[vc_row][vc_column][rev_slider_vc alias=”about-3″][vc_column_text el_class=”articles”]


य़ोगायुर्वेदवेदान्तशास्त्रेषु प्रतिपादितसामान्यांशानां विमर्शात्मकमध्ययनम्

Chandamouli
Sanskrit Lecturer
Sri kumaran Children’s Home
Composite Pre-University Collegee, Bangaluru

आस्तिकदृष्टान्तत्वेन षड् दर्शनानि प्रसिद्धानि । तत्र सर्वेष्वपि दर्शनेषु स्वस्वशास्त्रीयसिद्धान्ताः अन्यशास्त्रसिद्धान्ततो भिन्नाः वर्तन्ते एव । तत्र सर्वेऽपि शास्त्रकाराः स्वस्वशास्त्रस्य प्रयोजनं मोक्ष एव इति कथयन्ति । किन्तु इदमत्र ज्ञातव्यमस्ति यत् तत्र तत्र शास्त्रे तत्तच्छास्त्रकारैः उच्यमानं मोक्षस्वरूपम् अन्यदेव भवत् अन्येभ्यः प्रायः भिद्यते । कदाचित् साम्यमपि स्यात् । कदाचित् अल्प एव भेदः स्यात् । कदाचिच्च अत्यन्तं वैलक्षण्यं प्रतीयेत । एवमेव मोक्षसाधनान्यपि प्रतिशास्त्रं भिद्येत । तत्तद्दर्शननिरूपितमोक्षस्वरूपानुसारितया अवश्यं तत्साधनेऽपि वैलक्षण्यं सम्भाव्यते एव । तत्रापि षट्सु आस्तिकदर्शनेषु न्याय-वैशेषिकयोः योगसाङ्ख्ययोः पूर्वोत्तरमीमांसयोः परस्परं साम्याधिक्यमस्ति इत्यपि सुविदितमेव दार्शनिकानां मध्ये । तत्र इदानीं कश्चिदंशः विचार्यते ।

योगायुर्वेदयोः अद्वैत विचारः”

योगः

“तां योगमिति मन्यन्ते स्थिरामिन्द्रियधारणाम्”[1]  इति चित्तवृत्तिनिरोधः योगः ज्ञानोपायत्वेन उपनिषत्सु बहुत्र उपदिष्टः। तद्यथा – “श्रोतव्यो मन्तव्यो निदिध्यासितव्यः”[2], “अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति”[3], “नाशान्तो नासमाहितः”[4], “दृश्यतेऽत्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः”[5],

“यच्छेद्वाङ्मनसी प्राज्ञः तद्यच्छेज्ज्ञान आत्मनि।

   ज्ञानमात्मनि महति नियच्छेत्तद्यच्छेच्छान्त आत्मनि”[6],

“यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह।

   बुद्धिश्च न विचेष्टते तमाहुः परमां गतिम्॥”[7],

“तस्माच्छान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वा आत्मन्येवात्मानं पश्येत्”[8] इत्यादिषु। स्मृतिष्वपि – “अयं तु परमो धर्मः यद्योगेनात्मदर्शनम्”[9], “समाधावचला बुद्धिस्तदा योगमवाप्स्यसि”[10] इत्यादिषु।

सूत्रभाष्ये आचार्याः देवतानां विग्रहवत्वेन ब्रह्मविद्याधिकार-प्रतिपादनाकाले योगमतमुल्लिख्य तस्य प्रामाण्यतां निरूपयन्ति – “योगोऽपि अणिमाद्यैश्वर्यप्राप्तिफलः स्मर्यमाणो न शक्यते साहसमात्रेण प्रत्याख्यातुम्” इति।  तत्रैव श्वेताश्वतरश्रुतिमुदाहृत्य योगविद्यायाः माहात्म्यं दर्शयन्ति आचार्याः “श्रुतिश्च योगमाहात्म्यं प्रख्यापयति – पृथिव्यप्तेजोऽनिले समुत्थिते पञ्चात्मके योगगुणे प्रवृत्ते। न तस्य रोगो न जरा न मृत्युः प्राप्तस्य योगाग्निमयं शरीरम्”[11] इति। योगशास्त्रे प्रतिपादिते अभ्यासवैराग्ये[12] अपि अमनीभावसाधनत्वेन मोक्षोपायत्वेन माण्डूक्यकारिकायां प्रतिपाद्येते। उक्तञ्च – “मनसो अमनीभावे निरोधे विवेकदर्शनाभ्यासवैराग्याभ्याम्”[13] इति। किञ्च योगाभ्यासं कुर्वन् मध्ये योगमार्गात् विभ्रष्टस्यापि विनाशः नास्ति इति योगः स्तूयते –

