वेदैकगम्यः परमात्मा

सत्यनारायणः सि टी
शोधच्छात्रः
कर्णाटकसंस्कृतविश्वविद्यालयः
बेङ्गलूरु

[प्रबन्धेऽस्मिन् अद्वैतसिद्धिकारैः परमात्मनः यत् वेदैकगम्यत्वं प्रतिपादितं  तत्र भाष्यादिप्रामाण्यं प्रदर्शितम् । सिद्धिकारैः एवं लेखनेन नैय्यायिकाः खण्डिताः भवन्ति इति उपपाद्य , नैयायिकमतानुसारं परमात्मनः अनुमानप्रमाणगम्यत्वं सप्रमाणम् उपपादितम् । ] 

प्राचीनानाम् भाष्यकारादीनां वचनं मनसि निधाय अद्वैतसिद्धिकारैः मङ्गलश्लोकलेखनावसरे “शृतिशिखोथ्थाखण्डधीगोचरः” इति लिखितम् । अधुना अस्य पदस्य विग्रहवाक्यम् उच्यते – श्रुतीनां शिखा तस्याः उत्था या अखण्डधीः तस्याः गोचरः इति । इदम् अज्ञानम् अथवा दृश्यं यथा अखण्डब्रम्हाकारज्ञानेन नश्यति, तद्वत् अपाततः प्राप्तेन ब्रम्हज्ञानेन अपि नश्यताम् इति प्रश्नः । अतः सिद्धिकारैः परमात्मा श्रुतिशिखोत्थाखण्डधीगोचरः इति उक्तम् । अस्य अयमभिप्रायः – अत्र श्रुतिपदेन कर्मोपासनारूपः श्रुत्येकदेशः विवक्षितः । तादृशश्रुतीनां शिखास्थानीयं वर्तते महावाक्यार्थः । तादृशमहावाक्यार्थैः जनिता या अखण्डाकारा धीः तादृशाखण्डाकारया धिया एव दृश्यस्य उच्छेदः भवति । न तु आपाततः उत्पन्नेन ब्रम्हज्ञानेन । एवञ्च कर्मश्रुतीनां निष्कामकर्मानुष्ठापकपरत्वं, उपासनाश्रुतीनां उपासनानुष्ठापकपरत्वम्, निष्कामकर्मानुष्ठानेन चित्तशुद्धिः भवति । एवमेव उपासनानुष्ठानेन चित्तस्य एकाग्रता भवति । एतत्द्वयसम्पादकत्वं श्रुतीनां भवति । अतः श्रुतीनां महावाक्योपकारकत्वं सम्भवति । तेन महावाक्येन अखण्डाकारा धीः जायते । अतः एतावत् विचारणेन इदं ज्ञायते यत् परमात्मनः वेदैकगम्यत्वम् इति । एतादृशवाक्यलेखनेन तेषाम् आत्मनः वेदैकगम्यत्वाभिप्रायः दृढीकृतं भवति । एतेन नैयायिकानां मतं निरस्तम् इति ज्ञयते ।

अधुना नैयायकानां मतं वयं पश्यामः –  

प्रत्यक्षप्रमाणेन ईश्वरः न विषयीकर्तुं शक्यः । यतोहि बाह्याभ्यन्तरभेदेन प्रत्यक्षं तावत् द्विविधम्।                      

द्रव्यवृत्तिलौकिकविषयतासम्बन्धेन चाक्षुषप्रत्यक्षत्वावच्छिन्नं प्रति समवायेन रूपं कारणम् इति कार्यकारणभावः अस्ति । एवञ्च एकस्य द्रव्यस्य प्रत्यक्षत्वं भवेत् चेत् तत्र समवायेन रूपम् अपेक्षितम् इति ज्ञायते । उदाहरणार्थम् – समवायेन रूपवतः एव घटस्य प्रत्यक्षत्वं संभवति । परन्तु ईश्वरे रूपं नास्ति इत्यतः तस्य बाह्यप्रत्यक्षविषयत्वं नास्ति । एवमेव आन्तरिकप्रत्यक्षविषयत्वम् अपि ईश्वरस्य नास्ति, यतो हि आन्तरिकप्रत्यक्षे  “आत्मवृत्तिलौकिकविषयतासम्बन्धेन मानसप्रत्यक्षत्वावच्छिन्नं प्रति समवायेन मनस्संयोगः कारणम्” इति  कार्यकारणभावः  वर्तते । आत्मनि ज्ञानं यदा समवायेन वर्तते, तत्रैव मनसः संयोगः समवायसम्बन्धेन वर्तते,  तदा आत्मनः प्रत्यक्षत्वं जायते । एवञ्च आत्मा यदि मानसप्रत्यक्षविषयः , तर्हि मम मनसा गृह्येत । परन्तु अन्येन मनसा अन्यस्य प्रत्यक्षत्वं न सम्भवति इति कृत्वा परमात्मा न अस्मदादि मानसगोचरः । तस्मात् परमात्मा न मानसप्रत्यक्षविषयः ।

