मौनिश्रीकृष्णभट्टमतानुसारं शाब्दबोधविचारः

कार्तिक् भाग्वत्
व्याकरणे सहायकप्राध्यापकः
शास्त्रविद्यागुरुकुलम् (School of Shastric Learning)
कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालयः, रामटेकम्

9448698828, kartikbhagwat94@gmail.com 

गुरुभ्यश्च ग्रहेभ्यश्च मया बद्धोऽयमञ्जलिः । प्रसन्नमनसस्ते मे सत्यां कुर्वन्तु भारतीम् ॥

सुविदितमेवैतत् शास्त्रविदुषां यद्वैयाकरणं महाशास्त्रं पदसाधुत्वलक्षणमिति । तस्मिन् महति प्रपञ्चे परिलक्ष्यमानेषु शाब्दबोध इत्यप्ययमेको महान् विषयः । शब्दस्य श्रवणं नहि शाब्दबोधः स हि शब्दबोधः । शाब्दस्तु सो भवति यः भाषाज्ञानवतः संस्कारालिङ्गिततया सम्पद्यते । स एव कृत्स्नस्य जगद्व्यवहारस्य निदानभूतः इति तु सर्वविदितम् । यतोहि नानेन विना लोकस्य अन्धकारनिवृत्तिर्जायेत, तदेवोक्तं दण्डिना- “इदमन्धं तमः कृत्स्नं जायेत भुवनत्रयम् । यदि शब्दाह्वयं ज्योतिः आसंसारं न दीप्यते” इति । अभिहितं चेदमेवं वाक्यपदीये “न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते। अनुविद्धमिव ज्ञानं सर्वं शब्देन भासते”  इति । अतः बहूपादेयत्त्वात्, येनैव हि वैदिकार्थनिश्चयस्य च साधुसम्भवात् विषयस्यास्य शास्त्रेषु बहुधा विचारः कृतः शिष्यशिक्षापरैः कारुणिकैराचार्यैरस्मदीयैः । यद्यपि शब्दजन्यः अर्थबोधः शाब्दबोधः इत्यत्र न कस्यापि केनापि सह मतभेदः किन्तु कथं, केन, कदा बोधः इत्यादिस्थले नितरां वैमत्यं दार्शनिकानामाचार्याणां दृश्यते । शक्तिग्रहसहकारिकारणानि बहूनि, तत्र व्याकरणमप्यन्यतमम् । परं सर्वोपि जनः तं ग्रहं व्याकरणादेवाप्नुयादिति तु नाग्रहः । अतः मतिभेदान्मतभेदभेदवत् शाब्दबोधेऽपि भेदः । नह्यत्र शब्दस्य अर्थविषये विचारः किन्तु शब्दसमूहाख्येन वाक्येन यः जायमानः बोधः तत्र मतानि विचार्यन्ते । 

तत्र पदशास्त्रीयाः नागेशादयः “आप्तोपदेशः शब्दः प्रमाणम्” इति प्रतिपादयन्तः, रागद्वेषादिवशादपि नान्यथावादिनाम् उपदेशभूतशब्दानां, वेदस्य च शब्दानां प्रामाण्यमिति साधयन्ति । तत्र च बोधे अप्रधानभूतानेकार्थविशिष्टः एकः प्रधानपदार्थः शाब्दबोधे भासते । मुख्यविशेष्यत्वं नाम यस्मिन् पदार्थे अन्ये सर्वेऽपि पदार्थाः विशेषणत्वेन अन्विता भवन्ति, स च पदार्थः न कुत्रापि अन्वितो विशेषणतयान्वितो भवति । तत्रादौ शिर्षकोद्धृतः मौनिश्रीकृष्णभट्टः कः इति जिज्ञास्यते । 

बुद्धिमान् पण्डितमूर्धन्यः दर्शनादिसकलशास्त्रविद् श्रीकृष्णभट्टः ‘मौनि’ कुलोत्पन्नः जानकीरघुनाथयोः अपत्यभूतः । गोवर्धनभट्टः अथवा गोविन्दभट्टः टीकाकर्तुरस्य पितामहः । उल्लिखितं च एवं मङ्गलश्लोके तर्कचन्द्रिकायां “नत्वा स्वीयपितामहं बुधवरं गोवर्धनं भक्तितो नत्वा श्रीरघुनाथतातचरणौ श्रीजानकीमातरम् । ध्यात्वा व्यासपदाम्बुजं हृदि चिरं श्रीकृष्णभट्टाभिधो मौनी सन्तनुते सतां सुखकरीं तर्कादिकां चन्द्रिकाम्” ॥ इति । 

श्रीमौनिरघुनाथभट्टस्य चतुर्षु पुत्रेषु प्रथमः महाभाष्यनिगूढार्थवेत्ता विद्वान् महादेवभट्टः, श्रीरामकृष्णचरणसेवकः रामकृष्णभट्टः यस्यानुजः आसीत् । तृतीयो जयकृष्णाख्यः, येन विरतायां तत्त्वबोधिनीव्याख्यायां सिद्धान्तकौमुद्याः स्वरवैदिकखण्डयोः बुधजनमनःप्राङ्गणचरी सुबोधिनीव्याख्या व्यलेखि । अन्तिमः अस्त्ययं श्रीकृष्णभट्टः तर्कचन्द्रिकायाः कर्ता । उक्तञ्चेदं श्रीजयकृष्णभट्टेन मङ्गलश्लोकानन्तरस्थपद्येषु सुबोधिन्याम् – “रघुनाथपदारविन्दसेवावशतस्तस्य बभूव नन्दनः | रघुनाथ इतीड्यनामगम्यो रघुनाथाङ्घ्रिनिषेवकः सुधीः ॥३॥ बभूवुस्तस्य चत्वारः तनयाः सुनयाबुधाः । महादेवाभिधः श्रेष्ठो महाभाष्यसुभाषितः॥४॥ रामकृष्णो द्वितीयोऽसौ रामकृष्णाङ्घ्रिसेवकः । तृतीयो जयकृष्णोऽस्मि श्रीकृष्णो नामसूद्भवः ॥५॥ इति ।

