श्री:

निषादस्थपतिशब्दार्थविचार:

एस्. पद्मासना 

शोधच्छात्रा 

संस्कृतविभागः मद्रपुरीयविश्वविद्यालयः

 शोधपत्रसारांशः

अस्मिन् शोधपत्रे पूर्वमीमांसायाः निषादस्थपत्यधिकरणे कथंषष्ठीतत्पुरुषापेक्षया कर्मधारये लाघवं पुरस्कृत्य सिद्धांतः स्थापित इति विचार्य,तत्र मूलभूता या 

व्युत्पत्तिः,”नामार्थयोरभेदातिरिक्तसंबंधेन अन्वयो नास्तीति”, सा यद्यपि नैयायि-कैःअंगीक्रियते इति प्रसिद्धं,परंतु मीमांसकानां इयं व्युत्पत्तिः सम्मता वा इति वि-चारितम्।एवं समासे अतिरिक्तशक्तिस्वीकर्तॄणांवैयाकरणानामपि मते कथं एतदधिकरणसिद्धांतः संगच्छते इत्यपि निरूपितमस्ति।

                              (विषयसंशयनिरूपणम्)

पूर्वमीमांसाया: षष्ठाध्यायस्य प्रथमपादस्य अन्त्ये (भाट्टदीपिकानुसारेण द्वादशे,भाष्याद्यनुरोधेन त्रयोदशे) अधिकरणे “रौद्रं वास्तुमध्ये चरुं निर्वपेदि”ति वाक्यविहिते यागे “एतया निषादस्थपतिं याजयेत्” इतिवाक्योक्त​: निषादस्थपतिरूप​: अधिकारी  क इति विचारितम्।

अत्र यागे गवीधुकप्रकृतिकचरु: द्रव्यम्। तथा च कात्यायनसूत्रम्- निषादस्थपतिर्गावीधुकेऽधिकृत इति। आपस्तम्बसूत्रानुरोधेन “रौद्रं वास्तुमयं चरुमि”ति पाठान्तरमिति भाट्टदीपिकाव्याख्यायां प्रभावल्यामुक्तम्। तत्पक्षे वास्तुनामकशाक​(बीज​)प्रकृतिकमित्यर्थ​:। मीमांसा-उद्धरण-कोशे तु “वास्त्वमयं रौद्रं चरुं निर्वपेत् यस्य​ रुद्र: प्रजा:  शमयेत्​” इत्येवं विषयवाक्यं मैत्रायण्या: संहिताया: (२.२.४.) उद्धृतत्वेन दर्शितम्। “अस्तु वा कल्पसूत्रभेदेन पाठभेद​” इति वदता शम्भुभट्टेन गावीधुकचरो: वास्तुप्रकृतिकचरोश्च विकल्पेन द्रव्यत्वं स्वीकृतमिति भाति। अस्या: इष्टे: रुद्रकर्तृकप्रजाशमनं निमित्तम्,तथा च नैमित्तिकी इयमिष्टि:। अत्र अधिकारी निषादस्थपतिरिति “एतया निषादस्थपतिं याजयेत्” इति वाक्याल्लभ्यते। परन्तु निषादस्थपतिशब्दस्य समस्तस्य त्रेधा विग्रह​: सम्भवति॒ – निषाद​: स्थपतिर्यस्येति ,निषादानां स्थपतिरिति ,निषादश्चासौ स्थपतिश्चेति च​। स्थपतिर्नाम नृप​:, प्रभुरिति यावत्। 

तथा चामर​:- “स्थपति: कारुभेदेऽपि भूभृद्भूमिधरे नृपे।” इति । तदत्र बहुव्रीहिर्वा ,षष्ठीतत्पुरुषो वा कर्मधारयो वा इति संशये एवं पूर्वपक्ष: वर्णित​:-

                                       (पूर्वपक्ष​:)

कर्मधारयस्वीकारे अस्यामिष्टौ निषादोऽधिकृत इति स्यात्। निषादश्च त्रैवर्णिकबाह्यः संकरजातिविशेष इति तस्य स्वाध्यायविधिसिद्धा विद्या न संभवति। अत​: “एतया निषादस्थपतिं याजयेदि”ति विधिनैव निषादस्य एतदिष्ट्यनुष्ठानौपयिकी विद्या आक्षिप्यते इति कल्पनीयम् अन्यथा विधिबोधितनिषादाधिकारस्य अनुपपत्ते:। तथा च विधे: निषादस्य विद्याकल्पकत्वगौरवं  भवति।

