हस्तप्रतिशास्त्राध्ययने पाठसमालोचनम्

Dr.Kumuda Rao H A
#207, Sri Krishna garden layout
Gulakamale, Kaggalipura
Bengaluru
E mail ID – kumuda.sirsi@gmail.com
Mob no- 8762161446

सारांशः-

हस्तप्रतिशास्त्रे पाठसमालोचनं महत्त्वं पात्रमावहति।  प्राचीनकाले पुस्तकसङ्ग्रहार्थं मातृकाणां प्रतिनिर्माणक्रमः निरन्तरमभ्यस्तः दरीदृश्यते। तत्र स्वयं प्रतिलिपीक्रियते स्म अथवा लिपिकानां साहाय्येन प्रतयः निर्मीयन्ते स्म। तत्र पाण्डुलिपिषु सञ्चरितकृतसाहित्यस्य (एक-कर्तृकसाहित्यम्) द्विविध-आलोचना ज्ञातव्या। पाठालोचना (textual criticism)  साहित्यिकालोचना (literary criticism and cultural studies) च। सामान्यविमर्शायां स्तरत्रयम्- 1.सङ्कलितसामग्रीव्यवस्थापनम्(Heuristics)  2.पाठपरिष्करणम् (Recensio) 3.दोषसंशोधनम् (Emendation)

पाठालोचनायां द्वितीयं स्तरं भवति उच्चतरविमर्शया प्राचीनतरपाठस्य पुनःपरीक्षणम्।

कुञ्चिशब्दाः – पाठसमालोचनम्, पाठालोचना, साहित्यिकालोचना, सङ्कलितसामग्रीव्यवस्थापनम्, पाठपरिष्करणम्, दोषसंशोधनम्, उच्चतरविमर्शा

हस्तप्रतिशास्त्राध्ययने पाठसमालोचनम्

प्राचीनकाले पुस्तकसङ्ग्रहार्थं मातृकाणां प्रतिनिर्माणक्रमः निरन्तरमभ्यस्तः दरीदृश्यते। तत्र स्वयं प्रतिलिपीक्रियते स्म अथवा लिपिकानां साहाय्येन प्रतयः निर्मीयन्ते स्म। यदा एकस्याः प्रतेः जीर्णता संदृश्यते तदा प्रत्यन्तरनिर्माणं क्रियते स्म, यत्र श्रमः मानवसम्पन्मूलश्चाधिकः अपेक्षितः आसीत्। एवं प्रतिलिपिकरणावसरे बुद्धिपूर्वकाः अबुद्धिपूर्वकाश्च बहवः दोषाः समुत्पद्यन्त एव। अत एव सकृदनेकप्रतीनां निर्माणं कृतञ्चेदपि प्रत्येकं भिन्नं भवति स्म। उत्तरकाले यदा तेषामध्ययनं क्रियते, तदा पाठस्वीकारे, निराकरणे च प्रश्नः उद्भवति। कदाचित्प्रतिलिपिकर्ता लिपिकस्य, सम्पादकस्य इत्युभयस्य कार्यं निर्वहति। एवञ्च वस्तुतः दोषाभावेऽपि सम्पादकः दोषत्वेन परिगणयेत। क्वचित् स्वीयपरिष्कारञ्च कुर्यात्। अन्यप्रतिना तुलनां कृत्वा पाठपरिष्कारञ्च कुर्यात्। एवं कृतपाठपरिष्करणेन सम्पादनेन पाठव्यत्ययेन च समस्याः उद्भवन्ति अद्यत्वे मातृकाणां सम्पादनावसरे।

तत्र पाण्डुलिपिषु सञ्चरितकृतसाहित्यस्य (एक-कर्तृकसाहित्यम्) द्विविध-आलोचना ज्ञातव्या। पाठालोचना (textual criticism)  साहित्यिकालोचना (literary criticism and cultural studies) च। पाण्डुलिपिषु विद्यमानसाहित्यं परम्परया सञ्चार्य आगतमित्यतः पाठसंशोधकस्य काश्चन पूर्वसिद्धताः स्युः। ताश्च- 1. प्राचीनलिपीनाम् (शारदा,ग्रन्थ,नेवारी,नन्दिनागर्यादि) उद्वाचनम्, अभ्यासश्च। 2. पाण्डुलिपिषु सञ्चरितग्रन्थस्थभाषाणां (संस्कृतम्,प्राकृतम्,पालीत्यादि) सम्यक् ज्ञानम्। 3. पाण्डुलिपिषु लिखितग्रन्थेषु विद्यमानविषयाणां सामान्यज्ञानम्।

ततः पाठालोचनायां संशोधनम्, अनुसन्धानमित्यनयोः भेदः ज्ञातव्यः। ‘सम्’ पूर्वक शुध् धातोः निष्पन्नस्य ‘संशोधन’ शब्दस्य यौगिकार्थः भवति शुद्धीकरणम् परिमार्जनं वा। इत्थञ्चायं कृदन्तशब्दः शुद्धीकरणवाचकः। पाण्डुलिपिषु विद्यमान-लिपिकारकृतदोषाणां शुद्धीकरणम्। अस्यैव ‘संशोधन’मिति नाम। यथा-‘वागर्थाविव शम्पृक्तौ वागर्थप्रतिपत्तये’ इत्यत्र दन्त्य ‘स’कारस्य स्थाने तालव्य ‘श’कारः लिखितः, यच्च वाचकस्य अशुद्धोच्चारणया जातः दोषः।

