वेदे खगोलविज्ञानम्

प्रभाते प्रभाकरः प्राच्यां दिशि उदेत्य स्वप्रभया निखिलप्रपञ्चं प्रकाशयति । तथा रात्रौ चन्द्रमाः उदेत्य तारकोपेतस्सन् स्वकीयामृतकिरणानि सर्वस्मिन् जगति प्रसारयति । एवमन्वहं सूर्याचन्द्रमसौ सर्वान् लोकान् अनुगृह्णीतः। तयोरभावे जगदिदं तमसा आवृतं भवति । सूर्यचन्द्रयोर्गतिः, जगत्प्रकाशनविधानम् इत्यादिविषयाः खगोलशास्त्रे ज्योतिश्शास्त्रे च बहु विस्तरेण प्रतिपादितास्सन्ति । तेषां विषयाणां तत्प्रतिपादकशास्त्राणाञ्च मूलं तु वेद एव ।

तथाहि कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां द्वितीयकाण्डगतचतुर्थप्रश्नस्य अन्तिमे अनुवाके द्वौ मन्त्रौ श्रूयेते । तयोर्मन्त्रयोः कस्याञ्चिदिष्टौ याज्यापुरोनुवाक्यात्वेन विनियोगः कल्पसूत्रकारैर्निर्दिष्टः। का नाम सा इष्टिः…? सा कस्मै विहिता…? इति चिन्तायां काम्येष्टिप्रकरणे एवं श्रूयते यः पापयक्ष्मगृहीतः स्यात् तस्मा एतमादित्यं चरुं निर्वपेत् इति । पापयक्ष्मनामकः कश्चन व्याधिः। तेन यः पीड्यमानो वर्तते तस्मै व्याधिनिवारणोपायत्वेन काचन इष्टिः उपाख्यानमुखेन श्रुत्या विहिता प्रजापतेस्त्रयस्त्रिशद्दुहितर आसन् तास्सोमाय राज्ञेददात् तासा रोहिणीमुपैत्ता ईर्ष्यन्तीः पुनरगच्छन्ता अन्वैत्ताः पुनरयाचत ता अस्मै न पुनरददात्सोब्रवीदृतममीष्व यथा समावच्छ उपैष्याम्यथ ते पुनर्दास्यामीति स ऋतमामीत्ता अस्मै पुनरददात्तासा रोहिणीमेवोपैत्तं यक्ष्म आर्छद्राजानं यक्ष्म आरदिति तद्राजयक्ष्मस्य जन्म यत्पापीयानभवत्तत्पापयक्ष्मस्य यज्जायाभ्योविन्दत्तज्जायेन्यस्य य एवमेतेषां यक्ष्माणां जन्म वेद नैनमेते यक्ष्मा विन्दन्ति स एता एव नमस्यन्नुपाधावत्ता अब्रुवन्वरं वृणामहै समावच्छ एव न उपाय इति तस्मा एतमादित्यं चरुं निरवपन्तेनैवैनं पापात्स्रामादमुञ्चन् इति ।

