अनुबन्धचतुष्टयम् 

भीमानन्दः बि एच्
शोधच्छात्र:
कर्नाटकसंस्कृतविश्वविद्यालय:
चामराजपेटे, बेङ्गलूरु – 560018
8722970479

(Summary of Article) लेखनसारः – विदितमेव इदं सर्वेषां यत् अनुबन्धचतुष्टयं शास्त्राध्ययने ब्रह्मज्ञानावाप्तये च बहुमुख्यं पात्रमाहवति इति । प्रयोजनं सम्प्रवृत्तेः कारणं फललक्षणम् । प्रयोजनमनुद्धिश्य मन्दोऽपि न प्रवर्तते इति सार्वत्रिको नियमः । विना अनुबन्धकथनं शास्त्रग्रन्थेषु कस्यापि अध्येतुः प्रवृत्तिः न स्यात् इति कृत्वा प्रायः सर्वेऽपि शास्त्रकर्तारः स्वस्वग्रन्थस्यारम्भे गुह्यरूपेण स्पष्टतया वा अध्येतुः अभिरुच्युत्पादनार्थं शास्त्राध्ययने प्रवृत्यर्थं च अनुबन्धान् निवेशितवन्तः भवन्ति एव इति । अनुबन्धचतुष्टयं नाम १) अधिकारी २) विषयः ३) सम्बन्धः ४) प्रयोजनं चेति एतानि चत्वारि मिलित्वा अनुबन्धचतुष्टयमिति समाहारार्थे द्वन्द्वसमासः प्रयुक्तः वर्तेते । अद्वैतवेदान्तमते प्रक्रियाप्रवीणैः शास्त्रकृद्भिः १) साधनचतुष्टयसम्पन्नः अधिकारी । २) शुद्धचैतन्यं ब्रह्म विषयम् । ३) प्रमेयभूतस्य ब्रह्मणः तत्प्रतिपादकोपनिषादां च बोध्यबोधकरूपः सम्बन्धः । ४) अत्यन्तदुःखनिवृत्तिपूर्वकं परमानन्दस्य प्राप्तिः प्रयोजनम् । इति निर्दिष्टम् ।

तत्र अनुबन्धो नाम अधिकारी विषयः सम्बन्धः प्रयोजनं च इति कृत्वा चत्वारः भवन्ति । परस्परम् अनुबद्य तिष्टन्तीति एतेषाम् अनुबन्धाः इति नामसर्थक्यम् । तन्नाम एते अनुबन्धाः पृथक्पृथक्तया एकैकाः न भवन्ति किन्तु सर्वे मिलित्वा एव अस्तित्वे भवन्ति इति कृत्वा एतेषाम् अनुबन्धचतुष्टयम् इति नाम नियुज्यते । चतुर्णाम् अनुबन्धानां समाहारः इति कृत्वा अपि अनुबन्धचतुष्टयमिति भवति । सुभाशितरत्नभाण्डागारः इति ग्रन्थे सुभाषितकारः साधनानां विषये वदति यत् – विवेकेन सह आत्मसंयमः, विद्यया सह विनयः, विनम्रतायाः सह अधिकारः एतानि सर्वाणि अपि लक्षणानि महात्मनां साधकानाम् एव भवन्ति इति । तद्यथा – 

विवेकः सह संयत्या विनयो विद्यया सह ।

           प्रभुत्वं प्रश्रयोपेतं चिह्नमेतन्महात्मनाम् इति ।

इतः पश्चात् अग्रे एकैकस्य अनुबन्धस्य विषयं किञ्चित् विवरणतया पश्यामः । तत्रादौ ब्रह्मतत्वज्ञानस्य अधिकारी निर्दिश्यते ।

  •  अधिकारी ।

ब्रह्मज्ञाने अधिकारित्वस्य सिद्धिः सर्वप्रथमतया भवति चेदेव अन्येषां विषयसम्बन्धप्रयोजनानाम् अपि सिद्धिः इति कृत्वा अधिकारी एवादौ उच्यते । आत्मबोधः इति ग्रन्थे; आत्मबोधस्य तन्नाम तत्वज्ञानस्य अधिकारी कृततपाचरणः क्षीणपापः नाम मायामलं कार्मिकमलम् आणवमलम् इति मलत्रयरहितः विधूतपापः शान्तः नाम विषयाभिलाषरहितः जितेन्द्रियः तेन शान्तस्वभावः विगतरागः नाम कामरहितः इच्छारहितः वा रागद्वेषादिरहितः एवंगुणसम्पन्नः एव मुमुक्षुः भवति इति तत्र निर्दिष्टं भवति । तद्यथा –

