सामान्यतत्वविषये प्लेटोन्यायमतयोः तुलनात्मकम् अध्ययनम्

Shrinidhi pyati
Research-fellow
PPSM-Bengaluru.  

यदा भारतीयन्यायशास्त्रस्य अध्यापनं क्रियते तदा प्लेटोबुधेन अङ्गीकृतं Forms इति तत्वं सामान्य(जाति)तत्वनिरूपणार्थमुपयुञ्जन्ते । प्लेटोबुधेन निरूपितं Forms इति तत्वं तथा न्यायनये निरूपितम् सामान्यतत्वं (जातितत्वं) सामानविषयकमिति बहवो स्वाभापिप्रायं  प्रकटयन्ति । तद्यथा विद्वान् पि रामचन्द्रुडु महाभागः इत्थं वर्णयति ।    ”भारतीयेषु दार्शनिकेषु नैयायिकाः वैषेशिकाः , पूर्वमीमांसका अन्ये च सत्यतावादिनः(Realist)  ते घटपटवृक्षादिव्यक्तिभ्यो भिन्नतया घटाद्यनुगताः घटत्वपटत्ववृक्षत्वादिजातीः अङ्गीकुर्वन्ति । व्यक्तीनां नाशेपि जातयोऽविनाशिन्यः नित्याश्च । जातिः समान्यञ्चेत्यनर्थान्तरम् । मीमांसकाः आकृतिशब्दमपि जातिपर्यायतया अङ्गीकुर्वन्ति । आकृतिर्नाम अवयवसंस्थानविशेषः । सा च जातेः भिन्ना ,तद्वञ्जिका चेति ,मन्यन्ते नैयायिकाः । इयं जातिरेव प्लेटोबुधेन Forms Idea, इति, अन्यैः Universals इत्यादिशब्दैश्च निर्दिश्यते ” इति । परन्तु एतेऽव अग्रे तयोर्मध्ये  विद्यमानं भेदमपि निरूपयन्ति । ”प्लेटोबुधस्य इयं जातिः व्यक्तेः सर्वथा भिन्ना , व्यक्तेः बिम्बभूता , नीरूपाः, केवलं ईश्वरस्य मनसि दिवि वर्तते । नैवमिन्द्रियगोचरा । नैयायिकानां मते पुनः जातिः इन्द्रियग्राह्या । येनेन्द्रियेण यद्र-द्रव्यं गृह्यते तेनेन्द्रियेण तन्निष्ठा जातिः तदभावश्च गृह्यते इतितेषां सिद्धान्तः । अतः Form शब्दस्य अर्थतयास्माभिः रूपं, जातिः , सामान्यं, आकृतिः ,विज्ञानमिति शब्दाः यथायथमस्मिन् प्रकरणे , प्रकरणान्तरेषु चागामिषूपयुज्यन्ते ” । तथापि पश्चात्यदर्शनपरिचायकानां अनेकग्रन्थानाम् अध्ययनेन प्लेटोबुधस्य Form तत्वं तथा नैयायिकानां समान्यतत्वञ्च समानं विषयमेव प्रतिपादयतीति आपाततः बोधः जायते । अतः अहमत्र तयोः सिद्धान्तयोः मध्ये विद्यमानेषु मूलतत्वेषु भेदं प्रतिपाद्य , तौ पुनः भिन्नविषयकौ इति निरूपयितुं प्रयत्नं करोमि । प्लेटोबुधस्य मते न्यायनये च सामान्यतत्वस्य(Form) अङ्गीकारे भिन्नानि कारणानि , विभिन्नानि  फलानि च विद्यन्ते इति प्रतिपादयामि ।

  

         प्लेटोबुधस्य मते सामान्याङ्गीकारणानानि 

प्लेटोबुधस्य संवादग्रन्थेषु सः तत्र तत्र सोक्राटिसेन सामान्यविषये प्रणीतमभिप्रायं प्रकटयति। स पावित्र्यं,धर्यं, सहिष्णुता न्याय्यमित्यादि सामान्यानि निरूपयति । परन्तु तेषां निरूपणावसरे र्कि तेषां स्वरूपमिति प्रश्ने जागृते सति तानि समान्यानि ( Form.Idea) आकृतीनि अथवा सूक्ष्माणि रूपाणि इति निरूपयति । तथैव तानि सामान्यानि कानिचन कार्याणि सम्पादयन्ति इत्यभिप्रैति । परन्तु संशोधकाः इमानि कार्याण्येव प्लेटोबुधेन स्वमते समान्यङ्गीकारविषये प्रदत्तानि कारणानीति विमर्शनं कुर्वन्ति । अनेन प्रदत्तानि कानिचन कारणानि तत्ववादसम्बद्धानि , कानिचान कारणानि प्रमाणसम्बद्धानि च विद्यन्ते। सामान्याङ्गीकारे तत्ववादसम्बद्धं चिन्तनन्तु कार्यकारणभावात्मकं वर्तते । सकलवस्तूनां स्वरूपेणावस्थितेः कारणत्वेन सामान्यमङ्गीकृतमिति सोक्राटिसप्लेटोसंवादेन ज्ञायते । Euthyphro इति संवादग्रन्थे सोक्राटिसः निरूपयिष्यति यत् “स केचन सद्गुणान् ज्ञातुं नेच्छति । परन्तु स तदेकं वस्तु ज्ञातुमिच्छति , येन एते सद्गुणाः सद्गुणा इति कीर्त्यन्ते ,यत् एतत्सर्वेषां मूलकारणं वर्तते “ इति। एतेषां सर्वेषां गुणानां मूलकारणमेकमेव वर्तते इति तस्य अभिप्रायः । सामान्याङ्गीकारे अन्यच्चिन्तननपि सोक्राटिसः निरूपयति । एकस्य वस्तुनः साररूपं लक्षणम् इदं सामान्यम् । जगति पुनः नैके भिन्नाः पदार्थाः सन्ति ये पुनः एतेन सारभूतेन लक्षणेन सम्बद्धा भवन्ति । सोक्राटिसः पुरुषगुणं,स्त्रीगुणं,पशुगुणमिति विभिन्नगुणान् प्रत्येकतया ज्ञातुं नेच्छति, परन्तु सर्वगुणसारभूतं सामान्यगुणं ज्ञातमिच्छति । स विषयमिमं दृष्टान्तमेकं निरूप्य व्याख्यास्यति । बहुविधाः भिन्नजातीयाः मधुकराः विद्यन्ते । जातिभेदे विद्यमानेपि किं ते मृगयितुमिच्छन्ति इति विषयस्तु नैव भिन्नः । मधोः सञ्जीहीर्षणविषये ते सर्वेपि समाना एव । एतादृशमधुसञ्जीहीर्षणत्वमेव मधुकरगतं सामान्यलक्षणं भवति । इदमेव लक्षणं सर्वेषु मधुकरेषु सदृशतां जनयति । इत्थं स सर्ववस्तुषु विद्यमानं लक्षणसामान्यं ज्ञातुमिच्छति । Laches नामके संवादे सोक्राटिसः इत्थं निरूपयति ,” यत् सर्वासु विभिन्नासु धैर्यगुणयुक्तासु क्रियासु सामान्यरूपेण विद्यते अहं तादृशधैर्याख्यगुणस्य सामान्यलक्षणं ज्ञातुमिच्छामि” इति । अनेन सोक्राटिसप्लेटोबुधयोः सामान्याƒरविषये कीदृशं चिन्तनमासीत् ज्ञातुं शक्यते । 

 