माधवेन्द्रसरस्वत्याख्यः श्रीकृष्णभट्टस्य गुरुः । कालः च क्रैस्तवीयम् उपाष्टादशशतकम् [१७५०.A.D] इति चारित्रकाः । अयं नागेशभट्टादर्वाचीनः इति तु श्रीकृष्णभट्टकृते तर्कचन्द्रिकायां, लघुविभक्त्यर्थनिर्णयादौ शब्देन्दुशेखरमञ्जूषयो: नामदर्शनात् प्रतिभाति । मौनिवंशः इति महाराष्ट्रस्थः कश्चन प्रसिद्धो वंशः । अयं ग्रन्थकृत् न्यायमीमांसाधर्मशास्त्रादिविदासीत् । आहत्य ग्रन्थाः सप्तदश [१७] भवन्ति एतत्कर्तृकाः । ईदृशेनाचार्येण तर्कचन्द्रिकायां स्फोटचन्द्रिकायां लघुविभक्त्यर्थनिर्णयादौ च शाब्दबोधविषयाः चर्चिताः । इतरमतानामपि समुल्लेखपूर्वकं तदत्र प्रतिपाद्यते । 

शाब्दबोधप्रक्रियायां सर्वोपि दार्शनिकः स्वीयसंस्कारानुरोधमेव साधुतामधिगच्छति । अत एव नैयायिकानां प्रथमान्तमुख्यविशेष्यकः, मीमांसकानां भावनामुख्यविशेष्यकः, वैयाकरणानां धात्वर्थमुख्यविशेष्यक इति मतिभेदान्मतभेदाः सन्दृश्यन्ते । तत्र तत्तन्मते एव कस्मात् कस्यार्थस्योपस्थितिविषये वैमत्यं वर्वर्ति । तथा वैयाकरणनये बोधे भेदोऽपरिहार्यः । फले प्रधानं व्यापरः इति दीक्षितकारिकामादृत्य कौण्डभट्टादिभिः व्यापारमुख्यविशेष्यक एव तिङन्ते शाब्दबोधः इत्युच्यते । तामेव कारिकामादाय फले अप्रधानं व्यापारः कर्मप्रत्यये इति विभज्य नैयायिकेष्विव फलमुख्यविशेष्यकबोधोपि सम्पद्यत इति नागेशोभिप्रैति । तर्कचन्द्रिकाकृत्तु बहुभिरुपायैः नैयायिकादिखण्डनेन सह नागेशाशयमपि तिरस्करोति । तत्र प्रमाणं तु नागेशमतेपि समन्विता यास्कोक्तिरेव । तदित्थम्प्रधानतः वक्तुं शक्यं यथा – फलव्यापारौ धातुवाच्यौ कर्तृकर्मसङ्ख्याकालाः तिङर्थाः इति वैयाकरणाः । फलमेव धात्वर्थः / फलव्यापारौ धातुवाच्यौ भावना-संख्याकालाः प्रत्ययार्थाः इति मीमांसकाः । फलं/ फलविशिष्टव्यापारः/ व्यापारः धात्वर्थः कृतिः संख्याकालौ च प्रत्ययवाच्याविति नैयायिकाः । तत्तन्मतानुसारं ते ते साधवो भवन्ति । 

मीमांसकेषु मण्डनमिश्रः प्रथमं धात्वर्थविवेचनमकार्षीत् । फलमेव धात्वर्थः भावना प्रत्ययार्थः इति तत्सिद्धान्तः । आख्यातस्य फलोत्पादिका क्रियार्थ  इति ‘पूर्वापरीभूतं भावमाख्यातमाचष्टे व्रजतिपचतीत्युपक्रमप्रभृत्यपवर्गपर्यन्तम्’ इति निरुक्तात् अवगम्यते । भावपदस्य भूधातोः णिजन्ताद्भावे घञि निष्पन्नत्वेन भवनानुकूलव्यापारपरत्वम् । सैव भावनेति क्रिया । पचतीति तिङन्तस्य पाकं करोतीति विवरणदर्शनात् भावनाभिन्नफलस्यापि तिङन्तवाच्यता निश्चीयते । किं करोतीति प्रश्ने करोतेरुत्पादनार्थकत्वस्यैव श्रोतृबुद्ध्यवस्थितत्वेन, अनुभवबलात् क्लृप्तार्थत्यागे अन्यार्थकल्पने च प्रमाणाभावात्, पचतीत्यस्य पाकं करोतीति विवरणात् च तिङः करोत्यर्थता सिद्धा । येन धातुषु क्रियावाचित्वाभावः सुस्पष्टः । ‘न केवला प्रकृतिः प्रयोक्तव्या नापि केवलः प्रत्यय’ इति नियमेन प्रकतिनैरपेक्ष्येण स्वतन्त्रतया प्रत्ययस्य न क्रियाबोधकत्वम्, अथापि ‘प्रकतिप्रत्ययार्थयोः प्रत्ययार्थः प्रधानम्’ इति न्यायेन पदार्थे शाब्दबोधे च यः प्रधानभूतः स प्रत्ययार्थः एव भवेत् । अस्माकं च शाब्दबोधे भावनायाः प्राधान्येन सा प्रत्ययार्थ एव स्यान्नहि धातोः। प्रसिध्यति च तदेवम् –