तपोभिः क्षीणपापानां शान्तानां वीतरागिणाम् ।

      मुमुक्षुणामक्ष्योऽयमात्मात्मबोधो विधीयते इति ।

एवं पुनः वाक्यवृत्तिः इति ग्रन्थे – संसारे वर्तमानः आध्यात्मिकतापः आधिदैविकतापः आधिभौतिकतापः च इति त्रितापैः नितरां संतप्तः सन् संसारस्य असारतां निरन्तरं दुःखातिशयं च विज्ञाय ततः दुःखभूयिष्ठात् आत्मसुखलेशप्रतिबिम्बात् विषयभोगात् उपरतः सन् शमः दमः उपरतिः तितीक्षा श्रद्धा समाधानम् इत्यादिभिः साधनैः युक्तः परमया श्रद्धया वेदान्तेषु ज्ञानोपदेशके गुरौ च अत्यन्तमेव विश्वासी सन् अहं कः? प्रतीयमानं जगच्च कीदृशं? ब्रह्म किम् इति परिपृच्छकः एव अधिकारी भवति इति उच्यते । तच्च यथा –

तापत्रयार्कसंतप्तः कश्चिदुद्विग्नमानसः ।

शमादिसाधनैर्युक्तः सद्गुरुं परिपृच्छति इति ।

श्रीमदादिशङ्करभगवत्पादाः स्वस्मिन् विवेकचूडामणिः इति अद्वैतवेदान्तस्य महाद्भुते प्रकरणग्रन्थे यस्य संसारान्मोक्षमिच्छतुः पुरुषस्य शब्दादिषु विषयेषु तीव्रं वैराग्यं बन्धनाच्च तीव्रं मुमुक्षुत्वम् अचलं भवति तस्य एव शमादिषट्सम्पत्तिः उपयुक्ता सति फलं ददाति । तादृशः एव पुरुषः साधनां कृत्वा ब्रह्म समवाप्नोति इति तत्र उपदिष्टं वर्तते । तद्यथा – 

वैराग्यं च मुमुक्षुत्वं तीव्रं यस्य तु विद्यते ।

तस्मिन्नेवार्थवन्तः स्युः फलवन्तः शमादयः इति ।

श्रीमच्छङ्करभगवत्पादाः विवेकचूडामणौ एव अन्यत्र प्रकरणे मुमुक्षोः नाम अधिकारिणः विषये वदन्ति यत् – संसारः एकः कारागृहसदृशः कठिनः सर्वथा महाबन्धयुक्तः भवति । ततः मोक्षमिच्छतः पुरुषस्य वासनात्रयं अयोमयशृङ्खला इव दृढतया पादौ बध्नाति इति तत्वज्ञाः वदन्ति इति । यश्च धीरः सन् वासनात्रयाद्विमुक्तः तीव्रवरागी सन् सर्वसंसारबन्धनात् विशेषतया मुक्तः भवति स एव बहुजन्मकृतपुण्यः कृतकृत्यो भूत्वा मुक्तिं समवाप्नोति इति । तद्यथा –