 प्लेटोसंवादग्रन्थेषु सामान्याङ्गीकारविषये द्विविधानि ज्ञानोत्पत्तिप्रक्रियासम्बद्धानि कारणान्यपि दृश्यन्ते । तत्रैकं कारणं ज्ञानकारणीभूतं वर्तते । सोक्राटिसो मन्यते   सामान्यमेव सर्ववस्तुषु विद्यमानं भिन्नसर्ववस्तुसाधारणतत्वस्य ज्ञाने कारणं भवति। रिपब्लिक् इति संवादग्रन्थे सोक्राटिसो ग्लुकोन-नामकेन साकं को वा वस्तुतः तत्वशात्रज्ञ इति जिज्ञासां कुर्वन् सामान्यतत्वानां विषये स्वाभिप्रायं प्रकटयति । न्यायः अन्यायः, समीचीनम् , असमीचीनमिति एतानि सर्वाणि तत्वानि सामान्यात्मकानि । एकमपि अनेकवस्तुगतं न्यायतत्वं अन्यायतत्वं वा, समीचीनतत्वं वा असमीचीनतत्वं वा अनेकक्रियापदार्थसम्बद्धेन प्रकटीभूय भिन्नपदार्थरूपेण प्रतिभासते । एतादृशं सामान्यमेव विभिन्नावस्थासु विभिन्नवस्तुषु विद्यमानं साधर्म्यज्ञानं प्रति कारणं भवति । तस्मिन्नेव ग्रन्थे सोक्रटिसः ग्लुकोननामकं स्वशिष्यं प्रति “सौन्दर्यं समीचीनत्वमसमीचीनत्वं वा ,सुन्दरसमीचीनपदार्थेषु विद्यमानःविभिन्नः पदार्थ इति  विभागो नोचितः , परन्तु तेषु पादार्थेषु विद्यमानं एकं तत्वं लक्षीकृत्य तदाधारेण तेषां ज्ञानं सम्पादनीयम् । सोक्राटिसः स्वस्य जिज्ञासायाः सामान्यमेव विषय इति वदति , यस्य सामान्यस्य ज्ञानेन सर्वपदार्थगतसाधर्म्यस्य ज्ञानं भवति  तादृशं सामान्यज्ञानमेव जिज्ञासाविषयो भवेत् इति तस्य अभिप्रायः । स इत्थं वदति , “यदि कदाचित् बहूनि वस्तूनि विद्यन्ते इति ज्ञानं यदा भवति तदा तत्तद्वस्तुगतानां समानधर्मविषये जिज्ञासा कर्तव्या , तदा तानि वस्तूति बहून्यपि तद्धर्माधारेण एक एव इति निगमनं कर्तुं शक्यते” इति । 

              सामान्याङ्गीकारे  द्वितीयन्तु कारणन्तु इदं वर्तते । इदं कारणन्तु ज्ञानसम्बन्धी वर्तते । सामान्यमेव वस्तुतः पदार्थस्वरूपस्य ज्ञाने कारणं भवति । सोक्राटिसो वदति ”अहं साधुकार्याणाम् उदाहरणानि ज्ञातुं नैवेच्छामि ,अपि च र्कि नाम साधुत्वमिति लक्षणज्ञानमिच्छामि , यस्य लक्षणज्ञानेन कार्याणि साधूनि उत असाधूनि इति निर्णयः भवति तस्य लक्षणस्य ज्ञानं प्रप्तुमिच्छामि ।  लक्षणे समन्विते कार्यं साधु असमन्विते कार्यमसाधू  इति तत् लक्षणमुपयुज्य विना संशयं वस्तुस्वरूपं ज्ञातुमिच्छामि” इति । एतादृशसाधुत्वसामान्यज्ञानेन किं स्वरूपं वस्तुतः साधु किं वा असाधु इति ज्ञातुं शक्नुमः । सोक्राटिसः वदति गुणविषयकज्ञानसम्पादनार्थं अस्माभिः सर्वगुणस्थितः एकः सामान्यपदार्थः कः ‌इति ज्ञानं प्राप्तव्यमिति । तदा यदि कश्चित् को नाम नाम गुण इति पृच्छति तदा सामान्यस्य ज्ञानेन स्पष्टतया गुणनिरूपणं कर्तुं शक्नुमः । यतो हि सामान्यग्रहणमेव-वस्तु-स्वरूप-ज्ञानकारणमतिति इति तस्य अभिप्रायः  ।  रिपब्लिक् संवादे सोक्राटिसः सामान्यानङ्गीकारिणं प्रति इत्थं वदति ”सामान्यानङ्गीकर्ता सौन्दर्यं ज्ञातुं न शक्नोति । यत् सामान्यं सकलसुन्दरवस्तुषु समानतया सर्वदा विद्यमानं भवति तत् सौन्दर्यसामान्यं यो जानाति  स एव वस्तुतः सौन्दर्यस्वरूपं ज्ञातुं शक्नोति । अतः सामान्यं विना वस्तुस्वरूपज्ञानं वस्तुतः न भवति । तदर्थं सामान्यमङ्गीकर्तव्यमिति सोक्राटिस-पलेटोबुधयोः मतम् । 

      सामान्यङ्गीकारे अन्यदप्रधानं कारणमपि वर्तते । पर्मनीडीस इति संवादे सामान्याङ्गीकारं विना वग्व्यहारमपि न प्रवर्तते इति निरूपयति । केचन पदार्था सामान्याशं प्राप्य स्वनाम प्राप्नुवन्ति , यथा बृहद्वस्तूनि बृहत्वरूपसामान्यांशं प्राप्य बृहदिति व्यवहारभाजनानि भवन्ति । तथैव साधुपदार्थाः साधुत्वसामान्याशं प्राप्य साधव इति व्यवहारभाजनानि भवन्ति इति सोक्राटिसो वदति । अत्र सामन्यांशप्रापणविषये तु विवादः वर्तते , परन्तु प्रत्येकपदार्थेषु सामान्यं वर्तते तदपि अनेकानुगतं समानमिति अनङ्गीकृत्य विभागं न करोति चेत् तदा स वादसामर्थ्यमेव नाशयति इति तस्य मतम् । सामान्यानि न सन्ति चेत् सविमर्शः वाद एव न शक्यः । रिपब्लिक् ग्रन्थे सोक्राटिसः इत्थं स्वाभिप्रायं प्रकटयति, सामान्यतया तत्वशास्त्रीयपद्धतौ अनेकवस्तुसम्बद्धस्य सामान्यस्य ऊहां कृत्वा ततः तेषां पदार्थानां समानं नाम विधीयते । उत्तमे प्रबन्धे तु भिन्नभिन्नतया विक्षिप्तानां पदार्थानां सामान्याधारेण एकत्रीकरणं , तथैव पुनः सामान्याधारेणैव अवान्तारविभागीकरणमिति विषयः भवेत् । अनया रीत्या एव प्रबन्धकर्ता स्वाभिप्रायं समीचीनतया प्रस्तौतुं  पारयति । सोक्राटिसः स्वयं पदार्थसङ्ग्रहीकरणे तथा विभागीकरणे आसक्तः आसीत् ,अस्याः पद्धतेः अनुसरणेन एव अहं वक्तुं वा चिन्तयितुं वा पारयामि इति सः स्वस्य आसक्तेः कारणमपि  निरूपयति । यः अनेकवस्तुगतं समान्यं ज्ञातुं शक्नोति तम् इश्वर इव मन्यते सोक्राटिसः प्लेटोबुधश्च

