[vc_row][vc_column][rev_slider_vc alias=”about-3″][vc_column_text el_class=”articles”]

धात्वर्थनिर्णयः

Dr. Shubh Chandra Jha
Asst. Professor
Dept. of Sanskrit & IC, SCSVMV Deemed to be University
shubhchandrajha52@gmail.com
9087599862

शोधसारः-

भ्वादिगणपठितत्वे सति क्रियावाचकत्वं धातुत्वम्(क्रियावाचित्वे सति भ्वादिगणपठितानुपूर्वीसदृशानुपूर्वीमन्तः धातुसंज्ञकाः स्युः)। प्रकृतौ क्रियापदेन साध्यक्रिया विवक्षिता अस्ति। साध्यक्रियानां- क्रियान्तराकाँक्षानुत्थापकतावच्छेदकधर्मवत्वम् इति कौण्डभट्टविरचिते भूषणसाराख्ये ग्रन्थे निरूपितमस्ति। धातोः परिचयं ज्ञात्वा तदर्थं परिशीलयामः।

फलव्यापारयोः धातुः आश्रये तु तिङ्स्मृताः।

       फले प्रधानं व्यापारस्तिङर्थस्तु विशेषणम्।।[1]इति

फलव्यापारौ धात्वर्थौ स्तः। फलसम्पादने व्यापारस्य प्राधान्यं भवति। तत्र फलाश्रयः कर्म, व्यापाश्रयश्च कर्ता भवति। कर्तृकर्मसंख्याकालाः इमे तिङ्-अर्थाः वर्तन्ते। कर्तृकर्मणि फलव्यापारयोः विशेषणे वर्तेते। फलव्यापारौ तिङर्थौ तु न सम्भवति, धातोः  तल्लाभात्।

 

व्यापारो भावना सैव उत्पादना सैव च क्रिया इत्यनेन धातोः नामान्तराणि निगदितानि भूषणसारे। का नाम क्रियेति ज्ञानाय पाणिनेः सूत्रमेव शरणमतः धातुसंज्ञाविधायकं सूत्रं परिशील्य तदनुधात्वर्थनिर्णयं पश्यामः

भूवादयो धातवः[2]भूवादयः धातवः इति पदविभागः द्विपदात्मकं सूत्रमिदम्। भूवादयः इति प्रथमान्तं पदम्, धातवः इत्यपि प्रथमान्तं पदम्। भूश्च वाश्च इति भुवौ इतरेतरद्वन्द्वसमासः। आदिश्च आदिश्च इति आदी एकशेषः, भूवौ आदी येषां ते भुवादयः  द्वन्द्वगर्भितबहुव्रीहिसमासः। प्रथमः आदिशब्दः प्रभृतिवचनः, द्वितीयः आदिशब्दस्तु प्रकारवचनः। प्रथमः आदिशब्दः भू इत्यनेन अन्वेति तथा च द्वितीयः आदिशब्दः वा इत्यनेन अन्वेति। अत्र विचारणीयः अंशः यत् प्रकृतसूत्रे द्वन्द्वसमासः कथं भवति? यतः द्वन्द्वसमासस्तु सह विवक्षायां भवति। तर्हि किं नाम सह विवक्षा इति चेदुच्यते- एकधर्मावच्छिन्नस्य एकधर्मावच्छिन्नसंसर्गेण एकधर्मावच्छिन्ने अन्वय इति यथा- घटपटौ पश्य इत्यत्र अस्य लक्षणस्य समन्वयं पश्यामः– प्रकृतोदाहरणे घटपटौ पश्य इत्यत्र एकधर्मावच्छिन्नस्य घटपटौ इति समुदायत्वावच्छिन्नस्य, एकधर्मावच्छिन्नसंसर्गेण कर्मत्वसंसर्गेण, एकधर्मावच्छिन्न पश्य इति क्रियायामन्वयो वर्तते, अतः प्रकृतौ घटपटावित्यत्र सह विवक्षायां सत्यां द्वन्द्वसमासो भवति।

किन्त्वत्र प्रकृतसूत्रे भू इत्यस्याभेदसम्बन्धेन प्रभृतिवचनः आदिशब्देऽन्वयो वर्तते, तथा च वा इत्यस्य स्वनिष्ठप्रतियोगिताकनिरूपकत्वसम्बन्धेन प्रकारवचनः आदिशब्दे अन्वयो वर्तते। तथा सति भिन्नसंसर्गेण भिन्ने स्थाने अर्थात् प्रथमस्य प्रभृतिवचने  द्वितीयस्य प्रकारवचने समन्वयकरणात् अत्र सह विवक्षा नास्ति, सह विवक्षायाः अभावे सूत्रेऽस्मिन् कथं द्वन्द्वसमासः कृतः इति प्रश्नः समुदेति? तदा ग्रन्थकारः समादधति यत्- यथा आद्यन्तौ टकितौ[3] इत्यस्मिन् सूत्रे समुदायस्य समुदायेऽन्वयं विधाय द्वन्दसमासो निरुपितः तथैव भूवादयो धातवः इत्यस्मिन् सूत्रेऽपि समुदायस्य समुदायेऽन्वयं कृत्वा द्वन्द्वसमासः भविष्यति।