  संसारकारगृहमोक्षमिच्छो

रयोमयं पादनिबद्धशृङ्खलम् ।

वदन्ति तज्ञाः पटुवासनात्रयं

योऽस्माद्विमुक्तः समुपैति मुक्तिम् इति ।

    पुनः उपदेशसाहस्री इति ग्रन्थे शङ्करभगत्पादाः अधिकारिणः गुणान् वदन्ति । तद्यथा – मोक्षे इच्छायुक्तः अधिकारी प्रशान्तचित्तः नाम कामक्रोधलोभमोहमदमात्सर्येर्षाद्वेषादिभिः वर्जितः विषयेभ्यः उपरतः सन् मनःप्रसादद्वारा  प्रशान्तचित्तः भवेत् । जितेन्द्रियः नाम समस्तानि इन्द्रियाणि अपि स्वाधीने कृतवान् स्यात् । प्रहीणदोषः नाम मलदोषः विक्षेपदोषः चञ्चलदोषः इति दोषत्रयरहितो भूत्वा निर्मलान्तःकरणः स्यात् । यथोक्तकारी नाम शास्त्रेषु उच्यमानैः लक्षणैः युक्तः स्यात् । एवं गुरोः आज्ञापालकः गुरौ शास्त्रे च श्रद्धालुः भवेत् । गुणान्वितः नाम सत्यवचनं ब्रह्मचर्यम् इत्यादिनां गुणानां पालकः सन् सत्वगुणभूषितः स्यात् । अनुगतः नाम आचर्यस्य निर्दिष्टे पथे गमनवान् भवेत् । एतादृशगुणसम्पन्नः एव मुमुक्षुः शास्त्राध्ययने अधिकृतः भवति । एतादृशाय एव अधिकारिणे श्रोत्रियेण ब्रह्मनिष्ठेन गुरुणा तत्वज्ञानं परमकरुणया उपदेष्टव्यं भवति इति । तद्यथा –

प्रशान्तचित्ताय जितेन्द्रियाय च

प्रहीणदोषाय यथोक्तकारणे ।

गुणन्वितायानुगताय सर्वदा

प्रदेयमेतत्सततं मुमुक्षवे इति ।

एवं परमकारुणिका अपौरुषेया बृहदारण्यकोपनिषत् श्रुतिः ब्राह्मणः इति शब्देन अधिकारिणं निर्दिशति । यः अक्षरभूतं परं ब्रह्म अविधित्वा एव नाम कृतकृत्यः न भूत्वा अस्मात दुर्लभात् मानुषजन्मात् गार्गी अज्ञानी सन् एव प्रयाति गच्छति सः कृपणः । एवं यः अधिकारी ब्रह्मतत्वं विज्ञाय एव अस्माय् लोकात् प्रयाति सः ब्राह्मणः । सः एव ज्ञाने अधिकृतः । सः एव च मुमुक्षुः इति याज्ञवक्यः महर्षिः गार्गीं प्रति उपदिशति इति उपनिषदः आख्यायिकायां वर्तते । तद्यथा –

यो वा एतदक्षरं गार्ग्यविदित्वास्माल्लोकात्प्रैति स कृपणः ।

अथ एतदक्षरं गार्गी विदित्वास्माल्लोकात्प्रैति स ब्राह्मणः इति ।

परमकारुणिका मुण्डकश्रुतिः अपि अधिकारिणः विषये उपासनाङ्गतया रूपकमेकं कल्पयति । तद्यथा- प्रणवः नाम ॐकारः धनुसदृशः भवति । आत्मा तु शरसदृशः भवति । तत्र लक्ष्यं तु ब्रह्म एव भवति । अधिकारी अप्रमत्तः सन् लक्ष्यैकचित्तः भूत्वा शरवन् ब्रह्मणि लीनः भवेत् । तदा एव तादृशस्य जिज्ञासोः पुनर्जन्म संसारो वा नैव भवति इति । तद्यथा –

प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्लक्षमुच्यते ।

     अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत् इति ।

पुनः श्वेताश्वतरोपनिषदि आत्मनः गुणान् वदन्ती श्रुतिः तस्यात्मनः स्थानमपि निर्दिष्य धीरः एव अधिकारी भवतीति उच्यते । अत्मा अणोः अपि अणीयान् एवं महतः अपि महीयान् भवति । स च आत्मा सर्वस्य जन्तोः नाम जीवस्य हृदयरूपे गुहायां निहितः नाम प्रविष्टः भवति । तस्य च अक्रतुः आत्मानः महिमानं धातुः प्रसादात् नाम ईश्वरानुग्रहात् वीतशोकः मुमुक्षुः पश्यति । तत् ब्रह्म अस्माकम् आत्मभूतः इति यः पश्यति सः एव धीरः नाम इन्द्रियार्थेषु विरक्तः भवति । विषयेषु यस्य धीः नाम बुद्धिः न रमते सः एव धीरः इति शब्देन उच्यते । तस्य एव नियमितेन्द्रियस्य शाश्वतं सुखं नाम अखण्डानन्दानुभूतिः भवति न तु इतरेषां भोगलोलुपाणाम् इति । तद्यथा – 

