व्यक्तित्वविकासे अनुभवामृत–ग्रन्थस्य योगदानम्
कृष्णप्रसादः. के. एन्
शोधछात्रः
संस्कृत-विभागः,बेङ्गळूरु- विश्वविद्यालयः,बेङ्गळूरु.
KRISHNAPRASAD KN
Email: kphebbar84@gmail.com
Ph: 9964540411
Abstract:
संस्कृतवाङ्मयं तु अपारं अगादं च । वेदादारभ्य अस्य वाङ्मयस्य विस्तारता अहर्निशं प्राचलत् , प्रचलति, प्रचलिष्यति च । अत्र भारतीयतत्त्वज्ञानलोके आस्तिक–नास्तिकेति दर्शनभेदं दृश्यते । दर्शनेषु उपनिषदां अर्थबोधकः उत्तरमीमांसेति आध्यात्मविद्येति वेदान्तः प्रसिद्धोऽयं वेदान्तः।
वेदान्तशास्त्रस्य कस्यचित् विशिष्टविषयस्य कथनात्मकं मुख्यग्रन्थातिरिक्तं ग्रन्थं प्रकरणं कथ्यते यथा सदानन्दस्य ’वेदान्तसारः’ इत्यादयः । अद्वैतवेदान्तदर्शने अष्टादशशतमानेऽपि अनेकप्रकरणग्रन्थानां रचना अभवत् । एतेषु प्रकरणग्रन्थेषु श्रीमद्परमहंस-बालकृष्णब्रह्मानन्द-राजयोगिना प्रणीतमद्वैतवेदान्तप्रकरणग्रन्थम् ’अनुभवामृतम्’ अपि अन्यतमम् । अस्य अप्रकटितकृतेः द्वे तालिके लब्धे स्तः । प्रथमा तालिका तेलुगुलिप्यां लिखिता, तमिलुनाडुराज्यस्य चन्नईनगरस्य अडियार् ग्रन्थालये लब्धा । द्वितीया च नन्दिनागरीलिप्यां लिखिता कर्नाटकराज्यस्य मैसूरुनगरस्य प्राच्यविद्यासंशोधनालये च लब्धा । सामजिकजीविनः मानवस्य सर्वतोमुखविकासः एव व्यक्तित्वविकासः । सदा धार्मिकः, इतरश्रेयोभिलाशी अहिंसावादी सः सद्गुणैः सदाचारैः एव व्यवहरेत् । तदा तस्य व्यक्तित्वविकासः साध्यः । ’अनुभवामृतम्’ ग्रन्थे वेदान्तदर्शनसिद्धान्तेन सह व्यक्तित्वविकासपूरकाः श्लोकाः अपि सन्ति । यथा
निस्फृहा निर्मला नित्यं नियमाचारतत्पराः।
सात्त्विकास्सकलाशाभिः वर्जिताः ज्ञानकाक्षिणः॥
मानवाः सदा आशारहिताः शुद्धचित्ताः , नियमपालकाः , सदाचारपालकाः भवेयुः । ते सदा सात्विकचिन्तकः , आशामोहादिभिः हीनाः , ज्ञानस्य दाहयुताः एव भवेयुः ।
स्वेनैव साम्यं मनुतेऽन्यजन्तुं नाशो न देहोऽस्ति निजं ममत्वम् ।
देहादिकं सर्वमुदासकार्यं वदेत्प्रियं स्यात्स सुखेच्छुरेष ॥
यः अन्यं जन्तुं (प्राणीं) स्वेन समं मनुते (चिन्तयति) । देहस्य नाशं भवति अतः ममत्वं न स्यात् । देहगृहधनकनकादिकं सर्वं वैषयिकं सुखं उदासकार्यं (उदासीनभावनया त्यक्तव्यम्) । सर्वदा प्रियवाक्यानि एव वक्तव्यानि । यः स्वस्य अन्येषां च सुखं इच्छति सः सुखेच्छुः भवति । एवं सत्पुरुषस्य लक्षणमुक्तम् मुमुक्षोः च।
सद्वासनामभ्यसते सन्मार्गे वर्तते पुनः।
