[vc_row][vc_column][rev_slider_vc alias=”about-3″][vc_column_text el_class=”articles”]

  कविवरः श्रीवरः

 

    Archana Hegade
Research Scholar, Sahitya Vibhaga
Karnataka Sanskrit University
Chamarajapete-560018
Bengaluru, Karnataka
Contact number: 9480554801
E-mail: archanashashidhara@gmail.com

पीठिका-

प्रबन्धांशस्य उल्लेखसमये श्रीवरः अत्र प्रस्तूयते। अत्र कश्मीरदेशीयकविवरेषु श्रीवरः वरातिवरः इत्यत्र नास्ति संशयः। तस्य वर्णरञ्जितं व्यक्तित्वं एव जगति एव सर्वान् अतिशेते इति चेत् न अतिशयोक्तिर्भवति। अत्र अस्मिन् श्रीवरे अनेके अंशाः एकत्रैव मिलिता इति विचित्रम्। अयं कविरिति, ऐतिहासिक इति, तालज्ञ इति,संङ्गीतज्ञ इति, नाट्यज्ञ इति च प्रसिद्धो वर्तते। अपि च संस्कृतसाहित्ये पाण्डित्यं यादृशं वर्तते, तादृशं एव तस्य पाण्डित्यं पर्षियन् भाषायाः, अरेबिक् भाषायाः अपि आसीदिति अतिविचित्रं भवति। अत एव श्रीवरः  विश्वकविपङ्क्तिषु एव विशिष्यते इति विभाति। 

अत्र विशेषतः श्रीवरस्य चयने अस्ति निदानम्। यतः सामान्यतः कवयः भावजीविनः,न तु बुद्धिजीविनः। किन्तु श्रीवरः भावबुद्ध्योः समन्वयभूमिरिति ज्ञायते। यतः पञ्चदशशतके सः आसीदिति ऐतिहासिकाः वदन्ति। तत्र  जियामुल्लाबिदीन् सुल्तानस्य आश्रये आसीदिति च। अयं राज्यभारनिर्वहणे प्रविष्टः, तस्य पुत्रस्य हैदर्शहाकाले, एवञ्च तस्य प्रपौत्रस्य हसनशहाकाले  कालेच अयं अतिप्रियः राज्ञः आसीदिति विचित्रम्। यतः एकस्य प्रिय एव भवति, तस्य राज्यभारानन्तरं  तत्र अरुच्या ततः निश्कास्यते। किन्तु, अयं श्रीवरः सर्वदा सर्वैः आदृतो वर्तते। अस्य कारणं वर्तते। तथा च  अयं अतीवबुद्धिमान्, विवेकी एवञ्च व्यवहारेपि तज्ञः आसीदिति  तस्य वैशिष्ट्यम्।

 तत्र केवलं संस्कृतसाहित्यस्य वर्धनं काव्यविलिखनेन न पूर्यते। किन्तु अत्र विशेषो न वर्तते। अयं तत्र सुल्तानवर्गत्रयस्यापि संस्कृतं पाठयामास। एवञ्च स्वभावतः संस्कृतविद्वेषिणः इति  इस्लांमतानुयायिनः प्रसिद्धाः सन्ति। किन्तु तेषां अपि संस्कृतस्य पाठः अयं करोति। तत्रापि वाल्मिकिरामायणस्य, बृहत्कथायाः, योगवासिष्टस्य च पाठाः एतेन कृताः। तत्र हसनशहाकाले कतिपयरात्रयः सर्वाः अपि तत्र संस्कृतसंवादानैव तत्र याताः इति वार्ता लभ्यते।