तत्विकददृष्ट्या सामान्यविषये सोक्राटिसस्य प्लेटोबुधस्य च मतस्य अभिप्रयः किमिति अग्रे निरूपयामि । बौद्धः प्रत्ययः(Concept) विविधव्यक्तिगतान्  अनेकान् धर्मान् एकत्र समाहरति। अहम् अश्वमेव पशयामि न तु अश्वत्वम्  इति वचः अयुक्तं मन्यते प्लेटोबुधः, यतः मनुष्यगता वा इश्वरगता वा अश्वत्वादिजातिधीः न केवलं भावमात्रम् ,अपि च तासां जातीनां निश्चितं स्वरूपं विद्यते । इश्वरः ताः जातीः प्रत्यक्षतः पश्यति ।  ताः एव नित्याः,अनित्यानां सर्वेषामपि वस्तूनां मूलाः । दृश्यवस्तूष्विव तासु परिणामस्य सम्भावना नास्ति । व्यक्तयः स्वमूलभूतानां जातीनां अपूर्णा प्रतिकृतयः । व्यक्तयः उत्पन्द्यन्तां वा विनश्यन्तु तन्मूलभूताः जातयः पुनः अविनाशिन्यो भवन्ति । मनुष्यः भवति न वा मनुषय्यत्वं तु नित्यम् अविनाशि च । प्रतिकृतिभूतानि अनेकानि वस्तूनि , अनेकाः व्यक्तयः सन्तु नाम, परन्तु नैकवस्तु सम्बद्धाः तेषां बिम्बभूता जातिः एकैव भवति । इत्थं अनन्ताः भिन्नभिन्नाश्च नैके बौद्धाः भावाः जातयो वर्तन्ते । न किमप्यस्ति एतादृशं वस्तु यत् जात्या न सम्बद्धम् । वस्तूनि,सम्बन्धः,क्रियाः,मान्यताः,आसनानि,सादृश्यम् ,गन्धाः,स्वराः,चलनं,सौन्दर्यं,सत्यं,विश्वं, सर्वाण्येतानि जातिसम्बद्धान्येव इति प्लेटोबुधः प्रतिपादयति । प्लेटोबुधस्य सामान्यसम्बद्धः अथवा जातिसम्बद्धः वादः अशंतः तर्कम् ,अशंतः तत्ववादमाश्रित्य प्रवर्तते । अयं कश्चित् बिडालःइति वदामः ,अत्र बिडालशब्दः काञ्चन व्यक्तिं निर्दिशति । परन्तु यदा इति शब्दः प्रयुज्यते तदा सर्वेपि बिडालाः तेन निर्दिश्यन्ते । आकृतिविशेषवन्तः सर्वेपि जन्तवः तेन अभिधीयन्ते । अस्य शब्दस्य अयं बिडालः इति वा स बिडाल इति वा नार्थः,परन्तु बिडालत्वजातिमान् इत्यर्थः । अनेन अभिधीयमानः बिडालः न कस्मिश्चित् काले जातः,न वा कस्मिश्चित् काले विनङ्क्षति । अयं न केनचित् देशेन कालेन वा सम्बद्धः । अतः नित्यः । भषायाः प्रयोगे एतादृशी जातिः अवश्यमङ्गीकर्तव्या । अयम् आकृतिसिद्धान्तगतः तार्किकः पक्षः । अत्र तत्ववादांशः भिन्नः वर्तते । स तु इत्थं निरूपयितुं शक्यते । तत्ववादांशस्तु  बिडालशब्दः कञ्चनबौद्धप्रत्यरूपं इश्वरेण सृष्टं बिडालं (Ideal Cat ) निर्दिशति । लोके बिडालव्यक्तयः अस्य बिडालस्य स्वरूपं अपूर्णतया एव ग्रह्णन्ति । अतः ते बिडालाः आभासमात्रम् । इश्वरीयभावरूपबिडाल एव सत्यः । इत्थं रस्सेलः प्लेटोबुधाङ्गीकृतस्य रूपस्य अथवा जातेः स्वरूपं विवृणोति । विविधवस्तुबिम्बभूताः बौद्धिकाः जातयः असङ्ख्याका अपि नियमबद्धा एव वर्तन्ते । ता एव नियमबद्धस्य विश्वस्य मूलाः विद्यन्ते । परस्पसम्बद्धाः एताः एकरूपतां सम्पादयन्ति । हेतुबद्धया नियतया च रीत्या प्रवर्तमानाः एताः शिवाख्यायाः(The idea of good )अत्युत्तमायाः जातेः वशं भूत्वा प्रवर्तन्ते  । शिवाख्यया सर्वोत्तमायाः जातेः परा न काचित् जातिरस्ति । यथार्थसत्यं यथार्थशिवञ्च अभिन्नमेव । इदं शिवमेव विश्वस्य परमं प्रयोजनम् । अतः अनेकत्वं एकतायाम् अन्तर्भवति । 

          हेतुबद्धानां , तर्कसम्मतानां जातीनाम् अथवा सामान्यानां नियता काचित् प्रक्रिया एव जगत् इत्यभिप्रैति प्लेटोबुधः । एवं विश्वमिदं एकेन प्रयोजनेन शिवाख्यया जात्या एव प्रवर्तते । शिवजात्याख्यं तत्वं इन्द्रियाणां साहाय्येन ज्ञातुं नैव शक्यते , यतः तानि शिवस्य अपूर्णम् अशाश्वतं च प्रतिबिम्बमेव ग्रह्णन्ति । पूर्णं सर्वमूलभूतञ्च शिवं दृष्टुं यानि न पारयन्ति । अतः तत्वचिन्ता एव तर्कस्य साहाय्येन विश्वान्तर्गतां नियमबद्धतां तत्वस्य एकताञ्च ज्ञापयितुं शक्नोति।  

  

 न्यायनये सामान्याङ्गीकारे कारणानि

 इदानीं न्यायवैशेषिकमते सामान्याङ्गीकारे विद्यमानानि कारणानि जानीमः ।  सामान्यमिति पदं अनेकपदार्थानुगतं नित्यं वस्तु सूचयितुं उपयुक्तम् । अस्यैव सामान्यस्य युनिवर्सल्स् (Universals) इति अनुवादः क्रियते । भारतीयदर्शनेषु सामान्यस्वरूपे, सामान्यस्य अस्तित्वे विवादा विद्यन्ते, परन्तु युनिवर्सल्स् इति ये ये कथिताः तेषां सर्वेषां निरूपणे सामान्यमिति प्रयोगः एव क्रियते । न्यायनये  सामान्यस्य जातिः ,उपाधिरिति द्विधा विभागः कृतः । स्वाभाविकं सामान्यं जातिरिति कथ्यते यथा गोत्वं , धटत्वमित्यायः । अस्वाभाविकं सामान्यं जातिरिति कथ्यते यथा पितृत्वं, पाचकत्वमित्यादयः । उदयनाचार्यस्य किरणवलीग्रन्थे निरूपितेन जातिबाधकसङ्ग्रहेण जात्याभासाः,तथा वस्तुतो जातयः के इति ज्ञातुं शक्नुमः । सामान्यविषये अतिप्राचीनं निरूपणं काणादसूत्रेषु दृश्यते । प्रथमाध्यायस्य द्वितियाह्निके साधर्म्यवैधर्म्यं सामान्यानामाधारेण निरूपयति । यथा अस्तित्वं सवेषु पदार्थेषु विद्यते । तदस्तित्वमेकं सामान्यम् । द्रव्ये इदं द्रव्यं इदं द्रव्यमिति व्यवहारः वर्तते इति द्रव्येषु द्रव्यत्वरूपं सामान्यं , न गुणकर्मादिषु । तथैव गुणकर्मादिषु गुणत्वकर्मत्वादीनि विद्यन्ते । कणादमते सामान्याङ्गीकारे बीजं भौतिकं तत्वं वर्तते । प्लेटोवत् कणादमतेपि सामान्यं वस्तूनां मूलं वर्तते । सामान्याधारेण जगति वस्तूनि कथं परस्परं भिन्नानि इति प्रतिपादयति । प्लेटोमते इव अत्रापि सामन्यानि व्यक्तिभिः भिन्नानि भवन्ति । परन्तु अन्यतमस्य ज्ञानं विना अन्यतमस्य ज्ञानं  भवति । यथा गोत्वज्ञानं विना गोज्ञानं न भवति तथैव गोज्ञानं विना गोत्वज्ञानं न भवति । परन्तु अयोगोलके वह्नेः तथा अयःपिण्डस्य ज्ञानं एकदैव भवति तथापि अयगोलकं वह्निः च भिन एव । अथ च प्लेटोबुधस्य युनिवर्सल्स् इव कणादमते सामान्यानां स्वरूपं व्यक्तिभिः भिन्नं वर्तते इति ज्ञातव्यम् । प्लेटोमते तावत् युनिवर्‍सल्स अङ्गीकारे द्वितीयं कारणन्तु  तत्तत्वं सर्वेषां पदार्थानाम् अस्तित्वे कारणमिति पूर्वं ज्ञातम् । न्यायनये  सामान्यानि पदार्थरूपेण अङ्गीकृतानि । तानि द्रव्यगुणकर्मसु विद्यन्ते ।  परन्तु  प्लेटोमते इव सामान्यानि वस्तूनां साररूपाणि इति नाङ्गीकृतानि , अथ च वस्तुषु  गुणक्रियादिवत् सामान्यान्यपि विद्यन्ते इत्यङ्गीकृतम् । यस्मिन् द्रव्यगुणकर्मादयो विद्यन्ते तस्मिन् सामान्यं विद्यते एव ।  तथा च  वस्तूनामस्तित्वे आवश्यकांशरूपेण सामान्यस्य गुणक्रियादिनामिव प्राधान्यं , न पुनः ततोप्यधिकतरं प्राधान्यं प्लेटोमते इव अङ्गीकृतमिति ज्ञातव्यम् । 