अनुसन्धानं नाम पश्चात् सन्धानम्। मूले किं स्यात्? इत्यन्विष्य उद्घाटनमनुसन्धानमित्युच्यते।  यथा- रघुवंशस्य सम्पादने रघुवंशस्य पाण्डुलिपिषु लिपिकारकृत अशुद्धिसंशोधनम्, सार्थकपाठभेदः/पाठान्तराणामन्वेषणम्, श्लोकानां क्रमज्ञानम्, यदि तत्र व्यत्ययाः दृष्टाः, मूले कविना(प्रस्तुतं कालिदासेन) किं लिखितं स्यादित्यस्य अनुसन्धानं कर्तव्यम्। मूलगामी पाठान्तरस्य निर्णयः एवं प्रक्षेपाणां निष्कासनप्रक्रियायाः अनुसन्धानमिति नाम। तस्यैव पाठालोचना इत्यप्यभिधानम्।

अत्र रघुवंशस्य पाठालोचनामुदाहरणत्वेन पश्यामः। आदौ रघुवंशस्य परम्परागतपाठे दृश्यमानासमानताः अवलोकनीयाः। यथा-

  1. अशुद्धीनामपेक्षया सार्थकपाठान्तराणामाधिक्यं लभ्यते, यत्र एकस्य पदद्वयस्य वा पाठान्तरं विपुलतया मिलति।
  2. पादे श्लोकार्धे वा प्रसृतानि पाठान्तराण्युपलभ्यन्ते।
  3. पाठान्तररूपेण सम्पूर्णश्लोकस्य वैकल्पिकरूपेण प्राप्तिः।
  4. कतिपयश्लोकाः रघुवंशे ये सन्ति, त एव कुमारसम्भवेऽपि दृष्टाः। (अत्र कालिदासस्य कवित्वस्य श्लोकानामावृत्तिः न शोभते)
  5. श्लोकानामुपस्थितिक्रमे वैविध्यं मिलति।
  6. सर्वत्र सर्गेषु प्रक्षेपाः तत्र तत्रोपलभ्यन्ते।
  7. टीकाकारैः विभिन्नपाठपरम्पराः अङ्गीकृताः दृश्यन्ते।
  8. अलङ्कारिकैः उद्धृत रघुवंशस्य श्लोकानां पाठेष्वपि विषमता दृश्यते।
  9. व्यक्तिविवेककारेण महिमभट्टादिनापि अनेके नवीनपाठाः प्रसृताः दृश्यन्ते।

एवं सर्वेषां विषयाणामाकलनं क्रियते पाठालोचनायाम्। एककर्तृकसाहित्ये कृतिसमीक्षायाः पूर्वं पाठसमीक्षा कर्तव्या। यथा रघुवंशस्य पाण्डुलिपिषु 3/46 श्लोके पाठभेदद्वयं दृश्यते।

“तदङ्गमग्र्यं मघवन्महाक्रतोरमुं तुरङ्गं प्रतिमोक्तुमर्हसि।

पथः श्रुतेर्दर्शयितार ईश्वरा मलीमसामाददते न पद्धतिम्॥”

अत्र तृतीयपादे पाठान्तरम्- ‘पथः शुचेर्दर्शयितार ईश्वरा’ इति।

अत्र कालिदासस्य स्वयं लिखितमातृकायाः अलभ्यत्वात् कालिदासेन किं लिखितं स्यादिति निर्णयः क्लेशकरः। ईदृशावसरे विभिन्नपाठान्तरेषु ग्राह्याग्राह्यविवेचनं कथं कर्तव्यमिति जिज्ञासायां समीक्षितपाठसम्पादने अनुसरणीयमंशचतुष्टयं द्रष्टव्यम्-

  1. उत्तमपाण्डुलिप्यां (The best manuscript school) सञ्चरितपाठान्तरं ग्राह्यं मन्यते।
  2. प्राचीनतमपाण्डुलिप्यां (The oldest manuscript school) सञ्चरितपाठान्तरं ग्राह्यं मन्यते। यदि प्राचीनतमपाण्डुलिपिः नोपलभ्यते, प्राचीनटीकाकारेण समादृतपाठः एव प्राचीनतमः मन्यते।
  3. बहुषु पाण्डुलिपिषु (Majority of manuscript school) सञ्चरितपाठः ग्राह्यः। यदि बहूनां पाण्डुलिपीनामभावः, बहुभिः टीकाकारैः समाद्तः पाठः ग्राह्यः भवति।
  4. उपलब्धेषु पाठान्तरेषु यः सर्वोत्तमः सः ग्राह्यः। अर्थात् मधुकरवृत्या कृतपाठसम्पादनम्।