 एतेन ज्ञायते, तत्र केवलं कवित्वेन न संस्कृतबद्धकटिः अयं श्रीवरः प्रथमतः एव तत्र शासकान् एव संस्कृतं बोधयामास इति विचित्रं एतत्। अत एव तस्मिन् काले संस्कृतस्य अभिवृद्धिः अतीव सञ्जाता। अत्र संङ्गीतेऽपि गतिरासीत् इति ज्ञायते। न केवलं सङ्गितशास्त्रस्य किन्तु स्वयं गायकः अयं इति च ज्ञायते। गाने, वादे च अयं समर्थः इति विशेषः अत्र गम्यते। अपि च कर्नाटकसङ्गीतं इति संङ्गीतस्य यः प्रकारो वर्तते, तस्य आरम्भोऽपि कश्मीरदेशे जातः इति  ऐतिहासिकाः वदन्ति। अयन्तु श्रीवरः कर्नाटकसङ्गीते अपि अभिज्ञः आसीदिति अतिविचित्रं भवति। यद्यपि अयं अंशः तत्र अस्मिन्नेव  शोधप्रबन्धे अन्यत्र विव्रियते। अत्र  अप्रसक्तत्वात् न प्रस्तूयते। अत्र कर्नाटकसङ्गीते एव विशेषतः प्रसिद्धस्य षडङ्गस्य उल्लेखं अयं करोति। एवञ्च षडङ्गस्य  उल्लेखः वात्सायनकृत कामसूत्रेऽपि दृश्यते । सङ्गीतवाद्योपकरणानामपि उल्लेखो एतेन कृतो अस्ति। एतेन अयं तन्त्रीवाद्ये परिचितः इति ज्ञायते। अपि च संङ्गीतविशेषस्य रागाणां अपि उल्लेखः एतेन क्रियते। तत्रापि गान्धार, केदारगौड, देशभङ्गिला, मालवा, कर्नाट इत्यादि रागाणाम्। अपि च नृत्येपि अयं प्रवीणः आसीदिति अतीव चित्रं भवति। अतः नृत्यशास्त्रे लासिका, दीपिका इति नृत्यभेदः यद्  वर्तते तद् विषयेऽपि अयं तत्र उल्लेखं करोति। न तावन् मात्रं किन्तु प्रबन्धगीतमपि अधिकृत्य अयं वदति।

 साहित्ये, संङ्गीते, नृत्ये च  शासनविधौ च  अभिज्ञः श्रीवरः कं वा न आकर्शति। अतः श्रीवरस्य उल्लेखकरणे अस्माकं अतीव सन्तोषो जायते। यद्यपि अस्मिन् प्रबन्धांशे  केवलं तस्य एकं मुखं चिन्त्यते। यतः अयं राजतरङ्गिणी ग्रन्थे स्वगुरुकृत जोनराजगौरवेण तामेव तरङ्गिणीं पूरयामासेति, ऐतिहासिकाः वदन्ति। अतः श्रीवरः इतिहासेन, काव्येन, सङ्गीतेन,नाट्येन शासनविधिना च लोके प्रसिद्धो वर्तते इति कृत्वा तस्य महत् योगदानं प्रपञ्चे  वर्तते। अतः न केवलं श्रीवरस्य कश्मीरयोगदानं  इति विशेषः किन्तु, विश्वस्मिन् तस्य स्थानं अत्युत्तमं इति कृत्वा अयं अत्र मया प्रबन्धांशत्वेन चितो अस्ति। यद्यपि तत्र श्रीवरस्य कवित्वमात्रं विलिख्यते। तस्यैव विषयः प्रबन्धान्तरे विशेषतः तत्र ऐतिहासिकत्वादि  इतराभिज्ञता निवेद्यते।