अणोरणीयान्महतो महीयान्
आत्मा गुहायां निहितोऽस्य जन्तोः ।
तमक्रतुं पश्यति वीतशोको
धातुः प्रसादान्महिमानमात्मनः इति ।

तमात्मस्थं येऽनुपश्यन्ति धीराः ।

तेषां सुखं शाश्वतं नेतरेषाम् इति च ।

कठोपनिषदि च अधिकारिणः लक्षणानि एवम् उच्यन्ते । तद्यथा – मुमुक्षुः अग्रबुद्धिः नाम तीक्ष्णमतिः भवेत् । तीव्रबुद्धिः मध्यमबुद्धिः मन्दः नाम कनिष्टबुद्धिः इति भेदेन त्रिविधाः अधिकारिणः भवन्ति । कनिष्टबुद्धयः अतिप्राकृताः कनिष्टाधिकारिणः भवन्ति । मन्दबुद्धिनां शास्त्रसंस्कारः बवति चेदपि ते विषयादिषु आसक्ताः भवन्ति इत्यतः बहिर्मुखाः भवन्ति इति कृत्वा ते मध्यमाधिकारिणः इति उच्यन्ते । तीव्रबुद्धयः तु जितेन्द्रियाः साधनसम्पन्नाः भवन्ति इत्यतः ते उत्तमाधिकारिणः भवन्ति । ते एव उत्तमाधिकारिणः अनूचानाः श्रद्धालवः च भूत्वा गुरुमुखात् उपदिष्टाः ब्रह्मज्ञानं प्राप्तुं शक्नुवन्ति । तदर्थमेव अत्र यथार्थाधिकारी तीव्रबुद्धिः इति शब्देन उपनिषदा उक्तः भवति । पुनः स अधिकारी सूक्ष्मदर्शी भवेत् इति उच्यते । तन्नाम सः ब्रह्मचर्यादिनां पालनेन अन्तरिन्द्रियाणां बहिरिन्द्रियाणां च संयमिता सन् सूक्ष्ममतिः स्यात् इति । तादृशः एव अधिकारी आत्मतत्वज्ञानं प्राप्तुं सक्षमः भवति इति काठके उच्यते । 

तद्यथा –

दृश्यते त्वग्रया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः इति ।

ततः पुनः मुण्डकोपनिषदि क्षीणदोषाः यतयः एव ब्रह्मज्ञानस्य अधिकारिणः भवन्ति इति उच्यते । आवरणदोषः विक्षेपदोषः मलदोषः च इति कृत्वा शास्त्रकृद्भिः अद्वैतवेदान्तस्य प्रकरणग्रन्थेषु उच्यते । एतद्दोषत्रयात् रहितः एव क्षीणदोषः भवति । आवरणदोषो नाम अज्ञानम् एव भवति । तच्च अज्ञानं स्वरूपभूतम् आत्मानम् आवृत्य तिष्टति एवं आत्मनः विपरीतम् अन्यदेव दर्शयति इति कृत्वा तस्य नाम आवरणमिति । आत्मातिरिक्तं किमपि नैव भवति चेत् अपि विक्षेपदोषः तृणादारभ्य ब्रह्माण्डान्तं जगत् कल्पयति । अयमेव दोषः जगत्कारणम् अज्ञानस्य शक्त्योः अन्यतमा भवति । मलदोषः नाम पापदोषः भवति । धर्मशास्त्रज्ञानात् बाह्यः सर्वान् जीविनः आत्मवत् अविज्ञाय एव परोपकारादिरहितः पापान् आचरति । तेन पापाचरणेन संमोहितबुद्धिः भूत्वा अविवेकी सन् हीनयोनिषु जन्म प्राप्य अनन्तदुःखम् अनुभवति । तदर्थमेव अत्र उपनिषदि अधिकारी क्षीणदोषः भवेत् इति उपदिश्यते । तद्यथा – 