तथा क्रमवतोर्नित्यं प्रकृतिप्रत्ययांशयोः । प्रत्ययश्रुतिवेलायां भावनात्मा प्रतीयते ॥’ इति ।

यदि धातोः भावः अर्थः अभविष्यत्तर्हि तिङन्ते कृदन्ते वा धातोः समानत्वेन उभयप्रयोगसाधारण्येनार्थप्रतीतिः स्यात् । न च धातोः सकर्मकाकर्मकभेदानुपपत्तिप्रसङ्ग इति वाच्यं स्वयुक्ताख्यातार्थव्यापारसमानाधिकरणफलवाचकत्वमकर्मकत्वमिति व्यधिकरणत्वे सकर्मकत्वमिति तद्व्यवस्थायाः सूपपादत्वात् । प्रत्ययार्थव्यापारव्यधिकरणफलाश्रयत्वमेव कर्मत्वम् इति स्वीकारात् चैत्रः ग्रामं गच्छतीत्यत्र संयोगस्य द्विष्ठत्वेन चैत्रस्यापि फलाश्रयत्वेन कर्मत्वात् चैत्रः चैत्रं गच्छतीति प्रयोगापत्तिरपि न । 

‘प्रकृतिप्रत्ययौ सहार्थं ब्रूतस्तयो: प्रत्ययार्थः प्रधानमि’ति व्युत्पत्तेः द्वितीयाद्यर्थः यथा प्रातिपदिकार्थस्य विशेष्यः तथा तिङन्ते प्रत्ययार्था भावना मुख्या । यद्यप्याख्यातस्य वर्तमाने लट्, तान्येकवचनद्विवचनबहुवचनान्येकशः इति श्रुत्या कालः सङ्ख्या भावना चार्थाः अथापि ‘भावप्रधानमाख्यातम्‘ इति निरुक्तात् तेष्वपि भावनैव विशेष्या । जैमिनिरपि क्रियापदबोध्यभावनामुख्यविशेष्यकमेव बोधं “तद्भूतानां क्रियार्थेन समाम्नायः” इति सूत्रयन् प्रमाणयति । एवं च भावनया आक्षेपात् लक्षणया वा तद्वोधोपपत्तेः कर्तृकर्मणी नाख्यातार्थः । भावनायाः आक्षेपलभ्यत्वे तु शाब्दबोधे प्राधान्यं तस्याः न स्यात् । न हि पुरुषव्यवस्थोच्छेदप्रसङ्गः । भावनाक्षिप्तकर्त्रा सह युष्मदस्मदर्थस्य सामानाधिकरण्येन तदुपपत्तेः । तस्मात् फलमेव धात्वर्थः । नन्वेवं धातोः क्रियवाचकत्वाभावे “भूवादयो धातवः” इति सूत्रभाष्यविरोधः । क्रियावाचकत्वे सति गणपठितानां धातुत्वमिति तत्रोक्तत्वादिति चेन्न । तत्र ‘क्रिया’पदेन धात्वर्थमात्रस्य फलस्यैवाभिप्रेतत्वात् । तस्मात् फलं धात्वर्थः, स्पन्दप्रयत्नरूपा भावना आख्यातार्थ इति सिद्धम् ।

‘चैत्रः ओदनं पचति’ इति वाक्यात् एककर्तृका सामानाधिकरण्यसम्बन्धेन एकत्वविशिष्टं यदोदनवृत्तिकर्मत्वं स्वनिरूपकपाकानुकूलत्वसम्बन्धेन तद्विशिष्टा स्वनिष्ठकरणतानिरूपकोदनोद्देश्यकत्वसम्बन्धेन पाकविशिष्टा, सामानाधिकरण्येन एकत्ववती, वर्तमानकालिकभावनेति, ‘चैत्रेण ओदनः पच्यते’ इति वाक्यात् सामानाधिकरण्यसम्बन्धेन एकत्वविशिष्टं यत् चैत्रवृत्तिकर्तृत्वम्, स्वनिरूपकानुकूलत्वसम्बन्धेन तद्विशिष्टा, एकत्वविशिष्टयदोदनवृत्तिकर्मत्वं स्वनिरूपितपाकानुकूलत्वसम्बन्धेन तद्विशिष्टा, स्वनिष्ठकारणतानिरूपकौदनोद्देश्यकत्वसम्बन्धेन पाकविशिष्टा, स्वाश्रयौदनवृत्तिविक्लित्तिजनकपाकानुकूलत्वसम्बन्धेन एकत्वविशिष्टा वर्तमानकालिकभावना इति शाब्दबोधः इत्यभिप्रयन्ति । 