चन्द्रस्य व्याधिसङ्क्रमणम्

पूर्वं प्रजापतेः त्रयस्त्रिंशत्सङ्ख्याकाः कुमार्यः आसन् । ताः अश्विन्यादयो रेवत्यन्तास्तारका एव । तासु कृत्तिकाः अम्बा दुला नितत्निरभ्रयन्ती मेघयन्ती वर्षयन्ती चुपुणीका इति श्रुत्युक्तास्सप्त । अवशिष्टाः अश्विन्यादयस्तारकाः षड्विंशतिः। आहत्य त्रयस्त्रिंशत् सम्पद्यन्ते । ताः सर्वाः कुमारीः राज्ञे चन्द्राय ददौ । स्वकुमारीणां विवाहः चन्द्रेण कृतवान् इत्यर्थः। ततः सः चन्द्रः प्रजापतिकुमारीषु रोहिण्यामेव अत्यन्तं प्रीतियुक्तः आसीत् । इतरासु ईषदपि प्रीतिं न प्रादर्शयत्। तदानीं रोहिणीव्यतिरिक्ताः इतराः प्रजापतिकुमार्यः सपत्नीबहुमानमसहमानास्सत्यः पित्रे प्रजापतये निवेदनकाङ्क्षया पुनः पितृसमीपं जग्मुः। चन्द्रोपि ताः अनुगम्य प्रजापतिं पुनः अयाचत । तदा प्रजापतिः सर्वेष्वपि अहस्सु साम्येन एताः सर्वाः उपैष्यामीति शपथं कुरु, ततः ताः पुनः दास्यामीत्यब्रवीत् । चन्द्रस्तथैव शपथमकरोत् । तदा प्रजापतिः उक्तप्रकारेण ताः कुमारीः पुनश्चन्द्राय दत्वा प्रेषयामास । गृहगमनानन्तरं चन्द्रः शपथमुल्लङ्घ्य यथापूर्वं रोहिणीमेव उपैत् । ततः सः यक्ष्मव्याधिना गृहीतः अभवत् । यक्ष्मव्याधिर्नाम क्षयव्याधिः। सः यक्ष्मव्याधिः राजानं सोमं प्राप्त इति व्युत्पत्या व्याधेः राजयक्ष्मनाम सम्पन्नम् । शपथोल्लङ्घनरूपः अपराधः सोमेन कृतः। तेन पापं सञ्जातम् । अतः चन्द्रः पापीयान् । पापात्मा चन्द्रः यक्ष्मव्याधिं प्राप्तवान् इति व्युत्पत्या अस्य व्याधेः पापयक्ष्म इति व्यवहारः सम्पन्नः। जायानिमित्तेन अयं व्याधिः सम्प्राप्त इति कारणात् व्याधेरस्य जायेन्यनाम सम्पन्नम् । राजयक्ष्म, पापयक्ष्म, जायेन्यशब्दवाच्याः व्याधयः क्षयव्याधेः अवान्तरविशेषाः। अवान्तरव्याधिविशेषाणां त्रयाणां नामानि यो वेत्ति सः एतादृशव्याधिं न लभते इति ज्ञानफलत्वेन श्रुत्या उक्तम् ।

चन्द्रस्य व्याधिमोचनम्

ततः सोमः स्वव्याधिकारणं ज्ञात्वा ताः प्रजापतिकुमारीः नमस्कृत्य आर्तोस्मि प्रसीदन्तु भवत्यः इति वदन् व्याधिनिवारणोपायं पप्रच्छ । तदा ताः प्रजापतिकुमार्यः वयं सर्वे तुल्यप्रतिपत्तयः स्याम, अस्मासु तव प्रीतिः साम्येन भवतु इति वरं वृतवत्यः। तदा चन्द्रः युष्मासु सर्वासु साम्येनैव प्रीतिः प्रदर्शयामीति वरं ददौ । ततः प्रजापतिकुमार्यः व्याधिपरिहाराय चरुद्रव्यकादित्यदेवताकयागं कृत्वा चन्द्रं प्रबलात् व्याधेः अमुञ्चन् । एवं लोकेपि पापयक्ष्मव्याधिना यः गृहीतो भवति तस्मै इष्टिः अध्वर्युप्रमुखैः ऋत्विग्भिः अनुष्ठिते सति व्याधिग्रस्तः तस्मान्मुक्तो भवति । इत्थं उपाख्यानमुखेन राजयक्ष्मव्याधिनिवारणोपायरूपा इष्टिः श्रुत्या विहिता ।

तस्यामिष्टौ यज्यापुरोनुवाक्यामन्त्रौ कौ इति चिन्तायां साक्षात् श्रुत्यैव एवमभिहितम् नवोनवो भवति जायमान इति पुरोनुवाक्या भवत्यायुरेवास्मिन्तया दधाति यमादित्या अशुमाप्याययन्तीति यज्यैवैनमेतयाप्याययति इति । तस्यामिष्टौ नवोनवो भवति जायमानः इत्यृक् पुरोनुवाक्या भवेत् । यमादित्या अशुम् इति तु याज्या भवेत् । पुरोनुवाक्यायाः अन्तिमे भागे दीर्घमायुः इति श्रुतत्वात् तत्पाठेन व्याधिग्रस्ते यजमाने आयुषः स्थापनं भवति । याज्यायाः उत्तमे भागे आप्याययन्तु इति श्रवणात् तत्पाठेन यजमानस्य आप्यायनं भवति । यजमानः व्याधिना मुक्तस्सन् पूर्वस्थितिं प्राप्य स्वस्थो भवतीत्यर्थः।