  कणादमतरीत्या सामान्यानि ज्ञानकारणरूपेणापि अङ्गीकृतानि । कणादसूत्रेषु संशयलक्षणनिरूपणसमये “सामान्यप्रत्यक्षात् विशेषप्रत्यक्षात् विशेषस्मृतेश्च संशयः“ इति सूत्रे सामान्यं विना संशयज्ञानमेव न भवतीति निरूपितम् । कदाचित् दूरे अस्पष्टतया कञ्चन वस्तु पश्यति , तस्मिन् ऊर्ध्वतां   दृष्टवा , एतां ऊर्ध्वतां पुरुषे तथा स्थाणौ दृष्टं स्मृत्वा अयं स्थाणुर्वा पुरुषो वा इति  संशयं प्राप्नोति । अत्र संशायाविर्भावे सामान्यमपि अन्यतमं कारणमिति कणादमतसिद्धान्तः । न्यायमतेपि पञ्चविधसंशयकारणानि निरूपितानि वर्तन्ते । तत्रापि समानधर्मावलम्बेन एव संशयजनकत्वं निरूपयन्ति । अपि च न्यायमतानुसारेण सामान्यस्य ज्ञानं प्रत्यक्षेणैव भवति । यः पदार्थः येन इन्द्रियेण ग्रह्यते तन्निष्ठा जातिरपि तदिन्द्रियग्राह्या इति नियमः नैयायिकैः अभ्युपगतम् । तथा घटः चक्षुषा ग्रह्यते तन्निष्ठा घटत्वजातिरपि चक्षुरिन्द्रयेणैव ग्रह्यते ।

प्लेटो मते तु युनिवर्सल्-ज्ञानं विना, न्यायः सौन्दर्यं,सद्गुणः इत्येतेषां ज्ञानं न भवति , परन्तु न्यायनये तु यस्य कस्य मृदादिरूपस्यापि पदार्थस्य ज्ञानार्थं सामान्यं आवश्यकमिति अङ्गीकुर्वन्ति  । न्यायदर्शने प्रत्यक्षस्य यथाथज्ञानजनकत्वं अङ्गीकृतं वर्तते । इन्द्रियार्थसन्निकर्षजन्यं ज्ञानं प्रत्यक्षमिति प्रत्यक्षलक्षणम् । षडिवधाः सन्निकर्षाः विद्यन्ते । तत्र तृतीयो सन्निकर्षः चक्षुस्संयुक्त-समावाय इति । यथा घटत्वरूपसामान्यम् अनेन सन्निकर्षेण प्रत्यक्षविषयो भवति । चक्षुस्संयुक्तः-घटः,तत्र समवायेन घटत्वं वर्तते । तथा च घटत्वस्य प्रत्यक्षम् इन्द्रियेणैव भवतीति न्यायसिद्धान्तः। तथैव न्यायमते प्रत्यक्षः द्विविधः लौकिकः अलौकिकश्चेति । तत्र अलौकिकप्रत्यक्षः पुनः त्रिविधः सामान्यलक्षणा ,ज्ञानलक्षणा, योगजधर्म-लक्षणा इति । तत्र सामान्यलक्षणसन्निकर्षेण ज्ञानावाप्त्यर्थं सामान्यज्ञानमावश्यकम् । सामान्यलक्षणपदस्य व्युत्पत्तिः सामान्यं जातिः,घटादिव्यक्तिश्च  तदेव लक्षणं स्वरूपात्मा यस्य इति व्युत्पत्या जात्यात्मको व्यक्तात्मकश्च सन्निकर्षः परिचीयते । सामान्यलक्षणसन्निकर्षेण व्यक्तिनिष्टजातिग्रहणेन सर्वासां व्यक्तीनां ग्रहो भवति । जातेः व्यक्तिसापेक्षत्वेन व्यक्तिग्रहे जातेरपि ग्रहो भवति । जातिग्रहश्च सर्वासां व्यक्तीनां ग्राहको भवति । इदमेव वैशिष्ट्यं सामान्यलक्षणायाः। यद्यपि एककालावच्छेदेन सर्वासां धूमव्यक्तीनाम् इन्द्रियाणां सन्निकर्षाभावात् प्रत्यक्षात्मकं ज्ञानं न सम्भवति । तथापि धूमव्यक्तिवृत्ति-सामान्यस्य सन्निकर्षात् सकलधूमव्यक्तीनां ज्ञानं सम्भवति । अत एव महानसीय-धूमव्यक्तौ महानसीयवह्नेः साहचर्यज्ञाने सति सामान्यलक्षणसन्निकर्षेण सर्वासु धूमव्यक्तिषु व्याप्तिग्रहो भवति । अत एव पर्वतीयधूमज्ञानेनापि व्याप्तेः स्मरणं भवति । एवमेव एकस्याः महानसीयव्यक्तेः  इन्द्रियसन्निकर्षेण धूमव्यक्तौ साहचर्यज्ञाने सति वह्निवृत्तिवह्नित्वसामान्यज्ञाने सार्वासां वह्निव्यक्तीनां साहचर्य-ज्ञानं सम्भवति । इन्द्रियसन्निकृष्ट-वह्निव्यक्तिवह्नित्वेन सकलवह्नीनां सामान्य-लक्षणसन्निकर्षेण प्रतिबोधः भवति । सामान्यलक्षणासनिन्निकर्षस्य अस्वीकारे सकलवह्निव्यक्तीनां सकलधूमव्यक्तिषु साहचर्यज्ञानं न सम्भवति । अतः सामान्यलक्षणासन्निकर्षः न्यायनये अभिमतः । 

तथा च सामान्याङ्गीकारं विना जगतः सामान्यविशेषज्ञानमपि प्राप्तु नं शक्यते । प्लेटोमते तु सामान्यज्ञानं अनेकानुगतमपि एकव्यक्तिनिष्ठस्य सामान्यस्य ज्ञानं प्राप्तुं शक्यते । परन्तु न्यायनये एकव्यक्तौ जार्ति नाङ्गीकुर्वन्ति । अत एव तर्कसङ्ग्रहे सामान्यलक्षणं नित्यमेकम् अनेकानुगतं सामान्यमिति निरूपितम् । सामान्यं जातिः इहाभिप्रेता । इयं हि जातिः एकाकारप्रतीत्या सिध्यति । अनेकेषु घटेषु अयं घट,अयमपि घट इति अनुगतप्रतीत्या घटत्वजातिः सिद्ध्यति । एवं सर्वेषु पटेषु पटत्वं,,आत्मसु आत्मत्वं, मनस्सु  मनस्त्वं जातिः भवति । क्वचित्तु तादृशजातिस्वीकारे किञ्चित् बाधकं भवति । यथा आकाशे विद्यमानम् आकाशत्वम् । अस्य हि आश्रयः एक एव । अतः एकाकारप्रतीतिः नैव सम्भवति । अतः आकाशे सिद्धमापि आकाशत्वं न जातिः । एवं स्थिते नैयायिकाः तस्य स्वरूपनिर्णयाय यतन्ते । घटत्वपटत्वादिनां हि जातीनां र्कि स्वरूपमिति पृष्टे, घटत्वमखणडो धर्मः जातिरूपः , पटत्वमखण्डा जातिः इति उच्यते । यस्य तु आकाशत्वस्य नैवंविधता, तस्य अखण्डत्वाभावे सखण्डता भवति । किमिदं सखण्डत्वमिति प्रश्नः समुदेति । सखण्डत्वं नाम नानापदार्थघटितत्वम् । यथा आकाशे विद्यमानम् आकाशत्वं शब्दसमवायिकारणत्वम् । अत्र च आकाशत्वपरिष्कारे शब्दः प्रविष्टः ,तथा समवायिकारणत्वञ्च । तथा च येषां धर्माणां बाधकवशात् जातिवर्गात् बहिर्भावो भवति ,परन्तु किञ्चित् निर्वचनं स्वरूपलक्षणं वा येषां कर्तुं शक्यते ते सखण्डोपाधय इति कथ्यन्ते । शब्दसमवायिकारणत्वं हि तस्य स्वस्वरूपलक्षणम् । पृथिव्यादिचतुष्टयवर्ति भूतत्वमपि सखण्डोपाधिः। पृथिवी भूतं,जलं भुतमिति अनुगतप्रतीतिः सत्वेपि साङ्कर्यदोषसद्भावात् तत् भूतत्वं जातिवर्गात् भ्रष्टम् । अतः तत्परिष्कृतम् । तस्य स्वरूपलक्षणं हि बहिरिन्द्रिय-ग्राह्यविशेषगुणवत्वमिति । यत्र हि भूतमिति प्रत्ययः तत्रावश्यं कश्चित् बहिरिन्द्रियग्राह्यविशेषगुणः भवेत् । अतः बहिरिन्द्रयग्राह्यविशेषगुणवत्वमेव भूतत्वतस्य स्वरूपलक्षणं कृतम् । एते सखण्डोपाधयः सामान्यस्य अन्यतमप्रकाराः भवन्ति।

