रत्नकोषकारमतवादार्थानुरोधेन उत्तेजकीभूतेच्छायाः अनुगमविचारः

ज. श्रीनिवासः,
न्यायाध्यापकः, शास्त्रविद्यागुरुकुलम्,
कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालयः, रामटेकम्
प्रस्तावना

सुविदितमेवैतत् परमकारुणिकेन मुनिना गोतमेन जगदुद्दिधीर्षुणा अष्टादशविद्यास्थानेषु अभ्यर्हिता आन्वीक्षिकी प्रणीता। अस्याः आन्वीक्षिक्याः मोक्षाख्यपरमपुरुषार्थसाधनत्वं ‘प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्क-निर्णयवादजल्पवितण्डाहेत्वाभासच्छलजातिनिग्रस्थानानां तत्त्वज्ञानान्निःश्रेयसाधिगमः’ इति सूत्रेण अप्रदर्शयन्। 

न्यायभाष्यकृता वात्स्यायनेन –

“प्रदीपः सर्वविद्यानामुपायः सर्वकर्मणाम्।

आश्रयः सर्वधर्माणां विद्योद्देशे प्रकीर्तिता”॥

इति न्यायशास्त्रस्य सकलविद्याप्रकाशकत्वमथ च सर्वव्यवहारोपयोगित्वमुपपादितम्। न्यायशास्त्रप्रतिपादितशैलीमनुसृत्त्यैव सर्वैरपि विद्वद्भिः स्वशास्त्रीयविषयाणां चिन्तनं निरूपणञ्च क्रियत इति नाऽतिशयोक्तिः। 

सर्वैरपि विद्वद्भिः मानाधीना मेयसिद्धिः इति वचनमनुरुध्य प्राधान्येन प्रमाणतत्वमेव आदौ विचार्यते। तत्रापि स्वेन निश्चितानामर्थानां प्रतिपादकानि यानि वाक्यानि तेषां समूहरुपस्य ग्रन्थस्य परार्थानुमानतया अनुमानप्रमाणस्यैव अभ्यर्हितत्वं निर्णयद्भिः अनुमानप्रमाणमेव सर्वतोऽधिकं परामृश्यते।

न्यायशास्त्रे प्रत्यक्षानुमानोपमानशब्दाः इति चत्वारि प्रमाणानि अङ्गीकृतानि। अनुमानप्रमाणे च हेतौ सद्धेतुत्वज्ञानमिव हेत्वाभासत्वज्ञानमपि तत्वनिर्णये स्वपक्षविजये वा अत्यन्तमुपयुज्यते। अतः हेत्वाभासानां सव्यभिचाविरुद्धसत्प्रतिपक्षासिद्धबाधरूपाणां पञ्चानां निरूपणं विस्तृतं दरीदृश्यते। तेषु च हेत्वाभासेषु अन्यतमः सत्प्रतिपक्षः। तत्सम्बद्धविचारविषयोऽयं ग्रन्थः रत्नकोषकारमतवादार्थविचार इति।

रत्नकोषकारमतवादार्थविचारः इत्ययं ग्रन्थः हरिरामतर्कवागीशैः विरचितः। सम्प्रति न्यायशास्त्रस्य पठनपाठनपरम्परायां प्रसिद्धेषु न्यायसिद्धान्तमुक्तावली-दिनकरी-सत्प्रतिपक्षादिषु रत्नकोषकारशब्दः श्रूयते। हेत्वाभासेषु अन्यतमः सत्प्रतिपक्षः। यस्य साध्याऽभासाधकं हत्वेन्तरं विद्यते स सत्प्रतिपक्षः इति तस्य लक्षणम्। यदा शब्दः नित्यः श्रावणत्वात् इति शब्दे श्रावणत्वहेतुना नित्यत्वे सधनीये, शब्दः अनित्यः कार्यत्वात् इति शब्दे कार्यत्वेन हेतुना अनित्यत्वं सिषधयितुं विरोधी प्रत्यवतिष्ठते, तदा परस्परं प्रतिबन्धात् न किञ्चिदनुमानमुत्पद्यते इति अस्य हेत्वाभासस्य अनुमितिप्रतिबन्धः फलम्। रत्नकोषकाराः अस्यां सत्प्रतिपक्षसंवलनदशायां संशयाकाराऽनुमितिः जायते इति उपपादयन्ति। इदं मतं नैयायिकानां सिद्धान्तविरुद्धम्। नैयायिकैः प्रत्यक्षमेव ज्ञानं संशयनिश्चयभेदेन द्विविधमिति अङ्गीक्रियते। परोक्षमनुमित्यादिकं निश्चयात्मकमेव। अस्मिन् ग्रन्थे सविवरणं सत्प्रतिपक्षसंवलनदशायां किं संशयाकारानुमितिरुत्पद्यते उत अनुमितिः प्रतिबध्यते इति विचारितम्। 