“नास्ति नाशो नाम पूर्वस्मात् हीनजन्मप्राप्तिः स योगभ्रष्टस्य नास्ति”[14] इति।

अपि च योगभ्रष्टस्य सद्गतिरभिधीयते-

“प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः।

शुचीनां श्रीमतां गेहे योगभ्रष्टोभिजायते॥”

अथवा योगिनामेव कुले भवति धीमताम्।

        एतद्धि दुर्लभतरं लोके जन्म यदीदृशम्॥”[15] इति।

संन्यासिभिः योगप्रतिपादितस्य यमनियामाद्यष्टाङ्गयोगस्य अनुष्ठानं विधेयमिति आचार्याः प्रतिपादयन्ति। उक्तञ्च – “आत्मप्रत्यय-सन्तानविच्छेदो भिन्नजातीय-प्रत्ययान्तराखिलीकृतः निर्वातस्थ-दीपशिखासमः अभिध्यानशब्दार्थः। सत्य-ब्रह्मचर्य-अहिंसा-अपरिग्रह-त्याग-संन्यास-शौच-सन्तोष-अमायावित्वाद्यनेक-यम-नियामानुगृहीतः स एवं यावज्जीव-व्रतधारणः”[16] इति। भामत्यां मुमुक्षुणा अविद्योच्छेदाय यमादीनाम् अनुष्ठानमवश्यं करणीयमिति स्पष्टाक्षरैः प्रतिपादितम्। तथा च उक्तं – “जातु योगशास्त्रविहितं यमनियमादि-बहिरङ्गम् उपायम् अपहायान्तरङ्गं  च धारणादिकमन्तरेण औपनिषदात्मतत्त्वसाक्षात्कार उदेतुमर्हति”[17] इति।

आचार्याः भाष्ये देवतानां ब्रह्मविद्याधिकारप्रतिपादनकाले सूत्रभाष्ये[18] “स्वाध्यायादिष्टदेवतासम्प्रयोगः”[19] साक्षात् योगसूत्रम् उदाहरन्ति। मनसः पञ्चवृत्तित्वं प्रतिपादयता अपि “परमतप्रतिषिद्धमनुमतं भवति इति न्यायात् इहापि योगशास्त्रप्रसिद्धाः मनसः पञ्चवृत्तयः परिगृह्यन्ते – “प्रमाणविपर्ययविकल्पनिद्रास्मृतयः”[20] इति भाष्ये[21] साक्षात् योगसूत्रमुदाहृतम्।

किन्तु प्रधानकारणवादः, जगत्सत्यत्वप्रतिपादनमित्यादिषु योगशास्त्रप्रतिपादित-तात्त्विकविषयेषु अद्वैतिनां विरोधः अस्त्येव। अपि च श्रुतिः “तमेव विदित्वा अतिमृत्युमेति नान्यः पन्थाः विद्यतेऽयनाय”[22] इति आत्मैकत्वज्ञानमेव निःश्रेयससाधनमिति प्रतिपादयति इति हेतोः द्वैतिनः योगशास्त्रविदः अद्वैतिभिः प्रत्याख्यायन्ते। सूत्रयति च बादरायाणः – “एतेन योगः प्रत्युक्तः”[23] इति। किन्तु चित्तवृत्तिनिरोधरूपः योगः, तत्साधनाय योगसूत्रेषु प्रतिपादिताः यमनियादि-क्रियायोगः, पुरुषस्य स्वरूपेण निर्गुणत्वमित्यादयः विषयाः निश्चप्रचम् अद्वितिभिः अवश्यमनुमन्यन्ते। उक्तञ्च – “येन त्वंशेन न विरुध्यते तेन इष्टमेव साङ्ख्ययोगस्मृत्योः सावकाशत्वम्”[24] इति।