बहुव्रीहिस्वीकारे “निषाद​: स्थपतिर्यस्य​” इति विग्रह​:। तत्र यच्छब्दार्थ​: त्रैवर्णिकोऽपि संभवति। यद्यपि अत्रैवर्णिकस्यापि निषाद​: स्थपति: स्यात्, तथापि निषादस्थपतिकस्य अत्रैवर्णिकस्य नात्र ग्रहणम्। यत​: सिद्धविद्यं त्रैवर्णिकमादायैव विधिश्चरितार्थो भवति चेत्, स​: असिद्धविद्यस्य विद्याक्षेपशक्तिकल्पनागौरवं न सहते। अनेनैव हि न्यायेन “ज्योतिष्टोमेन स्वर्गकामो यजेते”त्यादावपि शब्दत​: स्वर्गकाममात्रस्य अत्रैवर्णिकसाधारण्येन अधिकारे आपातत​: प्रतीयमानेऽपि विधे: विद्याक्षेपशक्तिकल्पनागौरवपरिहाराय त्रैवर्णिकस्यैव अधिकार इति साधितम्। अत​: विधिलाघवानुरोधेन कर्मधारयं विहाय बहुव्रीहि: स्वीकर्तुमुचित​:। परन्तु बहुव्रीहौ पदद्वयस्य अन्यपदार्थे लक्षणाङ्गीकारात् तदपेक्षया षष्ठीतत्पुरुषाङ्गीकार एव श्रेयान्। तत्र पूर्वपदे एकस्मिन्नेव​ संबन्धिनि लक्षणा स्वीक्रियत इति विशेष​:। निषादानां स्थपतिर्हि त्रैवर्णिकोऽपि सम्भवति। अत​: विधे: विद्याक्षेपकत्वमपि न कल्पनीयम्। अत​: निषादानां  स्थपति: त्रैवर्णिक एवात्र अधिकारी इति।

                                      (सिद्धान्त​:)

अत्र सिद्धान्त उच्यते –

यद्यपि षष्ठीतत्पुरुषे द्वयो: पूर्वोत्तरपदयोरन्यपदार्थे लक्षणा नास्ति , तथापि पूर्वपदस्य सम्बन्धिनि लक्षणा तु अवश्यम्भाविनी।

तदपेक्षया कर्मधारय स्वीकारे निषादस्य स्थपतिपदार्थे अभेदसंसर्गेण विशेषणत्वात् “निषादाभिन्न: स्थपतिरि”ति बोधस्य विनैव लक्षणां संभवेन कर्मधारय एव युज्यते। एवं सिद्धे निषादस्य अधिकारे विधिना तस्य तदनुष्ठानौपयिकी विद्या आक्षिप्यते। ननु पूर्वपदे संबन्धिलक्षणागौरवस्य विधे: विद्याक्षेपकत्वशक्तिकल्पनागौरवस्य च मध्ये अन्यतरस्मिन् अवश्यं सोढव्ये किं गौरवं सोढव्यमित्यत्र विनिगमकं किमिति चेत् ,उच्यते – 

फलमुखगौरवं न दोषायेति न्यायस्यैव विनिगमकत्वम्। तथाहि – “एतया निषादस्थपतिं याजयेदि”ति वाक्यार्थे ज्ञाते पश्चात् निषादस्य ज्ञानं विना यागानुष्ठानानुपपत्त्या तस्य एतद्यागानुष्ठानमात्रौपयिकी विद्या आक्षेप्तव्या। परन्तु वाक्यार्थज्ञानात् पूर्वं पदार्थावधारणवेलायामेव षष्ठीतत्पुरुषे लक्षणागौरवस्य ,कर्मधारये तदभावस्य च उपस्थितत्वात् तदनुसारेण गौरवपरिहारार्थं कर्मधारय एव स्वीकर्तव्य​: । लघुभूतकर्मधारयस्वीकाररूपफलद्वारा आपद्यमानं विधे: निषादस्य विद्याक्षेपकत्वकल्पनरूपं गौरवं न दोषायेति “फलमुखगौरवं न दोषाये”ति  न्यायाल्लभ्यते।