याज्यापुरोनुवाक्यामन्त्रौ इष्ट्यनुष्ठानकाले होत्रा पठ्येते । तत्पाठानन्तरं अध्वर्युणा प्रधानदेवतायै हवींषि दीयते । पुरोनुवाक्या नाम यष्टव्यदेवतायाः नामधेयरूपं लक्षणं देवतालिङ्गं यस्याः ऋचः पूर्वार्धे विद्यते सा ऋक् पुरोनुवाक्या । उत्तरार्धे विद्यते चेत् सा याज्या भवतीति याज्यापुरोनुवाक्ययोः साधारणनियमः श्रुत्या अभिहितः पुरस्ताल्लक्ष्मा पुरोनुवाक्या भवति उपरिष्टाल्लक्ष्मा याज्या इति । अस्य नियमस्य क्वचित् व्यभिचारोपि भवति ।

प्रकृते पुरोनुवाक्यायाः उत्तरार्धे याज्यायाः पूर्वार्धे च देवतालिङ्गं दृश्यते । पूर्वोक्तनियमः अत्र व्यभिचरितः। किञ्च याज्यापुरोनुवाक्ययोः देवतैक्यमपि नास्ति । पुरोनुवाक्यायां चन्द्रमाः इति याज्यायां आदित्याः इति च देवताभिन्नं दृश्यते। प्रकृतयागस्तु आदित्यं चरुं निर्वपेत् इति विधिवाक्येन आदित्यदेवताक इति ज्ञायते । तत्र पुरोनुवाक्यामन्त्रः एवमस्ति नवोनवो भवति जायमानोह्नां केतुरुषसामेत्यग्रे । भागं देवेभ्यो विदधात्यायन्प्र चन्द्रमास्तिरति दीर्घमायुःइति

अस्य मन्त्रस्य अन्तिमे भागे चन्द्रमश्शब्दश्रवणेन मन्त्रोयं चन्द्रप्रतिपादक इति यद्यपि ज्ञायते तथापि चन्द्रदीप्तेः आदित्यकारणत्वात् चन्द्राभेदेन आदित्यः एव अस्मिन् मन्त्रे स्तूयते इति भाष्यकारैस्सायणाचार्यैरुक्तम् । भट्टभास्कराचार्यैः चन्द्रमश्शब्दस्य आदित्यपरत्वेन निर्वचनं प्रदर्शितं चन्द्रस्य माता निर्माता इति । मन्त्रार्थः एवमस्ति 

चन्द्रः प्रतिदिनं उद्यन् एकैकस्मिन् दिने एकैकरूपेण दृश्यमानस्सन् नूतनो भवति । चन्द्रस्य नूतनत्वं कथमिति चेत् शुक्लप्रतिपदि एककलायुक्तः द्वितीयायां कलाद्वययुक्तः तथा कृष्णप्रतिपदि एककलाविहीनः द्वितीयायां कलाद्वयविहीनः इत्येवं कलावृद्धिक्षयाभ्यां नूतनत्वम् । तथाहि चन्द्रो नाम सप्रकाशः उदकमयगोलः। तदेव सूरयो वदन्ति सूर्यः अग्निमयो गोलः चन्द्रः स्वभावतः स्वच्छः इति । आर्यभटेन एवमभिहितम्

भूग्रहभानां गोलार्धानि स्वच्छायया विवर्णानि । अर्धानि यथासारं सूर्याभिमुखानि दीप्यन्ते इति

अन्तरिक्षे भूमेः, चन्द्रादिग्रहाणां, नक्षत्राणां च गोलाः विद्यन्ते । ते गोलाः स्वभावतः कृष्णवर्णाः। तेषां अर्धभागाः सूर्यस्य अभिमुखा भवन्ति । सूर्यकिरणसम्पर्केण तेषां गोलानां अर्धभागाः प्रकाशन्ते इति आर्यभटीयसूत्रार्थः। अनेन ज्ञायते चन्द्रः सूर्यकिरणसंसर्गेण प्रकाशवान् भवतीति । राष्ट्रभृन्मन्त्रेष्वेवं श्रूयते सुषुम्नः सूर्यरश्मिः चन्द्रमा गन्धर्वः इति । तत्र चन्द्रमसः सूर्यरश्मिरिति विशेषणम् । तद्विशेषणस्य सूर्यस्य रश्मिरेव रश्मिः यस्य सः इति विग्रहवाक्यम् । निरुक्तेप्येवं श्रूयते तस्य एको रश्मिः चन्द्रमसं प्रति दीप्यते इति । सूर्यस्य अनन्तानन्तकिरणेषु एक एव किरणः चन्द्रमसं प्रकाशते इति निरुक्तकर्त्रा यास्काचार्येणाप्युक्तम् ।