नैयायिकानामयमभिसन्धिः । ओदनं पचतीत्यत्र विक्लित्तिः फलं द्वितीयाया अर्थः । नव्यानां मतानुरोधेन फलावच्छिन्नव्यापारो धात्वर्थः । अकर्मकधातूनां तु केवलव्यापारमात्रवाचित्वम् । तिङर्थस्तु कृतिः या मीमांसकानां भावनाभिधा । इयं च कृतिः क्रियाव्यापाराद्यपेक्षयान्यैव । आख्यातार्थकृतेः प्रथमान्ते अन्वयेन कर्तृकर्मणोः प्रथमान्तपदादेव उपस्थितिसम्भवे कर्तृकर्मणी नाख्यातार्थः ।  ननु कर्तृकर्मणोः आख्यातार्थत्वानङ्गीकारे अनुशासनविरोधः स्यात् । तथा हि-“लः कर्मणि च भावे चाकर्मकेभ्य”  इति सूत्रेण लकाराः कर्तरि कर्मणि चोत्पद्यन्ते । अतः न तेषां कृतिबोधकत्वम् । किञ्च “कर्तरि कृत्” इति सूत्रात् कर्तरीत्यनुवर्तते । तत्र च कर्तृपदस्य कर्त्रर्थकत्वमेव वक्तव्यम् । ततश्च अर्थाधिकारानुरोधात् “लः कर्मणी”ति सूत्रे अनुवृत्तस्यापि कर्त्रर्थकत्वमेव वक्तव्यम् इति चेन्न । “लः कर्मणी”ति सूत्रेऽनुवृत्तस्य कर्तरीत्यस्य शब्दाधिकारमाश्रित्य भावार्थकत्वेन कर्तृत्वार्थकत्वात् । कर्तृत्वं च कृतिरेव प्रकृतिजन्यबोधे प्रकारीभूतः अर्थः भावप्रत्ययार्थः इति न्यायात् । द्व्येकयोर्द्विवचनैकवचने, बहुषु बहुवचनमिति सूत्रार्थवर्णनदिशया कर्तृत्वं कृतिः, कर्मत्वं फलञ्च लकारार्थ इति सिद्धम् । कृतित्वजातेश्शक्यतावच्छेदकत्वम् । ननु कृतेः चेतननिष्ठत्वेन ‘रथो गच्छति’ ‘घटो नश्यति’ इत्यादिप्रयोगाः कथमिति चेत् न ।   ‘रथो गच्छति’  इत्यादौ आश्रयत्वे, ‘घटो नश्यति’ इत्यादौ प्रतियोगित्वे तिङो निरूढलक्षणास्वीकारात् । कर्तरि प्रयोगे कृतेः विशेष्यत्वम् । कर्मणि प्रयोगे तु फलस्यैव विशेष्यत्वम् । न चाभिधानानभिधानव्यवस्थोच्छेदप्रसङ्ग इति वाच्यम् । कर्तृकर्मनिष्ठसङ्ख्यायाम् अभिहितायामिति व्याख्यानेन तत्साधुतासिद्धेः । कर्मप्रत्ययस्य तु कृतिवाचकत्वाभावः । 

प्रथमान्तार्थमुख्यविशेष्यकः शाब्दबोधः नैयायिकाभिप्रेतः, आख्यातार्थकृतेः आश्रयतासम्बन्धेन प्रथमान्तार्थे अन्वयात् । पदवाक्यरत्नाकरे एवमभिहितं यथा – प्रयाति पुरुषस्तस्य पादयोरभिवादय । इत्यादौ प्रथमान्तार्थः प्राधान्यान्मृश्यते तदा ॥ इति । न च भावप्रधानमाख्यातमिति निरुक्तस्मृतिविरोधः इति वाच्यम्,  आख्यातार्थेषु सङ्ख्याकालकृतिषु भावनाख्यकृतेः प्राधान्यबोधकत्वेपि वाक्यान्वये विरोधाभावात् । ‘आख्यातार्थभावनाप्रकारकबोधं प्रति इतराविशेषणीभूतप्रथमान्तजन्योपस्थितिः कारणम्’ इति कार्यकारणभावः । इतराविशेषणीभूतेति दलन्तु ‘चन्द्र इव मुखं दृश्यते’ इत्यादौ सादृश्यविशेषणे देवदत्तो भुक्त्वा व्रजतीत्यत्र क्त्वान्ते च भावनान्वयवारणाय ।  देवदत्तस्तण्डुलं पचति इति वाक्ये देवदत्तपदात् देवदत्तस्य, तण्डुलपदात् तण्डुलस्य, द्वितीयया कर्मत्वस्य, धातुना अधिश्रयणादेः व्यापारस्य, लकारेण कृतेः, एकवचनेनैकत्वादेश्च उपस्थितिः भवति । ततः द्वितीयार्थकर्मत्वे तण्डुलस्य आधाराधेयभावसम्बन्धेन, जनकत्वसंसर्गेण कर्मत्वस्य अधिश्रयणादिव्यापारे, तस्य अनुकूलत्वसंसर्गेण आख्यातार्थकृतौ, तस्याः कृतेः एकत्वस्य च समवायसम्बन्धेन देवदत्ते अन्वयः । तस्मात् तण्डुलवृत्तिविक्लित्तिजनकाधिश्रयणादिव्यापारानुकूलकृतिमान् एकः देवदत्त इत्याकारको बोधः । देवदत्तेन तण्डुलः पच्यते इत्यादि कर्मणि लकारेऽपि देवदत्तादेः प्रातिपदिकार्थस्य तृतीयार्थकृतौ, तस्य जन्यतासम्बन्धेन पाके, तस्य च जन्यत्वसंसर्गेण आख्यातार्थफले, तस्य चाधारतासंसर्गेण प्रथमान्तपदोपस्थाप्येषु तण्डुलेष्वन्वयेन देवदत्ताश्रितकृतिजन्यपाकजन्यविक्लित्तिशालिनस्तण्डुलाः इति बोधः । यत्र च प्रथमान्तपदश्रवणाभावे ओदनं पचति इत्यादौ तत्र कृतिमुख्यविशेष्यक एव बोधः। ‘पश्य मृगो धावति’ इत्यादौ एकवाक्यतापि सिद्ध्यत्येव । 

वैयाकरणानां फलव्यापारयोर्धात्वर्थता इत्ययं सिद्धान्तः । अतः तयोर्धातुवाच्यत्वे नास्ति कश्चिद्विवादः किन्तु फले व्यापारे च खण्डशः शक्तिः उत विशिष्टे इत्यत्र दृश्यते काचिन्मतिभेदः । फलव्यापारयोर्धातुराश्रये तु तिङः स्मृताः । फले प्रधानं व्यापारस्तिङर्थस्तु विशेषणम् ॥ इति । 