यं पश्यन्ति यतयः क्षीणदोषाः इति । 

पुनः मैत्रायिण्योपनिषदि उच्यते यत् ज्ञानस्य अधिकारी प्रसन्नचित्तः कर्मविर्जितः च भवेत् इति । चित्तस्य चाञ्चल्यं बहु अस्ति चेत् तादृशायां बुद्धौ ब्रह्मज्ञानं नैव फलति इति कृत्वा अत्र उपनिषदि चित्तस्य प्रसादः भवतु इति उक्तं वर्तते । ब्रह्मज्ञानप्रदातुः गुरोः प्राप्तेः पूर्वमेव कर्माचरणं कर्तव्यं न तु गुरु सन्निधौ । यतो हि कर्मणां गतिः भिन्ना ज्ञानस्य च गतिः अपि अन्या । “दूरमेते विपरीते विषूची इत्यादिना अपि तदर्थमेव उपनिषत्सु भाष्ये च पुनः पुनः उक्तं वर्तते । श्रीमच्छङ्करभगवत्पाः तु ज्ञानकर्मसमुच्ययवादं नितरां खण्डयन्ति एव । पुण्यं कर्म शुभकर्म भवति । पापं कर्म अशुभं कर्म भवति । एतौ उभे अपि कर्मणी पुन्यपापद्वारा आत्मानं बध्वा जन्म दापयन्ति इति कृत्वा हातव्यौ एव भवतः इति वेदान्तेषु उच्यते । मैत्रायिन्यां यथा – 

चित्तस्य हि प्रसादेन हित्वा कर्म शुभाशुभम् । 

प्रसन्नात्माऽत्मनि स्थित्वा सुखमव्ययमश्नुते इति । 

श्रीमच्छङ्कराचार्याः आत्मज्ञानस्य अधिकारिणः लक्षणमेवं वदन्ति यथा –

मेधावी पुरुषो विद्वान् ऊहापोहविचक्षणः ।

अधिकार्यात्मविद्यायामुक्तलक्षणलक्षितः इति 

विवेकिनो विरक्तस्य शमादिगुणशालिनः ।

मुमुक्षोरेव हि ब्रह्मजिज्ञासायोग्यता मता इति च ।

अनधिकारिणः निन्दा ।

ब्रह्मज्ञानस्याधिकारिणः यथा प्रशंसा कृता तथा अनधिकारिणः निन्दा अपि शास्त्रेषु क्रियते । 

विवेकचूडामणिः इति ग्रन्थे शङ्कराचार्यैरुक्तं यत् – अदृढवैराग्येन यः मुमुक्षुः महत् भवाब्धिं तर्तुमिच्छति सः आशारूपेण मकरेण दृढतया कण्ठे गृहीतः समुद्रान्तराले नीयते इति । तद्यथा – 

आपातवैराग्यमतो मुमुक्षून् 

भवाब्धिपारं प्रतियातुमुद्यतान् ।

आशाग्रहो मज्जयतेऽन्तराले 

निगृह्य कण्ठे विनिवर्त्य वेगात् इति ।

श्रीमद्भगवद्गीतायां पथभ्रष्टस्य साधकस्य विषये उच्यते यत् –

कश्चिन्नोभय विभ्रष्टश्चिन्नाभ्रमिव नश्यति ।

अप्रतिष्टो महाबाहो विमूढो ब्रह्मणः पथि इति ।

उपदेशसाहस्र्यां शङ्करार्येण अनधिकार्यत्वस्य विषये उच्यते यत् – 

सदभ्युपेतं भवतोपकल्पितं 

विचारहेतोर्यदि तस्य नास्तिता ।

विचारहानाच्च तथैव संस्थितं 

न चेत्तदिष्टं नितरां सदिष्यते इति ।

२) विषयः ।

विषयो जीवब्रह्मैक्यं शुद्धं चैतन्यं प्रमेयम् । तत्रैव वेदान्तानां तात्पर्यात् इति श्री सदानन्दयतिवरेण्याः स्वस्मिन् वेदान्तसारः इति ग्रन्थे वदन्ति । चैतन्यं नाम सर्वविधपरिच्छेदराहित्यतया उपादिरहितं शुद्धबुद्धमुक्तस्वभावं सच्चिदानन्दनित्यपरिपूर्णं वेदान्तवेद्यमेव ब्रह्म भवति । शुद्धम् इति पदेन भेदान् व्यावर्तयति । यद्यपि यतो वाचो निवर्तन्ते इत्यादिभिः श्रुतिभिः ब्रह्मणः बोध्यत्वं नैव भवति इति चेदपि दृश्यते त्वग्रया बुद्दधया इत्यादिभिः श्रुतिभिः शास्त्रसंस्कारितबुद्धौ ब्रह्म प्रतिफलति इति दर्शयन्ति । ब्रह्मणि एव बलाड्यानां सर्वासामपि उपनिषदां तात्पर्यं वर्तते इति कारणेन अनुबन्धेषु विषयत्वेन ब्रह्म एव निर्दिश्यते । 

