[vc_row][vc_column][rev_slider_vc alias=”about-3″][vc_column_text el_class=”articles”]

महाभारतान्तर्गत-वेदान्ततत्त्वपरामर्शः

डा. रा. सुब्रह्मण्य भिडे
व्याख्याता,
श्रीवेङ्कटेश्वरवेदविश्वविद्यालयः, तिरुपतिः
Mobile Number: 9492075558 :
Email ID: vedasurabhi@gmail.com

 भारतं पञ्चमो वेदः इति ख्याaतः महाभारतं नामाऽयं ग्रन्थः संस्कृतवाङ्मये सकलविश्ववाङ्मये च बृहत्तमः, शतसहस्रश्लोकात्मक: व्यासरचितः सकलश्रुतिस्मृतीतिहासपुराणसार: सकलजनसुलभः यदिहास्ति तदन्यत्र यन्नेहास्ति न कुत्रचित् इत्यादि प्रशंसावाक्यान्वितः भारतीयसनातनसंस्कृतेः आधारभूतः सन् बोभवीतीति सर्वैः सुविदितमेव।

एतादृशे महत्त्वयुते महाभारते चतुर्विधपुरुषार्था अपि नैकैराख्यानै: संवादैश्च बहुत्र वर्णिताश्चर्चिताश्च। तेषु पुरुषार्थेषु मोख्याख्ये परमपुरुषार्थविषये वेदान्तेषु उच्यमाना अंशा: महाभारते कथमुच्यन्त इति उपलक्षणरूपेण केचन अंशाः अस्मिन् शोधलेखे प्रस्तूयन्ते।

१)    महाभारते मोक्षधर्मपर्वणि ब्रह्मतत्त्वविचारसम्बद्धान् बहूनंशान् लभामहे। तत्र ब्रह्मसूत्रेषु – आदौ अथाऽतो ब्रह्मजिज्ञासा(ब्र.सू.१.१.१) इति ‘ब्रह्म जिज्ञास्य’मित्युक्त्वा, ततः ‘किंलक्षणं तद्ब्रह्म’ इति विचारे जन्माद्यस्य यत:(ब्र.सू.१.१.२) इति सूत्रे लक्षितम्। नाम यत: यस्मात् अस्य जगतः जन्मस्थितिप्रलयाः सम्भवन्ति तदेव ब्रह्म इति। तत्र भाष्यकारैः श्रुतिवाक्यमपि प्रमाणत्वेन दत्तम्। यथा – यतो वा इमानि भूतानि जायन्ते। येन जातानि जीवन्ति । यत्प्रयन्त्यभिसंविशन्ति। तद्विजिज्ञासस्व। तद्ब्रह्म। इति। (तै.उ.३.१) स एषोंऽश: अत्र महाभारते एवमुच्यते –

अक्षरं ध्रुवमेवोक्तं पूर्ण ब्रह्म सनातनम्।

यतः सर्वाः प्रवर्तन्ते सर्गप्रलयविक्रियाः।

यच्च शंसन्ति शास्त्रेषु वदन्ति परमर्षयः।। इति। (मो.ध.३०१.१०१,१०३)

 

२)    तथा वेदान्तेषु – नेह नानाऽस्ति किञ्चन । मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति(क.उ.२.१.११) य एवं वेद अहं ब्रह्मास्मीति स इदं सर्वं भवति.. अथ योऽन्यां देवतामुपास्ते अन्योऽसावन्योऽहमस्मीति न स वेद(बृ.उ.१.४.१०),द्वितीयाद्वै भयं भवति(बृ.उ.४.३.२३) न तु तद्द्वितीयमस्ति(बृ.उ.४.३.२३) यदा ह्येवेष एतस्मिन्नुदरमन्तरं कुरुते। अथ तस्य भयं भवति(ते.उ.२.७) इति समस्तमिदं द्वैतं विश्वम् असदिति यदुच्यते, सोऽयमंशः इत्थं निरूप्यते महाभारते

