वेदान्ते योगदर्शनम्

प्रसन्न एस्. बी.
अनुसन्धाता, कर्नाटकसंस्कृतविश्वविद्यालयः
पम्पमहाकविमार्गः, चामराजपेटे, बेङ्गलूरु-१८
E Mail – prasannatmaa@gmail.com ; Phone : 9449478485

उद्धृतिः

भारतीय-आर्षपरम्परायां वेदाः एव अत्यन्तं महत्तरं स्थानं भजन्ते। वेदानाम् अर्थतः परिज्ञानं तु वेदाङ्गैरेव संसाधयितुं शक्यं नान्यथा। अतः वेदार्थपरिज्ञाने वेदाङ्गान्येव शरणानि तस्मात् वेदाङ्गानि वेदार्थसाधनोपकरणानि। वेदानां परमलक्ष्यप्रापकं दर्शनीयतमं वेदान्तदर्शनम् एवं यमाद्यष्टाङ्गसहितं योगदर्शनं च परस्परं कथं सम्बद्धम् एवं तयोः कुत्र साम्यम् इति च विचारः अत्र प्रस्तूयते।

वेदान्ते योगदर्शनम्

भारतीय-ज्ञानपरम्परायां वेदानां स्थानम् अत्यन्तं महत्वपूर्णं वर्तते इत्यत्र, श्रद्धालूनां तत्प्रामाण्याभ्युपगन्तॄणां केषामपि नास्ति विप्रतिपत्तिः। अतः तत्स्थानं तथैव परिरक्षितम्। यद्यपि तत्स्थानपरिरक्षणे स्वयं वेदः समर्थः अस्ति चेदपि, अङ्गानां, दर्शनानां, सर्वेषां शास्त्राणां च दायित्वमतीव वर्तते इति सर्वैः स्मर्तव्यमेव। अतः वेदोत्तरप्रामाण्यम् अङ्गानां, दर्शनानामस्ति। तत्रापि वेदानां सारार्थपरिज्ञानं दर्शनादेव सम्यग्भवति इति भावः जगति दरीदृश्यते।

तेषु हि दर्शनेषु उत्तरमीमांसादर्शनं (वेदान्तदर्शनं) साक्षात् वेदानां परमलक्ष्यप्रापणे प्रवृत्तं सत्, दर्शनीयतमं दर्शनम् इति स्थानमलङ्करोति। तदुपोद्बलकरूपेण अन्यानि दर्शनानि दृश्यन्ते। तेषु दर्शनान्तरेषु योगदर्शनं परमपुरुषार्थप्राप्त्यर्थं चित्तवृत्तिनिरोधात्मक-साधनत्वेन वर्णितम् अस्ति। तच्च दर्शनं यम-नियम-आसन-प्राणायाम-प्रत्याहार-धारणा-ध्यान-समाध्यात्मकाष्टाङ्गेन उपनिबद्धं महर्षिणा पतञ्जलिना।

          अनयोः उभयोः दर्शनयोः परस्मरं सम्बन्धः कथं वर्तते इति किञ्चित् प्रस्तूयते। वेदान्तो नाम “उपनिषत्प्रमाणं तदुपकारीणि शारीरकसूत्रादीनि च[i] इति उक्तत्वात् उपनिषदः एव वेदान्तशब्देन उच्यन्ते। अतः वेदान्तदर्शने योगदर्शनविचाराः अष्टाङ्गयोगगाः विषयाः परमपुरुषार्थस्य साधनत्वेन कथं निरूपिताः इति विचार्यते।

