[vc_row][vc_column][rev_slider_vc alias=”about-3″][vc_column_text el_class=”articles”]

वृत्तौ हि उपसर्जनानाम् एकत्वसङ्ख्यौत्सर्गिकी

Abstract :

संयोगान्तस्य लोपः इति सूत्रार्थविचारवेलायां प्रौढमनोरामायाम् अन्तपदग्रहणप्रयोजनविचारः कृतः। पदस्य इत्यधिकारः। पदस्य इत्यत्र संयोगस्य इति विशेषणं कृत्वा संयोगान्तस्य पदस्य इति लब्धुं शक्यते चेत् अन्तपदग्रहणं किमर्थम् इति प्रश्नः उत्थापितः। तत्र अन्तग्रहणस्य फलं संयोगौ अन्तौ यस्य इति द्विवचनान्तेन समासो भवतु इत्येदर्थम् इत्युत्तरितम्। अन्तपदग्रहणाभावे तु वृत्तौ हि उपसर्जनानाम् एकत्वसङ्ख्या औत्सर्गिकी इति संयोगः अन्ते इत्येवम् एकत्वमेव प्रतीयेत इति विचारः प्रस्तुतः। ईदृशसन्दर्भे वृत्तौ हि उपसर्जनानाम् एकत्वसङ्ख्यौत्सर्गिकी इति पङ्क्तिः दीक्षितैः मनोरमायाम् उद्धृतः। अस्याः पङ्क्तेः कोर्थः, अस्याः पङ्क्तेः विवरणं शब्दरत्नकारैः कथं कृतम्, दीक्षितशब्दरत्नपङ्क्त्योः अवगमः कथं भवेत् इति अस्मिन् लेखने विचार्यते। अस्याः पङ्क्तेरुपरि व्याख्यानम् बहुभिः कृतम् अथापि तदपेक्षया विलक्षणं मार्गम् आश्रित्य अत्र अस्मिन् लेखने पङ्क्तेः अर्थस्य विवरणं प्रदर्श्यते।

विवरणम् :

“वृत्तौ हि उपसर्जनानाम् एकत्वसङ्ख्यौत्सर्गिकी” इति प्रौढमनोरमापङ्क्तिः। अस्याः पङ्क्तेः अर्थावगमाय प्रथमतया पदत्रयस्यार्थः सम्यग् ज्ञेयः – १.वृत्तिः २.उपसर्जनम् ३.औत्सर्गिकी एकत्वसङ्ख्या

१.वृत्तिः – वर्तनार्थकात् वृतुधातोः क्तिन्-प्रत्यये वृत्तिः इति रूपं सिध्यति। वृत्तिशब्दः प्रायशः व्याकरणशास्त्रे पञ्चसु अर्थेषु प्रयुज्यते। 

वृत्तिशब्दार्थः उदाहरणम्
१.सूत्रार्थावबोधकं वाक्यम् इको यणचि इति सूत्रस्य वृत्तिं वदतु
२.सूत्रार्थप्रधानो ग्रन्थः काशिकावृत्तिः
३.पाणिनिप्रणीतसूत्राणां विवरणं चूल्लिभट्टिनल्लूरादिविरचितम् वृत्तिः
४.परार्थाभिधानम् कृत्तद्धितसमाससनाद्यन्तैकशेषाः पञ्चवृत्तयः
५.पदपदार्थसम्बन्धः सा च वृत्तिः त्रिधा शक्तिर्लक्षणाव्यञ्जना च 
६.जीवनोपायः जानपदकुण्ड…वृत्त्यमत्रा..केशवेशेषु 

प्रकृते दीक्षितपङ्क्तौ वृत्तिशब्दार्थः कः? इति चेत् संयोगान्तस्य लोपः इत्यत्र समासविचारसन्दर्भे वृत्तिशब्दः प्रयुक्तः इति कृत्वा अत्र वृत्तिशब्दस्य अर्थः परार्थाभिधानम्। तर्हि वृत्तौ इति शब्दस्य परार्थाभिधाने इत्यर्थः लब्धः। 