अयं ग्रन्थः स्वतन्त्रः, तत्त्वचिन्तमण्यादीन् नानुसरति। हरिरामतर्कवागीशाः स्वयमेव नूतनस्थलानि पूर्वपक्षत्वेन आदृत्य स्वतन्त्रान् एव विचारान् अकुर्वन् इति सुस्पष्टमवगम्यते। अयं ग्रन्थः रत्नकोषकारमतखण्डनपरः। अन्यत्र ग्रन्थेषु सत्प्रतिपक्षादिषु अनुमितेः संशयत्वं कथं सामग्रीसमाजग्रस्तमित्यादिविषयाः विचारिताः। तेषां च खण्डनं तेषु ग्रन्थेषु दरीदृश्यते। अस्मिन् ग्रन्थे तदपेक्षया भिन्नाः एव विषयाः विचारिताः इति अपुर्वत्वं अवश्यपठनीयत्वञ्च अस्य ग्रन्थस्य अवगम्यते।

ज्ञानं हि प्रत्यक्षं परोक्षमिति द्विविधम्। इन्द्रियजन्यं ज्ञानं प्रत्यक्षं, परामर्श-उपमान-शब्दज्ञानजन्यानि अनुमित्युपमितिशाब्दानि परोक्षशब्दवाच्यानि भवन्ति। तत्र प्रत्यक्षं निश्चयात्मकं, संशयात्मकमिति द्विविधं प्रसिद्धम्। तथा हि “अयं घटः” “अयं घटो न वा” इति संशयनिश्चयौ प्रत्यक्षेण जायमनौ अनुभवसिद्धौ। न तथा अनुमित्यादिपरोक्षज्ञानं द्विविधं अनुभवसिद्धम्। अतः निश्चयात्मकमेव परोक्षज्ञानं भवतीति नैयायिकसिद्धान्तः।

तद्वत्ताबुद्धिं प्रति तदभाववत्तानिश्चयस्य इव तदभावव्याप्यवत्तानिश्चयस्यापि प्रतिबन्धकत्वं विद्यते। तथाहि – ह्रदो वह्निमान् इति बुद्धिं प्रति वह्न्यभावव्याप्यजलवान् ह्रदः इति निश्चयः तदभावव्याप्यवत्तानिश्चयमुद्रया प्रतिबध्नाति। एवञ्च यत्र पक्षः साध्यव्याप्यवान्, पक्षः साध्याभावव्याप्यवान् इति पक्षे साध्य-तदभावसाधकपरामर्शद्वयं संवलितं, तादृश्यां सत्प्रतिपक्षसंवलितदशायां न एकतरकोट्यवगाहिनी निश्चयात्मिका अनुमितिः सम्भवति, विरोधिकोट्यवगाहिनः परामर्शस्य प्रतिबन्धकस्य सत्वात्। अस्याम् अवस्थायां न काऽप्यनुमितिः भवतीति सिद्धान्तः। परन्तु रत्नकोषकाराः एतादृशावस्थायां संशयात्मिका अनुमितिर्भवतीति प्रतिपादयन्ति। ननु अनुमितिः परामर्शजन्या भवति। परामर्शेण संशयस्तु न भवतीति अनुभवसिद्धोंऽशः। एवञ्च संशयत्वं परामर्शजन्यतावच्छेदकं न भवतीति कथं सत्प्रतिपक्षसंवलनदशायां संशयाकारा अनुमितिः सम्भवति इति चेत्, यद्यपि संशयत्वं परामर्शजन्यतावच्छेदकं न भवति, तथाऽपि सत्प्रतिपक्षसंवलनदशायां एकधर्मिकविरुद्धोभय-व्याप्यवत्तानिश्चयाभ्यां जायमाना अनुमितिः संशयाकारा एव भवति। यतः एकधर्मिकविरुद्धोभयव्याप्यवत्ताज्ञानेन एकधर्मिकविरुद्धोभयप्रकारकमेवज्ञानमुत्पद्यते, तच्च ज्ञानं संशये पर्यस्यति। अत एव नव्यनैयायिकैः संशयत्वं निश्चयत्वं वा न कस्याऽपि ज्ञानस्य धर्मः, अपि तु उत्पत्स्यमानज्ञानसामग्र्यधीनः धर्मः। एवञ्च यदि एकस्मिन् ज्ञाने विरुद्धोभयधर्मयोः प्रकारतया भासकसामग्री समवहिता, तदा उत्पत्स्यमानं ज्ञानं संशयात्मकं भवति। यदि एकस्यैव धर्मस्य प्रकारतया भासकसामग्री समवहिता, तदा उत्पत्स्यमानं ज्ञानं निश्चयात्मकं भवति। प्रकृते सत्प्रतिपक्षसंवलनदशायां विरुद्धोभयधर्मयोः प्रकारतया भासकसामग्री अस्तीत्यतः जायमानं ज्ञानं संशयाकारं भवतीति न कश्चिद्दोषः।