चन्द्रस्य प्रकाशनम्

नन्वत्र सूर्यकिरणसम्पर्केण चन्द्रः प्रकाशत इत्युक्तम् । अह्नि सूर्यः सर्वदा प्रकाशते । तत्किरणसंसर्गेण प्रकाशमानः चन्द्रस्तु न तथा दृश्यते । अमावास्यायां सर्वथैव न दृश्यते । इतरास्वपि रात्रिषु सम्पूर्णतया न प्रकाशते । कासुचिद्रात्रिषु कञ्चित्कालमेव प्रकाश्य अन्तर्हितो भवति । किमयं चन्द्रमाः सर्वदा प्रकाशते ? उत कदाचिद्वा ? यदि सर्वदा प्रकाशते तर्हि किमर्थं अस्मद्दृष्टिगोचरो न भवति ? इति चेदुच्यते । सूर्यकक्ष्यायाः अधः चन्द्रस्य कक्ष्या भवति । अमावास्यायां आदित्यस्य अधः चन्द्रो वर्तते । चन्द्रस्तु अम्बुमयः स्वभावतः श्यामवर्णश्च । तस्य उपरितनं गोलार्धं सूर्याभिमुखं भवति। तं गोलार्धम् अशेषं सूर्यः प्रकाशयति । अवशिष्टं बिम्बार्धं तु अधःप्रदेशवर्तित्वात् न प्रकाशयति । तच्च स्वभावसिद्धश्यामवर्णे एव भवति। अधस्तनेन बिम्बार्धेन आच्छन्नत्वात् चन्द्रस्य उपरितनं गोलार्धं प्रकाशमानमपि अस्माभिः नोपलभ्यते । ततः चन्द्रस्य दर्शोपलक्षिते उपरि बिम्बे केन्द्रात् यथा यथा तस्य प्राग्गमनवशात् पश्चात् आदित्यः अवलम्बते तथा तथा इन्दोः बिम्बमपि केन्द्रस्य अपरतः अवलम्बते । तद्वशात् इन्दोः अस्तकाले प्रकाशमानमर्धं यावद्दर्शोपलक्षितबिम्बार्धपरिध्यवधेः अधः अवलम्बते तावन्मात्रं बिम्बपश्चार्धं अस्माभिः शुक्लमुपलभ्यते । शेषमुपरिस्थितत्वात् अर्काभिमुखं भास्वरमपि नोपलभ्यते। एवं यावत् यावत् इन्दुबिम्बार्धं सवितृकराश्लिष्टमवलम्बते तावत् तावत् तिथिभेदेन शुक्लचन्द्रः उपलभ्यते । तेनामी ज्योत्स्नावितानावभासिनश्चन्द्रकराः भूतलावभासिनो भवन्ति । 

एवं यदा राशित्रयं इन्द्वर्कान्तरे भवति तदा इन्दुबिम्बपश्चिमार्धं श्वेतं भवति । अस्मद्दृश्ये च अर्धे पश्चाद्भागः सितो भवति । यदा षड्राशयः तदा अस्मद्दृश्यार्धस्य सर्वस्य आदित्याभिमुखत्वात् सर्वं श्वेतं दृश्यते । ततः परस्तादपि बिम्बपूर्वभागेन अर्कप्रत्यासत्तेः पश्चिमभागात् प्रभृति यावद्दर्शान्तम् असितमानं वर्धते । अतः अर्ककिरणाः उदकमयबिम्बस्पर्शप्रतिहताः तच्छ्वेतं कृत्वा ज्योत्स्नारूपेण नैशं ध्वान्तं अपध्वंसयन्ति । विषयेस्मिन् वराहमिहिरेणैवमुक्तम् 