२.उपसर्जनम्: प्रथमा निर्दिष्टं समास उपसर्जनम्, सञ्ज्ञोपसर्जनीभूतास्तु न सर्वादयः, अनुपसर्जनात् इत्येवमादिषु स्थानेषु उपसर्जनशब्दः प्रयुज्यते। तत्र प्रथमानिर्दिष्टं समास उपसर्जनम् इति सूत्रेण सूत्रे यत् प्रथमान्ततया निर्दिष्टं तस्य उपसर्जनसञ्ज्ञा विधीयते। स्वादित्रिकैः प्रत्ययैः बोधितस्य शब्दस्वरूपस्यैव तर्हि उपसर्जनसञ्ज्ञा। तर्हि उपसर्जनसञ्ज्ञा शब्दस्वरूपस्य। एवञ्च प्रथमानिर्दिष्टं समास उपसर्जनम् इति सूत्रे उपसर्जनशब्दः शब्दस्वरूपपरकः इत्यवगम्यते। इतः सञ्ज्ञोपसर्जनीभूतास्तु न सर्वादयः इत्यत्र उपसर्जनशब्दार्थः कः इति अलोचयामः – सर्वादीनी सर्वनामानि इति सूत्रेण सर्वादिगणपठितसदृशानां सर्वनामसञ्ज्ञा विधीयते। उपसर्जनभूत इति पदम्। उपसर्जनभूताः न सर्वादयः इति। सर्वनामसञ्ज्ञापि शब्दस्वरूपस्य। तर्हि उपसर्जनभूतस्य प्राप्ता सर्वनामसञ्ज्ञा निषिध्यते इत्युक्तौ अत्रापि उपसर्जनभूतः शब्दरूपः एव स्यात्। अतः अस्मिन् वार्तिकेपि उपसर्जनशब्दः शब्दपरतया प्रयुक्तः। ततः अत्र इतोपि एकं सूत्रं विचारयामः अनुपसर्जनात् इति। अनुपसर्जनात् इति सूत्रस्य काशिकाव्याख्यायां न्यासे उपसर्जनशब्दः शब्दपरतया एव व्यवह्रतः। तद्यथा – “समासपदानाम् अत्रावयवः उपसर्जनम्। अत्रापि पूर्ववज्जातिशब्दः उपसर्जनः एवञ्च अनुपर्जनात् इति सूत्रे प्रतियोगिवाचकविधया निवेशितः उपसर्जनशब्दोपि प्रायः शब्दपरतया एव प्रयुक्तः। उपसर्जनशब्दस्य अर्थः कोपि भवतु प्रायः उपसर्जनशब्दः शब्दपरतया प्रयुक्तः अधुना विचारितेषु सूत्रेषु। तर्हि प्रकृतदीक्षितपङ्क्तिः-“वृत्तौ हि उपसर्जनानाम् एकत्वसङ्ख्यौत्सर्गिकी”। वृत्तौ नाम परार्थाभिधाने ये उपसर्जनाः इत्युक्तौः शब्दाः तेषाम् एकत्वसङ्ख्या औत्सर्गिकी इति पङ्क्त्यर्थः लब्धः। वृत्त्यधिकरणे कश्चित् उपसर्जनशब्दः न भवति। परन्तु यस्मिन् समासशब्दे वृत्तिः वर्तते तस्मिन् समासशब्दे तु उपसर्जनशब्दः भवितुम् अर्हति। उक्तरीत्या दीक्षितपङ्क्तेः व्याख्याने तु असामञ्जस्यं स्यात्। अतः अत्र उपसर्जनशब्दः यद्यपि प्रदर्शितेषु स्थानेषु शब्दपरतया प्रयुक्तः अथापि अस्मिन् स्थाने उपसर्जनशब्दः अर्थपरतया उन्नेयः। तथा च – “अप्रधानार्थः उपसर्जनः”। परन्तु वृत्तौ यथा शब्दो न भवति तथा अर्थेपि न भवति इति कृत्वा वृत्तौ इति पदस्य वृत्त्यर्थे लक्षणा स्वीकार्या। तथा च “वृत्तौ हि उपसर्जनानाम् एकत्वसङ्ख्यौत्सर्गिकी” इति पङ्क्तेरर्थः – वृत्त्यर्थे ये उपसर्जनपदर्थाः तेषाम् एकत्वसङ्ख्या औत्सर्गिकी। यथा राजपुरुषः इति समासपदम्। तर्हि राजपुरुषः इति पदे समासवृत्तिरस्ति। वृत्त्यर्थश्च राजसम्बन्धीपुरुषः। अत्र प्रधानार्थः पुरुषः। अप्रधानार्थः पुरुषभिन्नार्थः। तर्हि राजपदार्थोपि अप्रधानार्थः। अप्रधानार्थः एव उपसर्जनः इत्युच्यते। तर्हि अत्र वृत्त्यर्थे उपसर्जनः राजपदार्थः, तस्य एकत्वसङ्ख्या औत्सर्गिकी इत्यर्थः। निरुक्तरीत्या व्याख्याने दीक्षितपङ्क्त्यर्थस्य सङ्गमनं तु भवति। परन्तु समर्थसूत्रभाष्यविरोधः भवति। 