अद्वैतदर्शने आयुर्वेदशास्त्रस्य स्थानम्

वेदान्तेषु स्वास्थ्यसम्पादनोपायत्वेन आयुर्वेदशास्त्रस्य प्रामाण्यम् अङ्गीक्रियते। रोगाः शारीरस्य बलं हरन्तः जीवं दुःखिनं कुर्वन्ति। तथा च उक्तं “अबलभावं देहस्य रोगादिनिमित्तम्”[25] इति। रोगग्रस्तस्य तन्निवारणपूर्वकं स्वरूपावस्थानं स्वास्थ्यमुच्यते। तदुक्तं- “रोगार्तस्य रोगनिवृत्तौ स्वस्थता”[26], “स्वस्थता स्वरूपादप्रच्युतिरूपा”[27] इति। आयुर्वेदस्य स्वास्थ्यरक्षणप्रयोजनं च प्रतिपादितं – “चिकित्साशास्त्रीय-उपायप्रयोगवशात् प्रतिबन्धरूप-रोगोपरमे सत्यभिव्यज्यते”[28] इति। मुग्धावस्थायाः अप्रसिद्धत्वशङ्कायाम्, आचार्याः सूत्रभाष्ये आयुर्वेदशास्त्रस्य प्रामाण्यं वदन्ति। तथा च उक्तं – “प्रसिद्धा चैषा लोकायुर्वेदयोः”[29] इति। छान्दोग्ये व्याहृत्युपासनोपदेशकाले “भेषजकृतो ह वा एष यज्ञः”[30] इति उपदेशः श्रूयते। तद्भ्याष्ये आचार्याः “रोगार्त इव पुमान् चिकित्सकेन सुशिक्षितेन”[31] इति सुशिक्षितस्य भिषजः रोगनिवारकत्वं वदन्ति। बृहदारण्यके “तं नायातं बोधयेदित्याहुः”[32] इति स्वप्नावस्थायाः जीवः सहसा न उत्थातव्यः इति बोधयन् तत्र चिकित्सकानां प्रामाण्यम् आचार्याः वदन्ति। उक्तञ्च – “तमात्मानं सुप्तमायतं सहसा भृशं बोधयेदित्याहुरेवं कथयन्ति चिकित्सकादयो जना लोके”[33] इति। सहसा स्वप्नावस्थायाः प्रतिबोधे जीवः पुनर्न इन्द्रियदेशं प्रतिपद्यते इत्युच्यते। अर्थात् तस्य देहः आन्ध्यबाधिर्यादिभिः दोषैः पीडितः कष्टेन चिकित्स्यः भवति। अत्रापि चिकित्साशास्त्रस्य महत्त्वमाचार्यैः प्रदर्श्यते। तथा च उक्तं – “तत आन्ध्यबाधिर्यादिदोषप्राप्तौ दुर्भिषज्यं दुःखभिषक्कर्मता हास्मै देहाय भवति दुःखेन चिकित्सनीयो असौ देहो भवति”[34] इति। चिकित्साविज्ञाने चरक-सुश्रुत-आत्रेयादीनां प्रामाण्यम् अपि वेदान्तग्रन्थेषु निर्दिश्यते। तद्यथा – “यथा चिकित्साज्ञानस्य चरकसुश्रुतात्रेयादीनि बहूनि”[35], “चिकित्साज्ञानार्थं चरकसुश्रुतादिश्रवणे प्रवृत्तस्येव”[36] इत्यादिरूपेण।

आरोग्यसंरक्षणाय आयुर्वेदोक्ताः युक्ताहार-विहार-औषधसेवनादयः उपायाः अपि वेदान्तदर्शने प्रदर्श्यन्ते। भामत्याम् “आरोग्यकामः पथ्यमश्नीयात्”[37], “तद्यथा आरोग्यकामो जीर्णे भुञ्जीत”[38] इत्यादिरूपेण आरोग्यसंरक्षणाय पथ्याहारः विहितः। गीतायां सत्त्वरजस्तमोभेदेन आहरविभागं प्रदर्श्य सत्वाहारसेवनमारोग्यकरम्, रजस्तमोगुणभूयिष्ठस्य आहारस्य रोगकारणत्वं च उपदिश्यते। तथा च उपदिष्टम् –