अपां फेनोपमं लोकं विष्णोर्मायाशतैर्वृतम्।

चित्रभित्तिप्रतीकाशं नलसारमनर्थकम्।।

तमः श्वभ्रनिभं दृष्ट्वा वर्षबुद्बुदसंनिभम्।

नाशप्रायं सुखाद्धीनं नाशोत्तरमभावगम्।।

…. छित्त्वाऽऽशु ज्ञानमात्रेण तपोदण्डेन भारत।

…. तरन्ति यतयः सिद्धा ज्ञानयानेन भारत।। इति।

(मो.ध.३०१.५९,६०,६२,७२)

इन्द्रो मायाभिः पुरुरूप ईयते(बृ.उ.२.५.१९) इति श्रुतिवाक्यरीत्या परमेश्वरस्य बह्वीभिर्मायाभिः आवृतम्, अपां फेनोपमं, भित्तौ चित्रवत् स्थितं, सारहीनम्, अन्धकारे गर्तवत् स्थितं, वर्षजलबुद्बुदवत् स्थितं, नाशप्रायं, सुखहीनं, नाशात्परं भावरहितम् इमं द्वैतं लोकं (संसारं वा) सिद्धाः यतयः तपोदण्डेन ज्ञानशस्त्रेण ज्ञानयानेन तरन्तीति भावः ।

३)     एवञ्च क्षीणे पुण्ये मर्त्यलोकं विशन्ति(भ.गी.९.२१) इति गीतोक्तरीत्या कर्मिणः चन्द्रलोके स्वेषां पुण्यफलभोगानन्तरं यथा इमं लोकमावर्तन्ते, तथा ज्ञानिनोऽपि इमं लोकमावर्तेरन्इति शङ्कायां,तेषां न पुनरावृत्तिः(बृ.उ.६.२.१५) एतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्ते(छा.उ.४.१५.६),न च पुनरावर्तते(छां.उ.८.१५.१) इत्यादि श्रुतिवाक्यप्रमाणेन, ब्रह्मसूत्रेषु अन्तिमे अनावृत्तिः शब्दादनावृत्तिः शब्दात्(ब्र.सू.४.४.२२) इति सूत्रे ज्ञानिनां पुनरावर्तिर्नास्तीति सिद्धान्तितम्। स एषोंऽश: महाभारते एवं कथ्यते –

विमुक्तः पुण्यपापेभ्यः प्रविष्टस्तमनामयम्।

परमात्मानमगुणं न निवर्तति भारत।। (मो.ध.३०१.९७) इति।

सम्यग्दर्शनेन विध्वस्ततमाः ज्ञानी पुण्यपापरहितः सन् निर्गुणं निर्विकारं तत् दुःखशोकादिरहितं परमात्मपदं प्रविष्ट: इमं संसारं पुनर्न निवर्तत इति भावः।

 

४)    एवं ब्रह्मसूत्रेषु प्रतिषेधाधिकरणे ब्रह्मज्ञानिनः (प्राणानां) गत्युत्क्रान्तयः न सन्तीति प्रतिषेधादिति चेन्न शारीरात्(ब्र.सू.४.२.१२) इत्यादिभिः सूत्रैः सिद्धान्तितम्। सोऽयमंश: महाभारते एवं स्मर्यते –

                     सर्वभूतात्मभूतस्य सर्वभूतानि पश्यतः।

देवाऽपि मार्गे मुह्यन्ति अपदस्य पदैषिणः।। (मो.ध.२६२.३२) इति।

अत्र सर्वभूतात्मभूतस्य ज्ञानिन: गमनकाले अपदस्य तस्य मार्गे पदैषिणः सन्तः देवा अपि मुह्यन्तीत्युक्तत्वात् ज्ञानिन: गत्युत्क्रान्ती न स्तः इत्यंशः प्रतिपादितः।

अत्र कश्चन आक्षेपः – अस्मिन्नेव महाभारते शुकः किल वैयासिकिः मुमुक्षुरादित्यमण्डलमभिप्रतस्थे। पित्रा चागम्य आहूतो भो इति प्रतिशुश्राव(मो.ध.३३३.२३,२४ श्लोकानां भावरूपं वाक्यमिदम्) इति गतिरपि उक्ता खलु इति।