सलिलमये शशिनि रवेर्दीधितयो मूर्छिताः तमो नैशम् । क्षपयन्ति दर्पणोदरनिहिता इव मन्दिरस्यान्तः।। इति

यथा दर्पणोदरे जले वा दिवाकरकराः सम्मूर्छिताः प्रसृतास्सन्तः गृहान्तर्गतं तमः क्षपयन्ति एवं सवितृमरीचयः अम्बुमये स्वभावतः श्यामेपि चन्द्रबिम्बे सम्मूर्छिताः नैशं ध्वान्तमपध्वंसयन्ति ।

चन्द्रगतिवशात् तिथिनिष्पत्तिः

कालमाधवीये चन्द्रकलाक्षयवृद्धिविचारे एवं दृश्यते

अर्काद्विनिस्सृतः प्राचीं यद्यात्यहरहश्शशी । तच्चान्द्रमानमंशैस्तु ज्ञेया द्वादशभिस्तिथिः।। इति

अमावास्यायां सूर्यमण्डलस्य अधस्तात् चन्द्रमण्डलं न्यूनातिरिक्तं सत् अवतिष्ठति । तदानीं सूर्यकिरणैः साकल्येनाभिभूतत्वात् चन्द्रमण्डलं ईषदपि न दृश्यते । तदुत्तरदिने चन्द्रः सूर्यमण्डलात् बहिर्निर्गत्य शीघ्रगामी सन् त्रिंशदंशोपेतराश्यां द्वादशांशैः सूर्यमुल्लङ्घ्य प्राचीं दिशं गच्छति । तदा चन्द्रस्य पञ्चदशभागेषु प्रथमो भागः दर्शनयोग्यो भवति । स एव भागः चन्द्रस्य प्रथमकलात्वेन व्यवह्रियते । तस्याः कलायाः निष्पत्तिकालः प्रतिपत्तिथिर्भवति । द्वितीयादितिथिष्वपि एवमेव बोध्यम् । चन्द्रः यदा सूर्येण विप्रकृष्टो भवति तदा पूर्णिमातिथिः। यदा सन्निकृष्टो भवति तदा अमावास्यातिथिः। पूर्णिमायां पूर्णकलायुक्तस्सन् सम्पूर्णतया प्रकाशते । अमावास्यायां कलाविहीनः सूर्येण युक्तः सूर्यकिरणैः अभिभूतस्सन् ईषदपि न दृश्यते इति ज्योतिश्शास्त्रे सिद्धान्तशिरोमणिकारेणोक्तम् ।

आदित्यस्य नूतनत्वम्

एवं सूर्यकिरणसम्पर्केण प्रकाशमानः चन्द्रः दिनेदिने एकैककलारूपेण वर्धमानः तथा क्षीयमाणः सन् नवोनवो भवति । अत्र चन्द्रः यथा नूतनो भवति तद्दीप्तिकारणभूतः आदित्योपि नूतनो भवति । कथमादित्यस्य नूतनत्वमिति चेत् संवथ्सरकालस्य द्वे अयने उत्तरायणं दक्षिणायनं चेति । उत्तरायणे सूर्यः उत्तरां दिशं गच्छति, दक्षिणायने दक्षिणां दिशम्। यद्यपि सूर्यः प्राच्यां दिशि उदेत्य पश्चादस्तमेति तथापि गतिभेदेन सूर्यस्य दक्षिणोत्तरदिग्गमनत्वं सङ्गच्छते । सूर्यः दक्षिणायनस्य प्रथमदिने यत्र उदेति ततः दक्षिणतः ईषत्प्रचल्य द्वितीयदिने उदेति । एवं तृतीयादिदिनेषु किञ्चित् किञ्चित् स्थनं परिवर्त्य दक्षिणायनस्य अन्तिमे दिने दक्षिणां दिशं प्राप्नोति । एवं उत्तरायणेपि । एवं दक्षिणोत्तरगतिभ्यां सूर्यः नूतनो भवति । चन्द्रवत् स्वरूपे भेदाभावेपि गतिभेदेन सूर्यः नूतनो भवति ।