“आयुःसत्त्वबलारोग्यसुखप्रीतिविविर्धनाः।

रस्याः स्निग्धाः स्थिराः हृद्या आहाराः सात्त्विकप्रियाः॥”,

कट्वाम्ललवाणात्युष्णतीक्ष्णरूक्षविदाहिनः।

आहारा राजसस्येष्टाः दुःखशोकामयप्रदाः॥”,

यातयामं गतरसं पूति पर्युषितं च यत्।

उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम्॥”[39] इति।

अपि च योग्य-आहारसेवनं युक्तव्यवहारपरिपालनं योग्यस्वापप्रबोधौ च दुःखनाशकारणं गीतायाम् उपदिष्टम्। उक्तञ्च –

“युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु।

    युक्तस्वप्नावबोधस्य योगो भवति दुःखहा॥”[40] इति।

विवेकचूडामणौ च आहरपथ्यम् औषधसेवनं च रोगोपशमोपायत्वेन उपदिश्यते। तदुक्तं –

“पथ्यमौषधसेवा च क्रियते येन रोगिणा।

आरोग्यसिद्धिर्दृष्टास्य नान्यानुष्ठितकर्मणा॥”[41] इति।

आयुर्वेदे प्रतिपादिताः रोगेषु शारीर-मानस-आगुन्तकभेदाः वेदान्तेषु अपि श्रूयन्ते। यथा “उपतपति इति उपतपन् ज्वरादिरोगः तेन उपतपता”[42], “व्याधिषु शिरोरोगादिषु दोशदर्शनम्”[43] इत्यादिरूपेण शारीराः रोगाः प्रदर्शिताः। शारीराः रोगाः आधिशब्देन अपि व्यवह्रियन्ते। मानासाः सुखदुःखशोकमोहादायः दोषाः हातव्यत्वेन बहुत्र निर्दिष्टाः। यथा “तांस्तितिक्षस्व भारत”[44], “समदुःखसुखं धीरं सोऽमृतत्त्वाय कल्पते”[45], “यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति”[46] इत्यादिः। एते मानसाः दुःखप्रदायकाः भावाः मनोरोगाः इति आयुर्वेदशास्त्रे निर्दिश्यन्ते। मानासाः रोगाः व्याधिशब्देन अपि उच्यन्ते। तथा च उक्तं – “व्याधिना मानसेन दुःखेन”[47] इति। आयुर्वेदपतिपादिताः शारीर-मानस-आगुन्तकरोगाः वेदान्ते आधिभौतिक-अध्यात्मिक-आधिदैविकभेदनापि निरूप्यन्ते। तेषु आध्यामिकं दुःखं मानसेन शारीरेण रोगेण उत्पन्नं वदन्ति। तदुक्तं – “दुःखानि त्रिविधानि शोकमोहज्वरशिरोरोगादिनिमित्तानि आध्यात्मिकानि”[48] इति। आधिदैविकानि अतिवातातिवृष्ट्यादि-हेतुकानि, आधिभौतिकानि व्याघ्रसर्पादिप्रयुक्तानि[49] च दुःखानि आयुर्वेदे आगुन्तकाः रोगाः इति प्रतिपाद्यन्ते[50]

अद्वैतदर्शने शरीरस्य अङ्गानां विस्तरेण वर्णनं न दृश्यते। किन्तु “देहारण्यं वात-पित्त-कफ-रुधिर-मेदो-मांस-अस्थि-मज्जा-शुक्र-क्रिमि-मूत्रपुरीषवत् शीतोष्णाद्यनेक-द्वन्द्व-सुखदुःखवत् च इदम्”[51] इत्यादिरूपेण दोषधातुमलाविष्टस्य देहस्य वर्णनं कुत्रचित् श्रूयते। “कष्टं हि मातुः कुक्षौ मूत्रपुरीषवातपित्तश्लेष्मादिपूर्णे उल्बाशुचि-पटावृतस्य लोहित-सरेतसोशुचि-बीजस्य मातुरशितपीतरसानुप्रवेशेन विवर्धमानस्य”[52] इति गर्भस्वरूपस्य तज्जन्मकाणस्य तद्वर्धनोपायस्य च निर्देशः आचार्यैः छान्दोग्ये कृतः। “नवद्वारे पुरे” “पुरमेकादशद्वारम्” इत्यादिरूपेण इन्द्रियप्राणादीनां शरीरे अस्तित्वं प्रतिपादितं दृश्यते। आयुर्वेदप्रतिपादिताः देहधारकाः[53] वातपित्तकफाः दोषाः वेदान्तशास्त्रे अपि व्यपदिष्टाः प्रदर्श्यन्ते। तदुक्तं – “त्र्यात्मकः त्रिधातुत्वात् त्रिभिः वातपित्तश्लेष्मभिः”[54] इति। गीताभाष्ये ज्ञानकर्मणोः समुच्चयं निराकुर्वद्भिः सन्देहप्रख्यापनावसरे पित्तक्रोधोपशमनाय उक्तः वैद्यकीयः उपायः आचार्यैः निर्दिश्यते। यथा- “न हि पित्तप्रशमनार्थिनः वैद्येन मधुरं शीतलं च भोक्तव्यम् इत्युपदिष्टे तयोरन्यतरत्पित्तप्रशमनकारणं ब्रूहि इति प्रश्नः सम्भवति”[55] इति। प्रश्नोपनिषदि जीवस्य शरीरादुक्त्रमणं निरूपयन् नाडीविचारः विहितः। उक्तञ्च – “हृदि ह्येष आत्मा। अत्रैतदेकशतं नाडीनाम्”[56] इति। एवं वेदान्तशास्त्रम् आयुर्वेदस्य प्रामाण्यमङ्गीकृत्य तत्सम्बद्धान् अनेकान् विषयान् प्रकाशयति।