 परन्तु एतेषु सामान्यस्य लक्षणस्य समन्वयासम्भवात् तेषां सामान्यमिति व्यवहार न सम्भवति । अतः तेषां सखण्डोपाधयः इति संज्ञा भवति । इतश्च प्रतियोगित्व-अवच्छेदकत्व-आधारत्वादयः तत्र तत्र अनुभवसाक्षिकाः पदार्थाः । एते न जातिरूपाः । नापि आकाशवत् निर्वक्तुं शक्याः । अतः एतेषां दीधित्यादिषु ग्रन्थेषु स्वरूपसम्बन्धविशेषः इति व्यवहारः दृश्यते । एते एव पदार्थाः ससम्बन्धिकाः,साकाङ्क्षाः इति निरूप्यन्ते विद्यार्थिनां बोधनसमये। तथा च प्रथमः जातिरिति प्रकारः । द्वितीयः सखणडोपाधिः । तृतीयस्तु स्वरूपसम्बन्धरूपः विशेषप्रकारः । अत्र तृतीये एव प्रकारे सर्वे ससम्बन्धिकाः पदार्थाः अन्तर्भवन्ति । एवंविधाः अपि निराकाङ्क्षाः पदार्थाः केचन शास्त्रे प्रसिद्धाः सन्ति । यथा समवायत्वम् । इयं न जातिः, स्वरूपलक्षणस्य अभावात्  नापि सखण्डोपाधिः । नापि तृतीयप्रकारे अन्तर्भावः । ससम्बन्धिकत्वाभावात् । अतः एतेषां चतुर्थः विभागः कर्तव्यः भवति । अयञ्च अखण्डोपाधिरिति कथ्यते । तथा च जातिः, सखणडोपाधिः,स्वरूपसम्बन्धविशेषः,अखण्डोपाधिरिति चतुर्विधानि सामान्यानि न्यायनये निरूपितानि । वस्तुतः समानानां भावः-धर्मः, सामान्यमिति व्युत्पत्या वस्तुतः आलोच्यमाने आकाशत्वं,समवायत्वं वा नैव सामान्यं भवितुमर्हति । एकमात्रवृत्तित्वात् । तथापि द्रव्यादिपदार्थेषु षट्सु अनन्तर्भूतानामेतेषां किञ्चिन्निष्ठत्वमादाय सामान्यवर्गानुप्रवेशः यथासम्भवं लक्षणादिकरणमिति ध्येयम् । 

     न्यायमते सामान्यङ्गीकारेविषये अन्यदपि तात्विकं कार्यकारणभावसम्बद्धं कारणं विद्यते । बौद्धाः तु  दृश्यमानानां पदार्थानां ज्ञानेन वस्तुनोः मध्ये विद्यमानं कार्यकारणभावं ज्ञातुं नैव शक्नुमः, कदाचित् पूर्वापर्यभावः ज्ञातुं शक्यः, परन्तु वह्निधूमौ कार्यकारणभावरूपेण सम्बद्धौ इति कार्यकारणभावज्ञानं तु न जायते इति वदन्ति । परन्तु नैयायिका इदं नाङ्गीकुर्वन्ति । यतः कार्यकारणभावववत्वं तु  न वस्तुनोः मध्ये विद्यते , अपि च वस्तुगतजात्योर्मध्ये विद्यते । न केवलं कयोश्चनवह्निधूमयोः मध्ये साहचर्यं विद्यते ,अपि तद्गतजात्यो: सामान्यलक्षणा प्रत्यासत्या ग्रहणेन सकलधूमवह्निव्यक्तिषु साहचर्यज्ञानं भवति । अतः अनयोर्मध्ये कार्यकारणभावोपि  वर्तते । कारणत्वं नाम अनन्यथासिद्धकार्यनियतपूर्ववृत्तित्वम । तथा च यस्मिन् पदार्थे यं पदार्थं प्रति एतादृशं कारणत्वसामान्यं वर्तते  तयोर्मध्ये कार्यकारणभावः सिद्ध्यति । अन्यथा कार्यकारणभावः नास्तीति निर्धारणं कर्तुं शक्यते । अतः सामान्याङ्गीकारेण नैयायिकानां कार्यकारणभावोपि सुस्थो भवति । अन्यथा सर्वेपि पदार्थाः सर्वपदार्थान् प्रति कारणानि भवेयुः इत्यापत्तिः अपतेत ।

  न्यायमते सामान्याङ्गीकारे अन्यदपि तात्विकं प्रमेयसम्बद्धं कारणं विद्यते । न्यायमते तु व्यक्ताकृतिजातयस्तु पदार्था इत्यङ्गीकुर्वन्ति । तथा च पदस्य जात्याकृतिविशिष्टव्यक्तौ शक्तिमङ्गीकुर्वन्ति नैयायिकाः । विषयेस्मिन् नैयायिकमतसारः अग्रे निरूपप्यते । गौरिति शब्दस्य क पदार्थः इति प्रश्नस्य समाधानं न्यायदर्शने न्यायभाष्ये कृतम् । “पदेन अर्थसम्प्रत्ययः इति प्रयोजनम् ,नामपदञ्चाधिकृत्य परीक्षा ,गौरिति पदं खलु इदमुदाहरणम् ,तदर्थे व्यक्ताकृतिजातिन्निधावुपचारात् संशयः “ इति । अर्थात् गौरिति-उच्यमाने सति त्रयोप्यर्थाः जात्याकृतिव्यक्तिरूपाः समुदिता एव सन्निहिता भवन्ति । तत्र एषु सर्वेषु कस्तावत् गोपदार्थ इति न ज्ञायते इति संशयः । तत्र प्रथमं व्यक्तिदर्शनात् व्यक्तवेव शाब्दबोधाŠ व्यक्तिः पदार्थः इति वदन्ति । या शब्दसमूहत्यागपरिग्रह सङख्यावृद्ध्युपचयवर्णसमासानुबन्धानां व्यक्तावुपचाताद्व्यक्तिः इति । अत्र  भाष्यकाराणामयमाशयः व्यक्तिः पदार्थः। या गास्तिष्टति सा खादति इत्यादौ न जातेः प्रतीतिरपितु व्यक्तेः प्रतीतिः । किञ्च गां ददाति इत्यत्र व्यक्तेरेव दानं ,न तु समूहस्य जातेर्वा दानम् । ब्राह्मणस्य गौरित्यत्रापि च व्यक्तेरेव प्रतीतिः । गोशब्दे सङ्ख्यान्वयेपि व्यक्तिरेव पदार्थ इति ज्ञायते यथा दश गावःर्विशतिर्गाव इत्यादि । एवं शुक्ला गौः कपिला गौरितदयादौ वर्णस्य ,गौरवर्द्धत इत्यादौ वृद्धेः,गोहितं,गोसुखमित्यादौ समासस्य च प्रतीतिःव्यक्तावेव भवति । 