प्रस्तुतं नैके टीकाकाराः ये मल्लिनाथस्य पुरोगामिनः ‘पथः शुचेर्दर्शयितार ईश्वरा’ इति पाठं स्वीकृतवन्तः। तेषु वल्लभदेवः, हेमाद्रिः, अरुणगिरिनाथः, चारित्र्यवर्धनः, नारायणः, जिनसमुद्रगणिः, सुमतिविजयश्चान्तर्भवन्ति। मल्लिनाथः एकाकी स्वीये सञ्जीविन्यां ‘पथः श्रुतेर्दर्शयितार ईश्वरा’ इति पाठं स्वीकरोति। परन्तु मलिनाथः उत्कृष्टः टीकाकारः। तथा हि पाठस्वीकारे द्वन्द्वं समुत्पद्यते। अतः आधुनिकसम्पादकैः कः पाठः स्वीकृतः इति द्रष्टव्यम्। रेवाप्रसाद द्विवेदी महोदयः ‘पथः श्रुतेर्दर्शयितार ईश्वरा’ इति पाठं स्वीकरोति। रघुनाथ नन्दरगीकर्, प्रो.आर्.डि.करमाकर महाभागौ ‘पथः शुचेर्दर्शयितार’ इति पाठं स्वीकुरुतः यच्च नारायण पण्डितेन चाङ्गीकृतम्। अत्र प्रो.आर्.डि.करमाकरः लिखति यत्- नारायणेन स्वीकृतः ‘पथः शुचेर्दर्शयितार’ इति पाठः निस्सन्देहेन शुद्धः पाठः इति। अस्यार्थः शुचेः मार्गः इति। एतच्च मलीमसां पद्धतिम् इत्यनेन सम्यगन्वेति। अलङ्कारशास्त्रानुरोधेन अत्र वैधर्म्यमूलकः अर्थान्तरन्यासः प्रतीतो भवति।

इत्थञ्च अत्र पाठचयने निर्णायकांशद्वयं दृश्यते। टीकाकारेषु काश्मीरस्य वल्लभदेवः प्राचीनः। तेन ‘पथः शुचेर्दर्शयितार’ इति पाठः स्वीकृतः। तेन सह अन्ये षड् टीकाकाराः अपि अमुं पाठमङ्गीकुर्वन्ति।  अतः प्राचीनतमपाठानुगुणं, बहुभिः टीकाकारैः स्वीकृतपाठानुगुणं च ‘पथः शुचेर्दर्शयितार’ इत्येव पाठः स्वीकार्यः इति प्रतिभाति। अस्यार्थः भवति- पवित्रमार्गस्य यः उपदेष्टा, यश्च समर्थः, सः मलिनमार्गे न चलतीत्यर्थः। ईश्वर शब्दार्थः ‘समर्थः’ इत्यपि भवति। मलीमस इति ‘शुचि’शब्दस्य विरोधार्थकपदं इत्यतः तेन सम्यगन्वेतीति कृत्वा श्रुतेः स्थाने स्थानान्तरितम्। अत्र शब्दसाहचर्यनियमस्यापि परिपालनं जायते।

पाठान्तरानुसारी द्वितीयसम्भावना- ‘पथः श्रुतेर्दर्शयितार’ इति। श्रुतिपथस्य प्रदर्शयितारः ईश्वर=इन्द्रादिदेवताः अपवित्रमार्गे न चलन्तीत्यर्थः।

एवं सन्देहजनकावस्थायां कतिचनान्यप्रमाणान्यपि आवश्यकानि भवन्ति। बहुभिः टीकाकारैः स्वीकृतः, शब्दसाहचर्यनियमेन सम्यगन्वेतीति कृत्वा ‘शुचेर्दर्शयितार’ इति पाठः एव उचितः प्रतिभाति। परन्तु मल्लिनाथेन ‘पथः श्रुतेर्दर्शयितार’ इति पाठः स्वीकृतः। एकोऽपि समर्थकः नोपेक्षणीयः। अतोऽत्र कृतिनिष्ठ-आन्तरिकसम्भावना (internal probability)  द्रष्टव्या। अत्रान्तरिक-सम्भावना का? इति चेत्, ‘ईश्वर’ शब्दस्य समर्थः एवम् इन्द्रादि देवताः इत्यर्थद्वयं सम्भवतीति पाठनिर्धारणे काठिन्यमनुभूयते। अत्र तृतीयसर्गस्य पूर्वापरसन्दर्भानुगुणम् ‘ईश्वर’ शब्दस्य इन्द्रादिदेवताः इत्यर्थः एव सुसङ्गतः प्रतिभाति। यतः अत्रैव श्लोके प्रथमार्धे मघवन् इति वेदोक्तशब्दः प्रयुक्तः वर्तते। अत्र रघुः इन्द्रेण साक्षात्सम्भाषणं कुर्वन्नस्ति। अतः सम्भाषणसन्दर्भानुगुणम् ईश्वरशब्दस्य इन्द्रार्थः एव स्वीकार्यः। इन्द्रः गौप्येन अश्वमचोरयत्। नन्दिनीगोःब्शरीरान्निसृतजलात् रघुः लोचने पर्यमार्जयत। तदा तद्दृष्टम्। अतोऽत्र ईश्वरः=इन्द्रः एव स्यात्। कवेः सृजनचेतनायां वैदिकधर्म एव रममाणः दृश्यते। यथा-रघुवंशस्य तृतीयसर्गे शतक्रतु(49), गोत्रभिद्(53), वृत्रहा(61) ईदृशवैदिकाः शब्दाः स्वीकृताः वर्तन्ते। पुरोगामिनि श्लोके (3-45) उक्तम्-

त्रिलोकनाथेन सदा मखद्विषस्त्वया नियम्या ननु दिव्यचक्षुषा।

स चेत्स्वयं कर्मसु धर्मचारिणां त्वमन्तरायो भवसि च्युतो विधिः॥

अत्र वेदविहितकर्म ‘विधि’शब्देनाभिहितः। अस्यैवानुगामिनि वाक्ये ‘पथः श्रुतेर्दर्शयितार’इत्येव सङ्गच्छते इति वक्तव्यम्। एवमान्तरिकसम्भावनाः परामर्श्य ‘पथः श्रुतेर्दर्शयितार’ इत्येव पाठः मौलिकः इति सिद्धं भवति।