 “धर्मार्थकाममोक्षाणामारोग्यं मूलमुत्तमम्।

    रोगास्तस्यापहर्तारः श्रेयसो जीवितस्य च॥”[57]

एवं स्वास्थ्यरक्षणपूर्वकम् आयुषः वर्धनेन पुरुषार्थसिद्धये आयुर्वेदशास्त्रं प्रवृत्तम्।

आयुर्वेदशब्दस्य व्युत्पत्तिः एवं दर्शितम् – “आयुरस्मिन् विद्यते अनेन वा आयुर्विन्दति इति आयुर्वेदः”[58] इति।

चित्तवृत्तिनिरोधः योगः मोक्षोपायत्वेन उपनिषत्सु बहुत्र उपदिष्टः। तद्यथा – “श्रोतव्यो मन्तव्यो निदिध्यासितव्यः”[59], “तां योगमिति मन्यन्ते स्थिरामिन्द्रियधारणाम्”[60], “अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति”[61], “नाशान्तो नासमाहितः”[62] इत्यादिषु। स्मृतिष्वपि – “अयं तु परमो धर्मः यद्योगेनात्मदर्शनम्”[63], “समाधावचला बुद्धिस्तदा योगमवाप्स्यसि”[64] इत्यादिषु। सूत्रभाष्येऽपि आचार्याः योगमतमुल्लिख्य तस्य उपादेयतां निरूपयन्ति – “योगोऽपि अणिमाद्यैश्वर्यप्राप्तिफलः स्मर्यमाणो न शक्यते साहसमात्रेण प्रत्याख्यातुम्” इति।  तत्रैव श्वेताश्वतरश्रुतिमुदाहृत्य योगविद्यायाः माहात्म्यं दर्शयन्ति आचार्याः “श्रुतिश्च योगमाहात्म्यं प्रख्यापयति –

“पृथिव्यप्तेजोऽनिलेखे समुत्थिते पञ्चात्मके योगगुणे प्रवृत्ते।

न तस्य रोगो न जरा न मृत्युः प्राप्तस्य योगाग्निमयं शरीरम्॥”[65]  इति।

योगशास्त्रे प्रतिपादिते अभ्यासवैराग्ये[66] अपि अमनीभावसाधनत्वेन मोक्षोपायत्वेन माण्डूक्यकारिकायां प्रतिपाद्येते। उक्तं च – “मनसो अमनीभावे निरोधे विवेकदर्शनाभ्यासवैराग्याभ्याम्”[67] इति। सन्यासिभिः योगप्रतिपादितस्य यमनियामाद्यष्टाङ्गयोगस्य अनुष्ठानं विधेयमिति आचार्याः प्रतिपादयन्ति। उक्तं च – “आत्म-प्रत्यय-सन्तान-अविच्छेदो भिन्नजातीय-प्रत्ययान्तराखिलीकृतः निर्वातस्थदीपशिखासमः अभिध्यानशब्दार्थः। सत्य-ब्रह्मचर्य-अहिंसा-अपरिग्रह-त्याग-सन्यास-शौच-सन्तोष-अमायावित्वाद्यनेक-यम-नियम-अनुगृहीतः स एवं यावज्जीव-व्रतधारणः”[68] इति। भामत्यां मुमुक्षुणा अविद्योच्छेदाय यमादीनाम् अनुष्ठानमवश्यं करणीयमिति स्पष्टाक्षरैः प्रतिपादितम्। तथा च उक्तं- “जातु योगशास्त्रविहितं यमनियमादिबहिरङ्गमुपायमपहायान्तरङ्गं  च धारणादिकमन्तरेण औपनिषदात्मतत्त्वसाक्षात्कार उदेतुमर्हति”[69] इति।