  किञ्च सरूपप्रजनसन्तानो गौः गाः जनयतीति तदयत्पत्तिधर्मत्वात् द्रव्ये एव पदार्थता युक्ता न जातौ । द्रव्यमेव व्यक्तिरिति। एवं सिद्धान्तितं व्यक्तिपदार्थं प्रतिषेधयति सूत्राकारः न तदवस्थानात् इति । अर्थाद् अव्यक्तः पदार्थः न सम्भवति , अनवस्थानात् ,अर्थात् या शब्दादिभिः यः विशिष्यते सः गोपदार्थः। न च अविशिष्टं द्रव्यमात्रम् अभिधीयते अपि च जातिविशिष्टम् तस्मात्  व्यक्तिः न पदार्थः । एवं सति यदि व्यक्तिः न पदार्थश्चेत् कथं व्यक्तौ उपचारः‌इति संशयस्य सूत्रकारः सहचरणस्थानतादर्थ्यवृत्तमानधारणसामीप्ययोगसाधनाधिपत्येभ्यो ब्राह्मणमञ्चकटराज-सक्थुचन्दनगङ्गाशाटकान्नपुरुषेष्वतद्भावेपि तदुपचारः इति।    अयमाशयः -अतच्छब्दस्यापि तेन शब्देन अभिधानम् भवति । यथा यष्टिकां भोजयेत् इत्यनेन यष्टिकासहिचरितो व्यकितरभिधीयते । एवं मञ्चाः क्रोशन्ति इत्यादौ स्थानतादर्थ्यादिभिः अन्यदभिदीयते । तत्रायं सहचरणाद्योगाद्वा व्यक्तौ जातिशब्दः प्रयुज्यते इति भाष्याशयः । एवं व्यक्तिमात्रस्य पदार्थत्वनिषेधे आकृतिः  पर्दार्थः इति आक्षिपति -आकृतिस्तदपेक्षत्वात् सत्वव्यस्थानसिद्धेः इति । अर्थात् आकृतिः-पदार्थः, यतः सत्वावयवानां तदवयवायानाञ्च नियतः व्यूहः आकृतिः । तस्यां ग्रह्यमाणायां सत्वव्यस्थानं सिद्ध्यति अयं गौः , अयम् अश्वःइति । एवं यस्य ग्रहणात् सत्वव्यवस्थानं सिद्ध्यति तं शब्दः अभिधातुमर्हति ,सोस्य अर्थः इति तद्भाष्यम् । तच्चाकृतिः न पदार्थः। यतः यस्य जात्या योगः तत्र जातिविशिष्टमभिधीयते गौरिति । अवयवसंस्थानस्य तु जात्या न योगः अपि नियतावयवसमूहस्य द्रव्यस्य । अतश्च नाकृतिः पदार्थः । 

    एवं व्यक्याकृत्योः निषेधात् जातिरेव पदार्थः , यतःव्यक्त्याकृतियुक्तेपि गां प्रोक्षयेत्यादिना मृद्गवके कार्यस्य अदर्शनं भवति , जातियुक्ते एव तत्र दर्शनं भवति । यदभावात् तत्र असम्प्रत्ययः सः पदार्थः एवं जातिः पदार्थः । तदपि न यतः जाते अभिव्यक्तिस्तु आकृतिव्यक्तिद्वारैव भवति । आकृतौ व्यक्तौ च ग्रहणाभवे शुद्धं जातिमात्रं न ग्रह्यते । अतस्तन्न यथा चोक्तम् –

   नाकृतिव्यक्त्यपेक्षत्वात् जात्यभिव्यक्तेः इति एवं प्रत्येकत्वस्वीकारे विना पदार्थेन पदं भवितुमशक्यम् अतः तत्र सिद्धान्तयति -व्यक्त्याकृतिजातयस्तु पदार्थाः। व्यवहारे पुनः क्वचित् व्यक्तिः प्रधानम् अन्यच्च गुणभूतम् यथा गामानयेत्यादौ भेदविवाक्षायाम् । यदा पुनः भेदः विवक्षितः तदा जातिः प्रधानं व्यक्त्त्याकृती च गौणे भवतः । विषयेस्मिन् सारमुद्धृतम् –

   व्यक्तिर्गुणविशेषाश्रयो मूर्तिः,आकृतिर्जातिलिङ्गाख्या समानप्रसवात्मिका जातिः इति ।  एवञ्च व्यक्त्याकृतिजातयः एकीभूय पदार्थःतथा च केषुचित् स्थलेषु तयोः व्यक्तिजात्योः गुणप्रधानभावः सिद्ध्यति । इति न्यायनये गुणप्रधानभावेन जातिरपि पदार्थः भवितुमर्हति । तथा च अयं निष्कर्षः। सत्वप्रधानानि नामानि इति निरुक्तोक्त्या नामार्थे सत्वस्य द्रव्यस्य प्राधान्यम् । एवञ्च द्रव्यप्राधान्येन सङ्केतग्रहाच्च प्रथमं व्यक्त्यर्थभानमेव भवति अतः व्यक्तेः नामार्थवत्वमेव सिद्धमेव । परं मीमांसकाः व्यक्तिं पदार्थत्वेन स्वीकुर्वन्ति । ते हि आकृतिं जातिमेव पदार्थत्वेनाङ्गीकुर्वन्ति,व्यक्तिप्रतीतिस्तु लक्षणया भवति । येन विना यदुपपन्नं तत्तेन आक्षिप्यते इति नियमात् । एवं व्यक्तिबोधसम्भवेपि  जात्यादेः लिङ्गसङ्ख्यादिप्रतीतिस्तु असम्भवमेव । तेषाम् अनुपापदकत्वाभावात् अतः तेषां पदार्थत्वकल्पनमावश्यकम् । किञ्च नैयायिकमतेपि दोषग्रहणं विद्यते एव । ते हि जात्याकृतिव्यक्तयः पदार्थः इति गौतमसूत्रमनुसृत्य जातिमाकृर्ति व्यक्तिञ्च पदार्थत्वेन स्वीकुर्वन्ति । तत्राप्युक्तदोषस्य तादवस्थ्यात् नाङ्गीकर्तव्य एष सिद्धान्तः । किञ्च मिमांसकमतं जातिदार्थं खङ्डयन् न्यायासिद्धान्मुक्तावलीकाराः व्यक्तौ शर्क्तिविना व्यक्तिभानानुपपत्तेः । न च व्यक्तौ लक्षणा , अनुपपत्तिप्रतिसन्धानं विनापि व्यक्तिबोधात् । न च व्यक्तिशक्तावानन्त्यम् सकलव्यक्तावेकस्या एव शक्तेः स्विकारात् । अत्रैतत्प्रकरेण न्यायकुसुमाञ्जलीकार  उदयनोपि जातिरेव पदार्थः न व्यक्तिरिति चेन्न , शब्दात्तदलाभप्रसङ्गात् । स्यादेत् प्रतिबन्धं विना पक्षधर्मतालाभात् यथा लिङ्गं विशेषे पर्यवस्यति स एव आक्षेपः इत्युच्यत इति चेत् , न तावत्प्रतीतिः क्रमेण आक्षणीयाभावेन विरम्य व्यापारायगात् । तस्मात्तत्तजातीयकोऽनिविष्टा एवं पदार्थाः पदानि च सम्बध्यन्ते नाचान्यथा इति । अत्र नैयायिकगृहे जात्याकृतिव्यक्तीनां पदार्थत्वस्वीकारे जात्याकृत्योर्मध्ये को भेदः इति अवगन्तव्यः । तत्र जैमिनिः आकृतिस्तु क्रियार्थत्वात् इत्याकृर्ति जातिमेव उपिदिशति । मिमांसाभष्यकारोप्यत्र -सास्नादिविशिष्टाकृतिः इत्याह । किञ्च वार्तिककारोपि 