अत्र विचारणीयं यत् पाठान्तराणां प्रवेशे कारणानि कानीति। यदि मूले कालिदासेन ‘पथः श्रुतेर्दर्शयितार’ इत्येव लिखितं स्यात्, पाठपरिवर्तनं कथं वा जातं स्यादिति गवेषणीयम्। काव्यशास्त्रीयग्रन्थेषु भामहादिना यः काव्यदोषः निरूपितः तेन प्रभावितैः अज्ञातैः कालिदासानुरागिभिः रघुवंशे यत्र यत्र दोषाः दृष्टाः, दोषोद्धारहेतुना नूतनानि सार्थकपाठान्तराणि उद्भावितानि। प्रस्तुतं ‘पथः श्रुतेर्दर्शयितार’ इति पाठे पारुष्यनामकः दोषः दृश्यते। अत एव पाठान्तरं चिन्तितम्। इत्थञ्च कृतिनिष्ठ-आन्तरिकसम्भावनया ‘पथः श्रुतेर्दर्शयितार’ इति पाठः एव समर्थनीयः।

सामान्यविमर्शायां स्तरत्रयम्- 1.सङ्कलितसामग्रीव्यवस्थापनम्(Heuristics)  2.पाठपरिष्करणम् (Recensio) 3.दोषसंशोधनम् (Emendation)

1.सङ्कलितसामग्रीव्यवस्थापनम्-

आदौ उपलब्धानां सर्वेषां सामग्रीणां व्यवस्थितरीत्या सङ्कलनं कार्यम्। पाठसम्पादनस्यारम्भे New Catalogus Catalogurum अवलोकनीयम्। यत्र ग्रन्थालयेषु मातृकागारे वा सम्पादनार्थं चितायाः मातृकायाः प्रतयः उपलभ्यन्त इति पट्टिका कार्या। यदि समानशीर्षकोपेताः कृतयः उपलभ्यन्ते, तेषामपि अवलोकनं कार्यम्। यथा,   ‘मेघदूत’स्यान्वेषणावसरे ‘मेघसन्देशः’ इति यद्युपलभ्यते तस्याप्यवलोकनमनिवार्यम्। तत्कृतेः व्याख्यानान्यद्युपभ्यन्ते तान्यप्यवलोकनीयम्। अन्यत्र क्वापि प्रकृतसम्पादनार्थं चितकृतेरुल्लेखः उपलब्धश्चेत्तदपि द्रष्टव्यम्। अन्यकृतेः आद्यन्तविषयाः समानाः चेत्तेन तुलना कर्तव्या। एतदर्थं विश्लेषणात्मकग्रन्थसूची द्रष्टव्या। मातृकायाः उपलब्धप्रतयः सर्वाः सङ्ग्राह्याः। ततः सर्वेऽपि मातृकाः सम्यगध्येतव्याः(लेखनवैशिष्ट्यम्, लिपिकारकृतदोषाणां दृष्ट्या)।

2.पाठपरिष्करणम्-

हस्तप्रतिपाठस्य प्रधानमातृकापाठानुगुणं पुना रचनमत्र विधीयते। एतावता सम्पादकेन सामग्रीणां सङ्कलनं कृत्वा, पाठान्तराणां सङ्कलनपत्रं च सिद्धं कृतम्। पाठेषु परस्परसम्बन्धश्च निर्णीतः। इदानीं कः पाठः ग्रन्थकर्त्रा उद्दिष्टः स्यादिति निर्धारणम्। तदेव पाठपरिष्करणम्।

3.दोषसंशोधनम्-

पाठसमालोचनसम्बद्धे शब्दोत्पत्तिविज्ञाने दोषसंशोधनमिदं तृतीयश्रेणीकम्। अनेन ग्रन्थकर्तृलिखितमूलपाठरूपेण ‘परम्परागतपाठः’ यथासम्भवं पुना रचयितुं शक्यः। यदि उपलब्धपाठान्तरेषु कस्याप्यर्थः न सङ्गच्छते, व्याकरणरीत्या असम्बद्धः, प्रकरणरीत्याप्यसङ्गतः, सम्पादकः शुद्धं पाठं सूचयेत्। एवं सूचितदोषसंशोधनं, पाठस्य बाह्य-आन्तरिकसम्भावने पूरयति। पाठसमालोचने प्रणालीद्वयम्- 1. स्वेच्छया पाठनिर्धारणम् (सम्पादितग्रन्थे सम्पादकः स्वेच्छया दोषान् शोधयित्वा पाठनिर्धारणं करोति।) 2.तुलनात्मक-पाठनिर्धारणम् (अन्येषां प्रतीनां मेलनं कृत्वा तोलनेन पाठनिर्धारणम्)

यथासम्भवं मूल(पाठ)रूपेण ग्रन्थस्थपाठानां पुनस्संस्थापनोद्देश्येन पाठनिर्णयविषये कौशलविधानाभ्यामाधृतमानवबुद्धेःव्यापार एव पाठसमालोचनम्।

पाठसमालोचनस्य प्रधानमुद्देश्यम्- हस्तप्रतिस्थानां लेख्यस्थानां वा प्रमाणानां परिशीलनेन व्याख्यानेन च यथापूर्वं स्थितं प्रामाणिकं पाठं प्राप्नुमः, अथवा ग्रन्थकर्तृलिखितानां शब्दानां निकटवर्तिनं पाठं निर्णीतुं शक्यते। स्वहस्तप्रतेः तत्समीपतरस्य वा पाठस्य रचनायाः आधारत्वेन विश्वसनीयानां हस्तप्रतीनां लेख्याधारेणां वा चयनमेव विमर्शात्मकपाठपरिष्करणमिति उच्यते।