आत्मा न अनुमानप्रमाणगोचरः, अनुमानप्रमाणे तु आदौ साध्यहेत्वोः व्याप्तिः गृहीतव्या । सा व्याप्तिः तावत् सपक्षे गृह्यते । परन्तु ईश्वरसदृशस्य अन्यस्य अभावात् साध्यहेत्वोः व्याप्तिः न लभ्यते । अतः दृष्टान्ताभावात् ईश्वरसद्भावे न अनुमानं प्रमाणम् । उपमानप्रमाणं तु न वस्तु साधकं भवति । परन्तु विद्यमानयोः वाच्यवाचकभावं वदति । अतः प्रकृते ईश्वरसाधकप्रमाणम् उपमानं न भवितुम् अर्हति । आगमः अपि ईश्वरसद्भावे प्रमाणं भवितुम् न अर्हति । यतो हि परस्परम् अन्योन्याश्रयदोषः स्यात् । कथम् इति चेत् आगमः ईश्वरोक्तत्वात् प्रमाणम्, ईश्वरः आगमोक्तत्वात् प्रमाणं चेत् अवश्यम् अन्योन्याश्रयदोषः स्यादेव । अतः आगमः अपि ईश्वरसद्भावे प्रमाणं भवितुम् न अर्हति । तस्मात् चार्वाकैः उच्यते ईश्वरसद्भवे न किमपि प्रमाणम् अस्ति, अतः ईश्वरः नास्ति एव इति वदन्ति । 

अत्र नैयायिकाः वदन्ति ईश्वरस्य सद्भवे अस्ति प्रमाणम् इति । अतः तत्र अनुमानं प्रदर्शयन्ति ।

          “क्षित्यङ्कुरादिकं सकर्तृकं कार्यत्वात् घटवत् इति” 

इदं प्राधान्येन दर्शितम्, अत्यन्तं प्रसिद्धं च । अन्यानि अपि अनुमानानि दिनकर्यां दर्शितानि –

  • सर्गाद्यकालीनद्व्यणुकप्रयोजकं कर्म प्रयत्नजन्यं कर्मत्वात्
  • गुरुत्ववतां पतनाभावः पतनप्रतिबन्धकप्रयत्नप्रयुक्तः धृतित्वात् पक्षिपतनाभाववत्
  • ब्रम्हाण्डनाशः प्रयत्नजन्यः नाशत्वात् घटनाशवत्
  • घटादिव्यवहारः स्वतन्त्रपुरुषप्रयोज्यः व्यवहारत्वात् आधुनिककल्पितलिप्यादिव्यवहारवत्
  • वेदजन्यप्रमा वक्तृयथार्थवाक्यार्थज्ञानजन्या शाब्दप्रमात्वात् चैत्रवाक्यजन्यप्रमावत्
  • वेदः असंसारिपुरुषप्रणीतः वेदत्वात् यन्नैवं तन्नैवं यथा काव्यम् 
  • वेदः पौरुषेयः वाक्यत्वात् भारतादिवत् 
  • द्व्यणुकपरिमाणजनिका संख्या अपेक्षाबुद्धिजन्या एकत्वान्यसङ्ख्यात्वात्

इत्यादीनि अनुमानानि ईश्वरं साक्षात् परंपरया वा साधयन्ति । अत्र उदयनाचार्याणां कारिका प्रसिद्धा –

कार्याऽयोजनधृत्यादेः पदात्प्रत्ययतः शृतेः।

वाक्यात्सङ्ख्याविशेषाच्च साध्यो विश्वविदव्यः ॥“

एवञ्च अनुमानप्रमाणेन ईश्वरं साधयन्ति नैय्यायिकाः।

 वेदान्तिनां मते परमात्मा वेदैकगम्यः । परमात्मनः वेदैकगम्यत्वं शास्त्रयोनित्वाधिकरणे भगवत्पादैः निरूपितम् । तस्मिन् अधिकरणे शास्त्रयोनिपदं द्विधा व्याख्यातं भगवत्पादैः ।