अत्राऽयं परिहार:- अयम् उत्क्रान्तेः पूर्वं सशरीरस्यैव योगबलेन विशिष्टदेशप्राप्तिपूर्वकः शरीरोत्सर्गः इति द्रष्टव्यम्, सर्वभूतदृश्यत्वाद्युपन्यासात्। न हि अशरीरं गच्छन्तं सर्वभूतानि द्रष्टुं शक्नुयुः । तथा च तत्रैव – शुक: वायोरपि शीघ्रगतिं प्राप्य अन्तरिक्षगः सन् ब्रह्मभूतो जात इति उत्क्रान्तिरहितत्वेन एवमुपसंहृतम्-

शुकस्तु मारुताच्छीघ्रं गतिं कृत्वाऽन्तरिक्षगाम्।

दर्शयित्वा प्रभावं स्वं ब्रह्मभूतोऽभवत्तदा ।। (मो.ध.३३३.१९,२०) इति।

५)     एवं ब्रह्मसूत्रेषु अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके(ब्र.सू.२.३.४३) इत्यत्र ‘जीवः परमात्मनः अंशः’ इति नाना प्रमाणवाक्यैः विचार्य सिद्धान्तितम्। अत्र जीवब्रह्मणो: ऐक्यत्वात् जैवेन दुःखेन परमात्मनोऽपि दुःखप्रसक्तिरिति सन्देहे एवं परिहारः – अविद्याप्रत्युपस्थापिते बुद्ध्याद्युपहिते जीवाख्ये अंशे दुःखायमानेऽपि तद्वान् ईश्वरो न दुःखायते। उदशरावादिकम्पनात् तद्गते सूर्यप्रतिबिम्बे कम्पमानेऽपि तद्वान् सूर्यः यथा न कम्पते तद्वदिति मन्तव्यम्। एवञ्चास्मिन् पूर्वोक्ते जैवेन दुःखेन परमात्मनो नास्ति दुःखित्वप्रसङ्गः इत्यत्र महाभारते एवं निरूप्यते –

तत्र य: परमात्मा हि स नित्यो निर्गुणः स्मृतः।

…. न लिप्यते फलैश्चापि पद्मपत्रमिवाम्भसा।।

कर्मात्मा त्वपरो योऽसौ मोक्षबन्धैः स युज्यते।

स सप्तदशकेनापि राशिना युज्यते पुनः।। इति। (मो.ध.३५१.१४,१५)

अत्र उपरिवाक्येषु जीवब्रह्मणोः भेदो दृश्यत इति न मन्तव्यम्। अविद्यया भेददृष्टिं प्राप्तानां मतमनूद्य उपदेशार्थमेवमुच्यते परमात्मा, कर्मात्मा इति। वस्तुतः जीवस्यापि दुःखं नास्ति। यद्यस्तीत्यालोच्यते तर्हि अविद्यानिमित्तैव दुःखप्राप्तिः जीवस्य इति मन्तव्यम्। तथा च अविद्यानिमित्त-जीवभावव्युदासेन जीवस्य ब्रह्मभावमेव प्रतिपादयन्ति वेदान्ताः तत्त्वमसि(छा.उ.६.८.७) इत्येवमादयः। एवञ्च पूर्वस्मिन् श्लोके उक्तः पञ्चकर्मेन्द्रिय-पञ्चज्ञानेन्द्रिय-पञ्चप्राण-मनोबुद्धिसहितः सप्तदशकलिङ्गः अविद्याप्रत्युपस्थापितबुद्ध्याद्युपहितो जीव एव परमार्थतः असता मोक्षेण बन्धेन वा युज्यते न परमात्मेति भावः ।

६)     तथा उपनिषत्सु अणीयान् ह्यतर्क्यमणुप्रमाणात्(क.उ.१.२.८),नैषा तर्केण मतिरापनेया(क.उ.१.२.९) इत्याद्युक्तरीत्या तर्केण परमात्मतत्त्वं ज्ञातुं न शक्यत इत्यत्र ब्रह्मसूत्रेषुतर्काप्रतिष्ठानादप्यन्यथाऽनुमेयमिति चेदेवमप्यविमोक्षप्रसङ्गः(ब्र.सू.२.१.११) इति, तथा श्रुतेस्तु शब्दमूलत्वात्(ब्र.सू.२.१.२७) इत्यत्र सूत्रेषु च विचार्यते। तदेतस्मिन्नंशे महाभारते इमानि वाक्यानि पश्यामः-