 

उच्चतरविमर्शा-

पाठालोचनायां द्वितीयं स्तरं भवति उच्चतरविमर्शया प्राचीनतरपाठस्य पुनःपरीक्षणम्। यतः ग्रन्थकारस्य स्वहस्तलिखितप्रतेरभावात् प्राचीनपाण्डुलिपिषु सञ्चरितपाठेषु उत्तरोत्तरकालेषु प्रतिलिपिकर्तृभिः मौलिकपाठे बहुविधव्यत्ययाः कृताः दृश्यन्ते। ईदृश्व्यत्ययाः यद्यपि सर्वविधग्रन्थेषु द्ष्टाः, अथापि आधिक्येन धार्मिकग्रन्थेषु दृष्टाः। अतः प्राचीनतमपाण्डुलिपेः साहाय्येन निर्मितपाठे सूक्ष्मेक्षिकया प्रक्षिप्तानामंशानां गवेषणं कृत्वा पश्चात्तेषां वारणं च कृत्वा श्रद्धेयपाठानां मौलिकता रक्षणीया। प्रक्षिप्तांशानां अभिज्ञाने आश्रयणीयः उच्चतरसमीक्षायाः मानदण्डः एवं वर्तते-

1.आधारभूतसामग्रीणां – मूलस्रोतस्य विश्लेषणम् (कुतः किं स्वीकृतम् इति)

2.कृतिनिष्ठान्तरिकसम्भावना (Intrinsic probability) अस्ति उत न।

3.मूलकवेः दार्शनिकविचारधारायाः एवं शैल्याः परिपालनं जातमुत न। (Ideological and stylistic contradiction)

4.पूर्वापरसन्दर्भेषु क्व विसङ्गतयः दृष्टाः, तज्जन्यान्तरिकविरोधः अस्ति उत न। (Contradiction with reference to context, internal contradiction)

5.प्रकरणेषु प्रतिपाद्यविषयेषु विषयान्तरस्य प्रवेशः जातः उत न इति (Any digression in the current topic of the poetry-text) । पुनरुक्तयः दृष्टाः उत न (Repetition)।

6.ग्रन्थव्यवस्थायां विसङ्गतिरस्ति उत न (Any contradiction in the formation of a transmitted text)।

अत्रोदाहरणत्वेन रामचरितमानसस्य पाठालोचनं स्वीकुर्मः।

 

  1. आधारभूतसामग्रीणां-मूलस्रोतस्य विश्लेषणम्-

तुलसीदासः स्वयं लिखति रा.च.मा.मङ्गलाचरणावसरे-

नानापुराणनिगमागमसम्मतं यत् रामायणे निगदितं क्वचिदन्यतोऽपि।

स्वान्तःसुखाय तुलसी रघुनाथगाथा भाषानिबन्धमतिमञ्जुलमातनोति॥ इति।

अत्र सः स्पष्टमुल्लिखति यत् रामायणकथा तेन न केवलं वाल्मीकिरामायणेन, अपि तु नानापुराणादिभिः नानास्रोतैः स्वीकृता इति। रामकथायाः स्रोतत्वेन विस्तृतं वाल्मीकिरामायणम्, संक्षिप्तमाध्यात्मरामायणं स्विक्रियते।

 

  1. कृतिनिष्ठान्तरिकसम्भावना अस्ति उत न।

रा.च.मा. विरही रामस्य लक्ष्मणेन सह संवादप्रसङ्गे लिखिताः चैपाई- अरण्यकाण्डे-

नारि सहित सब खग मृग बृन्दा। मानहु मोरि करत हहि निन्दा॥

हमहि देखि मृग निकर पराहीं। मृगी कहहि तुम्ह कह भय नाहीं॥

तुम्ह आनंद करहु मृग जाए। कंचन मृग खोजन ए आए॥

संग लाइ करिनीं करि लेहीं। मानहु मोहि सिखावनु देहीं॥

सास्त्र सुचिन्तित पुनि पुनि देखिअ। भूप सुसेवित बस नहि लेखिअ॥

राखिअ नारि जदपि उर माहीं। जुवति सास्त्र नृपति बस नाहीं॥

देखहु तात बसंत सुहावा। प्रिया हीन मोहि भय उपजावा॥

सीतायाः अपहरणोत्तरं यदा रामलक्ष्मणौ वनमार्गे गच्छतः, सर्वे मृगाः राममाक्षिपन्तीव भासते रामाय। सर्वे वदन्ति यत्-रामः स्वर्णमृगान्वेषयन्नागतः, यद्वयं न। अतः निश्चिन्तया विहरितुं शक्यते। गजवृन्दः रामं कथं स्वस्त्रीः रक्षणीया इति पाठयन्तीव भासते। सन्दर्भेऽस्मिन्, शास्त्रस्य पुनः पुनरध्ययनेनापि मतिभ्रमो जायत एव, एवं राज्ञः सेवा कियद्वा क्रियते सः कस्यापि स्वत्त्वं न भवति; सः स्वार्थमेव लक्षयति; एवमेव स्त्रियै हृदये स्थानं कल्प्यते चेदपि सा भावत्का न भवतीति उच्यमाना एषा चौपाई साङ्गत्यभङ्गं जनयतीव प्रतिभाति। ईदृशान्तरिकसम्भावनाविहीन-चौपाईयाः कर्तृत्वं तुलसीदासस्य नाम्नि आरोपितमेव स्यात्। केनापि लिपिकारेणावश्यं प्रक्षिप्तं स्यादिति कृतिनिष्ठान्तरिकसम्भावनया निर्णीयते।