मन्त्रस्य द्वितीयभागे एवमस्ति अह्नां केतुरुषसामेत्यग्रे इति । अह्नां केतुः सूर्य एव । सूर्ये उदिते सति अहः आरब्धमिति धिया सर्वोपि लोकः स्वस्वव्यापारेषु निमग्नो भवति । अतः सूर्यः दिवसानां चिह्नस्थानीयः। सः उषसां प्रभातकालानां आरम्भसमये प्राच्यां दिशि उदेति । भट्टभास्कराचार्यैः अस्य भागस्य चन्द्रपरत्वेन व्याख्यानं कृतम् अह्नां तिथीनां केतुः केतयिता ज्ञापयिता इति । अत्र अहन्शब्दः न दिवसपरः, किन्तु तिथिपरः। चन्द्रगतिवशादेव तिथयो निष्पद्यन्ते । अतः आदित्यवत् चन्द्रोपि अह्नां केतुः भवति । शुक्लपक्षे चन्द्रः अहरवसाने रात्रीणां आरम्भकाले प्रतीच्यां दृश्यते । कृष्णपक्षे तु रात्रीणामवसाने प्राच्यां दृश्यते ।

सूर्योदयं पुरस्कृत्य हविर्दानम्

ततः भागं देवेभ्यो विदधाति इति भागस्य अर्थः उच्यते । सूर्ये उदिते सति कर्मानुष्ठातारः यजमानाः अग्निहोत्रादिकर्मसु देवेभ्यः हविर्भागं प्रयच्छन्ति । अग्निहोत्रप्रकरणे सूर्योदयं निमित्तीकृत्य क्रियमाणः होमः अस्ति । तत्र उदितहोमः अनुदितहोमश्चेति पक्षद्वयम् । तैत्तिरीयब्राह्मणे एवं श्रूयते तद्धूयमानमादित्योब्रवीत् । मा हौषीः। उभयोर्वै नावेतदिति । सोग्निरब्रवीत् । कथं नौ होष्यन्तीति । सायमेव तुभ्यं जुहवन् । प्रातर्मह्यमित्यब्रवीत् । तस्मादग्नये साय हूयते । सूर्याय प्रातः इति ।

पूर्वं प्रजापतिः कस्मिंश्चिद्यागे अग्निमुद्दिश्य हविर्दानकाले मा हौषीः इति तं प्रजापतिं आदित्यः निवारयामास । कुत इति चेत् त्वया हूयमानं यद्धविः तत् अग्नेः मम च आवयोः सम्बन्धि । अतः तत् हविः ममापि भवतु, न तु अग्नेः एकस्य इत्यवोचत् । तदा प्रजापतिः सूर्याग्न्योः कालभेदेन हविर्दानव्यवस्थामकरोत् । सायङ्काले अग्नये हविः, प्रातःकाले सूर्याय हविः इति । 

तत्रैव एवं श्रूयते अग्निं वावादित्यस्सायं प्रविशति । तस्मादग्निर्दूरान्नक्तं ददृशे । उभे हि तेजसी सम्पद्येते । उद्यन्तं वावादित्यमग्निरनु समारोहति । तस्माद्धूम एवाग्नेर्दिवा ददृशे इति । आदित्यः सायं अस्तमयकाले तेजोरूपेण अग्निं प्रविशति । अतः तेजोद्वयमेलनेन रात्रौ अग्निः दूरादपि दृष्टिगोचरो भवति । तथा अग्निः रात्र्यवसाने उद्यन्तं आदित्यं अनुप्रविशति । अग्नितेजसः सूर्ये प्रविष्टत्वात् अह्नि अग्नेः तेजः न दृश्यते, केवलं धूम एव दृश्यते ।