तत्र प्राञ्चः – सर्वेषां धातूनां फले व्यापारे च एकवृन्तगतफलद्वयन्यायेन पृथगुपस्थितिप्रयोजिका पुष्पवन्तादिपदवत् खण्डश एकैव शक्तिः । तयोः फलं व्यापारविशेषणम् । तयोः च जनकत्वं संसर्गः । नैयायिकानाम् आख्यातार्थकृतौ वर्तमानत्वस्येव वैयाकरणानां तिङर्थसङ्ख्यायाः कर्तृकर्मणोश्चान्वयबोध इव एकपदोपात्तयोरपि अन्वयः सुकरः । फलत्वञ्च कर्मकृदसमभिव्याहारे तद्धात्वर्थनिष्ठविशेष्यतानिरूपितप्रकारतावत्त्वे सति तद्धात्वर्थत्वम् । व्यापाराश्च पुरुषः पचतीत्यत्र प्रयत्नत्वेन, वह्निः पचतीत्यत्र ऊर्ध्वज्वलनत्वेन, स्थाली पचतीत्यत्राधिश्रयणत्वेन, शरीरं पचतीत्यत्र अधिश्रयणावतारणफूत्कारत्वादिना, काष्ठानि पचन्तीत्यत्र अधःसन्तापनत्वेन इत्येवं तत्तद्रूपेणैव तच्छब्दादिसर्वनाम्नामिव धातूनां शक्याः । अथवा फलजनकतावच्छेदकत्वमेव व्यापाराणां स्वरूपसदनुगमकम् । सर्वनाम्नामिव स्वीकारान्न नानार्थत्वप्रसङ्गः ।

फूत्कारादीनां तत्तद्रूपेण वाच्यत्वम् ।आनुभविकसर्वलोकस्य तत्र प्रमाणत्वेन फलमुखगौरवं न दोषाय । अत एव पचतीत्यत्र अधःसन्तापनत्व-फूत्कारत्व-चुल्ल्युपरिधारणत्वयत्नत्वादिभिर्बोधः सर्वसिद्धः सङ्गच्छते । अत्र च कारके इति सूत्रस्थं भाष्यमपि प्रमाणम् । भाष्ये हि  ‘तत्र तदा पचिर्वर्तते’ इति वाक्येन तत्तदर्थस्य तदा तदा पचिशक्यता सूचिता । नानार्थत्वं तु सर्वनाम्नामिव वारितम् । ‘व्यापारो भावना सैवोत्पादना सैव च क्रिया’ इति वाक्यानुरोधं सर्व इमे समानार्थकाः । क्रियायाः साध्यत्वं च क्रियान्तराकाङ्क्षानुत्थापकतावच्छेदकत्वम् अथ साधनाकाङ्क्षोत्थापकतावच्छेदकत्वरूपम् ।  तद्विपरीतं सिद्धं कृदन्तादिसुबन्ताभिधेयम् । तदुक्तं हरिणापि – यावत्सिद्धमसिद्धं वा साध्यत्वेनाभिधीयते । आश्रितक्रमरूपत्वात् सा क्रियेत्यभिधीयते ॥ इति । तत्र हि धातोः व्यापारार्थकत्वे भूवादयो धातवः इति सूत्रमेव मानम् । तत्र हि आदिशब्दयोर्व्यवस्थाप्रकारवाचिनोः एकशेषेण भूप्रभृतयो वा सदृशाः धातवः इत्यर्थे जाते, वासादृश्यं च क्रियावाचकत्वेन स्वीकृत्य क्रियावाचिनो धातुसंज्ञका इति परिग्रहात् । तत्स्थाने क्रियावचनो धातुः इति न्यासान्तरसम्भावनापरभाष्यमपि मानम् । अतः क्रियावाचकत्वाभावे तस्य धातुत्वमेव न स्यात् । फलस्य हि धात्वर्थत्वे न कस्यचिद्वैमत्यम् ।

तिङर्थाः कर्तृकर्मसङ्ख्याकालाः। अत्र च “लः कर्मणि च भावे चाकर्मकेभ्यः” “द्व्येकयोर्द्विवचनैकवचने” “बहुषु बहुवचनम्” “वर्तमाने लट्” इत्यादिसूत्राणि, ‘सुपां कर्मादयोऽप्यर्थाः सङ्ख्या चैव तथा तिङाम्’ इति भाष्यञ्च प्रमाणम् ।

किञ्च लकारेण कर्तृकर्मणोरवाच्यत्वे लकारस्य च व्यापारवाचकत्वे पचन्, पचमानः इत्यादिशतृशानजन्तेष्वपि कर्तृतत्प्रतीतिः न स्यात् । तिबादीनां शत्रादीनां च आदेशत्वेन लकारस्मारकतया लिपिस्थानीयत्वेन, लकारस्यैव बोधकत्वात् तस्य च कृतावेव तार्किकमते, भावनायां च मीमांसकमते शक्तत्वात् । न च “कर्तरि कृत्” इति सूत्रस्य शक्तिग्राहकस्य सत्त्वेन शत्रादीनां कर्तृकर्मबोधकत्वमिति वाच्यम्, ‘आकाङ्क्षितविधानं ज्यायः’ इति न्यायेन “कर्तरि कृत्” इत्यस्य अनिर्दिष्टार्थेषु ण्वुलादिष्वेव उपस्थानात् । अन्यथा शतृशानचोः तिङादेशत्वमेवासङ्गतम् । किश्च “युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः” इत्यादिपुरुषव्यवस्था, कर्तरि कर्मणि अभिहिते प्रथमेत्यादिकं च तिङां कर्तृकर्मबोधकत्वे मानम् । तद्धितसमासेषु सङ्ख्याभिधानस्य अप्रसिद्धत्वात् “अनभिहिते” इत्यस्य अनभिहितसङ्ख्याके इत्यर्थवर्णनं न युक्तम् । आख्यातार्थेषु कर्तृकर्मणी फलव्यापारयोः विशेषणे, सङ्ख्या च कर्तृकर्मणोः प्रत्ययानुरोधम् अन्वेति समानप्रत्ययोपात्तत्वात्, कालः व्यापारविशेषणम् । तथा च आख्यातजन्यकर्तृकर्मोपस्थितिः  एव आख्यातार्थसङ्ख्याप्रकारकशाब्दबोधं प्रति कारणमिति कार्यकारणभावः फलितः। 