तत्र तत्र हि दृश्यन्ते धातवः पञ्चभौतिकाः।

तेषां मनुष्यास्तर्केण प्रमाणानि प्रचक्षते।।

अचिन्त्याः खलु ये भावा न तांस्तर्केण साधयेत्।

प्रकृतिभ्यः परं यत्तु तदचिन्त्यस्य लक्षणम्।। (भीष्म.५.११,१२) इति।

 

७) महाभारते जीवस्य मरणादिविचार:

यद्यपि अयमंशः आपाततः वेदान्ततत्त्वेषु नान्तर्भूतः इति भासते तथापि वेदान्ततत्त्वविचारात् बहिर्भूय न वर्तत इति मत्वा अस्मिन् विषये महाभारते किमुच्यत इति अत्र किञ्चिद्विचार्यते – सनातनवैदिकसम्प्रदायेतरैः प्रकल्पिते देहत्यागानन्तरं जीवो म्रियत इति विचारे, यद्यपि गीतादिषु ‘न जायते म्रियते वा कदाचित्’ वासांसि जीर्णानि यथा विहाय(भ.गी.२. २०,२२) इत्यादिवाक्येषु सत्स्वपि, तानि वाक्यानि आत्मपराणि, न जीवपराणि इति मन्यमानानां मूढानां महाभारते वनपर्वणि ब्राह्मणव्याधसंवादे न जीवो म्रियत इति सुस्पष्टमुच्यते-

न जीवनाशोऽस्ति हि देहभेदे मिथ्यैतदाहुर्म्रियतीति मूढाः।

जीवस्तु देहान्तरितः प्रयाति दशार्थतैवास्य शरीरभेदः।। (वन.२०९.२६)

जीवनाशः कदापि न सम्भवति, जीवः देहात् पृथगभवत् इतिमात्रेण मूढाः ‘म्रियत’ इत्याहुः । वस्तुत: जीवः देहान्तरं गच्छति। देहभेद एव अस्य मरणमिति व्यवहारो लोके दृश्यत इति भावः।

८)     एवञ्च, लोके पुण्यपापफलविचारे श्रद्धधाना: बहवश्चिचिन्तयन्ति, वदन्ति च यत् पूर्वजै: आचरितपापस्य फलम् अस्माभिः भुज्यते, एभिर्भुज्यत इत्येवंरूपेण। किन्तु तथ्यमिदमस्ति ‘स्वकृतकर्मफलं स्वयमेव भुङ्क्ते’ ‘अन्यकृतकर्मफलम् अन्यो न भुङ्क्त’ इति महाभारतडिण्डिमः। तथा जीवः स्वकृतपुण्यपापकर्मभिः सुखदुःखानि अनुभोक्तुं तत्तच्छुभाशुभशरीराणि लभते। पुण्यकर्माण: पुण्यशीला जायन्ते। पापकृतः अधमा जायन्ते। पूर्वजन्मनि यादृशं कर्म आचरितं तादृश्या वासनया युक्तस्सन् जायते। जन्तुः स्वकृतानां तत्तत्कर्मफलानाम् अनुभोगार्थमपुण्यां योनिमापद्य, ‘आतुरः अपथ्यं भुक्त्वा यथा दुःखी भवति’ तथा निरन्तरं दुःखमनुभवन्, दुःखान्ते दुःखरहितसमयमेव सुखमिति मत्वा, कर्मणाम् अनिवृत्तबन्धत्वात् पुनः पुन: बहुदुःखितः चक्रवत् संसारे परिक्रामतीति एभिर्वाक्यैः विशद्यते-