स मुमुक्षुश्च निर्धौतपापस्तत्त्वाधिकारवान् ॥
यः सदा सद्वासनां उत्तमाभ्यासान् वा अभ्यस्य उत्तममार्गे चलित्वा , उत्तमजीवनं निर्वाह्य निर्धौतपापः पापशून्यः भूत्वा , तत्त्वे वेदान्ते अधिकारी , मुमुक्षुः वा भवति ,
एवं बालकृष्णब्रह्मानन्दराजयोगी विरचिते अनुभवामृताख्ये ग्रन्थे ज्ञानार्जनं , सत्पुरुषलक्षणं ,पापराहित्यं, मनोनिग्रहं , समचित्तत्वमित्यादि व्यक्तित्वविकासप्रेरकाः श्लोकाः लिखिताः । मानवजीवने सच्चारित्रेण सदाचारेण जीवनं यापनं तु कुर्यादिति हेतोः अनेके नीतिश्लोकाः निबद्धाः सन्त्यस्मिन् ग्रन्थे । एतेषां केषांचन नीतिश्लोकानां विवरणम् प्रदीयते ।
Keywords-
अनुभवामृतम् , मौल्यानां महत्वम् , शास्त्राधिकारी , सद्गुणाः , दुर्गुणाः ज्ञानार्जनं , सत्पुरुषलक्षणं ,पापराहित्यं, मनोनिग्रहं , समचित्तत्व,नियमपालनम् , अहिंसा , अध्यात्मिकविकासः ,
अनुशंसित-तालपत्राणि
- अनुभवामृतम् –बालकृष्णब्रह्मानन्दराजयोगी
तालपत्रसंख्या 70264 , अडियार् ग्रन्थालयः , चन्नई ,तमिलुनाडु. लिपिः-तेलुगु
- अनुभवामृतम् –बालकृष्णब्रह्मानन्दराजयोगी
तालपत्रसंख्या-P 4619, प्राच्यविद्यासंशोधनालयः , मैसूरु , कर्नाटकः . लिपिः-नन्दिनागरी
अनुशंसित-ग्रन्थाः
- वेदातसारः – सुबोधिनी टीका
सं – कनल जी. ए. जैकब , निर्णयसागरमुद्रालयः , मुम्बई १९३४
- सङ्क्षेपशारीरकम् सर्वज्ञात्मनुनिः
चौखम्बा संस्कृत संस्थानम् , वाराणसी १९९२
- श्रीमद्भगवद्गीता-शाङ्करभाष्यम्– (अष्टटीकोपेतम् )
सं – वासदेव शर्मा, चौखम्बा संस्कृत संस्थानम् ,वाराणसी १९९२
- शाङ्करदर्शनग्रन्थावली –शारदापीठम् , शृङ्गेरी २००२
- उपिनषद्भाष्यम्– भागः १,२, ३
सं – एस्. सुब्रह्मण्यशास्त्री मोतीलाल बनार्रसीदास, वाराणसी २००४
- उपदेशसहस्री
सं – पं.गजाननशास्त्री मसलगाँवकर् दक्षिणामूर्तिमठप्रकाशनम् वाराणसी २०१०
- भगवद्गीता – शाङ्करभाष्याद्योकाटीकोपेता
सं -गजाननशर्मा “साधले” गजराती प्रिंटिंग् प्रेस् , मंबई १९३५
संस्कृतवाङ्मयं तु अपारमगादं च । वेदादारभ्य अस्य वाङ्मयस्य विस्तारता अहर्निशं प्राचलत् , प्रचलति, प्रचलिष्यति च । अत्र रामायण-महाभारतादि-काव्यानि, पुराणानि , लघु-कवन-सङ्कलनानि , मनुस्मृत्यादि-स्मृतिग्रन्थाः, आस्तिकनास्तिक-दर्शनानि इत्यादीनि च दृश्यन्ते । भारतीय-तत्त्वज्ञानलोके नास्तिकास्तिकेति दर्शनभेदं दृश्यते । चार्वाक–जैन–बौद्धाः नास्तिकदर्शनानि , सांख्ययोगौ न्यायवैशेषिके पूर्वोत्तरमीमासेति षडास्तिकदर्शनानि च प्रसिद्धानि । तत्र उपनिषदां अर्थबोधकः उत्तरमीमांसेति आध्यात्मविद्येति प्रसिद्धोऽयं वेदान्तः।