कालस्य धात्वर्थव्यापारविशेषणत्वादेव धात्वर्थव्यापारस्य वर्तमानत्वे विवक्षिते लट् इति सूत्रार्थः वर्तमाने लडित्यस्य पर्यवस्यति । न च सङ्ख्यावत् कर्तृकर्मणोः अन्वयः कालस्य स्यात् समानप्रत्ययोपात्तत्वादिति वायम् । अतीतभावनाके कर्तरि पचतीत्यापत्तेः, अपाक्षीदिति अनापत्तेश्च । पाकानारम्भदशायां कर्तृसत्त्वे पक्ष्यतीत्यनापत्तेश्च । अत एव ‘अभिमतफलनिष्पादकसकलव्यापारोपगमे भूतत्वम्, तादृशस्य सकलस्य भावित्वे भविष्यत्त्वम्, यावत्क्रियायाः समाप्तिर्न भवति तावद्वर्तमानत्वम्’ इति भाष्यमपि सङ्गतम् ।

एवं सर्वोऽपि तिङर्थः विशेषणमेव भावप्रधानमाख्यातमिति न्यायात् भावनैव प्रधानम् । तथा हि – तत्राख्यातपदं धातुपरम् । ‘नामान्याख्यातजानि’ इति वचनात् । अत एव तत्समानार्थकं ‘सर्वं नाम धातुजमाह शकटस्य च तोकम्‘ इति भाष्यमपि सङ्गच्छते । भावपदेन धात्वर्थव्यापार एव उच्यते । अत्र च ‘क्रिया प्रधानमाख्यातम्, ‘रमते ब्राह्मणकुलम्’ इत्यत्र क्रियाप्रधानम्’ इति च भाष्यम्मानम् । एवञ्च “प्रकृतिप्रत्ययार्थयोः प्रत्ययार्थः प्रधानम्” इति न्यायस्य तिङन्तविषये सङ्कोचः कार्यः भाष्यप्रामाण्यात् । भगवान् पाणिनिरप्यभिधत्ते एवम् – “प्रधानप्रत्ययार्थवचनमर्थस्यान्यप्रमाणत्वात्” इति ।

 तथा च ‘चैत्रस्तण्डुलं पचति’ इति वाक्यात् तण्डुलाभिन्नाश्रयकः विक्लित्तिजनकः वर्तमानकालिकः एकत्वविशिष्टचैत्राभिन्नाश्रयकः व्यापार इति बोधः । चैत्रेण तण्डुलः पच्यते इत्यादितस्तु एकत्वविशिष्टतण्डुलाभिन्नाश्रयवृत्तिविक्लित्तिजनको वर्तमानकालिकः एकत्वविशिष्टचैत्राभिन्नाश्रयकः व्यापारः इति बोधः । अतः फलव्यापारयोर्धातुः इति कारिकायां फले प्राधान्यं व्यापारस्यैव । 

नागेशादिनव्यवैयाकरणास्तु धातोः फलावच्छिन्नव्यापारे व्यापारावच्छिन्नफले च पृथक् शक्तिद्वयम् अभ्युपगच्छन्ति । कर्त्राख्यात/भावाख्यातसमभिव्याहारे फलावच्छिन्नव्यापारस्य, कर्माख्यातसमभिव्याहारे व्यापारावच्छिन्नफलस्य च बोधः । पूर्वाचार्याणां मते दोषाः प्रादर्शि चैवम् –

  • फलव्यापारयोः पृथक्शक्तौ तयोः उद्देश्यविधेयभावेनान्वयापत्तिः
  • एकपदे व्युत्पत्तिद्वयकल्पने गौरवम्
  • धातोरर्थद्वये शक्तिकल्पनम्
  • बोधजनकतासम्बन्धद्वयकल्पनम्