 

3.मूलकवेः दार्शनिकविचारधारायाः एवं शैल्याः परिपालनं जातमुत न।

रामचरितमानसे उपलभ्यमाना अत्रिऋषिद्वारा क्रियमाणा रामस्य स्तुतिः प्रक्षिप्तं प्रतिभाति। स्तुतिः एवं विद्यते-

नमामि भक्त-वत्सलम्। कृपालु-शील-कोमलम्॥ भजामि ते पदाम्बुजम्। अकामिनां स्व-धाम-दम्॥

निकाम-श्याम-सुन्दरम्। भवाम्बुनाथ-मन्दरम्॥ प्रफुल्ल-कञ्ज-लोचनम्। मदादिदोष-मोचनम्॥

प्रलम्बबाहु-विक्रमम्। प्रभोऽप्रमेय वैभवम्॥ (अत्र प्लुतस्य सन्धिर्न स्यात्)

निषङ्ग-चाप-सायकम्। धरं त्रिलोक-नायकम्॥

दिनेशवंश-मंडनम्। महेशचाप-खण्डनम्॥ मुनीन्द्र-सन्त-रञ्जनम्। सुरारि-वृन्द-भञ्जनम्॥

मनोज-वैरि-वन्दितम्। अजादि-वेद-सेवितम्॥ विशुद्ध-बोध-विग्रहम्। समस्त-दूषणापहम्॥

नमामि इन्दिरा-पतिम्। सुखाकरं सतां गतिम्॥ भजे सशक्ति-सानुजम्। शचीपति-प्रियानुजम्

पठन्ति ये स्तवमिदम्। नरादरेण ते पदम्॥ व्रजन्ति नात्र संशयम्। त्वदीयभक्तिसंयुतम्॥

इति अत्र स्तुतौ पण्डितः तुलसीदासः प्लुतयुक्तपदे सन्धिं कथं वा कुर्यादिति सन्देहो जायते। अग्रे च नमामि इन्दिरापतिम् इति विष्णुवन्दनं करोति। तुलसीदासः रामं त्रिमूर्तिस्वरूपापेक्षया उत्कृष्टपरात्परब्रह्मस्थाने पश्यति। सत्यैवं विष्णुरूपेण नमनमसङ्गतं प्रतिभाति। तदग्रे शचीपतिप्रियानुजम् इति रामं इन्द्रस्य अनुजत्वेन स्वीकृतम्। अत्र तु सन्देहः दृढः जायते यद्राममिन्द्रस्यानुजत्वेन स्वीकारः तुलसीदासस्य विचारधाराविरुद्धम् इति। अन्ततो गत्वा एवं फलश्रुतिलेखनमपि तुलसीदासस्य शैलीविरुद्धं प्रतिभाति।

अपि चास्माकं सन्देहस्य पुष्टीकरणार्थमग्रे अयोध्याकाण्डे इन्द्रस्य कुटिलस्वार्थप्रवृत्तयः दर्शिताः तुलसीदासेन। यथा-

राम-भरतयोर्मेलनावसरे बृहस्पतिना सह इन्द्रस्य संवादः (दोहा-216, चौ-4)

देखि प्रभाउ सुरेशहि सोचू। जगु भल भलेहि पोच कहु पोचू।

गुरु सन कहेउ करिअ प्रभु सोई। रामहि भरतहि भेट न होई॥

(दोहा-217, चौ-1)

वचन सुनत सुरगुरु मुसुकाने। सहसनयन बिनु लोचन जाने॥

मायापति सेवक सन माया। करइत उलटि परइ सुरराया॥ इति।

इन्द्रः बृहस्पतिं प्रार्थयति यत् – महर्षे! राम-भरतयोरद्य मेलनं यथा न स्यात्तथैकमुपायं करोतु। यदि भरतः रामं प्रतिनयति, अस्मत्कार्यं कः करोति?(राक्षसवधम्) इति। तदा सुरगुरुः प्रतिवदति यद्भवान् सहस्राक्षोऽपि अन्धः। रामस्याग्रे यदि कोऽपि युक्तिःक्रियते तन्निष्फलं भवति इति। एवमत्र इन्द्रस्य कुटिलप्रवृत्तिः ‘शचीपतिं प्रियानुजम्’ इत्यनेन विसङ्गतं सिद्धं भवति। अस्यां स्तुतौ भाषादृष्ट्या दोषाः, दार्शनिकदृष्ट्या च दोषाः सन्ति ये तुलसीदासकृतं न स्यात्। अतः इदं प्रक्षिप्तमेव स्यात्। आश्चर्यस्य सङ्गतिस्तु पीयुषटीकायां एते दोषाः न दर्शिताः। अपि तु प्रशंसा कृता वर्तते यत्- द्वैत-अद्वैत-विशिष्टाद्वैत-इति त्रयाणां मतानां समावेशः वर्तते। इन्दिरापति-इत्यनेन द्वैतभावः, सुखाकरं सतां गतिं-इत्यनेनाद्वैतभावः, सशक्तिसानुजं-इत्यनेन विशिष्टाद्वैतभावः ध्वनितः इति। शचीपतिं प्रियानुजम्- शब्दैः वामनावतारनिर्देशः कृतः। अपि च इन्द्रादयः अदित्याः पुत्राः, तयैव वामनावतारोऽपि जातह् इति रामः इन्द्रस्यानुजः इत्युक्तम्। एवं दुराकृष्टः व्याख्यानः कृतो वर्तते। एवं परम्परागतविकृतपाठस्य रक्षणं  ‘स्थितस्य गतिः समर्थनीयः’ इत्युच्यते। पाठालोचकास्तु ‘स्थितस्य गतिः चिन्तनीयः’ इति पाठस्य औचित्यं परामृश्य अनुचितपाठः अग्राह्यः घोषणीयः।

