियोगिकन्यान्याभावं नान्यत्। त-          च्चान्योन्याभावस्याप्यचलत्वान्नित्यत्वाच्च प्रागिव अक्षतमेतत्। स्वरूपेण तयोः सत्वेन  तत्र तत्प्रतीतेर्भ्रमत्वाना-पत्तेश्च। अथ तदत्यन्ताभावस्य प्रतियोगिरूपसाध्यसामानाधिकरण्यात्प्रतियोग्यसामानाधिकण्यविशेषणेनैव तद्वारणमिति चेन्न। त्वन्मते संयोगात्यन्ताभावस्याप्यव्यावृत्तित्वेन अयं एतत्संयोगी एतत्वादित्यत्राव्याप्तिवारणा-र्थं तदुपादानात्। अत एव संयोगवदन्योन्याभावस्य व्याप्यवृत्तित्वेन अन्योन्याभावगर्भलक्षणे तदप्रवेशादुक्त-व्याप्तिप्रकारेष्वन्योन्याभावगर्भैव व्याप्तिरनुमितिहेतुर्लाघवादिति तदीयग्रन्थसन्दर्भः।

एवमप्यन्योन्याभावगर्भलक्षणाव्याप्तेरपरिहाराच्च। वस्तुतस्तु त्वन्मते अधिकरणभेदैनाभावभेदानभ्युपगमात् घटपटाद्यत्यन्ताभावाः सर्वेऽपि प्रतियोगितानवच्छेकतया तदवच्छिन्नयत्किञ्चचिद्घटादिव्यक्तिसामानाधिकर-          ण्येन धूमादेर्घटादिव्याप्यतापातादतिव्याप्तेदुरुद्धारत्वमेव।  तथाहि धूमसमानाधिकरणत्यन्ताभावस्ते च अवृत्तिगगनादिप्रतियोगकातिरिक्ताः मूर्तद्रव्यप्रतियोगिकास्ते सर्वेऽपि प्रतियोगिसमानाधिकरणा एव गगनादेरत्यन्ताभावः केवलं प्रतियोग्यसमानाधिकरण इति तत्प्रतियोगितावच्छेकं गगनत्वं नतु घटत्वादिकमिति तदवच्छिन्नसामानाधिकरण्याद्धूमेऽतिव्याप्तिरिति। अपि च वह्न्यभावस्य [4]प्रतियोगिसमानाधिकरणत्वेन यदि तद्व्यवच्छेदस्तर्हि  धूमेन वह्नेरिव वह्न्यभावस्यापि साधनं स्यात्। तथाहि धूमसमानाधिकरणात्यन्ताभाव गगनादीनां नतु वह्न्यत्यन्ताभाववात्यन्ताभावो वह्नेरपि तस्य प्रतियोगिसमानाधकरणत्वात्। तथाच तादृशात्य-न्ताभावप्रतियोतानवच्छेदकवह्नभावत्वावच्छिन्नेन सामानाधिकरण्यात् धूमस्य वह्नौ साध्यमाने विरुद्धत्वापत्तिः। साध्यविपर्ययव्याप्तो हेतुर्विरुद्धः इति तल्लक्षणाक्रान्तत्वात्। एतेन अत्यन्ताभावपदं विरोधिपरमिति व्याचक्षाणास्तदीयटीकाकारा अपि परास्ताः। विरधो हि परस्परविरहरूपता वा सहानवस्थाननियमो वा । उभयथाप्युक्तदोषानिस्तारात्। द्वितीयपक्षे प्रतियोगित्यादिविशेषणवैय्यर्थ्यापत्तेः। संयोगाभावस्य संयोगेन सहैवावस्थितत्वेन उक्तविरोधाभावात्। अयमेतत्संयोगीत्यादवव्याप्तेरभावात्।  न चेकावच्छेदेन सहानवस्थितत्वं विरोधित्वं विवक्ष्यते तच्च संयोगाभावेऽप्यस्तीति तद्वारणाय प्रतियोग्यसामानाधिकरण्यविशेषणोपादानं सार्थकमिति वाच्यम् । एकावच्छेदेनेति विवक्षाया एवातिप्रसङ्गापादकायात्स्याज्यत्वात्। अन्यथा उष्णाग्निमानयेति केनचिदुक्ते तत्र उष्णेति विशेषणस्य वैय्यर्थ्ये दत्ते अग्निशब्देन द्रव्यमात्रं विवक्षितं अतो घटादोरप्यानयनं स्यादतोविशेषणमुष्णत्वमुपात्तमिति प्रतिवदन् धूमादित्यादौवव्याप्तेरपरिहारात्। तथाहि प्रतियोग्यसमानाधिकरणं हि किं प्रतियोग्यत्यन्ताभावाधिकरणवृत्तित्वं अहोस्वित्प्रतियोग्यधिकरणप्रतियोगि-कान्योन्याभावाधिकरणवृत्तित्वं वा। प्रतियोग्यधिकरणवृत्तिप्रतियोगिकान्योन्याभाववत्वं वा। नाद्यः कपिसंयोगात्यन्ताभावस्यापि प्रतियोग्यत्यन्ताभावरूपस्य स्वस्याप्यधिकरणे सत्वात्। न द्वितीयः। अन्योन्याभावस्य प्रतियोगितावच्छेकेन सह विरोध इति प्रतियोगितावच्छेदकात्यन्ताभावाधिकरणे स वर्तते गव्याश्वन्योन्याभाववदिति खलु तवापि संमतम्। एवं च संयोगवद्भेदप्रतियोगितावच्छेदकसंयोगाभाववति वृक्षे कथं तद्वदन्योन्याभावो न स्यात्। अन्यथा गवादावप्यश्वान्योन्याभावानापत्तेः। ननु गवि प्रतियोगितावच्छेदक स्याश्वत्वस्याभावाद्युक्तस्तत्राश्वान्योन्याभावः वृक्षे तु प्रतियोगितावच्छेदकस्य संयोगस्य सत्वात् कथं तत्र तद्वद्भेद इति चेत्। तत्रापि संयोगस्याभावादेव सोऽस्त्वित्युक्तत्वात्। ननु प्रतियोगितावच्छेदकात्यन्ताभाववति तद्वदन्योन्याभाव इति सत्यम्। किं तु तस्याप्यत्यन्ताभावस्य प्रतियोग्यसामानाधिरकण्यं विवक्षितम्। अस्ति च अश्वत्वात्यन्ताभावस्तथाविधः नतु वृक्षे संयोग्यत्यन्ताभावस्तादृश इति वैषम्यान्न तत्र तद्वद्भेद इति चेत्। अहो मोहमहिमैषदुराग्रहकवलितमनसां पथः प्रतियोग्यसामानाधिकरण्यस्यैव अधुना विचार्यमाणत्वेन अर्धजलपतितत्वादस्याप्युक्तविकल्पत्रयाबहिर्भावात्। पुनर्घटकुड्यां प्रभाता इव नापि तृतीयः घटात्यन्ताभावानामपि प्रतियोगिसमानाधिकरणत्वेन तद्भेदाभावादाकाशात्यन्ताभावादेरेव तथात्वात्। तादृशात्यन्ताभावप्रतियोगिताव-च्छेदकमाकाशात्वादिकमेव। नतु घटात्वादिकमतस्तदवच्छिन्नसामानाधिकरण्यस्य धूमेऽपि सत्वात् पुनर्धूमस्यापि घटव्याप्यता प्रसङ्गात्। वह्न्यभावव्याप्यतापत्या विरुद्धत्वप्रसङ्गाच्च।