तद्वत्ताबुद्धिं प्रति तदभावव्याप्यवत्तानिर्णयः प्रतिबन्धकः, तद्वत्ताजिज्ञासा उत्तेजिका। उत्तेजकीभूतेच्छानां अनुगमः चिकीर्षते । तथाहि चाक्षुषस्पार्शनादिविषयेकेच्छानां कृतिविशिष्टेच्छात्वेन अनुगमः क्रियते। अत्र जानाति इच्छति यतते ततः फलमिति नियमः ज्ञानोत्पत्तावपि कृतिः स्वीक्रियते इति ग्रन्थावलोकनेन विज्ञायते। तथाहि कृतिवैशिष्ट्यञ्च इच्छायां स्ववृत्तिप्रत्यक्षविषयकत्वसम्बन्धेन। स्ववृत्तित्वञ्च प्रत्यक्षे कालिकसम्बन्धेन। एवञ्च स्वसमानकालीनप्रत्यक्षविषयकत्वसम्बन्धेन कृतिविशिष्टा इच्छा इति फलितम्। यत्र तदभावव्याप्यवत्तानिर्णयः तद्वत्ताविषयकचाक्षुषेच्छा, तदुनु तत्समानविषयककृत्युत्तरं  तद्वत्ताचाक्षुषमुत्पद्यते इति तत्र तादृशकृतिसमानकालीन-तादृशचाक्षुषविषयकत्वं तद्वत्ताचाक्षुषेच्छायाः वर्तते इति तद्वत्ताचाक्षुषेच्छायाः उत्तेजकत्वम् इति समन्वयः। एवमेव  पूर्वं यत्र पर्वतो वह्न्यभावव्याप्यवान् इत्याकारकनिर्णयदशायां पर्वतविशेष्यकवह्नि-प्रकारकस्पार्शनसामग्र्यभावकालीनायां पर्वते वह्निस्पार्शनं जायतामित्याकारकेच्छायां सत्यां पर्वतविशेष्यकवह्निचाक्षुषसामग्रीसमवधाने पर्वतो वह्निमान् इति चाक्षुषापत्तिः इति उक्तम्। प्रकृतानुगमानुरोधेन तु न तादृशी आपत्तिः। तथाहि पर्वते वह्निस्पार्शनं जायतामितीच्छा निरुक्तसम्बन्धेन कृतिविशिष्टा न भवति। तत्र तादृशस्पार्शनसामग्र्याः अभावात् तादृशं स्पार्शनं नोत्पद्यते इति तादृशकृतिसमानकालीनतादृशस्पार्शनविषयकत्वं तत्रस्थेच्छायां नास्तीति न उत्तेकजकता-वच्छेदकाक्रान्ता सा इति नाऽपत्तिः। अयमनुगमः न घटते इति निराक्रियते – पूर्वोक्तसम्बन्धेनेच्छायाः कृतिवैशिष्ट्यं कार्योत्पत्यधीनं, कार्यञ्च प्रत्यक्षादि उत्तेककाधीनमिति उत्तेजकज्ञाने कार्यस्य कार्यस्य ज्ञाने उत्तेजकज्ञानस्य चाऽपेक्षितत्वात् अन्योन्याश्रयः दोषः। अतः अयमनुगमः न साधीयान्।