                         (षष्ठीतत्पुरुषे पूर्वपदलक्षणाकारणविचार​:)   

कर्मधारये लक्षणाभाव​: किल षष्ठीतत्पुरुषापेक्षया विशेष​:। षष्ठीतत्पुरुषेऽपि किं विनैव लक्षणां बोधो वर्णयितुं शक्यते उत न इतीदानीं विमृश्यते-

राजपुरुष इत्यादि षष्ठीतत्पुरुषस्थले स्वस्वामिभावादिसंबन्धस्य पूर्वोत्तरपदार्थसंसर्गविधया भानोपपत्ते: राजसंबन्धवान् पुरुष इति बोधस्य विनैव लक्षणां संभवेन किमर्थं पूर्वपदस्य संबन्धिनि लक्षणामङ्गीकृत्य राजसंबन्ध्यभिन्न​: पुरुष इति बोधो वर्ण्यते इति चेदुच्यते-

राजा पुरुष इत्यादि (समासरहित​) समानविभक्तिकपदस्थले स्वस्वामिभावादिभेदसंबन्धेन राजादिपदार्थस्य पुरुषादिपदार्थे अन्वयापत्तिं वारयितुं  नामार्थयोरभेदातिरिक्तसंबन्धेनान्वयो न भवतीति नियमोऽङ्गीक्रियते। अत​: असमासे राजपदार्थस्य पुरुषे अभेदेनैवान्वयात् राजाभिन्न​: पुरुष इत्येव बोधः​ ,न तु राजसंबन्धी पुरुष​: इति। एतन्नियमानुरोधेन षष्ठीतत्पुरुषेऽपि राजपदार्थस्य पुरुषे अभेदेनैवान्वय​: स्यात्। परन्तु तत्र राजाभिन्न​: पुरुष इत्यर्थस्तु न तात्पर्यविषय​: ।अत​: पूर्वपदस्य संबन्धिनि लक्षणां स्वीकृत्य पूर्वपदलक्ष्यार्थस्य उत्तरपदार्थे अभेदान्वय​: स्वीकर्तव्य​: , तथा च राजसंबन्ध्यभिन्न​: पुरुष इति बोध: सिद्ध्य​ति। न च पूर्वपदे लक्षणास्वीकारापेक्षया “असमस्तनामार्थयोरभेदान्वय एवेत्येवं व्युत्पत्तावेव संकोच​: क्रियतामिति वाच्यम्। कर्मधारयादौ समस्तयोरपि नामार्थयोरभेदान्वयस्यैव दर्शनेन तत्रापि भेदान्वयवारणस्य व्युत्पत्त्या साधनीयत्वात्, असमस्तत्वेन संकोचे तु तदसंभवात्। कर्मधारयादिभिन्नसमासरहितत्वेन संकोचे तु कर्मधारयादीनां विशिष्य निवेशनीयत्वाद् गौरवम्। अत​: लाघवात् नामार्थयोरभेदान्वय एवेत्येव व्युत्पत्तिकल्पनात् तदनुरोधेन षष्ठीतत्पुरुषे पूर्वपदस्य संबन्धिनि लक्षणा अवश्यम्भाविनी। अत्र व्युत्पत्तौ नामेत्यत्र निपातातिरिक्तत्वं विशेषणं देयम्। घटो न पट इत्यादौ नञ्रूपप्रातिपदिकार्थस्य भेदस्य  आश्रयतासंबन्धेन घटादौ अन्वयानुभवात्।