आचार्याः भाष्ये देवतानां ब्रह्मविद्याधिकार-प्रतिपादनकाले सूत्रभाष्ये[70] “स्वाध्यायात् इष्टदेवतासम्प्रयोगः”[71] इति साक्षात् योगसूत्रमुदाहरन्ति। मनसः पञ्चवृत्तित्वं प्रतिपादयद्भिः अपि “परमतमप्रतिषिद्धमनुमतं भवति इति न्यायात् इहापि योगशास्त्रप्रसिद्धाः मनसः पञ्चवृत्तयः परिगृह्यन्ते – “प्रमाण-विपर्यय-विकल्प-निद्रा-स्मृतयः”[72] इति भाष्ये[73] साक्षात् योगसूत्रमुदाहृतम्।

वेदान्तेषु स्वास्थ्यसम्पादनोपायत्वेन आयुर्वेदशास्त्रस्य प्रामाण्यम् अङ्गीक्रियते। तद्यथा “चिकित्साशास्त्रीय-उपायप्रयोगवशात् प्रतिबन्ध-रूपरोगोपरमे सत्यभिव्यज्यते”[74] इत्यादिरूपेण। मुग्धावस्थायाः अप्रसिद्धत्वशङ्कायाम्, आचार्याः सूत्रभाष्ये आयुर्वेदशास्त्रस्य प्रामाण्यं वदन्ति। तथा च उक्तं – “प्रसिद्धा चैषा लोकायुर्वेदयोः”[75] इति। छान्दोग्ये व्याहृत्युपासनोपदेशकाले “भेषजकृतो ह वा एष यज्ञः”[76] इति उपदेशः श्रूयते। तद्भ्याष्ये आचार्याः “रोगार्त इव पुमान् चिकित्सकेन सुशिक्षितेन”[77] इति सुशिक्षितस्य भिषजः रोगनिवारकत्वं वदन्ति। बृहदारण्यके “तं नायातं बोधयेदित्याहुः”[78] इति स्वप्नावस्थायाः जीवः सहसा न उत्थातव्यः इति बोधयन्तः तत्र चिकित्सकानां प्रामाण्यम् आचार्याः वदन्ति। उक्तं च- “तमात्मानं सुप्तमायतं सहसा भृशं बोधयेदित्याहुरेवं कथयन्ति चिकित्सकादयो जना लोके”[79] इति। चिकित्साविज्ञाने चरक-सुश्रुत-आत्रेयादीनां प्रामाण्यम् अपि वेदान्तग्रन्थेषु निर्दिश्यते। तद्यथा – “यथा चिकित्साज्ञानस्य चरक-सुश्रुत-आत्रेयादीनि बहूनि”[80], “चिकित्साज्ञानार्थं चरकसुश्रुतादिश्रवणे प्रवृत्तस्येव”[81] इत्यादिरूपेण। आरोग्यसंरक्षणाय आयुर्वेदोक्ताः युक्ताहार-विहार-औषधसेवनादयः उपायाः अपि वेदान्तदर्शने प्रदर्श्यन्ते।

अधुना लोके स्वास्थ्यसंरक्षणोपायत्वेन योगायुर्वेदशास्त्रयोः महत्वं वर्धमानं परिदृश्यते। स्वास्थ्यं च शरीर-इन्द्रिय-प्राण-अन्तःकरणात्मकस्य जीवस्य स्वरूपावस्थानमेव। तदुक्तं – “स्वस्थता स्वरूपादप्रच्युतिरूपा”[82] इति। जीवस्य स्वरूपदर्शनं च वेदान्तशास्त्रात् अन्यत्र कुत्र वा सुदर्शितम्। अतः अस्मिन् शोधप्रबन्धे आत्मशरीरेन्द्रियप्राणान्तःकरणानां स्वरूपं वेदान्तशास्त्रोक्तरीत्या प्रतिपाद्य, योगायुर्वेदशास्त्रयोः तेषां विचाराणां विमर्शः क्रियते।