 

4.पूर्वापरसन्दर्भेषु क्व विसङ्गतयः दृष्टाः, तज्जन्यान्तरिकविरोधः अस्ति उत न।

पूर्वापरयोर्विरोधः लङ्काकाण्डे रावणस्योपदेशावसरे दृश्यते। लक्ष्मणेन रावणपुत्रस्य मेघनादस्य वधः कृतः। हनूमता तस्य शरीरं नीत्वा लङ्कायाः द्वारे स्थापितः। पुत्रस्यावसानवार्तां श्रुत्वा झटिति रावणः मूर्छितः। तुलसीदासेन लिखितम्-

सुन बध सुना दसानन जबहीं। मुरछित भअउ परेउ महि तबहीं॥

मंदोदरी रुदन कर भारी। उर ताडन बहु भाति पुकारी॥

नगर लोग सब ब्याकुल सोचा। सकल कहहिं दसकंधर पोचा॥(76-3,4)

रावणः पुत्रमरणवार्ताश्रवणसमनन्तरमेव मूर्छितः सन् भूमौ पतितः। मंदोदरी रुदन्ती आक्रन्दनं कुर्वती विलपति। नागरिकाः सर्वे शोकव्याकुलाः अभवन्। सर्वे रावणं निन्दितुमारभन्। एतावत्पर्यन्तं विद्यमानाः वर्णनाः प्रसङ्गोचिताः प्रतिभान्ति। पश्चात् विद्यमानदोहायाः मौलिकता सन्देहास्पदा विद्यते। रावणस्योपदेशः पूर्वापरयोर्विरुद्धः दृश्यते। यथा-

तब दसकंठ बिबिध बिधि समुझाई सब नारि।

नस्वर रूप  जगत सब देखहु हृदय बिचारि॥(77)

तिन्हहि ग्यान उपदेसा रावन। आपुन मंद कथा सुभ पावन॥

पर उपदेस कुसल बहुतेरे। जे आचरहिं ते नर न घनेरे॥(77-1)

अर्थात् तदा  रावणः सर्वाः स्त्रीः उद्दिश्य उपदिशति यत्- समस्तं जगदिदं नश्वरम् इत्यादि। स्वयं नीचः रावणः एवं पवित्रवचः वदति। अन्येभ्यः उपदेष्टुं सर्वे समर्थाः, परं स्वयमाचरणं क्रियमाणाः अल्पाः इति। उत्तमपाठकायात्र विद्यमानः पूर्वापरयोर्विरोधः स्पष्टः दृश्यते। यतः आदौ रावणः पुत्रमरणवार्तया स्वयं मूर्छितः, झटिति स्वस्त्रीभ्यः उपदेष्टुमारभति। एतद् प्रक्षिप्तांशद्वयं यदि निराक्रियते, रावणः अग्रिमयुद्धार्थं स्वीयसेनामादिशति। एतदेव सङ्गतं भवति। मध्ये विद्यमानः रावणस्योपदेशः अप्रासङ्गिकः पूर्वापरयोर्विरोधजनकः प्रक्षिप्तः एव स्यात्।

 

  1. प्रकरणेषु प्रतिपाद्यविषयेषु विषयान्तरस्य प्रवेशः जातः उत न, पुनरुक्तयः दृष्टाः उत न

सुन्दरकाण्डे विषयान्तरप्रवेशः दृश्यते। समुद्रः क्षुभितस्सन् विप्ररूपं धृत्वा प्रभोः पुत्रतः आविर्भूय वदति यत्-

प्रभु भल कीन्ह मोहि सिख दीन्ही। मरजादा पुनि तुम्हरी कीन्ही॥

ढोल गवार सूद्र पसु नारी। सकल ताडना के अधिकारी॥(5-58-3)

अर्थात्- प्रभुना सम्यगनुष्ठितं यद्मह्यं शिक्षा(दण्डा) प्रदत्ता। किन्तु मर्यादापि भवता एव कृता। ढोल-गवार-शूद्र-पशु-नारी एते सर्वे ताडने अधिकारयः। इत्यस्याः पङ्क्तेः दर्शनेन दलितसमाजे नारीसमाजे च तुलसीदासस्योपरि आक्रोशः समुत्पद्येत। अतः व्याख्याकारैः ताडना शब्दस्य विभिनार्थकत्वं स्वीकृत्य ’शिक्षणप्रदानम्’ इत्यर्थः दर्शितः। परन्तु परामर्शया इदमवगम्यते यत् एषः अप्रासङ्गिकः विषयः। तुलसीदासस्तु नारीणां कृते अपारश्रद्धां अभिव्यनक्ति। अत एव तेन शबरीं ‘भामिनी’ इति सम्बोधयति। अपि च तस्यै मोक्षोऽपि प्रदत्तः। अतोऽयमवश्यं प्रक्षिप्तः एव। विषयान्तरं चात्र स्पष्टं दृश्यते। एतमंशं यदि निराकृत्य अग्रे अनुवर्त्यते, विषयस्य साङ्गत्यं दृश्यते। तदुक्तम्-