ऋग्वेदादि चत्वारः वेदाः सकलतन्त्राणां , सर्वविद्यानां , सर्वज्ञानानामाधाराः अनेकदर्शनानां च प्रमाणभूताः सन्ति । प्रत्येकस्मिन् वेदे चत्वारः विभागाः दृश्यन्ते , यथा संहिता ,ब्राह्मणम् , आरण्यकम् , उपनिषदिति । तत्र वेदानाम् अन्तभागत्वात् , सारभूतभागत्वात् , निर्णायकभागत्वात् च उपनिषदां वेदान्तः इति नामान्तरमस्ति । अत्र ईश-केन-कठ-प्रश्नेत्यादयः उपनिषदः प्रसिद्धाः वर्तन्ते । एतेषां उपनिषदां मतं, सारं, तत्त्वं च स्वग्रन्थैः स्पष्टीकर्ता श्रीमदादिशङ्कराचार्यः अद्वैतवेदान्तस्य प्रसिद्धः आचार्यः । सः उपनिषदां, वेदव्यासप्रणीत-ब्रह्मसूत्रस्य ,महाभारतान्तर्गत-भगवद्गीतायाः च प्रस्थानत्रयाणां भाष्यं विलिख्य मुमुक्षूणां साधने मार्गदर्शकः अभवत् । श्रीशङ्करः एतैः सह विवेकचूडामणिः,सौन्दर्यलहरी, उपदेशसहस्री इत्यादीन् अनेकप्रकरणग्रन्थानपि रचितवान् ।
शास्त्रेकदेशसम्बद्धं शास्त्रकारान्तरे स्थितम् ।
आहुः प्रकरणं नाम ग्रन्थभेदो विपश्चितः ॥ इति प्रकरणग्रन्थस्य लक्षणम् ।
शास्त्रस्य कस्यचित् विशिष्टविषयस्य कथनात्मकं मुख्यग्रन्थातिरिक्तं ग्रन्थं प्रकरणं कथ्यते । शङ्कराचार्यस्य अनन्तरमपि अनेकाद्वैतवेदान्तशास्त्रज्ञाः विद्वांसः नैकप्रकरणग्रन्थानरचयन् । यथा सदानन्दस्य ’वेदान्तसारः’ , AÉlÉlSmÉÔhÉस्य ’pÉÉuÉzÉÑήȒ , AÉlÉlSoÉÉåkÉस्य ’lrÉÉrÉqÉMüUlSÈ’ इत्यादयः अनेके प्रकरणग्रन्थाः वेदान्ताकाशे ताराः इव विराजन्ते । ’ब्रह्म सत्यं जगन्मिथ्या , जीवो ब्रह्मैव नापरः’ इति घोषवाक्याधारिते अद्वैतवेदान्तदर्शने नवदशशतमानेऽपि अनेकप्रकरणग्रन्थानां रचना अभवत् । एतेषु वेदान्त-प्रकरणग्रन्थेषु श्रीमद्परमहंस-बालकृष्णब्रह्मानन्द-राजयोगिना प्रणीतम् ’अनुभवामृतम्’ अपि अन्यतमम् । अस्य अप्रकटितकृतेः द्वे मातृके तेलुगु-नन्दिनागरीलिप्योः लब्धे स्तः ।
सामाजिकः जीवी मानवः सदा इतरैः सह व्यवहरति । अस्य व्यवहारे संयम-सदाचारादि सद्गुणाः भवेयुः , परहननादि दुर्गुणाः न भवेयुः च । तदा सः जनानां प्रीतिपात्रः भवति । अतः तस्य व्यक्तित्वविकासः अनिवार्यः । व्यक्तित्वविकासो नाम व्यक्तेः दैहिक-मानसिकाध्यात्मिकादि सर्वातोमुख-विकासः । व्यक्तिः मानवः । व्यक्तेः भावः व्यक्तित्वं मानवता । मानवतायाः भावाधिक्यं, सद्गुणानां प्रचुरता, व्यवहारचातुर्यस्याभिवृद्धिः एव व्यक्तित्वविकासः । एतदर्थं योग-सांख्य-पूर्वोत्तरमीमासादि शास्त्राः मार्गदर्शकाः भवन्ति । एवमनुभवामृतग्रन्थेऽपि ज्ञानार्जन-समचित्तत्वादिविषये व्यक्तित्वविकासस्य प्रेरकाः श्लोकाः दृष्यन्ते । तेषु केषाञ्चित् श्लोकानां विवरणमत्र प्रदत्तम् । गुणानां आधारेण ते विभक्ताः सन्ति ।