                   ध्यानबिन्दु-उपनिषदि षडङ्गयोगस्य वर्णनम् उपलभ्यते। यथा मन्त्रः – “आसनं प्राणसंरोधः प्रत्याहारश्च धारणा। ध्यानं समाधिरेतानि योगाङ्गानि भवन्ति षट्[ii]॥ इति अत्र पातञ्जलोक्त-अष्टाङ्गयोगेषु विद्यमानानि अङ्गानि एव वर्णितानि सन्ति। त्रिशिखब्राह्मणोपनिषदि प्राधान्येन योगस्य द्वैविध्यम् उपवर्णितम् अस्ति। तद्द्वैविध्यं तु कर्मयोगः ज्ञानयोगः च इति। तदुक्तं कर्म कर्तव्यमित्येव विहितेष्वेव कर्मसु। बन्धनं मनसो नित्यं कर्मयोगः स उच्यते॥ यत्तु चित्तस्य सततम् अर्थे श्रेयसि बन्धनम्। ज्ञानयोगः स विज्ञेयः सर्वसिद्धिकरः शिवः॥ एवं कर्मयोगज्ञानयोगद्वयं प्रतिपाद्य तत्र निर्विशेषब्रह्मज्ञानोपायत्वेन अष्टाङ्गयोगानां प्रतिपादनम् अपि कृतं वर्तते। यथा “यम-नियम-आसन-प्राणायाम-प्रत्याहार-धारणा-ध्यान-समाधयः॥ योगतत्त्वोपनिषदि उक्तं यत् – योगं विना ज्ञानं मोक्षदं न भवति। न च ज्ञानहीनः योगः अपि मोक्षसाधने समर्थो भवति इति। तदुक्तं – योगहीनं कथं ज्ञानं मोक्षदं भवति ध्रुवम्। योगोऽपि ज्ञानहीनस्तु न क्षमो मोक्षकर्मणि॥ इति अनेन ज्ञातुं शक्यते यत् उपनिषदि उक्तपरमपुरुषार्थस्य मोक्षस्य साधनार्थं योगसिद्धिः नितराम् अपेक्षिता इति। स च योगः मोक्षसाधनोपयोगिज्ञानं विना साधनस्थानीयः न भवति। अतः अनयोः उभयोः दर्शनयोः सम्बन्धः अस्ति इत्यत्र नास्ति विप्रतिपत्तिः।

 

योगदर्शनम् –

युज समाधौ, युजिर् योगे, एवं युज् संयमने इति त्रयाणां धातूनां भावे अर्थे घञ्-प्रत्यये कृते योगः इति शब्दस्य निष्पत्तिः भवति। योगः सन्नहनोपायध्यानसङ्गतियुक्तिषु इति अमरः। [योगः, पुं, (युज ममाधौ + भावादौ यथायथं घञ् ।) सन्नहनः । उपायः । ध्यानम् । सङ्गतिः । युक्तिः ।), (योग¦ पु॰ युज–भावादौ घञ्। संयोगे १ मेलने, २ उपाये, ३ वर्म्मादिधारणे, ४ ध्याने]। इत्येतेषु अर्थेषु योगः इति शब्दः लोके व्यवहारभाक् भवति। अत्र विद्यमानेषु बहुषु अर्थेषु योगः इति शब्दः योगदर्शने प्रयुक्तः। तत्र आदिमं सूत्रम् – “अथ योगानुशासनम्[iii]” इति। अत्र सूत्रे अथ इति शब्दः अधिकारम् अर्थं बोधयति। [अथ, व्य, (अर्थ + ड पृषोदरादित्वात् रस्य लोपः ।) मङ्गलं । अनन्तरं । आरम्भः । प्रश्नः । कार्त्स्न्यम् । इत्यमरः ॥ अधिकारः । संशयः । विकल्पः । समुच्चयः । इति मेदिनी ॥ (अथ तस्य विवाहकौतकं ललितं बिभ्रत एव पार्थिवः ॥ इति रघुवंशे ॥] योगः इति शब्दः तु समाधिरूपे अर्थे प्रयुक्तः अस्ति। स च योगः चित्तस्य धर्मः। तस्य स्वरूपं द्वितीयेन सूत्रेण वर्णितम् – “योगः चित्तवृत्तिनिरोधः[iv]” इति। चित्तस्य याः वृत्तयः भवन्ति तासां वृत्तीनां निरोधः एव योगः इति निगद्यते। ताः चित्तस्य वृत्तयः एवंविधाः।

  • क्षिप्तम् २) मूढम् ३) विक्षिप्तम् ४) एकाग्रम् ५) विरुद्धम् इति।

          तत्र सर्वासां वृत्तीनां निरोधे सति प्रथमेन सूत्रेण उक्तयोगशब्दस्य समाधिः इति यः अर्थः सः सिध्यति। तस्य साधनार्थम् अष्टौ अङ्गानि प्रयुक्तानि वर्तन्ते। तानि यम-नियम-आसन-प्राणायाम-प्रत्याहार-धारणा-ध्यान-समाधिरूपाणि सन्ति।