[1]. कठ.उ.२/६/११

[2]. बृ.उ.२/४/५

[3]. कठ.उ.१/२/१२

[4]. कठ.उ.१/२/२४

[5]. कठ.उ.१/३/१२

[6]. कठ.उ.१/३/११

[7]. कठ.उ.२/६/१०

[8]. बृ.उ.४/४/२३

[9]. याज्ञवल्क्यस्मृतिः १/८

[10]. भ.गी.२/५३

[11]. सू.भा.१/३/३३

[12]. अभ्यासवैराग्याभ्यां तन्निरोधः- यो.सू.१/१२

[13]. मां.का.अद्वैत.भा.३१

[14] गी.भा.६/४०

[15]. भ.गी.६/४१,४२

[16]. प्र.भा.५/२

[17]. भामती (सू.भा.) २/१/३

[18]. सू.भा.१/३/३३

[19]. यो.सू.२/४४

[20]. यो.सू.१/१/६

[21]. सू.भा.२/४/१२

[22]. श्वेत.उ.३/८

[23]. ब्र.सू.२/१/३

[24]. सू.भा.२/१/३

[25]. छां.उ.८/६/४

[26]. मां.का.आगम.भा.१

[27]. आनन्दगिरिः (मां.का.आगम.भा) १

[28]. आनन्दगिरिः (मां.का.आगम.भा) १

[29]. सू.भा.३/२/१०

[30]. छां.उ.४/१७/८

[31]. छां.भा.४/१७/८

[32].. बृ.उ.४/३/१४

[33]. बृ.भा.४/३/१४

[34]. बृ.भा.४/३/१४

[35]. पञ्चपादिका ४

[36]. शास्त्रसिद्धान्त१, पृ २६

[37]. भामती (सू.भा.) २/१/६

[38]. भामती (सू.भा.) ३/२/४०

[39]. भ.गी.१७/८,९,१०

[40]. भ.गी.६/१७

[41]. विवेक.चू.५५

[42]. बृ.भा.४/३/३६

[43]. गी.भा.१३/८

[44]. भ.गी.२/१४

[45]. भ.गी.२/१५

[46]. भ.गी.२/५२

[47]. छां.भा.४/१०/३

[48]. मधसूदनीव्याख्या (गी.भा.) २/५६

[49]. मधसूदनीव्याख्या (गी.भा.) २/५६

[50]. तत्र निजः शारीरदोषसमुत्थः। मानसः पुनरिष्टस्यालाभाच्चानिष्टस्योपजायते। आगन्तुर्भूत-विषवायु-अग्निसंप्रहारादिसमुत्थः – चरक.सूत्र.११/४५

[51]. छां.भा.६/१४/२

[52]. छां.भा.५/९/१

[53]. “देहधारकत्वाद्धातवः” – भाष्यरत्नप्रभा (सू.भा.) ३/१/२

[54]. सू.भा.३/१/२

[55]. गी.भा.२/१०

[56]. प्र.उ.३/६

[57] चरक.सूत्र.१/१५

[58] सुश्रुत.सूत्र.१/२३

[59] बृ.उ.२/४/५

[60] कठ.उ.२/६/११

[61] कठ.उ.१/२/१२

[62] कठ.उ.१/२/२४

[63] याज्ञवल्क्यस्मृतिः १/८

[64] भ.गी.२/५३

[65] सू.भा.१/३/३३

[66] अभ्यासवैराग्याभ्यां तन्निरोधः- यो.सू.१/१२

[67] मां.का.अद्वैत.भा.३१

[68] प्र.भा.५/२

[69] भामती (सू.भा.) २/१/३

[70] सू.भा.१/३/३३

[71] यो.सू.२/४४

[72] यो.सू.१/१/६

[73] सू.भा.२/४/१२

[74] आनन्दगिरिः (मां.का.आगम.भा) १

[75] सू.भा.३/२/१०

[76] छां.उ.४/१७/८

[77] छां.भा.४/१७/८

[78] बृ.उ.४/३/१४

[79] बृ.भा.४/३/१४

[80] पञ्चपादिका ४

[81] शास्त्रसिद्धान्त.१, पृ २६

[82] आनन्दगिरिः (मां.का.आगम.भा)

[/vc_column_text][/vc_column][/vc_row]