  • समर्थसूत्रभाष्यविरोधः

तथाहि समर्थसूत्रभाष्ये वाक्यसमासयोः वैलक्षण्यप्रदर्शनावसरे भगवता भाष्यकारेण उक्तम् – “सङ्ख्याविशेषो भवति वाक्ये – राज्ञः पुरुषः, राज्ञोः पुरुषः, राज्ञां पुरुषः इति। समासे न भवति राजपुरुषः इति” अस्य भाष्यस्य अर्थः सम्यगनुसन्धेयः – वाक्ये सङ्ख्याविशेषो भवति इति भाष्यपङ्क्तेः अक्षरार्थः कः? वाक्यम् एकम्, द्वे वाक्ये, त्रीणि वाक्यानि इत्येवं वाक्ये सङ्ख्याविशेषो भवति इति। ततः समासे न भवति इति भाष्यस्य अक्षरार्थो भवति। समासे सङ्ख्याविशेषो न भवति इति तु न युज्यते, यतः समासः द्विविधः नित्यसमासः अनित्यसमासः। अनित्यसमासः चतुर्विधः इत्येवं रूपेण समासेपि सङ्ख्याविशेषो अस्त्येव। तर्हि भाष्यकारेण समासे सङ्ख्याविशेषो नास्ति इति कथं प्रोक्तम्। तर्हि अत्र भाष्यपङ्क्त्यर्थसङ्गमनाय कैय्यटः एवं व्याख्यानं करोति – “वाक्ये उपसर्जनपदानि विभक्त्यर्थाभिधायित्वात् सङ्ख्याविशेषयुक्तं स्वार्थं प्रतिपादयन्ति। समासे त्वन्तर्भूतस्वार्थं प्रधानार्थम् अभिदधती इत्यभेदैकत्वसंख्यां गमयन्ति”

कैय्यटस्य अयमभिप्रायः – वाक्ये पदानि भवन्ति घटकतया। तत्र कानिचन पदानि अप्रधानार्थबोधकानि पदानि भवन्ति, तान्येव उपसर्जनपदानि। ईदृशम् वाक्यीयोपसर्जनपदं सङ्ख्याविशेषं न बोधयति, कुतः इति चेत् सङ्ख्याविशेषबोधकप्रत्ययसत्त्वात् वाक्यीयोपसर्जनपदे। यथा राज्ञः पुरुषम् आनय इति वाक्यम्। एतद्वाक्यजवाक्यार्थे पुरुषः प्रधानार्थः तस्यैव आनयनक्रियान्वयित्वात्। राजपदार्थस्तु अप्रधानार्थः। तथा च अप्रधानार्थबोधकशब्दः राज्ञः इति शब्दः। राज्ञः इति पदम् उपसर्जनपदम्। इदं पदम् राजपदार्थगतसङ्ख्याविशेषम् एकत्वसङ्ख्यां गमयति। एवम् राज्ञोः पुरुषम् आनय इत्यत्र उपसर्जनराजपदं सङ्ख्याविशेषं द्वित्वसङ्ख्यां गमयति, एवं राज्ञां पुरुषम् आनय इत्यत्र त्रित्वसङ्ख्याम्। परन्तु समासेपि घटकतया पूर्वपदम् उत्तरपदं मध्यपदम् इत्येव पदानि भवन्ति। तत्र समासघटकीभूतं यत् उपसर्जनपदं तत्तु सङ्ख्याविशेषं न गमयति अपि तु अभेदैकत्वसङ्ख्यां गमयति| 

  • अभेदैकत्वसङ्ख्याविचारः

अभेदैकत्वम् इत्यस्य द्विविधं विवरणं प्रदर्शितम् कैय्यटेन। तत्र प्रथमं – “सङ्ख्याविशेषाणाम् अविभागेन अवस्थानम् अभेदैकत्वसङ्ख्या। यथौषधिरसाः सर्वे मधुन्याहितशक्तयः। अविभागेन वर्तन्ते तां सङ्ख्यां तादृशीं विदुः”