व्यक्तित्वविकासे अनुभवामृत–ग्रन्थस्य योगदानम्
- ज्ञानार्जनम्
निस्त्वग्रम्बाफलं यद्वाऽनिस्त्वगिक्षुर्यथा तथा ।
अनुष्णक्षीरवत्सर्वैः सेव्यं ह्यनुभवामृतम् ॥
शास्त्राधिकारिणः ग्रन्थपठनस्य क्रमः एवं भवति –प्रथमं रम्बाफलमिव [कदलीफलमिव] तस्य बहिस्थां त्वक् विहाय सेव्यते तथा ग्रन्थेऽपि अनपेक्ष्यं विहाय, अपेक्ष्यं एव स्वीकर्तव्यम् । द्वितीयं इक्षुदण्डमिव त्वक्सहितं चर्वितं कृत्वा तद्रसं च सेव्यते तथा अपेक्ष्यानुपेक्षे द्वेऽपि सम्यक्चर्वणं कृत्वा, मन्थनं कृत्वा तद्रसं सारं च जानीयात् । तृतीयं यथा क्षीरं प्रथमम् उष्णं कृत्वा तदनन्तरं शीतलं कृत्वा पीयते तथा कालक्रमेण च जानीयात् । एवं क्रमत्रयेण मार्गत्रयेण वा अनुभवामृतमित्यादिग्रन्थाः ज्ञातव्याः ।
स शास्त्रसारं जानति ज्ञातारं पृच्छति स्वयम् ।
करोति सङ्गं साधूनां तद्वदाचरति व्रतम् ॥
यः शास्त्रसारं, शास्त्ररहस्यं, शास्त्रतत्त्वं वा जानाति , तथापि स्वयं अन्यान् ज्ञातॄन् पृच्छति । ज्ञानदाहः एवं भवेत् । “अहं सर्वं जानामि” इति गर्वः मास्तु । तथा मैत्रिकरणसमयेऽपि साधुभिः साकमेव स्नेहं कुर्यात् । साधूनां व्रतं, व्यवहारो वा कथं तथैव व्यवहरेत् स उत्तमजनः ।
आध्यात्मवासना यस्य तच्छास्त्रस्यैव चिन्तनम्।
विवेकी विरतस्साधुःसद्गुणी गुरुसेवकः॥
यस्य आध्यत्माचिन्तनया आध्यात्मवासना एव भवति , यस्य शास्त्रसैव चिन्तनं भवति सः विवेकवान् बुद्धिमान् , सर्ववैशयिकसुखात् विरतः विरक्तः , सद्गुणयुतः , यः गुरुं सेवते सः एव साधुः भवति । एवं साधोः लक्षणमत्र स्पष्टमभिहितम् ।
- मनोनिग्रहः
दुर्मानमत्सरावेशैः विहीना मौनतत्पराः।
नियमादियुताः दान्ताः दम्बदर्पविवर्जिताः॥
ये दुर्मानः( गर्वः) , मत्सरः( अन्यशुभद्वेषबुद्धिः), आवेशः( कोपः), दम्बः( अत्याहःमानम्) , दर्पः (मदः) इत्यादि दुर्गुणैः विहीनाः , शान्तिमन्तः , यमनियमादियोगानुष्ठानुरताः , अनुशासनबद्धाः, शमदमादिषड्गुणवन्तः ये सत्पुरुषाः ते शास्त्रेऽधिकारिणः मुमुक्षवः च ।
निस्फृहा निर्मला नित्यं नियमाचारतत्पराः।
सात्त्विकास्सकलाशाभिः वर्जिताः ज्ञानकाक्षिणः॥