     जातिमेवाकृर्ति प्राहुः व्यक्तिराक्रियते यथा । सामान्यं तच्च पिण्डानामेकबुद्धिनिबन्धनम् ॥ इति । विवरणं चकार । तथा च मिमांसकमते आकृतेः तथा जातेः कोपि भेदः नास्ति ।  नैयायिकास्तु सुत्रानुगतं जातेः पृथगाकृतिम् आह इत्येवं संस्थानमेव आकृर्ति मन्यन्ते । लोकोपि अवयवसंस्थानात्मिकामाकृर्ति व्यपदिशति तस्मादवयव सन्निवेश एव आकृतिरुच्यते । यथा हि न्यायमञ्चरीकारो जयन्तभट्टः प्रतिपादयति तत्राकृतिपदेनेह संस्थानमभिदीयते  सूत्रे पृथगुपादानात् न जातिर्जैमिनीयवत् । इति ।  एवमाकृतिः अवयवसंस्थानविशेषः , जातिस्तु सकलगोपिण्डसाधारणम् रूपम् ,व्यक्तिस्तु तद्घटितमिति न्यायसिद्धान्तसमर्थकाः विद्वांसः वदन्ति । तथा च न्यायमते आकृतिः भिन्ना, जातिः भिन्नः । मिमांसकमते पुनः जातिः तथा आकृतिः अभिन्नः एव इति  प्रतिपादयन्ति । तथा च न्यायमते प्लेटोमतवत् चत्चारिकारणानि प्लेटोमतवत् विद्यन्ते । तथैव अन्यानि कारणान्यपि विद्यन्ते इति ज्ञातव्यम् । 

  सामान्याविषये उभयमते विद्यमानाः तात्विकभेदाः

अस्माभिः एतावत् पर्यन्तं प्लेटोमते तथा न्यायमते सामान्यस्याङ्गीकारविषये प्रतिपादितानि कारणानि परामृष्टानि । नैकेषु विषयेषु साम्यमपि दृश्यते । परन्तु सूक्ष्मतया पर्यालोचने कृते सामान्यविषये मूलतत्वविषयकाः नैके भेदाः प्रतिभासन्ते । तद्यथा न्यायसूत्रे तु व्याक्त्याकृतिजातयस्तु पदार्थाः इति पदार्थवर्णनमस्ति । अत्र जातिः ,व्यक्तिः,आकृतिः इति त्रयः अशाः विद्यन्ते । जातिः व्यक्तिः इति अशं प्लेटोमतेपि प्रसिद्धः , परन्तु आकृतिरिति अंशः न तन्नये प्रसिद्धः । इमामाकृतितत्वं ’सत्वावयवानां तदवयवानां च नियतो व्यूहः आकृति’’ इति वर्णयति वात्स्यायनः। तथैव आकृतिः जातिलिङ्गाख्या यया जातिः जातिलिङ्गानि च प्रत्याख्यायन्ते इति वात्स्यायनः आकृतेः गुणलक्षणानि निरूपयति । तथा च न्यायमतानुसारेण यदा कश्चित् पुरुषः गोपिण्डाकृतिं पश्यति तदा तत्र गोत्वमपि ज्ञातुं शक्नोति । एतादृशाकृतितत्वस्य अस्तित्वमेव न्यायमते तथा प्लेटोमते सामान्यस्वरूपविषये वैसदृश्यं ज्ञापयति । न्यायमते तु आकृतिः भिन्ना तथा सामान्यं भिन्नम् । परन्तु रिपब्लिक् इति ग्रन्थस्य दशमाध्याये  तक्षकः यदा मञ्चनिर्माणार्थं मञ्चाकृर्ति पश्यति तदा मञ्चगतं युनिवर्सल् पश्यतीत्यर्थः, न तु तदाकृतिम् । तथा च स साक्षात् मञ्चत्वसामान्यं पश्यति । न्यायमते आकृर्ति विना सामान्यस्य ज्ञानमेव न भवति। आकृतिद्वारा एव सामान्यस्य ज्ञानं प्राप्तुं शक्यते । तथा च न्यायमतानुसारेण प्लेटोमतवत् तक्षकः साक्षात् मञ्चत्वसामान्यं दृष्टुमेव न शक्नोति। 

एतावत् पर्यन्तं उभयोः मतयोः विद्यमानं तात्विकं , प्रमाणसम्बद्धं , लाक्षणिकञ्च कारणं परामृष्टम् । सामान्यतया अध्ययनेन बहवः विषयाः समानाः इति प्रतिभान्ति । परन्तु विशेषपरिशीलनेन तात्विकाः मूलाभिप्रायभेदाः ज्ञायन्ते । यदा मोक्षलाभविषये उभयमते  सामान्यस्य स्थानमिति यदा चिन्तयाम तदा अयं विषयः इतोपि स्फुटः भवति । फियोड्रस् इति ग्रन्थे सोक्राटिसमतानुसारेण मानवस्य अत्युन्नतमानन्दं किमिति निरूपितं वर्तते । तेषु अत्मनः सत्यस्वरूपज्ञानमपि अन्यतमम् । तथैव आत्मनः स्वरूपविषये उदारहरणमेकं दर्शयति । आत्मस्वरूपं अश्वसारथियुगलमिव। अस्य युगलस्य उत्तमं गम्यन्तु सारथेः ऊत्तमगम्यप्रापणविषये विद्यमानं कौशल्येन ,अश्वानां सामार्थ्यानुसारेण निश्चितं भवति । सोक्राटिसः इममेव उदाहरणमुपयुज्य अत्यत्तमावस्थावाप्तिविषये(मोक्षावाप्तिविषये)  सामन्यस्य प्राधान्यं निरूपयति । आत्मा तु अतिशयंसुखं तथा दुःखं समानरूपेण स्वीकरोति , तथैव आत्मा तु शुद्धेन सत्वेन ज्ञानेन च परिपुष्टं भवति । स तु सत्यमेव पश्यति । परिपूर्णमेव पश्यति । आत्मचक्षुषा स वस्तुस्वरूपाणि पश्यति यानि परिपूर्णानि, शाश्वतानि , अबाध्यानि च भवन्ति

 एतादृश्यां अपूर्वायामवस्थायां स आत्मा न्याय्यं यथार्थत्वेन जानाति ,आत्मनिग्रहमपि यथार्थत्वेन जानाति ।तस्य ज्ञानमपि यथार्थमेव भवति। न तु यथार्थसदृशं ज्ञानं तत् ,यत् लोके सामान्यतया जनैरनुभूयते । एतादृशं सत्यसाक्षात्कारमेव आत्मनो तुष्टिकरम् । यदि सारथिः अश्वनिग्रहणे समर्थो भवति तदा क्लेशमुक्तः भवति । तथैव यदि आत्मा कानिचन सत्यस्वरूपाणि साक्षात्करोति तदा अग्रिमपर्यायपर्यन्तं (अग्रिमदेहसम्बन्ध) क्लेशविमुक्तः भवति । यदि शाश्वतसत्यानां साक्षात्कारः सर्वदा भवति तदा सर्वदा क्लेशविमुक्तः सन् विहरति। 

 क्लेशो नाम किं , आत्मनः क्लेशराहित्यं नाम किमिति सोक्राटिसः स्पष्टतया न प्रतिपादितवान्। परन्तु ये अत्यद्भुतं सत्यसाक्षात्कारं प्राप्नुवन्ति ते तु परमभाग्यशलिनः,परिपूर्णाः, दूरीकृतसमस्तक्लेशाः पवित्रात्मानः च भवन्ति इत्यभिप्रैति। अन्येषु संवाद-ग्रन्थेष्वपि तत्र तत्र सामान्यज्ञानं क्लेशविमुक्तिकारणमिति आत्यन्तिक-सुखसाधनमिति निरूपयति ।