तथा हि – फले व्यापारे च खण्डशः शक्तिस्वीकारे उद्देश्यविधेयभावेन अन्वयापत्तिरिति प्रथमो दोषः । अर्थात् फलमुद्दिश्य व्यापारस्य व्यापरमुद्दिश्य फलस्य वा विधेयत्वमापद्यते । मन्मते तु विशिष्टोपस्थितिरिति घटशब्दात् घटघटत्वयोः विशिष्टोपस्थितिसत्वात् यथा नोद्देश्यविधेयभावः, तथा तव तु न स्यात् । फलविशेषणकव्यापारबोधे कर्तृप्रत्ययसमभिव्याहृतधातुजन्योपस्थितेः, व्यापारविशेषणकफलबोधे कर्मप्रत्ययसमभिव्याहृतधातुजन्योपस्थितेश्च कारणत्वं कल्प्यमिति द्वितीयो दोषः । अर्थात् फलावच्छिन्नप्रकारतानिरूपित-व्यापारविशेष्यकशाब्दबुद्धित्वावच्छिनं प्रति कर्तृप्रत्ययसमभिव्याहृतधातुजन्योपस्थितिः, व्यापरत्वावच्छिन्नप्रकारतानिरूपितशाब्दबुद्धित्वावच्छिन्नं प्रति कर्मप्रत्ययसमभिव्याहृतधातुजन्योपस्थितिः च कारणमिति कल्प्यः कार्यकारणभाव इति गौरवमापद्यते । अर्थद्वये शक्तिद्वयं कल्प्यमिति तृतीयो दोषः । तथा कल्प्यते इत्येव दोषः न किन्तु तथात्वे धातोः नानार्थत्वापत्तिः इति दोषः । अर्थात् नानाधर्मावच्छिन्नप्रकारतानिरूपितावच्छेदकधर्मवत्वरूपं नानार्थं धातोः स्यादिति दोषः । तथा च यथा हरिशब्दस्य  सिंहगजकपिवार्यादिवाचकत्वेन नानार्थत्वं तद्वद्धातोरपि स्यात् । लोकव्यवहारे हरिशब्दस्य कोर्थः इति विनिगमनाय संयोगादिकारणानि सहकुर्वन्ति येनैक एवार्थः परिगृह्यते, परन्त्वत्र एकपदोपस्थितयोः तयोः विनिगमकाभावेन भ्रान्तत्वमेवापद्येत । चतुर्थस्तु सम्बन्धद्वयकल्पनमिति । स्वविषयकव्यापारनिरूपित- स्वविषयकबोधजनकत्वे रूप-सम्बन्धद्वयकल्पने अत्यतिगौरवम् । न हीमे सर्वे दोषाः प्राचः तेषां हि व्यापारमुख्यविशेष्यकबोधस्यैव कर्तृकर्मोभयप्रत्ययघटितेऽपि विवक्षितत्वादिति वाच्यम् । तस्य पक्षस्य इष्यते पुत्रः आत्मना इत्यत्र क्यचभावं वदता भाष्यकारेणैव दूषितत्वात् । 

कर्तृप्रत्यये व्यापारमुख्यविशेष्यकः, कर्माख्याते तु कर्मकृदन्तेष्विव फलमुख्यविशेष्यकः शाब्दबोधः । तस्मात् ‘चैत्रेण ओदनः पच्यते’ इत्यादौ एकत्वाश्रया चैत्रकर्तृकवर्तमानकालिकव्यापारजन्या ओदननिष्ठा विक्लित्तिरिति बोधः द्रष्टव्यः । अत्र सुप आत्मनः क्यच् इति सूत्रस्थं भाष्यम्मानम् । यतो हि ‘पुत्रमिच्छति पुत्रीयति इतिवत् इष्यते पुत्र इत्यर्थे न क्यच् भिन्नार्थत्वात्’ इत्युक्तम् । तत्र कैयटोप्याह यदा क्रियाफलस्य प्राधान्यं प्रतिपिपादयिषितं तदा वाक्यमेव, व्यापारप्राधान्ये तु क्यच् इति । ननु ‘भावप्रधानमाख्यातम्’ इति निरुक्तस्य का गतिरिति वाच्यम् । क्यज्विधायकसूत्रस्थभाष्याविरोधाय आख्याते भावस्य धात्वर्थस्य प्राधान्यमित्यर्थः । अत्र च ‘यत्रोभे भावप्रधाने भवतः’ इति निरुक्तमपि प्रमाणम् । 

तिङर्थसङ्ख्यायास्तु धात्वर्थे एवान्वयः । क्रियायाः तत्फलस्य च एकत्वेपि प्रत्ययाभिधेयनिष्ठायाः संख्यायाः आरोपात् द्वित्वबहुत्वादिसिद्धिः । येन प्रत्ययानां प्रकृत्यन्वितस्वार्थबोधकत्वव्युत्पत्तिरपि अनुगता । भावलकारे यत्र सङ्ख्यावगमस्तत्र बहुवचनं भवत्येव । यथा ‘हतशायिकाः शय्यन्ते’ इत्यादौ । अभिहितं चैतद्धरिणा – एकत्वेऽपि क्रियाख्याते साधनाश्रयसङ्ख्यया । भिद्यते, न तु लिङ्गाख्ये भेदस्तत्र तदाश्रयः ॥ इति । तथा च कर्तृकर्मादयो विभक्त्यर्थाः इति तद्विपरीतस्य कृतिराख्यातार्थः इत्यादिमतस्योपस्थापनम् अविचारितरमणीयमेव । स्त्रीप्रत्ययादिद्योतकप्रत्ययविषये ‘प्रकृतिप्रत्ययार्थयोः प्रत्ययार्थः प्रधानम्’ इति न्यायस्तु न प्रवर्तते । तिङां च द्योतकत्वम् । अन्यथा मीमांसकाद्युक्तानुरोधे तु एतन्न्यायानुवादकत्वमेव भावप्रधानमिति न्यायान्तरस्य स्यादिति न्यायबलहानिः अपूर्वविधित्वभङ्गः इति च गौरवम् ।  एवं च धात्वर्थमुख्यविशेष्यकशाब्दबोधः भाष्यानुगृहीतः सिद्ध  इति हि नव्याभिप्रायः । 