अस्यायमर्थः – एकत्वम् आदिः यस्याः सा एकत्वादिः , एकत्वादिः सङ्ख्या एकत्वसङ्ख्या इति मध्यमपदलोपसमासः । न विद्यते भेदः विभागः यस्याः सा अभेदा । अभेदा एकत्वसङ्ख्या अभेदैकत्वसङ्ख्या इत्युक्तौ एकत्वादयः सङ्ख्याविशेषाः , ते पृथक्त्वेन न लभ्यन्ते । अपि तु अविभागेन प्रतीयन्ते । यथा मधुनि ओषधिशक्तिविशिष्टाः तिक्तादयः सर्वे रसाविशेषाः सन्ति , परं ते रसविशेषाः विभज्य अनुभवे नागच्छन्ति अपि तु रसत्वेन एव रसविशेषाणां तत्र प्रतीतिः । तथैव समासवृत्यर्थे उपसर्जने एकत्वादिसङ्ख्याविशेषाः एकत्वत्वादिना न प्रतीयन्ते अपि तु सङ्ख्यात्वेन एकत्वादयः सङ्ख्याविशेषाः प्रतीयन्ते । 

द्वितीयं विवरणम् – “परित्यक्तविशेषसङ्ख्यासामान्यम् अभेदैकत्वसङ्ख्या”।

अस्ययमर्थः – परित्यक्तः विशेषः येन तत् परित्यक्तविशेषम् । परित्यक्तविशेषम् सङ्ख्यासमान्यम् – परित्यक्तविशेषसङ्ख्यासामान्यम् । अस्मिन् पक्षे अयं विशेषः – सङ्ख्याविशेषाः अविभागेनापि न प्रतीयन्ते । अपि तु सङ्ख्यात्वत्वेन सङ्ख्यासामान्यमेव प्रतीयते न तु सङ्ख्याविशेषः । 

पक्षद्वयेपि सङ्ख्यासामान्यस्य एव प्रतीतिः तु सुनिश्चिता । तथा च राजपरुषः इति पदश्रवणात् परं पक्षद्वये सङ्ख्यावत्-राजसम्बन्धि-पुरुषः इति बोधः । 

अत्र कैय्यटस्योपरि उद्योतकाररत्नप्रकाशकारादयः आक्षिपन्ति – भाष्ये तु समासे सङ्ख्याविशेषो न भवति इत्येतावदेव उक्तं न तु समासे अभेदैकत्वसङ्ख्या भवतीति। कैय्यटेन स्वकपोलकल्पिता एषा अभेदैकत्वसङ्ख्या, नैतादृशः व्यवहारः भाष्ये दृश्यते। तदुक्तं रत्नप्रकाशे – “समासे सङ्ख्याविशेषो न प्रतीयत इत्येतावन्मात्रस्यैव भगवतोक्तत्वेनाभेदैकत्वसङ्ख्याख्यं कञ्चिदर्थं समासावयवोपसर्जनार्थगतं परिकल्प्य तन्निर्वचनस्य तत्र सम्मतिकथनस्य चासम्बद्धप्रलापत्वाच्च” नागेशेन चोक्तम् उद्योते – “अभेदैकत्वसङ्ख्या भासत इति तु भाष्ये न क्वापि दृश्यत इत्याहुः” कैय्यटखण्डनप्रकारः नात्र प्रस्तूयते। परन्तु समासघटकोपसर्जनपदात् अभेदैकत्वसङ्ख्या प्रतीयते कैय्यटस्य अभिप्रायः। रत्नप्रकाशकारादयः अत्र विप्रतिपद्यमानाः समासे सङ्ख्याविशेषो न भवति भाष्यपङ्क्तेः – वृत्त्यर्थे उपसर्जने सङ्ख्याविशेषः न प्रतीयते इत्यर्थं वर्णयन्ति। तथा च “समासे सङ्ख्याविशेषो न भवति” इति भाष्यपङ्क्तेः अर्थद्वयं प्राप्तम् –

कैय्यटाभिमतः – “समासघटकीभूतोपसर्जनपदात् संख्यासामान्यं प्रतीयते”

रत्नप्रकाशकाराद्यभिमतः – “समासवृत्त्यर्थे उपसर्जने सङ्ख्याविशेषो न प्रतीयते”