  •  सम्बन्धः ।

सम्बन्धः तु मुख्यतया बोध्यबोधकभावरूपः भवति । बोध्यबोधकः सम्बन्धस्तु प्रमेयस्य ब्रह्मणः उपनिषत् प्रमाणस्य च भवति । बोध्यं ब्रह्म बोधकं च शास्त्रम् इति कृत्वा बोध्यब्धकभावरूपः सम्बन्धः । एवम् आचार्यस्य अध्येतुः च गुरुशिष्यसम्बन्धः भवति । एवं मुक्तिः प्राप्या प्रापकः च आचार्यः इति तयोः प्राप्तिप्रापकभावः सम्बन्धः भवति । एवमत्र अनेके गौणसम्बन्धाः भवितुम् अर्हन्ति । ये च अधिकारिणा ज्ञातव्याः भवन्ति । तदुक्तं वेदान्तसारग्रन्थे यथा सम्बन्धस्तु तदैक्यप्रमेयस्य तत्प्रतिपादकोपनिषत्प्रमाणस्य च बोध्यबोधकभावः इति । अत्र ब्रह्म एव प्रमेयं अज्ञानं ब्रह्मगतं भवति इति कृत्वा तस्य अज्ञानस्य निवृत्तिः एव वेदान्तानां तात्पर्यं भवति ।

  •  प्रयोजनम् ।

प्रयोजनं सम्प्रवृत्तेः कारणं फललक्षणम् । प्रयोजनमनुद्धिश्य मन्दोऽपि न प्रवर्तते इत्यादितया उक्तरीत्या विना प्रयोजनम् उन्मत्तः अपि अनियन्त्रितबुद्धिः कुत्रापि नैव प्रवर्तते इति जगति सर्वत्र दृश्यते एव । एतादृशस्थितौ अस्य महातत्वज्ञानशास्त्रस्य वेदान्तविद्यायाः प्रयजनं नैव उच्यते चेत् तत्र को वा मुमुक्षुः प्रवृत्तः स्यात्? । तदर्थमेव प्रयोजनं विद्यायाः आरम्भे ग्रन्थानां च आरम्भे च अवश्यम् उच्यत एव ।

अद्वैतवेदान्तशास्त्रस्य प्रयोजनं तु अत्यन्तदुःखनिवृत्यात्मकः परमान्दप्राप्त्यात्मकः च भवति । अत्यन्तदुःखनिवृत्तिः तु अज्ञाननिवृत्तिद्वारा एव भवति । यतो हि अज्ञानमेव समस्तस्य दुःखस्य मूलं कारणं भवति । कारणस्य निवृत्तौ कार्यस्यापि नाशः इति सार्वत्रिका व्याप्तिः । अज्ञानस्य निवृत्यां सत्यां परमानन्दरूपस्य ब्रह्मणः स्वतः एव अपरोक्षानुभवः भवति । न च पुनरावर्तते । न तस्य प्राणाः ह्युत्रामन्ते ह्यत्रेव विलीयन्ते इत्यदयः श्रुतयः ब्रह्मज्ञानिनः संसारदुःखनिवृत्तिं परमानन्दप्राप्तिं च प्रयोजनत्वेन दर्शयन्ति । वेदान्तसारग्रन्थे च प्रयोजनं तु तदैक्यप्रमेयगताज्ञाननिवृत्तिः स्वस्वरूपानन्दावाप्तिश्च तरति शोकमात्मवित् इत्यादिश्रुतेः ब्रह्मवित् ब्रह्मैव भवति इत्यादिश्रुतिभ्यः च इति उच्यते । चिन्मात्राज्ञाननिवृत्तिः प्रयोजनमिति प्रतिपत्तव्यम् ।