तर्कचन्द्रिकाकारः मौनिश्रीकृष्णभट्टस्तु तत्र हरिं भजतीति वा हरिः सेव्यत इति वा वाक्यात् प्राचीनवैयाकरणमत इव व्यापारमुख्यविशेष्यकः बोधः कर्तृकर्मोभयप्रत्ययसमभिव्याहारसाधारणः, एककर्तृका हरिनिष्ठप्रीत्युत्पत्त्यनुकूलक्रिया इति बोधः इत्यभिप्रैति । कर्तृप्रत्ययसमभिव्याहारे आख्यातः कर्तारं कर्माख्याते च कर्म अभिधत्त इति भेदः । पूर्वं प्रतिपादितरीत्यैव प्राचीननव्यसाधारण्येन प्रथमान्तमुख्यविशेष्यकः नैयायिकाभिमतः बोधः खण्डितः । अर्थात् तिङां कर्तृकर्माद्यवाचकतया तिङर्थसंख्याप्रकारकबोधे प्रथामान्तपदजन्योपस्थितिः अर्थात् सुबन्तोपस्थाप्यकर्तृकर्मोपस्थितिः कारणमित्युच्यमाने पदद्वयघटितत्वमायातीति गौरवम् । नवीनशाब्दिकमतानुसारं हरिः सेव्यते इत्यस्मात् भक्तनिष्ठ-क्रियाजन्या हरिनिष्ठा प्रीतिरिति फलमुख्यविशेष्यकः कर्मणि प्रत्यये बोधः इति स्वीक्रियमाणे क्रियाप्रधानमाख्यातमिति वचनविरोधः, मनोरमादिसकलप्राचीनग्रन्थविरोधः च । क्रियते या सा इति व्युत्पत्त्या फलस्यापि क्रियात्वेन न यास्कवचनविरोधः इति वाच्यम् । क्रियात्वस्य फलनिष्ठकार्यतानिरूपितकारणतावच्छेदकत्वरूपजातित्वेन अथवा अखण्डोपाधित्वेन फले तत्वासम्भव एव । तादृशप्रयोगसत्वे तु गौणप्रयोगत्वेन संयोजनं विधेयं, सिंहो माणवकवत् । किञ्च फलस्य विशेष्यत्वे प्रत्ययप्रतिपाद्यानामर्थानां तदन्वयः सम्पाद्य इति कालस्य वर्तमानत्वादिरूपस्य तत्रान्वयप्रसङ्गः, येन नष्टे पाके एव अपाक्षीदिति स्यात् न तु फलसत्वे क्रियासमाप्तिवेलायाम् । फलस्य पाकक्रियारम्भदशायामनुत्पन्नत्वेन पचतीति प्रयोगः न स्यात्, स्याच्च पक्ष्यतीति । 

सुप आत्मनः क्यजिति सूत्रभाष्यप्रामाण्येन फलमुख्यविशेष्यकबोधोपि अवश्यमेवादर्तव्य इति तु न प्रमाणयितुं शक्यम्, तद्भाष्यस्य अन्याभिप्रायकत्वात् । यतो हि भाष्ये इष्यते पुत्रः, पुत्रमिच्छतीत्युभयत्रापि क्यजापत्तिमाशङ्क्य भिन्नार्थत्वादिति समाहितम् । अर्थात् वाक्यवृत्योरेकार्थकत्वनियमेन पुत्रमिच्छतीत्यत्र कर्तृकर्मादिरूपः यावानर्थः प्रतीयते सः सर्वोपि पुत्रीयतीति वृत्यन्तादपि प्रतीयते । इष्यते पुत्रः इति कर्मण्याख्यातघटितवाक्यात् तु कर्तुरुपस्थित्यभावः, तदर्थं पदान्तराक्षेपे तु, पदत्रयवत्वात् पदद्वयघटितविग्रहे चरितार्थस्य विधेः पदत्रयघटितविग्रहे गौरवादप्रवृत्तेः न पुत्रीयतीति प्रयोगः इति भाष्याभिप्रेतत्वात् । यदपि नैयायिकैः पश्य मृगो धावतीत्यादिप्रयोगेषु द्वितीयायाः वाक्यभेदस्य वा वारणाय वाक्यार्थस्य कर्मत्वमित्याद्युच्यते तर्हि शिशुपालवधे महाकविना विरचिते पुरीमवस्कन्द लुनीहि नन्दनमित्यादिश्लोके स्वास्थ्यपदोत्तरं द्वितीया न स्यात् । अतः सर्वानुगृहीतः  व्यापारमुख्यविशेष्यकः एव बोधः तिङन्ते इति ग्रन्थकृद्वक्तव्यम् । अनभिहिते त्विति, प्राप्तानन्द इति प्रतीकद्वयमुपादाय ग्रन्थकृता प्रयोगानादाय तत्र विभक्तिसिद्धिप्रकारः, शाब्दबोधश्च उपवर्णितः । 

नागेशोपोद्बलकं भाष्यं तावदन्यार्थत्वेन नीतं, विशिष्टमुपायान्तरं फलमुख्यविशेष्यकबोधदूषणे नायत्तम् । तस्मात् अनुभवानुरोधिनः अस्य संस्कारानुगृहीतृत्वमेव इति मम प्रतिभाति । ततः च लोकस्य शास्त्रविदः अपि प्रथमान्तमुख्यविशेष्यकत्वं साक्षाद्बुध्यारूढं भवतीति हेतोः सः पक्षः अनुभवोपोद्बलित इत्याभाति । तिङ्प्रथमान्तयोः यदि प्रथमान्तस्य प्राधान्यं न स्यात् तर्हि ‘प्रयाति पुरुष’ इत्यत्र पुरुषः तच्छब्देन न परामृश्येत सर्वनाम्नाम् उत्सर्गतः प्रक्रान्तप्रधानपरामर्शकत्वात्  । अन्यथा ‘दशैते राजमातङ्गास्तस्यैवामी तुरङ्गमाः’ इत्यत्र राज्ञस्तच्छब्देन परामर्शप्रसङ्ग एव । वैयाकरणपदनिष्पादकस्य “तदधीते तद्वेद” इति पाणिनिसूत्रमर्यादयापि प्रथमान्तं मुख्यम् । आपादितदोषाणां तु परिमार्जनोपायः अन्वेष्टव्यः भाष्यप्रामाण्यात् इत्याद्यधिकं सुधियो विभावयन्त्विति साधुसेवितः ॥

आकरग्रन्थाः

तर्कचन्द्रिका

भूषणसारः

भूषणसारतत्त्वप्रकाशिका

वैयाकरणसिद्धान्तलघुमञ्जूषा

परमलघुमञ्जूषा

शाब्दबोधमीमांसा