वृत्त्यर्थे उपसर्जने एकत्वसंख्या औत्सर्गकी इति दीक्षितपङ्क्तेः समर्थसूत्रभाष्येण सह कथं विरोधः इति चेत् – दीक्षितैः वृत्त्यर्थे उपसर्जने एकत्वसंख्या प्रतीयते इत्युच्यते। एकत्वं द्वित्त्वम् त्रित्त्वम् इत्यादयः सङ्ख्याविशेषाः। तर्हि एकत्वसंख्यापि संख्याविशेषः। तथा च दीक्षितैः वृत्त्यर्थे उपसर्जने संख्याविशेषः प्रतीयते इत्युक्तं भवति। परन्तु समर्थसूत्रभाष्यानुरोधेन वृत्त्यर्थे उपसर्जने संख्याविशेषः कोपि न प्रतीयते, अथवा वृत्त्यर्थे उपसर्जने संख्यासामान्यं वा प्रतीयते न तु संख्याविशेषः। तथा च समर्थसूत्रभाष्यस्य कैय्यटव्याख्या अनुसृता चेदपि रत्नप्रकाशादिव्याख्या अनुसृता चेदपि, वृत्तौ हि उपसर्जनानाम् एकत्वसंख्या औत्सर्गिकी इति दीक्षिपङ्क्तेः समर्थसूत्रभाष्येण विरोधः स्पष्टः। अतः भाष्यविरोधपरिहाराय एकत्वसंख्या औत्सर्गिकी इति दीक्षितपङ्क्तेः व्याख्यानं शब्दरत्नकारेण “अभेदैकत्वसंख्येति तदर्थः” इत्येवं कृतम्।

 ३.औत्सर्गिकी एकत्वसङ्ख्या

एकत्वसङ्ख्या इत्यस्य व्याख्यानं शब्दरत्नकारेण अभेदैकत्वसंख्या इति तु कृतम्, तेन भाष्यविरोधोपि परिहृतो भवति। परन्तु एवं व्याख्यानकरणे किं मानम् इति चेत् – 

पाठक्रमात् अर्थक्रमः बलीयान्। अतः अर्थक्रमानुरोधेन दीक्षितपङ्क्तिः एवं योजनीया – “वृत्तौ हि उपसर्जनानाम् औत्सर्गिकी एकत्वसंख्या”। तर्हि अत्र एकत्वसङ्ख्या इत्येव वक्तव्ये औत्सर्गिकी एकत्वसंख्या इति दीक्षितैः कथनात् किञ्चिद् वैशिष्ट्यं प्रतीयते। हुम्फडादिशब्देभ्यः औत्सर्गिकम् एकवचनं साधुत्वार्थं क्रियते, न तु सङ्ख्याबोधानार्थम् इत्याकरे। औत्सर्गिकैकवचनेन कापि संख्या न प्रतीयते। एवं यत्र कापि संख्या न प्रतीयते तत्र औत्सर्गिकम् एकत्वं प्रतीयते इति व्यवहारः। तथा च औत्सर्गिकी एकत्वसङ्क्या इत्यस्य संख्यासामान्याभावः इत्येवार्थः लब्धः। तदुक्तं शब्दरत्नकारेण “अभेदैकत्वसंख्येति तदर्थः। संख्यासामान्याभावः इति यावत्”। अभेदैकत्वसंख्या इत्यस्य व्याख्यानद्वयं पूर्वं दृष्टम्। परन्तु अभेदैकत्वसंख्या इत्यस्य तृतीयः अर्थः शब्दरत्नकारेण उच्यते – संख्यासामान्याभावः इति। तदित्थम् – द्वित्वादिसंख्याः भेदबुद्धिनिबन्धनाः। अभेदबुद्धौ तु द्वित्वादिसंख्याः अपि न प्रतीयन्ते। अतः अभेदसंख्या नाम सा संख्या एव न। परन्तु एकत्वसंख्या तु प्रतीतुम् अर्हति, सा अपि न प्रतीयते वृत्त्यर्थे उपसर्जने। कुतः इति चेत् राजपुरुषः इत्यादिसमासे उपसर्जनपदोत्तरम् एकत्वसंख्याबोधकविभक्त्यभवात्। अतः वृत्त्यर्थे उपसर्जने कापि संख्या न प्रतीयते इति शब्दरत्नकाराणाम् आशयः। 