 इदानीं न्यायमते मोक्षविषये सामान्यस्य आवश्यकतायाः विषयं विमृशामः । न्यायमतेपि सामानरीत्या एव मोक्षविषयः निरूपितः । नयेस्मिन्नपि सकलदुःखविमोचनमेव मोक्षः इत्युच्यते । मोक्षः जननमरणदुःख-भयादिरहिता अवस्था । तदुक्तं न्यायसूत्रे -तदत्यन्तविमोक्षोपवर्गः इति ,तत्रैव न्यायभाष्ये अस्य विवरणं प्रदत्तं “तदभयम् अजरम् अमृत्युपदं ब्रह्म क्षेमापत्तिः“ इति ।अयं मोक्षः कथं वा साध्यःइति न्यायसूत्रस्य आदावेव प्रमाण-प्रमेय-संशय-प्रयोजन-दृष्टान्त-सिद्धान्तावयव-तर्क-निर्णय-वाद-जल्प-वितण्ड-हेत्वाभास-छल-जाति-निग्रहस्थानानां तत्वज्ञानात् निश्रेयसाधिगमः इति सूत्रे निरूपितम् ।तथा च तत्व(सत्य)ज्ञानात् निश्रेयसप्रार्प्ति ज्ञात्वा आपाततः प्लेटोमतन्यायमतयोः साम्यं वर्तते इति भाति । परन्तु अत्र विचारणीयम् । न्यायसूत्रे तु षोडषपदार्थानां तत्वज्ञानात् मोक्षः इत्युक्तः , परन्तु तेषु षोडषपदार्थेषु सामान्यस्य निरूपणं नास्ति । वात्स्यायनः प्रमेयपदार्थेषु सामान्यस्य अन्तर्भावं न करोति । गौतमः पुनः नवविधेषु प्रमेयेष्वपि सामान्यस्य अन्तर्भावं न करोति । आत्माशरीरेन्द्रिर्थ बुद्धिमनःप्रवृत्तिदोषप्रेत्यभाव-फलदुःखापवर्गस्तु प्रमेयम् इति प्रमेयनिरूपकं सूत्रम् । अस्ति अन्यदपि द्रव्यगुणकर्मसामान्यविशेषसमवायाभावाःप्रमेयम् तदभेदेन चापरिसङ्ख्येयम्  इति न्यायभाष्ये अन्तर्भावः कथितः । परन्तु स्पष्टतया कथयति यत् सामान्यज्ञानं अज्ञाननिवर्तनोपयोगी न भवति , अतः निश्रेयससाधनम् न भवतीति कारणेन तस्य निरूपणं प्रमेयेषु न निरूपितमिति अभिप्रैति । तथा च सामान्यस्य ज्ञानं निश्रेयसोपयोगी न इति न्यायनयाभिप्रायः । 

यदा निश्रेयससाधनानां सोपानानाम् अध्ययनं कुर्मः तदा निश्रेयसविषये सामान्यस्य प्रामुख्यता किमर्थं नास्तीति ज्ञातुं शक्नुमः । दुःखजन्मप्रवृत्ति-दोषमिथ्याज्ञानानाम् उत्तरोत्तरापाये तदनन्तरापायादपवर्गः  इति सूत्रे अपवर्गसोपानानि निरूपितानि । तेषु मिथ्याज्ञानानां निरासः एव निश्रेयससाधनाय परमोपयगी । तेषु मिथ्याज्ञानेषु आत्मसम्बद्धं मिथ्याज्ञानं प्रधानतमम् । तत्र आत्मनःअस्तित्वस्य निराकरणं , अनात्मीयेषु पदार्थेषु आत्मभिमानः इत्येते प्रधानानि निथ्याज्ञानानि । यथा देहे आत्माभिमानः मनसि आत्माभिमानः इत्यादि । तथा च आत्मनः तत्वज्ञानं, अनात्मनि आत्माभिमाननिवारणं यमनियमादि-आध्यात्मविध्युपायैःभवति स्वयं न्यायसूत्रकार एव आह तदर्थं यमनियमाभ्यासो आत्मसाक्षात्कारो योगाच्चाध्यात्मविध्युपायैः इति । तथैव पदार्थतत्वज्ञानं नाम न सामान्यस्य तत्वज्ञानं , अपि च लोके विद्यमानानां प्रमेयानां तत्वज्ञानमेव । तथा च अयं क्रमः । पुरुषः लोके विविधसांसारिकदुःखदर्शनं करोति । ततः इमे पदार्थाः एव दुःखकारणानीति जानाति । ततः तेषु विषयेषु तिरस्कारभावं प्राप्नोति । तथा च आत्मनः तत्वज्ञानमेव एतेभ्य बन्धेभ्य स्वं विमोचयतीति जानाति । तदा स आत्मनः तत्वज्ञानार्थं सर्वाणि स्वार्थपराणि सकामानि कर्माणि विहाय चित्तशोधनार्थं ध्यानाभ्यासं करोति । यावत् चित्तविक्षेपानां निवृत्तिः न भवति ,यावच्च आत्मतत्वज्ञानं न भवति तावत् पर्यन्तं ध्यानं करोति । तथा च इदमात्मतत्वज्ञानमेव निश्रेयससाधनमिति सिद्धम् । तथा च सामान्यस्य अथवा पदार्थानां तत्वज्ञानं एतादृशात्मतत्वज्ञानसहकाररिरूपेणैव प्रयोजकं भवति,न तु साक्षात् निश्रेयससाधनम् । पदार्थानां तत्वज्ञानेन कश्च आत्मा,कीदृशं तस्य स्वरूपमिति तत्वज्ञानं भवति । आनात्मीयेषु आत्मताभ्रमादिमिथ्याज्ञानानि निवर्तन्ते । तेन आत्मनः यथार्थज्ञानं भवति । 

   उपसंहारः-

 सामान्यस्य अस्तित्वविषये प्लेटो तथा न्यायमते निरूपितःवादः विमृष्टः।कार्यकारणसम्बद्धानि प्रमाणसम्बद्धानि कारणानि तुलनात्मकता अधीतानि । तथैव मतयोः तात्विकं भेदमपि निरूपितम् । तथा च किमुत सामान्यम् फोर्म्स् एकः एव पदार्थः उत भिन्नः इति प्रश्नस्य इदं समाधानं वर्तते । यथा वाक्ये प्रयुक्तस्य एकस्य पदस्यार्थः समग्रवाक्यार्थाश्रितः भवति । तथैव एकस्मिन् दर्शने अङ्गीकृतस्य पदार्थस्य वास्तविकार्थः समग्रदर्शन-भिप्रायाश्रितःभवति । तथा च यदा प्लेटोमते इव न्यायमते सामान्यानां निश्रयसविषये प्रामुख्यता नास्तीति जानीमःतदा तौ उभौ पदार्थौ भिन्नधर्मलक्षणाविति अधिगच्छामः । अतः न्ययमतप्लेटोमतयोः समग्राध्ययनं विना उभयो मतयोः सामान्यस्य स्वरूपं नैव स्पष्टतया ज्ञातुं शक्नुमः । यदा समग्रतया अध्ययनं कुर्मः तदा भेदं स्पष्टतया ज्ञातुं शक्नुमः । तथा तौ एकमेव पदार्थं भिन्नदृष्ट्या प्रतिपादयतः इति नैव वक्तुं शक्यते अपि भिन्नं पदार्थद्वयं सदृशरीत्या वर्णयन्तीति निर्णेतुं शक्नुमः ।   

ग्रन्थोपयोगः-

१.पाश्चात्यतत्वशास्त्रेतिहासः-     ग्रन्थकर्ता-  महामहोपाध्यायः डा॥ पि.श्री.रामचन्द्रुडु

      प्रकाशकनम्- श्रीमती पि .सुब्बलक्ष्मी – भाग्यनगरी-२००६

२.The realism of universals –      Author- Will Rasmussen

   in Plato and Nyaya     Publisher-Springer Science Business media

    Published Online -2008

३.दिनकरि – ग्रन्थकर्ता- महदेवभट्टः  

    सम्पादकः- आत्मारामशर्मा

     प्रकाशनम्- केन्द्रियसंस्कृतविश्वविद्यालयः-नवदेहली-२००२

४.न्यायसूत्राणि     ग्रन्थकर्ता- गौतममुनिः

    सम्पादकः- अनन्तलाल ठाकुरः

    प्रकाशनम्- मिथिलासंस्कृतविद्यापीठम् –दर्भङ्गा-१९६७

५. न्यायकोषः     ग्रन्थकर्ता- भीमचार्य झळकीकर्

    प्रकाशनम् –चौखाम्बा सुरभारती प्रकाशनम् –वारणासी-२०११ˀ