  • शास्त्रस्य योनिः शास्त्रयोनिः
  • शास्त्रं योनिः यस्य इति शास्त्रयोनिः 

प्रथमव्युत्पत्या तावद् समग्राम्नायस्य कारणं ब्रम्ह इति ज्ञयते ।

द्वितीयव्युत्पत्या तावत् परमात्मा वेदैक्यगम्यः इति ज्ञायते । तदुक्तं भगवत्पादैः भाष्ये – 

अथवा यथोक्तम् ऋग्वेदादिशास्त्रं योनिः कारणं प्रमाणमस्य ब्रम्हणः यथावत्स्वरूपाधिगमे । शास्त्रादेव प्रमाणाज्जगतो जन्मादिकारणं ब्रम्हाधिगम्यते इत्यभिप्रायः । शास्त्रमुदाहृतं पूर्वसूत्रे – “यतो वा इमानि भूतानि जायन्ते” इत्यादि ।

अत्र एव भगवत्पादानां भाष्यव्याख्यानावसरे न्यायनिर्णयकारैः उच्यते – 

अनुमानादपि लाघवानुगृहीतात् ब्रम्हस्वरूपधीसंभवात् तत्र शास्त्रमेव मानं इत्याशङ्क्याह- शास्त्रादिति । न तावदप्रत्यक्षं ब्रम्ह वन्हिवत् अविषेशतोऽनुमेयं, कार्यमात्रस्य कतृमात्रगमकत्वात् । न च लाघवात् तदैक्य धीः, विचित्रप्रासादादेः अनेककतृकस्यापि दृष्टत्वेन अनिर्णयात् । तथा च कर्तृः न सर्वज्ञत्वादि अनुमानलभ्यम् । शास्त्रे तु ‘यतः’ इति एकवचनात् कर्तैक्यसिद्धौ सर्वज्ञत्वादिसिद्धेः शास्त्रैक्यगम्यं ब्रम्ह इति भावः” इति ।

भाष्यं व्याख्यानं च परिशीलयामः चेत् इदं ज्ञातुं शक्यते यत् परमात्मा वेदेन केवलं ज्ञातुं शक्यः इति । एवञ्च नैय्यायिकैः यत् उच्यते परमात्मा अनुमानप्रमाणगम्यः इति तत् प्रकृते निरस्तम् । अतः प्राचीनानाम् भाष्यकारादीनां वचनं मनसि निधाय अद्वैतसिद्धिकारैः अपि मङ्गलश्लोकलेखनावसरे “शृतिशिखोथ्थाखण्डधीगोचरः” इति लिखितम् ।

एतादृशवाक्यलेखनं तेषाम् आत्मनः वेदैक्यगम्यत्वाभिप्रायं दृढयति । एतेन नैय्यायिकानां मतं निरस्तम् इति ज्ञयते। 

आकरग्रन्थाः 

  1.  तर्कसङ्ग्रहः ( न्यायबोधिनी – पदकृत्य – दीपिका – किरणावलीव्याख्योपेतः ), सम्पादकः – श्री कृष्णवल्लभाचार्यः , प्रकाशकः –  चौकाम्बा संस्कृत सीरीज् आफीस् , वाराणसी 
  1. लघुचन्द्रिकाप्रकाशः 

“अद्वैतसिद्धिव्याख्यायाः गौडब्रम्हानन्दीति प्रथितायाः लघुचन्द्रिकायाः अभिनवा व्याख्या”

व्याख्याता – वेदान्तकेसरी , वेदब्रम्हश्री के नारायणभट्टः 

  शङ्कराद्वैतशोधकेन्द्रम्

दक्षिणाम्नायजगद्गुरु श्री शङ्कराचार्यमहासंस्थानम् ,

श्री शारदापीठम् , शृङ्गेरी

  1. अद्वैतसिद्धिः

( बालबोधिनी टीका सहिता )

सम्पादकः – डा. सितांशुशेखर बागचिः 

रत्ना पब्लिकेशन् , कमच्छा , वाराणसी .

  1.  ब्रम्हसूत्रशांकरभाष्यम्

 (भाष्यरत्नप्रभया न्यायनिर्णयेन च सहितम्)

 आचार्यजगदीशशास्त्रिणा सम्पादितम्

 मोतीलाल् बनारसीदास

 वाराणसी

  1. न्यायसिद्धान्तमुक्तावली

(दिनकरीव्याख्यासहितम्)

हरिरामशुक्लशास्त्रिभिः सम्पादितम्

चौखम्बा प्रकाशनम्

वाराणसी