 उपसंहारः

वृत्त्यर्थे उपसर्जने अभेदैकत्वसंख्या (संख्यासामान्यम्) प्रतीयते इति कैय्यटस्य अभिप्रायः । परन्तु भाष्ये तु समासे संख्याविशेषो न भवति इत्येवादेव उक्तं , न तु समासे अभेदैकत्वसंख्या प्रतीयते इति रत्नप्रकाशकारादीनाम् आक्षेपः । परन्तु “समासे संख्याविशेषो न भवति” इत्युक्तौ झटिति समासे तर्हि संख्यासामान्यं प्रतीयते इत्यर्थः प्रतीयते। समासे इत्युक्तौ समासवृत्त्यर्थे उपसर्जने संख्यासामान्यम् उपसर्जनपदं गमयति इति कैय्यटस्य आशयः। न कैय्यटमतं भाष्येण विरुध्यते अभेदैकत्वसंख्या इति शब्दप्रयोगमात्रेण। दधि मधु इत्यादौ प्रत्ययाऽभावेपि संख्यायाः प्रतीत्या, प्रातिपदिकमेव संख्यायाः वाचकम् इत्यङ्गीकर्तव्यम्। तथा च राजपुरुषः इत्यादौ समासे उपसर्जनराजादिपदेनापि संख्यायाः प्रतीतिस्तु भवति। परन्तु द्योतकप्रत्ययविशेषाभावात्, संख्यासामान्यामेव राजेति उपसर्जनपदात् प्रतीयते। इदं च व्यपेक्षावादिमते स्थित्वैव। अतः समासीयोपसर्जनपदेन समासवृत्त्यर्थे उपसर्जनपदार्थे संख्यासामान्यस्य प्रतीतिः इति कैय्यटाभिप्रायः युक्तः। एतद्भाष्यपङ्क्त्या तु अयमेवार्थः प्रतीयते। तर्हि वृत्त्यर्थे उपसर्जनपदार्थे कापि संख्या न प्रतीयते इति शब्दरत्नकारमतमेव भाष्यविरुद्धम् अतः दुष्टमिति चेत्तदपि न – 

वैय्याकरणैः एकार्थीभावसामर्थ्यस्य स्वीकारेण राजपरुषः इत्यादौ विद्यमानसमासवृत्त्या राजसम्बन्धीपुरुषः इति विशिष्टैकार्थः उपस्थाप्यते। अस्य विशिष्टार्थस्य वाचकं पदम् अखण्डं राजपुरुषः इति पदम्। तर्हि अत्र उपसर्जनपदस्य स्वार्थो नास्ति इति कृत्वा, वृत्त्यर्थे उपसर्जनपदार्थे कापि संख्यैव न प्रतीयते। ननु पदार्थः संख्याऽव्यभिचारी इति कृत्वा उपसर्जनराजपदार्थादिषु एकत्वसंख्या प्रतीयते एव इति चेत् – सत्यम्। तात्पर्यवशात् उपसर्जनपदार्थे काचित् संख्या प्रतीयते चेदपि, सः न शब्दार्थः। अतः राजपुरुषः इति समासपदस्य यः राजसम्बन्धीपुरुषः इत्यर्थः, तत्र उपसर्जनपदार्थे राज्ञि या कापि संख्या प्रतीयते चेत् तस्य शाब्दबोधविषयत्वं तु नास्ति। एवं रीतिः क्वचित् वैय्याकरणैः आश्रिता वा इति चेत् – मञ्जूषादिषु नागोजिभट्टैः एषा रीतिः आश्रिता। तथाहि शक्तिनिरूपणप्रकरणे उक्तं परमलघुमञ्जूषायाम् – “गुडादिशब्देन गुडत्वजात्यवच्छिन्नो गुडपदवाच्य इत्येव बोधो जातिप्रकारकः। मधुरत्वं तु गुडो मधुरः ऐक्षवत्वात् इत्यनुमानरूपमानान्तरगम्यम्” एवञ्च “वृत्तौ हि उपसर्जनानाम् एकत्वसंख्या औत्सर्गिकी” इति दीक्षितपङ्क्तेः अयमर्थः – “वृत्त्यर्थे उपसर्जनानां वृत्त्या संख्यासामान्याभावः प्रतीयते”।

Ramakrishna Venkatramana Bhat
Mphil student , Vyakarana
Karntaka Sanskrit Universtity
Benglore
Mobile no: 9481721183
Mail address: rvbhat1995@gmail.com

.[/vc_column_text][/vc_column][/vc_row]