  • यमाः – अहिंसा-सत्य-अस्तेय-ब्रह्मचर्य-अपरिग्रहाः।
  • नियमाः – शौच-सन्तोष-तपः-स्वाध्याय-ईश्वरप्रणिधानानि।
  • आसनम् – स्थिरसुखमासनम्।
  • प्राणायामः – तस्मिन् सति श्वासप्रश्वासयोः गतिविच्छेदः।
  • प्रत्याहारः – स्वविषयासम्प्रयोगाभावे चित्तस्य स्वरूपानुकार इव इन्द्रियाणाम्।
  • धारणा – देशबन्धश्चित्तस्य धारणा।
  • ध्यानम् – प्रत्ययैकतानता ध्यानम्।
  • समाधिः – तदेवार्थमात्रनिर्भासं सरूपशून्यमिव समाधिः।

इदं योगस्य अष्टानाम् अङ्गानां स्थूलतः स्वरूपकथनम्।

          अधुना योगदर्शनोक्तयमस्य वेदान्तशास्त्रानुरोधेन मोक्षसाधनत्वं कथम् इति प्रस्तूयते।

  • यमः

यमे प्रथमं सोपानम् अहिंसाख्यं सर्वथा सर्वभूतानाम् अनभिद्रोहः इति प्रसिद्धम्। तन्मूलाः एव यमनियमाः प्रतिपद्यन्ते। अयं च यमः उपनिषन्मूलकः योगदर्शने उपस्थापितः इति वक्तुं कठोपनिषदः मन्त्रः उपोद्बलकः भवति। तथाहि मन्त्रवर्णः – “असुर्या नाम ते लोकाः अन्धेन तमसावृताः। तांस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः॥” अस्मिन् मन्त्रे अहिंसायाः विषयः प्राधान्येन निरूप्यते। ये च आत्मानं घ्नन्ति ते आत्महनो जनाः हिंसापरकाः इत्युच्यन्ते। ते एव जनाः अविद्वांसः भवन्ति। येन ते कदापि मोक्षमार्गं न प्राप्नुवन्ति। ये च अत्महननदोषेण संस्मरन्ति ते अविद्वांसः न मुच्यन्ते, तद्विपर्ययेण अनात्महनाः विद्वांसः जनाः संसारात् विमुच्यन्ते इति अर्थतः फलति। अनेन अहिंसायाः बन्धविमोकसाधनत्वं प्रतिपादितं भवति। एवम् अहिंसनात् एव जनाः कर्मविपाकेभ्यः विमुक्ताः भवन्ति इति स्पष्टं मन्त्रेण अनेन।

  • सत्यम्

सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम् इति उक्तत्वात् कृतस्य कर्मणः फलानुभवाय सत्यम् इति द्वितीयं सोपानं नितान्तम् अनिवार्यं साधनमार्गे। सत्यं नाम यथार्थकर्थनम् इत्यर्थः। अतः एव सत्यं वद इति अनुशास्ति अस्मान् श्रुतिः। यथाशास्त्रं यथाकर्तव्यं बुद्धौ सुपरिनिश्चितः अर्थः सत्यम् इत्यभिधीयते इति भाष्यपङ्क्तिः।अर्थात् शास्त्रनिर्दिष्टप्रकारेण साधकस्य कर्तव्यपरिपालनम् इति यद्वर्तते तम् अर्थं साधकः स्वबुद्धौ निधाय तदनुष्ठानपरः भवेत्। इदमेव सत्यपदवाच्यं भवति। तेन निश्चयेन सङ्कल्पितसाधनस्य फलं प्राप्तुं शक्यते, इति सत्यं वद इत्यादिसत्यपरकाणाम् अनुशासनानां सारः। इत्येवम् अर्थतः प्राप्तस्य सत्यधर्माद्याचरणस्य योगाङ्गत्वम् उपनिषत्सु प्रतिपादितम्।

  • अस्तेयम्

अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थापनम्। स्तेयं नाम अशास्त्रपूर्वकं द्रव्याणां परतः स्वीकरणम् इत्यर्थः। तदभावः अस्तेयम्। अस्मिन् विषये ईशावास्योपनिषदि श्रूयते यत् – “ईशावास्यमिदं सर्वं यत्किञ्च जगत्यां जगत्। तेन त्यक्तेन भुञ्जीताः मागृधः कस्यस्विद्धनम्॥” इति अस्मिन् मन्त्रे अनर्थभूतस्य स्तेयरूपस्य निषेधपूर्वकम् अस्तेयस्य विचारः प्रस्तूयते। अत्र ईशिता परमेश्वरः स च सर्वान्तरात्मा,  स हि प्रत्यगात्मतया सर्वम् ईष्टे। तेन आत्मना जगत्याम् अर्थात् पृथिव्यां विद्यमानं सर्वं व्याप्तम्। अर्थात् आत्मनः व्यतिरिक्तं न किञ्चिदस्ति इति सिद्धम्। आत्मनः सर्वव्यापित्वात् आत्मभिन्नं प्राप्तव्यं किञ्चित् नास्ति लोके। एवम् आत्मभिन्नस्य अभावात् आत्मनः प्राप्तिः स्तेयपदवाच्या न भवति। अर्थात् अस्तेयपदवाच्या भवति इत्यर्थः।