नन्विदं सर्वं नैयायिकमतानुसारेण उपपद्यते। यत​: “राजा पुरुष​” इत्यदौ भेदेनान्वयस्य वारणाय हि नामार्थयोरभेदान्वय इति व्युत्पत्ति: स्वीक्रियते। मीमांसकैस्तु सुबन्तार्थयो: परस्परान्वयस्यैव अस्वीकारात् अस्तिपदमध्याहृत्य तत्रैव राजपदार्थपुरुषपदार्थयोरन्वय​: अङ्गीकर्तव्य​:। तयोरभेदान्वयबोधस्तु पार्ष्ठिक​:। अतश्च मीमांसकानां “नामार्थयोरभेदान्वय एवे”ति नियमाङ्गीकारस्य अनावश्यकत्वात् “निषादस्थपतिरि”त्यत्र षष्ठीतत्पुरुषत्वे पूर्वपदार्थस्य उत्तरपदार्थे  भेदेनान्वये बाधकाभावात् कर्मधारयवद्विनैव लक्षणां बोधोपपत्ते: कथं कर्मधारयत्वनिर्णय इति चेन्मैवम्। प्राथमिकशाब्दबोधे नामार्थयो: क्रियायामन्वयेऽपि  पार्ष्ठिकबोधे तयो: परस्परान्वयस्य भानात् तत्र च भेदेनान्वयस्य वारणाय मीमांसकैरपि उक्तव्युत्पत्तेरङ्गीकर्तव्यत्वात्। समासे तु प्राथमिकबोधे नामार्थयो: परस्परान्वयस्य व्युत्पन्नत्वात् ​नामार्थयोरभेदान्वयनियमानुरोधेन षष्ठीतत्पुरुषे अभेदान्वयोपपत्त्यर्थं पूर्वपदस्य संबन्धिलक्षणा आवश्यक्येवेति भवति कर्मधारये षष्ठीतत्पुरुषापेक्षया लक्षणाभावकृतो विशेष​:।

समासे अतिरिक्तशक्तिमङ्गीकुर्वतां वैयाकरणानां नये कर्मधारयषष्ठीतत्पुरुषयोरुभयोरपि लक्षणाया अभावात् कथं कर्मधारये लाघवमुपपद्यत इति चेदुच्यते- कर्मधारये “निषादाभिन्नस्थपतिरि”त्यर्थे निषादस्थपतिशब्दस्य शक्ति: । वैयाकरणनये अभेदो नाम (निरवच्छिन्न​) विशेष्यविशेषणभाव​:,संबन्धान्तरानवच्छिन्न विशेष्यविशेषणभाव इति यावत् । तथा च निषादविशिष्टस्थपतिरिति कर्मधारयाद्बोध​: । षष्ठीतत्पुरुषात्तु “स्वस्वामिभावसंबन्धेन निषादविशिष्टस्थपतिरि”ति। एवञ्च विशेष्यविशेषणभावातिरिक्तसंबन्धाभावकृतलाघवात् कर्मधारय​: तत्पुरुषाद्विशिष्यते। एतदेवाभिप्रेत्य ​” संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ती”ति परिभाषायां परिभाषेन्दुशेखरस्य भूतितिलकस्य व्याख्यायां तत्त्वप्रकाशिकायामुक्तम्- 

“विशेष्यविशेषणभावातिरिक्तसंबन्धाभावप्रयुक्तलाघवमूलकेन तेन न्यायेन (निषादस्थपत्यधिकरणन्यायेन) इति तदर्थ इति।

१. भाट्टदीपिकाव्याख्या प्रभावली – पृ.सं. ६५८

२.अमरकोशे तृतीयकाण्डे नानार्थवर्गे – श्लो. सं. ६१

३. परिभाषेन्दुशेखरभूतितिलकव्याख्या तत्त्वप्रकाशिका – पृ. सं. ११९

                                          परामृष्टग्रन्थसूची

१. भाट्टदीपिका – श्री खण्डदेवरचिता प्रभावलीसंवलिता मद्रपुरीयविश्वविद्यालये      १९५७ तमे वर्षे        प्रकाशिता

२.व्युत्पत्तिवादः – श्रीगदाधरभट्टाचार्यविरचितः राष्ट्रियसंस्कृतविद्यापीठम् ​ तिरुपति द्वारा प्रकाशितः – 2011

३.अध्वरमीमांसाकुतूहलवृत्तिः – श्रीपट्टाभिरामशास्त्रिस​म्पादिता श्रीलालबहादुरशास्त्रिराष्ट्रियसंस्कृतविद्यापीठे १९६९- ७० वर्षे प्रकाशिता

४.परिभाषेन्दुशेखरव्याख्या भूतितिलकः – महामहोपाध्याय​. कै.तात्याशास्त्रिणा विरचिता श्रीवासुदेवशास्त्रिणा सं. २०३९ विक्रमाब्दे वाराणस्यां प्रकाशिता

५. अमरकोशः – श्रीमदमरसिंहविरचितः चौखाम्बासंस्कृतप्रतिष्ठानम् ,दिल्ली द्वारा प्रकाशितः

६.मीमांसा-उद्धरणकोशः