एतेन एतदपि निरस्तम्। यदत्र केनचित्प्रलपितम्। हेत्वधिकरणावच्छेदेन प्रतियोग्यसामानाधिकरण्यमिह विवक्षितम्। तच्चावश्यकम्। अन्यथा संयोगी सत्वादीत्यत्रातिव्याप्तेर्दुरुद्धरत्वात्। एवं च घटात्यन्ताभावस्य प्रतियोगिसामानाधिकरण्येऽपि हेत्वधिकरणावच्छेदेन तथात्वाभावान्नातिप्रसङ्गः। न हि द्रव्यत्ववति सर्वस्मिन् संयोगात्यन्ताभावः संयोगसमानाधिकरण इव सर्वस्मिन् धूमवति घटात्यन्ताभावो घटसामानाधिकरण इत्यस्तीति। तदप्यापातरमणीयम्। एवमपि वह्न्यभाववान् धूमादित्यत्राऽतिव्याप्तेरवारणात्। तत्र च धूमाधिकरणावच्छेदेन साध्याभावरूपवह्नेः प्रतियोगिसमानाधिकरणत्वात्।  अन्य एव घटात्यन्ताभावस्तथाविधो वाच्यः तत्प्रतियोगितावच्छेकघटत्वादिकं नतु वह्नभावत्वं तदवच्छिन्नेन वह्न्यत्यन्ताभावेन धूमस्य सामानाधिकरण्यात्। किं च हेत्वधिकरणावच्छेदेनेत्यस्य कोऽर्थः। किं हेतुसामानाधिकरण्यमात्रं वा। यावद्हेत्वधिकरणे प्रतियोगिवृत्तिरिति वा। अद्ये उक्तदोषानिस्तारः। द्वितीये तु[5]हेतुव्यापकत्वमात्रमुक्तं स्यात्। हन्तैतत्साध्य एव विवक्ष्यताम्। हेत्वधिकरणावच्छेदेन साध्यासामानाधिकरण्यं व्याप्तिरेतावतैव चरितार्थ्ये कृतं बकबंध प्रयासानुसरणेनानेन। एतेनैव प्रतियोग्यस मानाधिकरण-साधनसमानाधिकरणेत्युक्त त्यन्ताभावविशेषणद्वयस्यायं निःकर्षः। प्रतियोग्यधिकरणहेत्वधिकरणवृत्तिरिति। अन्यथा अधिकरणभेदेन अभावभेदानभ्युपगमात् संयोगी द्रव्यत्वादित्यत्रेव संयोगी सत्वादित्यव्यभिचारिण्यपि गतत्वेनाऽतिव्याप्तापत्तेः। गुणकर्मादौ संयोगात्यन्ताभावस्य व्याप्यवृत्तित्वेऽपि  द्रव्ये   प्रतियोगिरूपसंयोगसामानाधिकरण्येन प्रतियोग्यसमानाधिकरणपदेनैव वारितत्वात्। यावद्विशेषाभावैरेव प्रतीतिप्रयोगयोरुपपत्तौ सामान्याभावे मानाभावात्।  तथाच तथाविधो योऽत्यन्ताभावस्तत्प्रतियोगितानवच्छेदकावच्छिन्नसाध्यसामानाधिकरण्यं व्याप्तिरिति शिरोमणि पाण्डित्यमप्यपास्तम् ।  प्रतियोग्यनधिकरणत्वेन तदत्यन्ताभावाधिकरणत्वस्य तद्वदन्योन्याभावाधिकरणत्वस्य वा विवक्षणे उक्तविधया प्रतियोग्यधिकरणत्वस्य प्रतियोग्यंत्यन्ता- भावाधिकरणत्वादिरूपतया उक्तदोषापरिहारात्।

 

 

[/vc_column_text][/vc_column][/vc_row]