 श्रीवरस्य कालः-

श्रीवरस्य कालस्तु पञ्चाशत् चतुर्दशशतकतः पञ्चदशशतकपर्यन्तं इति ज्ञायते। कश्मीरदेशीयानां कवीनां मध्ये श्रीवरस्य प्रत्येकं स्थानं कल्पनीयं भवति। यतः अयं इस्लां शासनकाले दीर्घकालतया  राज्यभारनिर्देशकस्थानं अपि अलङ्चकार इति ज्ञायते। इस्लां शासकानां सन्तानत्रयस्य अयं एव मार्गदर्शकः इति अतिविशेषो विषयः। यद्यपि श्रीवरस्य जीवितविषये न किञ्चिदपि विवरणं उपलभ्यते। अतः कुत्र तस्य जनिर्जाता कुत्र वा सः अवसदित्यपि सम्यक् न ज्ञायते। किन्तु अयं जन्मतः कश्चन ब्राम्हणः, जोनराजस्य शिष्यः इति ज्ञायते। जोनराजस्तु राजतरङ्गिणीं एव कल्हणराजतरङ्गिणीग्रन्थानन्तरं तयैव संज्ञया द्वितीयवारं विलिखितवान्। अत्र गुरुमार्गं अनुसरन् अयं श्रीवरः स्वगुरूक्तदिशा राजतरङ्गिणीं तृतीयवारं निरूपयति। अत्र तावत् स्वगुरोः जोनराजस्य राजतरङ्गिणीं एव द्वितीयभागतया पूर्णं चकार। तत्र स्वग्रन्थस्य उपक्रमे स्वगुरोः जोनराजस्य मरणं स्पष्टतया कालनिर्देशनपूर्वं निर्दिशति। तत्रैव सः स्पष्टतया वक्ति, जोनराजस्य शिष्यः इति। १. 

आस्थानकविः श्रीवरः-

अयं तु श्रीवरः जैनोल्लाबिदीन् इति ख्यातस्य इस्लां शासकस्य राज्ञः आस्थान पण्डितो अभवत्। अत्र तु अपवादतया अयं जैनोल्लाबिदीन्  इस्लां मतानुयायी संस्कृत अध्यापने,अध्ययने च  प्रसारे च दत्तादरो आसीदिति अवगम्यते। अतः महत् भाग्यं एतत्। सामान्यतः भावना वर्तते, इस्लां मतानुयायिनः संस्कृतद्वेषिणः इति। किन्तु अत्र अयं विशेषतया  संस्कृतानुरागी आसीदिति ज्ञायते। तथा च स्वयं श्रीवरः तत् उल्लिखति। २.

अतः तस्य गुणवर्णनाय एव अयं  कथाकौतुकाख्ये स्वग्रन्थे  प्रवृत्तः इति ज्ञायते। अतः सुल्तान् शासकान् जैनोल्लाबिदीन्  आरभ्य तस्य प्रपौत्रहसन् शहा पर्यन्तमपि अयं एव आस्थानपण्डितो आसीत् इति महत् चित्रं एतत्। अत्र श्रीवरस्य वैशिष्ट्यं किं इति चेत्, न केवलं संस्कृतभाषायां   प्रवीणोऽसौ किन्तु पर्षियन् ,अरेबिक्  भाषयाः अपि प्रबुद्धता तस्य  आसीदिति अत्र उल्लेख्यं भवति। तस्य ग्रन्थस्य उपसंहारवाख्ये, एतत् स्पष्टतया तेनैव  कथाकौतुके उक्तं अस्ति।३.
एतेन श्रीवरस्य समयः निर्दिष्टतया वक्तुं शक्यते । यतः त्रयाणां इस्लांमतानुयायि शासकानां राज्यभारकाले आस्थानपण्डितो आसीदिति ज्ञायते।
तस्य तदास्थानपाण्डित्यालङ्कारस्तु राज्ञः जैनोल्लाबिदीन् आरभ्य प्रवर्तते। अयं तु जैनोल्लाबिदीन् पञ्चदशशतके आसीदिति ऐतिहासिकाः द्रढयन्ति। अयं जैनोल्लाबिदीन् कश्मीरदेशं दीर्घकालं शशास ,पञ्चाशद्वर्षपर्यन्तम्। तथा च सप्तदशोत्तर चतुर्दशशतकतः सप्तषष्ट्युत्तर चतुर्दशशतकपर्यन्तं अयं एव जैनोल्लाबिदीन् राजा आसीदिति ज्ञायते। एतद् हित्वा श्रीवरः स्वयं  स्वग्रन्थे तस्य समयसूचनां अपि यच्छति। तेन ज्ञायते, अयं कथाकौतुकग्रन्थं प्रायः एकपञ्चाशदुत्तरचतुर्दशशतके विरचयामासेति।४. 