परिष्क्रियते – कृतिविशिष्टेच्छात्वेनैवानुगमः क्रियते। परं कृतिवैशिष्ट्यञ्च इच्छायां स्ववृत्तिप्रत्यक्षसजातीय(प्रत्यक्ष)विषयकत्वेन। स्ववृत्तित्वञ्च स्ववृत्तित्वञ्च कालिकविशेषणतासम्बन्धेन। प्रत्यक्षसाजात्यञ्च स्वनिष्ठभेदप्रतियोगितावच्छेदकधर्मेण। एवञ्च स्वसमानकालीनप्रत्यक्षनिष्ठभेदप्रतियोगि-प्रत्यक्षविषयकत्वम् इच्छायां कृत्या सा सम्बन्धः इति पर्यवसितम्। अनेन न पूर्वोक्तदोषः। कृतिसमानकालीनप्रत्यक्षसजातीयप्रत्यक्षमित्यनेन तादृशकृत्यव्यवहितोत्तरोत्पन्नप्रत्यक्षापेक्षं न भवति। तादृशप्रत्यक्षसजातीयप्रत्यक्षं चाक्षुषादिसामान्योत्पत्यधीनं, अतो न अन्योन्याश्रयः। अत्राशङ्का, यत्र तदभावव्याप्यवत्तानिर्णयकाले घटादिस्पार्शनं विद्यते, तदुत्तरं पर्वते वह्निस्पार्शनं जायतामिति स्पार्शनेच्छा, तत्र पर्वतो वह्निमानिति चाक्षुषापत्तिः।  तादृशस्पार्शनेच्छायाः वह्निस्पार्शनकृतिसमानकालीनवह्निचाक्षुषसजातीय-स्पार्शनविषयकत्वात् । अतः अयमप्यनुगमः न साधीयान्। 

प्रत्यक्षांशे स्ववृत्तित्वमिव स्ववृत्तिप्रागभावप्रतियोगित्वमिति विशेषणं दीयते। स्ववृत्तित्वञ्च प्रागभावे कालिकविशेषणतासम्बन्धेन। तथाच स्वसमानकालीनम् अथ च स्वसमानकालीनप्रगभावप्रतियोगि च यत्प्रत्यक्षं तद्विषयकत्वमिति कृतीच्छयोः सम्बन्धः। अनेन न पूर्वोक्तस्थले दोषः। तत्र तदभावव्याप्यवत्ताकालीनघटस्पार्शनमादाय आपत्तिरुपपादिता। प्रकृते तु तादृशकृतिसमानकालीनप्रागभावप्रतियोगित्वं तस्य स्पार्शनस्य न सम्भवतीति न पूर्वोक्तापत्तिः। अनुगमान्तरमुपपादयति – स्ववृत्तिप्रत्यक्षवत्त्वसम्बन्धेन कृतिविशिष्टेच्छात्वेन अनुगमः। स्ववृत्तित्वञ्च कालिकविशेषणतासम्बन्धेन। प्रत्यक्षवत्त्वञ्च स्वसजातीयविषयकत्व-स्वपूर्वत्त्वोभयसम्बन्धेन। एवञ्च स्वसमानकालीनप्रत्यक्षसजातीयप्रत्यक्षविषत्वं, स्वसमानकालीनप्रत्यक्षपूर्ववृत्तित्वमिति कृतीच्छयोः सम्बन्धः इति फलति। तथा च पूर्वोक्तस्थले तादृशकृतिसमानकालीनप्रत्यक्षपूर्वत्वं कृत्यव्यवहितक्षणोत्पन्नप्रत्यक्षे न सम्भवतीति न दोषः।