आग्नेयी वै रात्रिः। ऐन्द्रमहः। यदनुदिते सूर्ये प्रातर्जुहुयात् । उभयमेवाग्नेय स्यात् । उदिते सूर्ये प्रातर्जुहोति रात्रौ अग्नेः प्रकाशाधिक्यात् रात्रिः आग्नेयी । इन्द्रशब्देन परमैश्वर्ययोगात् सूर्यः अत्र विवक्षितः। अह्नि सूर्यस्य प्रकाशाधिक्यात् अहः सौर्यम् । एवञ्च अनुदितहोमपक्षमाश्रित्य सूर्योदयात् प्राक् सूर्याय यत् हविः दीयते तत् आग्नेयमेव भवेत् । कुत इति चेत् सूर्योदयात् प्राचीनः कालः रात्र्यन्तःपातीति कृत्वा सर्वोपि कालः आग्नेय एव भवति । अतः तस्मिन् काले दत्तं हविः आग्नेयमेव भवति , सौर्यं तु न भवति । ततः कालद्वयेपि अग्नये हविः हुतं भवेत् । तन्माभूदिति उदितहोमपक्षः उक्तः। उदितहोमपक्षमाश्रित्य सूर्योदयादूर्ध्वं सूर्याय हविषि दत्ते सति तत् हविः सौर्यं भवितुमर्हति । एवं सूर्योदयं निमित्तीकृत्य यजमानाः अग्निहोत्रादिषु देवेभ्यः हविर्भागं विदधति ।

चन्द्रोदयमालक्ष्य हविर्दानम्

सूर्योदयवत् चन्द्रोदयं निमित्तीकृत्यापि देवेभ्यः हविर्भागं प्रयच्छन्ति । तैत्तिरीयसंहितायां द्वितीयकाण्डस्य पञ्चमे प्रश्ने अभ्युदयेष्टिरिति काचन इष्टिः श्रुत्या विहिता दृश्यते । सा इष्टिः चन्द्रे उदिते सति अनुष्ठीयते । तथाहि दर्शेष्टिः अमावास्यादिने आरभ्य प्रातः शाखाच्छेदनम्, वत्सापाकरणम्, सायङ्काले सायन्दोहः, दध्यातञ्चनपर्यन्तं अनुष्ठीयते । तदुतरदिने सूर्योदयात्प्रागेव प्रारभ्य इष्टिः अनुष्ठीयते । अनुष्ठाता यजमानः कृष्णचतुर्दश्यां प्रातरग्निहोत्रादूर्ध्वं अमावास्याभ्रान्त्या वत्सापाकरणादि दध्यातञ्चनपर्यन्तं विधाय दर्शः अद्य वा श्वो वा इति तिथिविषये सन्दिह्य श्वश्चेद्दर्शः अद्य चन्द्रमाः मां प्रति अभ्युदेष्यतीति यदि भीतो भवेत् तदा रात्रिमध्ये हवींषि निरुप्य फलीकरणान्तं विधाय तादृशैः फलीकृततण्डुलैः युक्तः चन्द्रोदयं प्रतीक्षेत । ततः प्रतीक्ष्यमाणः चन्द्रमाः पूर्वस्यां दिशि यदि अभ्युदेति तदा एतं यजमानं प्रजया पशुभिः च वियुक्तं करोति । अपिच यजमानस्य शत्रुमपि वर्धयति । अतस्तत्परिहाराय देवताभ्यः हवींषि दद्यात् । अत्र चन्द्रमसः अभ्युदयं निमित्तीकृत्य मध्यमस्थविष्टाणिष्ठरूपैः त्रिविधान् तण्डुलान् देवताभ्यः विभजेत् । विभज्य च मध्यमतण्डुलैः अष्टाकपालपुरोडाशद्रव्यं निष्पाद्य दातृगुणविशिष्टाय अग्नये, तथा स्थविष्ठतण्डुलैः चरुद्रव्यं निष्पाद्य प्रदातृगुणविशिष्टाय इन्द्राय, अणिष्ठरूपतण्डुलैः चरुद्रव्यं निष्पाद्य शिपिविष्टरूपाय विष्णवे हवीरूपेण दद्यात् । एवं कृते सति यजमानाय अग्निः प्रजां प्रजनयति । इन्द्रः वृद्धिं प्रयच्छति । विष्णुः यज्ञे पशुषु च एनं यजमानं सुप्रतिष्ठितं करोति । एवंरीत्या चन्द्रोदयं निमित्तीकृत्यापि देवेभ्यः हविर्भागं यजमानाः विदधति । तादृशः चन्द्रकलावृद्धिक्षयहेतुः आदित्यः इह कर्मणि आगच्छन् यजमानाय दीर्घमायुः प्रयच्छतु इति पुरोनुवाक्यामन्त्रार्थः।