एवञ्च खगोले मेषराशौ रविः यदा अमायां तिथौ वसन्तमासे आसीत्, तदा अयं ग्रन्थः परिपूरितः इति ज्ञायते।  “चन्द्राष्ट” इति वचनेन तत्र एकाशीतिवर्षपरिपूर्णानन्तरं एतत् कृतं  इति ज्ञायते। विक्रमशकः अत्र एवं निर्दिष्टः  “मुनिद्विवेदेन्दु” इति। तेन सप्तविंशत्युत्तर चतुर्दश शतके विक्रमीये अयं ग्रन्थः कृतः इति  ज्ञायते। तत्रैव सः वक्ति, तृतीयवारं राजतरङ्गिणीप्रणयनं एतेन सप्तसप्तत्युत्तरचतुर्दशशतके इति निर्णीयते। ५.

  बहुभाषाभिज्ञः श्रीवरः-  

एतेन राजतरङ्गिण्याः तृ्तीयावृत्तिः अनेन कृता ।इत्यपि तत्र तस्य कालनिर्देशनपूर्वं उक्तं भवति। तत्र कथाकौतुकग्रन्थे तेन  मुल्लाजैन इति कापि कथा निरूपिता। अयञ्च मुल्लाजैनः जमीनुरुदीन्  इति प्रसिद्धो आसीत्।  पर्षियन् भाषायां अतिप्रसिद्धा एषा कथा अनेन सुरवाण्या अत्र अनूदितो दृ्श्यते। अयञ्च जमीनुरुदीन् महाशयः चतुर्दशाधिक  चतुर्दश शतकतः द्विनवत्युत्तर चतुर्दशशतक पर्यन्तं आसीदिति इतिहासेन अवगम्यते।

 एतेन ज्ञायते, जोनराजः  जैनोल्लाबिदीन्, नुरुल्लाबिदीन्  श्रीवरश्च समसामयिकाः। एतदाधारेण  श्रीवरस्य समयः पञ्चदशशतकस्य द्वितीयार्धं इति ज्ञातव्यम्।  कथाकौतुकं इति तस्य या प्रसिद्धा कृतिरस्ति्, तत्र आहत्य पञ्चदशाध्याया सन्ति। तत्र प्रत्येकं अध्यायस्य कौतुकं इत्येव नाम दत्तम्। तत्र विशेषतया  आद्यत्रयोदशाध्यायेषु ग्रन्थकर्तुः नाम श्रीवर इत्येव उल्लिखितो दृश्यते । किन्तु तत्र चतुर्दशपञ्चदशयोः नाम व्यत्ययो दृश्यते, श्रीधर इति। तत्र श्रीवरश्रीधरौ  भिन्नौ न, येन केनापि लेखनदोषेण श्रीवरो श्रीधरो जातस्यादित्येव उच्यते। अतः अत्र नाम भेदेऽपि कविभेदो नास्ति इति अस्माभिः निर्णेतव्यं भवति।तत्र पर्शियन् भाषासु उसुब्जुलैका इति प्रसिद्धस्य शृङ्गारकाव्यस्य मुल्लाजैन कृतस्य संस्कृतीकरणं एव एतेन कृतम्।अत्र पर्शियन्कथां एना अयं संस्कृतभाषामर्यादानुगुणेन तत्र वाक्शैलींमपि विपरिवर्त्य विलिखितवान् इति  ज्ञायते। एतेन पर्शियन् भाषायाः एवञ्च संस्कृतभाषायाः सेतुभूतो अयं श्रीवरः।