प्रभु प्रताप मै जाब सुखाई। उतरिहि कटकु न मोरि बडाई॥

प्रभु आग्या अपेल श्रुति गाई। करौं सो बेगि जो तुम्हहि सोहाई॥

इति समुद्रम्- प्रभो भवान्यथेच्छति तथा कुरु इति सविनयं प्रार्थयत्।

 

6.ग्रन्थव्यवस्थायां विसङ्गतिरस्ति उत न

काव्यस्य बाह्यशिल्पं तु सप्तकाण्डात्मकं वर्तते। तत्र गीताप्रेस एवं डा.माता प्रसाद गुप्तस्य आवृत्तौ 361,326,46,30,60,121,13 इति क्रमेण श्लोकाः सन्ति। काशीसंस्करणानुगुणं 394,327,80,34,64,157,123 श्लोकाः(दोहा) सन्ति। अयोध्याकाण्डस्य ग्रथनशैली सर्वत्र समानं नास्ति। येन वन्दना-सोरठा-दोहा-चौपाई-छन्द-तत्र तुलसी इति नाम्नः सन्निवेशः इत्येवमव्यवस्था जाता। मात्रास्वपि अनियमितता दृष्टा। एवं ये केऽपि दोषाः उपलभ्यन्ते, तेषां कर्तृत्वं तुलसीदासस्य इति कथनं सर्वथा असङ्गतम्। एते सर्वे दोषाः अवश्यं प्रतिलिपिकारैरेव कृताः।

अत्रावश्यं भारतीयवाङ्मयग्रन्थपाठेषु स्थितवैविध्यम् ज्ञातव्यं। तेन सह कथं पाठसञ्चरणं परम्परातः उत्तरपरम्परां प्राप्तमित्यपि द्रष्टव्यम्।

1.दृष्टसाहित्यम्- यदृषिमुनिना साक्षात्कृतम् यच्च मन्त्रसाहित्येषु संरक्षितम्, अकर्तृकरचनात्वेन ज्ञातम्। एतच्च अद्यपर्यन्तं नियन्त्रितरूपेण अक्षुण्णतया सञ्चरितम् जटापाठ-घनपाठादिरूपेण। इदञ्च नियन्त्रितरूपेणागतमितिकृत्वा पाठालोचनक्षेत्रे न प्रविशति।

2.उत्कीर्णसाहित्यम्- ईदृशाः प्रेरककर्तृकरचनाः। राज्ञः अथवा कस्यापि प्रेरणया शिलालेखेषु, मुद्रासु, ताम्रलेखादिषु उट्टङ्कितानि।  ईदृशसाहित्यं यद्यपि मन्त्रिभि अन्यैर्वा नियन्त्रितमथापि कालान्तरे भूकम्प-विद्युत्प्रवाहादि प्रकृतिविकोपेन क्वचिद्भग्नानि, खण्डितानीति पाठालोचना कर्तव्या भवति।

3.प्रोक्तसाहित्यम्- प्रवचनेन उक्तमिति प्रोक्तम्। हरिकथा माध्यमेन कथाकारैः उक्ताः, रामायण-महाभारत-मनुस्मृति-रामचरितमानसादिग्रन्थाः। एते च अनेककर्तृकरचनाः। विभिन्नकाले, विभिन्नदेशेषु बहुभिः मिलित्वा बृहत्-बृहत्तर-बृहत्तमसाहित्यत्वेन विपरिणमयिताः।  एतेषु अनियन्त्रितपाठसञ्चरणं जायत इत्यतः पाठालोचना अवश्यं विधेया।

4.कृतसाहित्यम्- यच्च एककर्तृकरचनाः। अत्र काव्यग्रन्थाः, शास्त्रग्रन्थाः, टीकाः, भाष्यसाहित्यमित्याद्यन्तर्भवन्ति। एतानि गुरुशिष्यपरम्परया मुखतः लेखनरूपेण वा आगतानि अनियन्त्रितपाठसञ्चरणयुक्तानीति पाठालोचनक्षेत्रे अन्तर्भवन्ति।

5.श्रुतसाहित्यम्- एतदुच्चरितसाहित्यम्। गुरुभिः मुखादुपदिष्टानि। शिष्यैः कालान्तरे लिपिबद्धाः कृताः। ईदृशसाम्प्रदायिकाः ग्रन्थाः आदौ नियन्त्रिताः चेदपि कालान्तरे प्रतिलिपिकरणद्वारा अनियन्त्रितसञ्चरणयुक्ताः। अतः एतेषामपि पाठालोचना अवश्यं करणीया भवति।

एवं पाठालोचना हस्तप्रतिशास्त्राध्ययने महत्त्वं स्थानं भजते।

परामृष्टग्रन्थानामावलिः

  1. ग्रन्थसम्पादनशास्त्रम्, एस्.जगन्नाथः, पूर्णप्रज्ञसंशोधनमन्दिरम्, बेङ्गलूरु, 2014
  2. पाण्डुलिपिविज्ञान, डा.सत्येन्द्रः, राजस्थान हिन्दी ग्रन्थ अकाडमी, 2013
  3. भारतीयग्रन्थसम्पादनशास्त्रप्रवेशिनी, (एस्.एम्.कत्रे- अनुवादः) राष्ट्रियसंस्कृतविद्यापीठं, तिरुपतिः, 2002
  4. Introduction to Manuscriptology, R S Shivaganesha Murthy, Sharada Publishing  House, 1996
  5. रामचरितमानस की पाठालोचना, डा.वसन्तकुमार म.भट्टानां व्याख्यानमाला,

(https://youtu.be/ekB-MONkN3M)

  1. www.wikipedia.org