अन्यो हि नाऽश्नाति कृतं हि कर्म मनुष्यलोके मनुजस्य कश्चित्।

यत्तेन किञ्चिद्धि कृतं हि कर्म तदश्नुते नास्ति कृतस्य नाशः।।

सुपुण्यशीला हि भवन्ति पुण्या नराधमाः पापकृतो भवन्ति।

नरोऽनुयातस्त्विह कर्मभिः स्वैस्ततः समुत्पद्यति भावितस्तैः।।

जन्तुस्तु कर्मभिस्तैस्तैः स्वकृतैः प्रेत्य दुःखितः।

तद्दुःखप्रतिघातार्थमपुण्यां योनिमाप्नुते।।

तत: कर्म समादत्ते पुनरन्यन्नवं बहु।

पच्यते तु पुनस्तेन भुक्त्वाऽपथ्यमिवातुरः।।

अजस्रमिव दुःखान्तेऽदुःखितः सुखसंज्ञकः।

ततोऽनिवृत्तबन्धत्वात्कर्मणामुभयोरपि।।

परिक्रामति संसारे चक्रवद्बहुवेदनः।। (वन.२०९.२७,२८,३५-३७) इति।

९)     एवञ्च महाभारते ज्ञानादेव मोक्षः’ ‘सर्वं विश्वं ब्रह्मैव’ ‘मुक्ताः परमात्मान एव भवन्ति’ ‘यद्यद्वयं पश्याम: तत्सर्वं परमात्मसृष्टा माया इति बहूनि वेदान्ततत्त्वानि तत्र तत्र उच्यन्ते। यथा – ‘ज्ञानान्मोक्षो जायते राजसिंह(मो.ध.३१८.८७),सर्व विश्वं ब्रह्म चैतत् समस्तम्(मो.ध. ३१८.८९),

यं प्रविश्य भवन्तीह मुक्ता वै द्विजसत्तमाः।

स वासुदेवो विज्ञेयः परमात्मा सनातनः। (मो.ध.३३९.२५),

माया ह्येषा मया सृष्टा यन्मां पश्यसि नारद (मो.ध.३३९.४५) इत्यादिभिः ।

१०)   तथा च वेदान्तेषु तत्त्वमसि’ ‘अहं ब्रह्मास्मिइत्यादिषु वाक्येषु जीवपरतया परमात्मोपदेश: यथा श्रूयते, तथा महाभारते विशिष्य अहं हि जीवसंज्ञातो मयि जीवः समाहितः(मो.ध.३३९.४७) इति, अहमेव जीवः इति परमात्मना एव जीवोपदेशः स्मर्यते। यद्यप्यत्र ममैवांशो जीवलोके जीवभूतः सनातन:(भ.गी.१५.७) इति गीतायाम् उक्तञ्चेदपि अंशशब्दात् भेदं मन्यमानानां मुग्धानाम् अहमेव जीवसंज्ञया अस्मीति परमात्मवाक्यं सुस्पष्टं ब्रवीति। एतेन जीवब्रह्मणोरभेदविषये कश्चनापि सन्देहलेशो मनसि न निधेय इति जीवपरमात्मपक्षाभ्यामुभाभ्यामपि उक्तं सत्, अविचाल्यमानो दृढतमो विचार: उपस्थापितो भवति।

११) एवमेतावता वेदान्ततत्त्वविचारे, वेदान्तेषु प्रतिपादिताः केचन अंशा: महाभारते कथं प्रतिपादिता इति सप्रमाणं विमृष्टा अत्र।

धर्मे चाऽर्थे च कामे च मोक्षे च भरतर्षभ।

यदिहास्ति तदन्यत्र यन्नेहास्ति न कुत्रचित्।।

इत्युक्तरीत्या महाभारते, सर्वेषु पुरुषार्थेषु विस्तरेण उपदिष्टेषु सत्स्वपि विशिष्य, परमार्थतया एक एव पुरुषार्थो मोक्षः इति विस्तरेण निरूपित: सन् महत्त्वात् भारवत्त्वाञ्च महाभारतमुच्यते इति सार्थकनामाऽयं महाभारतग्रन्थः सकलजगतां दुःखनिवारकः सन् नितरामुपकरोतीति शम्।।

 

परामृष्टग्रन्थाः-                                                     

  1. ब्रह्मसूत्रशाङ्करभाष्यम्
  2. महाभारतम् (मोक्षधर्म-भीष्म-वनपर्वाणि)
  3. तैत्तिरीय-कठ-बृहदारण्यक-छान्दोग्योपनिषदः                                       

[/vc_column_text][/vc_column][/vc_row]