मुमुक्षवः सदा आशारहिताः शुद्धचित्ताः , नियमपालकाः , सदाचारपालकाः भवेयुः । ते सदा सात्विकचिन्तकः , आशामोहादिभिः हीनाः , ज्ञानस्य दाहयुताः एव भवेयुः ।
माता पाययति क्षीरं बालो रौतीतिवन्मनः।
स्वहितं नैव जानाति विश्वासेन वशं नयेत्॥
यथा माता स्वहितं अजानन्तं रोधनं कुर्वन्तं च पुत्रं विश्वासेन वशं नीत्वा प्रीत्या क्षीरं पाययति तथा सर्वेऽपि स्वहितं अजानन् मनः विश्वासेन मातैव वशं कुर्युः । अत्र मनोनिग्रहोपायः उक्तः ।
- त्रिकरणशुद्धिः
यः पुमान्मनसा वाचा वपुषाण्वपि दुष्कृतम्।
न स्मरत्यपि नो वक्ति न करोति स योग्यकः ॥
यः नरः मनसा वाचा काया इति त्रिकरणशुद्धः अस्ति सः मनसा अणुप्रमाणमपि दुष्कृतं पापं न स्मरति चिन्तयति , सः वाचा न वक्ति, वपुषा न करोति । स एव योग्यः , शास्त्राधिकारी , उत्तमजनोऽपि भवति ।
- प्राणिदया
स्वेनैव साम्यं मनुतेऽन्यजन्तुं नाशो न देहोऽस्ति निजं ममत्वम् ।
देहादिकं सर्वमुदासकार्यं वदेत्प्रियं स्यात्स सुखेच्छुरेष ॥
यः अन्यं जन्तुं (प्राणीं) स्वेन समं मनुते (चिन्तयति) । देहस्य नाशं भवति अतः ममत्वं न स्यात् । देहगृहधनकनकादिकं सर्वं वैषयिकं सुखं उदासकार्यं (उदासीनभावनया त्यक्तव्यम्) । सर्वदा प्रियवाक्यानि एव वक्तव्यानि । यः स्वस्य अन्येषां च सुखं इच्छति सः सुखेच्छुः भवति । एवं सत्पुरुषस्य लक्षणमुक्तम् मुमुक्षोः च।
- गुरुसेवा
स सद्गुरूणां कारुण्य- पात्रं भवति भक्तिमान्।
भवबीजानि भर्जित्वा स याति परमं पदम् ॥
यः अध्येता शास्त्राधिकारी सद्गुरूणां प्रीतिपात्रः भूत्वा, गुरुकारुण्यं च लब्ध्वापि गुरुभक्तियुतः भवति सः तस्य वासनारूप-भव-कर्माणि इति बाजानि भर्जयित्वा, नाशयित्वा परमं गतिं मोक्षं याति । अत्र गुरुसेवया ज्ञानार्जनं कुर्यादिति विवक्षितम् ।
उपदेश्यस्स एव सावधिकारी च भक्तिमान्।
यो मुमुक्षुर्विरक्तश्च गुरुसेवैकतत्परः॥
मुमुक्षुः सदा गुरुदेवं कुर्यात् , गुरुभक्तियुतः च सः लौकिकाशायाः विरक्तः भवेत् । तमेव गुरुः उपदेशः कुर्यात् । एवमत्र गुरुसेवादि विचाराः वर्णिताः ।
सदा गुरुमुखेनैव श्रुणोत्यहर्निशं मतम्।
महावाक्यरहस्यार्थं जानाति गुरुसेवया॥
मुमुक्षुः अहर्निशं गुरोः सेवां कृत्वा सदा गुरुणोक्तमहावाक्यार्थं श्रुत्वा तत्त्वं जानाति । अत्र गुरुसेवायाः श्रवणस्य च महत्वमुक्तम् ।
- सदाचारः
सद्वासनामभ्यसते सन्मार्गे वर्तते पुनः।
स मुमुक्षुश्च निर्धौतपापस्तत्त्वाधिकारवान् ॥