देवतानिमित्तेन चन्द्रस्य वृद्धिक्षयौ

याज्यामन्त्रः एवमस्ति यमादित्या अशुमाप्याययन्ति यमक्षितमक्षितयः पिबन्ति । तेन नो राजा वरुणो बृहस्पतिराप्याययन्तु भुवनस्य गोपाः इति । चन्द्रः वृद्धिक्षयाभ्यां नूतनो भवतीति पूर्वतनमन्त्रे उक्तम् । तयोः वृद्दिक्षययोः देवतासम्बन्धः अस्मिन् मन्त्रे उच्यते । तथाहि चन्द्रे तावत् एका कला सर्वदा अवतिष्ठति । तादृशं स्थिरभूतैककलामात्रावशिष्टं तं चन्द्रमसं आदित्याः शुक्लपक्षे एकैककलाप्रदानेन आप्याययन्ति वर्धयन्तीत्यर्थः। प्रकृतयागस्य प्रधानदेवताः आदित्या एव । तेभ्य एव अस्मिन् यागे चरुद्रव्यं दीयते । ते प्रतिदिनं एकैककलाप्रदानेन चन्द्रं वर्धयन्ति । एवं कलाभिः अभिवृद्धः चन्द्रः पूर्णिमायां परिपूर्णो भवति । पूर्णिमायां अक्षीणबिम्बं चन्द्रं कृष्णपक्षे प्रतिदिनं वह्निरव्यादयो देवाः स्वयं क्षयरहिताः सन्तः एकैकां कलां पिबन्ति अपक्षयन्ति । सोमोत्पत्तौ एवं श्रूयते —

प्रथमां पिबते वह्निः द्वितीयां पिबते रविः। विश्वेदेवास्तृतीयां तु चतुर्थीं सलिलाधिपः।

पञ्चमीं तु वषट्कारष्षष्ठीं पिबति वासवः। सप्तमीमृषयो दिव्यामष्टमीमज एकपात् ।

नवमीं कृष्णपक्षस्य यमः प्राश्नाति वै कलाम् । दशमीं पिबते वायुः पिबत्येकादशीमुमा ।

द्वादशीं पितरस्सर्वे समं प्राश्नन्ति भागशः। त्रयोदशीं धनाध्यक्षः कुबेरः पिबते कलाम् ।

चतुर्दशीं पशुपतिः पञ्चदशीं प्रजापतिः। निष्पीतकलावशेषश्चन्द्रमा न प्रकाशते ।

कला षोडशिका या तु अपः प्रविशते सदा । अमायां तु सदा सोमः ओषधीः प्रतिपद्यते ।

तमोषधिगतं गावः पिबन्त्यम्बुगतं च यत् । ततः क्षीरममृतं भूत्वा मन्त्रपूतं द्विजातिभिः।

हुतमग्निषु यज्ञेषु पुनराप्यायते शशी । दिने दिने कलावृद्धिः पौर्णमास्या तु पूर्णता । इति

महर्षिर्भगवान् व्यासोपि एवमुवाच तं च सोमं पपुः देवाः पर्यायेणानुपूर्वशः इति ।

एवं यं आदित्याः वर्धयन्ति यं अक्षीणचन्द्रं क्षयरहिताः वह्निरव्यादयो देवाः पर्यायेण पिबन्ति तेन सोमेन सह भुवनस्य गोप्तारो देवाः आदित्यः, वरुणः, बृहस्पतिश्च रुग्णं यजमानं रोगनिवारणेन आप्याययन्तु अभिवर्धयन्तु इति याज्यामन्त्रार्थः।

एवं इष्टिगतयाज्यापुरोनुवाक्यामन्त्राभ्यां चन्द्रस्य सूर्यसम्पर्केण भास्वरत्वम् , देवतासम्बन्धेन वृद्धिक्षयत्वम् इत्येते विषयाः प्रतिपादिताः। एतदिष्ट्यनुष्ठानेन रोगग्रस्तो यजमानः रोगाद्विमुक्तस्सन् दीर्घमायुः प्राप्नोतीत्युक्त्वा उपसंहरामि ।

इत्थं 

हरि सीताराम मूर्ति

वेदविभागे शोधच्छात्रः

              कर्णाटकसंस्कृतविश्वविद्यालयः

बेङ्गलूरु