अनुपमः कविः श्रीवरः-

कश्मीरीयकवीनां मध्ये श्रीवरस्य योगदानं विशिष्यते। न केवलं कश्मीरीकवीनां संस्कृतसाहित्येपि एतादृशकृतयः न्युनातिन्यूना एव दृश्यते। अपि च पर्षियन्भाषायाः संस्कृतभाषायाश्च समन्वयं कृत्वा अनेन काव्यं विरचितं इति आश्चर्यचकितं करोति  वाचकानां मनांसि। अतः कथाकौतुकाख्यं काव्यं संस्कृतसाहित्ये एव अतिनूतनं इव भाति। अयं श्रीवरः कथाकौतुककाव्यात् पृथक् सुभाषितावलीग्रन्थं विरचयामास।   

यद्यपि अन्येषां कवीनां श्लोकसंग्रहात्मकः अयं ग्रन्थः। अयं ग्रन्थस्तु विशिष्यते । यतः अत्र  श्रीवरेण माकिं चतुश्शतकवीनां श्लोकान्  उल्लिखति। अतः ऐतिहासिकदृष्ट्या संस्कृतभाषा दृष्ट्याच अध्येतुं ये इच्छन्ति, तेषां आकरायते अयं ग्रन्थः। अस्य ग्रन्थस्य संरचना तावत् शार्ङ्गधरपद्धतिसदृश इति ज्ञायते। संस्कृतसाहित्यस्य विशेषतः कश्मीरीयाणां अनेकेषां कवीनां श्लोकाः अत्र उपलभ्यन्ते। अत्र यानि नामानि  उपलभ्यन्ते तानि नूतनानि अन्यत्र नोऽपलभ्यन्ते। न केवलं कश्मीरीयाणां किन्तु कश्मीरदेशात् बहिर्भूतभारतदेशस्य इतरेषां अपि प्रदेशानां कवीनां उल्लेखः अत्र दृश्यते। कथाकौतुककाव्यस्य वैशिष्ट्यन्तु विशेषतः अत्र  उल्लेख्यं भवति। यतः श्रीवरस्य काव्यशैलीं ज्ञातुं एतत् उपयुज्यते। तत्र कथानायिकायाः व्यामोहकं सौन्दर्यं वर्णयति श्रीवरः। तत् सहृदयानां हृदयावर्जकं वर्तते।

तथा च श्रूयते-

दृष्टमत्यद्भुतं तस्यां द्वयमात्मविरोधकृत् ।

 अहो मुखस्वरूपोत्थं तमश्च कचसंभवा ॥ 

ताराहारावली कंण्ठे कम्बुकण्ठ्या विराजते । 

सेवितुं किमु शीतांशुं प्राप्ता नक्षत्रसंततिः ॥

 यां दृष्ट्वा सरसश्चकुर्नैव नेत्रनिमीलनम् । 

न पुनदर्शयामासुः शरीरं स्वं घृणातुराः॥ इति

तत्र कथाकौतुकस्य द्वितीये उल्लासे अयं श्लोकः उपलभ्यते।

 अपि च तत्र पर्षियन् भाषायाः पौराणिकप्रसिद्धं  संस्कृतीकृत्य अयं वर्णयति। सा सरणिः अत्र अवगन्तव्या भवति। तथा च श्रूयते-