यः सदा सद्वासनां उत्तमाभ्यासान् वा अभ्यस्य उत्तममार्गे चलित्वा , उत्तमजीवनं निर्वाह्य निर्धौतपापः पापशून्यः भूत्वा , तत्त्वे वेदान्ते अधिकारी , मुमुक्षुः वा भवति ।
- समचित्तत्वम्
न खिद्यते महादुःखे भूपो भूत्वा न हृष्यति ।
धैर्यशाली दरिद्रोऽपि नोन्मत्तो धनवानपि ॥
यः महादुःखेऽपि विचलितमनः न भवति । भूपः राजा सुखसौकर्यादिवान् भूत्वा अपि न अत्यन्तसुखी भवति । दारिद्रेऽपि कष्टेऽपि आहारादिविहीनेऽपि धैर्यवान् स्थिरचित्तवान् भवति । धन-कनक-वस्त्र-वाहनादि-संपद्प्राप्तौ अपि उन्मत्तः, धनेन मूढः वा न भवति । एवं ’सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ’ इति गीतावाक्यानुसारं सः समवित्तवान् भवति । सः अधिकारी भवति ।
निन्दया हृदि न क्षुब्धो वन्दनैः नातिहर्षिणः।
यस्सत्त्वेऽधिकारी स्यात्सुखदुःखसमानधीः ॥
यः निन्दनया हृदये मनसि वा क्षुब्धः ( विचलितः) न भवति । वन्दनैः (गौरवप्रदानेन) वा अतिहर्षी( सन्तुष्टः) न भवति । अयं सुखदुःखे समाने पश्यति । सः सुखदुःखयोः समानमनस्कः । सः सत्त्वे सच्छास्त्रवेदान्ते अधिकारी भवति ।
परद्रव्यं न स्पृशति क्वचिदश्नादिहीनवान् ।
स्वनिन्दया स्वयं नान्यं निन्दति क्वचिदप्ययम् ॥
कदाचिद् जीवने दारिद्रेण आहार-गृह-वसनादिन्यूनातिन्यूनसौकर्याः न लभ्यन्ते चेदपि यः परद्रव्यं, परधनं वा न स्पृशति ,इच्छति ,वाञ्चति- स एव अस्य ग्रन्थस्य अधिकारी भवति । अत्र परद्रव्य-निस्पृहतागुणं वर्णितम् । इतरे जनाः तं निन्दन्त्यपि सः शास्त्राधिकारी तान् न निन्दति इति निन्दासहिष्णतागुणमपि अत्र द्रष्टुं शक्यते ।
सुखदुःखात्मकं सर्वमीश्वराज्ञेति धैर्यवान् ।
न दुःखितो न हृषितो विरक्तस्साधिकारवान् ॥
अस्मिन् संसारे सुखप्रदं, दुःखप्रदं वा किमपि वा कार्यं भविष्यति तत्सर्वं देवस्य (ईश्वरस्य) एव आज्ञया अनुज्ञया वा भविष्यति इति यः धैर्यवान् (स्थिरमनस्कः) भवति तेन कार्येण सः अत्यन्त-दुःखयुतः अथवा सुखयुतः वा न भवति । सः एव विरक्तः रागद्वेषादिरहितः भवति । सः एव अधिकारी अस्य शास्त्रस्य । अत्रापि समचित्तत्वमिति विशेषगुणं वर्णितम् ।
माता पितापि बन्धुश्च सती च सुत एव च ।
निन्दन्तु तेऽपि वन्दन्तु मुमुक्षुस्समचित्तवान् ॥
तदा माता पिता सती बान्धवाः इतरजनाः च योगिनं निन्दन्तु (तर्जयन्तु) अथवा स्तुवन्तु (स्तुतिं कुर्वन्तु) । योगी निन्दास्तुती समे इत्येवं स्वीकरोति । सः निन्दया खिन्नः , स्तुत्या उन्मत्तः च न भवति । अतः सः समचित्तवान् ।
- पापराहित्यम्