  • ब्रह्मचर्यम्

ब्रह्मचर्यप्रतिष्ठा इति तावत् यमे चतुर्थं सोपानम्। अत्र ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभः इत्युच्यते। अर्थात् निरतिशयरूपेण वीर्यलाभस्य सम्भवात् उपस्थस्य गुप्तेन्द्रियस्य संयमः सम्पद्यते। सः एव संयमः ज्ञानस्य आधाने परमं कारणं भवति। तादृशसंयमवशात् ज्ञानाधाने यत् सामर्थ्यम् उपपद्यते तेन एव मोक्षं मुमुक्षुः साधयितुं क्षमः भवति। तदुक्तं मन्त्रवर्णेन – ” श्वभावा मर्त्यस्य यदन्तकैतत्सर्वेन्द्रियां जरयन्ति तेजः। अपि सर्वं जीवितमल्पमेव तवैव वाहास्तव नृत्यगीते॥” इति।

 

  • अपरिग्रहः

यमे अन्तिमं सोपानं तावत् अपरिग्रहः इति। अपरिग्रहो नाम शब्दस्पर्शादीनां भोगसाधनानाम् असङ्ग्रहः इति। अर्थात् शब्दस्पर्शादिविषयाणां भोगतो विरमणमेव। तदेव वेदान्तेषु तितिक्षा अथवा इहामुत्रार्थफलभोगविरागः इत्यादिना उपस्थाप्यते। अत्र उच्यते अपरिग्रहस्थैर्ये जन्मकथन्तासम्बोधः इति। यदा दृढम् अपरिग्रहः संसाध्यते तदा जन्मकथंतासम्बोधः भवति। अर्थात् आत्मनः विषये “कथम्?” इति प्रश्नाः समुपद्यन्ते। ते च एवं भवन्ति। कोऽहम् आसम्? कथम् अहम् आसम्? के वा भविष्यामः? कथं वा भविष्यामः इत्येवंरूपेण। इमे एव प्रश्नाः मोक्षसाधनत्वोपयोगिनः भवन्ति आत्मपरकत्वात् इति अभिप्रायः।

इत्थं योगदर्शनोक्तेषु अष्टसु अङ्गेषु अन्यतमस्य यमस्य मोक्षसाधनत्वं वेदान्तेषु उपवर्णितम्। अनेन अध्ययनेन अवगम्यते यत् योगदर्शनोक्तस्य अष्टाङ्गयोगस्य मोक्षसाधनत्वं नितान्तम् अस्त्येव इति। अतः तद्दिशि प्रयतमानः अहम् इत उत्तरत्रापि अवशिष्टानां योगाङ्गानां वेदान्तदिशा मोक्षसाधनत्वं कथम् इति जिज्ञासा पुरस्सरं प्रतिपादयितुम् ईहमानः संशोधनपथे स्वात्मानं योजयामि।

ग्रन्थविद्यानुसेवनम्

  1. योगसूत्रम् – पतञ्जलिकृत / बल्देवमिश्रकृत ‘योगसूत्रदीपिका’ टीका सहित / भूमिका- डॉ. महाप्रभुलाल गोस्वामी चौकम्बा।
  2. ध्यानबिन्दूपनिषत् – डा। के एस् बालसुब्रमणियन् एवं डा। टि वि वासुदेवः। चेन्नै
  3. वेदान्तसारः – श्रीमता सदान्दसरस्वतिना विरचितो वेदान्तसारः चौकम्बा।

॥इति शम्॥

 

[i] वेदान्तसारः – ३

[ii] ध्यानबिन्दु-उपनिषत् – मन्त्रसङ्ख्या – ४१

[iii] योगसूत्रम् -१-१-१

[iv] योगसूत्रम् – १-१-२