नास्ति लोकेऽपरं किंचिन्नानुरागं विना परम् | 

अनिर्वेदाच्च वैराग्यं जायते सुखदं पुनः।।

अत्र सुभाषितावलीग्रन्थे एतेन अत्याधुनिकानां कवीनामपि उल्लेखः कृतः दृश्यते। तथा च जैनसिद्धान्तस्य कवेः गुरोश्च हेमचन्द्रश्च नाम अत्र उपलभ्यते। अयञ्च हेमचन्द्रः द्वादशशतके कविरासीत् इति इतिहासात् अवगम्यते। अपि च अन्येच कवयः अन्याश्च कृतयश्च तत्र उल्लिखिताः अन्यत्र अनुल्लिखिताः इमे।आनन्दकृतं आनन्दकाव्यं, अवतारकृतं ईश्वरशतकं ,रत्नधरकृतं काशीमाहात्म्यं, दीनाक्रन्दनस्तोत्रं, प्रद्युम्नशिखरपीठाष्टकं, महाराज्ञीस्तवः, राजानकगोपालेन कृतं महाराज्ञीस्तवकाव्यं, यशस्करविरचितदेवीस्तोत्रं पद्मनाभविरचितं भुवनेश्वराष्टकं, एवञ्च यशोमङ्गलस्तोत्रं च। सुभाषितसंग्रहेषु नाना कवीनां उल्लेखलाभात् संस्कृतसाहित्यस्य कश्मीरीयाणां योगदानं गणयितुं उपयुज्यते। अतः यद्यपि इमे ग्रन्थाः प्रार्थनाप्रधानाः भवन्ति, अथापि तत्र कश्मीरीयकवीनां योगदानपरिगणने गणनां अर्हन्ति। अत एव अस्य विवरणं अन्यत्र वितन्यते।

 कथाकौतुक सुभाषितावली ग्रन्थादपि पृथक् श्रीवरेण राजतरङ्गिणी तृतीया विरचिता वर्तते। इयञ्च ऐतिहासिकी कृतिः। एतया कृत्या तस्य कवित्वेन सह ऐतिहासिकत्वोपाधिरपि प्राप्ता वर्तते। एवञ्च कविव्यूहे ऐतिहासिकानां  समुदायेच श्रीवरः गणनां अर्हति। अस्य ऐतिहासिक कृतेः राजतरङ्गिण्याः महत्वन्तु इतिहास क्षेत्रे कश्मीरस्य योगदानं यदा विचार्यते, तत्र तन् निबध्यते।  

अन्विष्टानां ग्रन्थसूची-

१- कथाकौतुकम् -श्रीवरः

२- सुभाषितावली- श्रीवरः

३-तृतीयराजतरङ्गिणी-श्रीवरः

४-श्रीराजतरङ्गिणी- कल्हणः

१.श्रीजोनराजविबुधः कुर्वन् राजतरङ्गिणीम् ।
सायकाग्निमिते वर्षे शिवसायुज्यमासदत् ॥

शिष्योऽस्य जोनराजस्य सोऽहं श्रीवरपण्डितः । 

राजावलीग्रन्थशेषापूरणं कर्तृमुद्यतः ॥ श्री राजतरङ्गिणी- प्रथमतरङ्गः-६-७
२.तथापि सकलं चित्रसंङ्क्रान्ते त्रिजगद्यथा ।
श्री जैनोल्लाबिदीनस्य न्यस्यामि गुणवर्णनम् ॥  श्री राजतरङ्गिणी- प्रथमतरङ्गः-१५ 

 ३.“इति यवनशास्त्रपारंगतपण्डितश्रीवररचिते कथाकौतुके” –  कथाकौतुके उपसंहारः।

४. प्राज्ये जाग्रति राज्येऽस्य पृथिव्यां पृथिवीपतेः ।
शाके मुनिद्विवेदेन्दु (१४२७ ) गणिते विक्रमे स्म गो: ||

 स्थितेऽपि लैकिके वर्षे चन्द्राष्ट (८१) परिपूरिते ।
      माधवे मासि राकायां रवौ मेषमुपागते ॥ कथाकौतुकम्- ३७-३८
 ५. तस्मिन् मया पण्डितजोनकाख्यं

 नत्वा गुरुं पण्डितश्रीवरेण । 

 भूपालतुष्टः सुरलोकवाण्या

रम्भोऽध्वनकांश्च मनोहरोऽयम् ॥ कथाकौतुकम्-४०

 

[/vc_column_text][/vc_column][/vc_row]