स वै मुमुक्षुस्स सुखेच्छुः योगी स साधकश्चैवमिह प्रवर्तते ।
करोति पुण्यं न करोति पापं दुःखं न कस्मै कुरुते कदापि ॥
यः पुण्यमेव ,शुभकार्याणि एव करोति , न कदापि अशुभं ,पापं वा करोति, कस्यापि दुःखं न ददाति । एवं सः मुमुक्षुः मोक्षेच्छुः, सः योगी योगाभ्यासनिरतः, स साधकः इह वेदान्तशास्त्रे प्रवर्तते । अत्र स्वस्य अन्यस्य च कृते सदा पुण्यप्रदः सः योगीति अत्र स्वपरहितचिन्तनमुक्तम् ।
अन्यैरपकृतोऽप्येष मन्यते प्राक्कृतंफलम् ।
नान्येभ्यः कुरुते क्वापि कदाप्यपकृतं नरः॥
तदा सत्पुरुषः अन्यैः परजनैः अपकृतः भूत्वा , अपकारं वञ्चनं वा प्राप्यापि तेषां कृते अपकारं न कदापि करोति । सत्पुरुषः एतद् स्वप्राक्कृतं प्रारब्धं कर्मफलमिति चिन्तयति अन्येषामपकारमिति न चिन्तयति क्षम्यते च । अत्र अपकारभावनायाः राहित्यं दृष्टम् ।
एवं बालकृष्णब्रह्मानन्दराजयोगी विरचिते अनुभवामृताख्ये ग्रन्थे ज्ञानार्जनं , सत्पुरुषलक्षणं ,पापराहित्यं, मनोनिग्रहं , समचित्तत्वमित्यादि व्यक्तित्वविकासप्रेरकाः श्लोकाः लिखिताः । मानवजीवने सच्चारित्रेण सदाचारेण जीवनं यापनं तु कुर्यादिति हेतोः अनेके नीतिश्लोकाः निबद्धाः सन्त्यस्मिन् ग्रन्थे । एतान् नीतिश्लोकान् पठित्वा ज्ञात्वा च, अस्माकं जीवने तानुपयुज्य ,सदाचारानुभवानां द्वारा अमृतत्वं सवैः प्राप्नुयुः इति ’अनुभवामृत’ग्रन्थस्य ध्येयः।
अनुशंसित-तालपत्राणि
- अनुभवामृतम् –बालकृष्णब्रह्मानन्दराजयोगी
तालपत्रसंख्या 70264 , अडियार् ग्रन्थालयः , चन्नई ,तमिलुनाडु. लिपिः-तेलुगु
- अनुभवामृतम् –बालकृष्णब्रह्मानन्दराजयोगी
तालपत्रसंख्या-P 4619, प्राच्यविद्यासंशोधनालयः , मैसूरु , कर्नाटकः . लिपिः-नन्दिनागरी
अनुशंसित-ग्रन्थाः
- वेदातसारः – सुबोधिनी टीका
सं – कनल जी. ए. जैकब , निर्णयसागरमुद्रालयः , मुम्बई १९३४
- सङ्क्षेपशारीरकम् सर्वज्ञात्मनुनिः
चौखम्बा संस्कृत संस्थानम् , वाराणसी १९९२
- श्रीमद्भगवद्गीता-शाङ्करभाष्यम्– (अष्टटीकोपेतम् )
सं – वासदेव शर्मा, चौखम्बा संस्कृत संस्थानम् ,वाराणसी १९९२
- शाङ्करदर्शनग्रन्थावली –शारदापीठम् , शृङ्गेरी २००२
- उपिनषद्भाष्यम्– भागः १,२, ३
सं – एस्. सुब्रह्मण्यशास्त्री मोतीलाल बनार्रसीदास, वाराणसी २००४
- उपदेशसहस्री
सं – पं.गजाननशास्त्री मसलगाँवकर् दक्षिणामूर्तिमठप्रकाशनम् वाराणसी २०१०
- भगवद्गीता – शाङ्करभाष्याद्योकाटीकोपेता
सं -गजाननशर्मा “साधले” गजराती प्रिंटिंग् प्रेस् , मंबई १९३५