तथा हि भुवौ इति समुदायस्य आदि इति समुदाये स्वघटकाभिन्नघटितत्वम्, स्वघटकनिष्ठप्रतियोगिताकनिरूपकसादृश्यवद्घटित्वसम्बन्धेनान्वयो भविष्यति। अत्र समन्वयस्तु स्व- भुवौ तद्घटकः भू इति तद्भिन्नो प्रभृतिवचनः आदि तद्घटितत्वम्, आदि इति समुदाये, तथैव स्वम्- भुवौ तद्घटकः वा इति शब्दः तन्निष्ठप्रतियोगितानिरूपकसादृश्यवत् प्रकारवचनः आदिशब्दः तद्घटितत्वम्, आदी इति समुदाये एवं प्रकारेणैकसंसर्गेणैकधर्मावच्छिन्ने समन्वयकारणात्प्रकृतौ सह विवक्षा वर्ततेऽतः द्वन्द्वसमासे कृते  कापि क्षतिर्नास्तीति।

वृत्तिः

क्रियावाचिनो भ्वादयो धातुसंज्ञाः स्युः। अर्थात् भूप्रभृतयो वासदृशाश्च ये ते धातुसंज्ञकाः भवन्तीत्यर्थः।

विशिष्टार्थस्तु- भ्वादिगणपठितत्वे सति क्रियावाचकत्वं धातुत्वम्(क्रियावाचित्वे सति भ्वादिगणपठितानुपूर्वीसदृशानुपूर्वीमन्तः धातुसंज्ञकाः स्युः)। प्रकृतौ क्रियापदेन साध्यक्रिया विवक्षिता अस्ति। साध्यक्रियानां- क्रियान्तराकाँक्षानुत्थापकतावच्छेदकधर्मवत्वम् इति कौण्डभट्टविरचिते भूषणसाराख्ये ग्रन्थे निरूपितमस्ति। सार्वत्रिकः नियमः सादृश्यविषये भवति यत् प्रतियोगितावच्छेदकव्यापकीभूतधर्मेण सादृश्यमङ्गीक्रियते। एवं विधा धातोः परिचयं ज्ञात्वा तदर्थं परिशीलयामः।

 

धात्वर्थविमर्शः-

भूषणसाररीत्या-

         फलव्यापारयोः धातुः आश्रये तु तिङ्स्मृताः।
फले प्रधानं व्यापारस्तिङर्थस्तु विशेषणम्।।[4]इति

फलव्यापारौ धात्वर्थौ स्तः। फलसम्पादने व्यापारस्य प्राधान्यं भवति। तत्र फलाश्रयः कर्म, व्यापाश्रयश्च कर्ता भवति। कर्तृकर्मसंख्याकालाः इमे तिङ्-अर्थाः वर्तन्ते। कर्तृकर्मणि फलव्यापारयोः विशेषणे वर्तेते। फलव्यापारौ तिङर्थौ तु न सम्भवति, धातोः  तल्लाभात्। अनन्यलब्धो हि शब्दार्थो भवति। व्यापारस्य धात्वर्थे साधकान्यन्तरमपि विद्यते। तद्यथा-

                  किं कार्यं पचनीयं चेत्यादि दृष्टं हि कृत्स्वपि।

              किञ्च क्रियावाचकतां विना धातुत्वमेव च।।[5]

कृधातोः ऋहलोण्यत्[6] इति कर्मणि ण्यत् प्रत्यये कार्यमिति रूपं भवति। पच-धातोः तव्यत्तव्यानीयरः[7] इति कर्मणि अनीयर् प्रत्यये पचनीयमिति रूपं सिध्यति। उक्ताः प्रत्ययाः धातूनां क्रियावाचकत्वं विना न सम्भवति। इमे प्रत्ययाः व्यापारस्य धात्वर्थे साधकाः भवन्ति। क्रियां विना कर्तृकर्मकरणादीनां कारकत्वमपि न सम्भवति। क्रियाजनकत्वं कारकत्वमिति लक्षणात्।

         कर्तृकर्मणोः तिङर्थे प्रमाणं तु लः कर्मणि च भावे चाकर्मकेभ्यः[8] इति सूत्रं वर्तते। अस्मिन् सूत्रे चकारात् कर्तरि कृत्[9] इत्यस्मात् सूत्रात् कर्तरि इति पदमनुकृष्यते। अनेन योगेन तिबादीनां स्थानित्वेन कल्पिताः लकाराः कर्तरि कर्मणि च भवन्ति। सूत्रेण कर्तरि कर्मण्यर्थे लादीनां विधानेऽप्यर्थबोधकताशक्तिस्तिबादीनां वर्तते। लकारास्तु नार्थबोधकाः, तेषां कल्पनात्वात्। कर्तृकर्मणि फलव्यापारयोर्विशेषणे वर्तेते। संख्या कर्तरि वाच्ये कर्तरि विशेषणं भवति एवं कर्मणि वाच्ये कर्मणि विशेषणं भवति।

         कालस्तु व्यापारे विशेषणं भवति। वर्तमाने लट्[10] इत्यत्र धातोः[11] इति योगस्याधिकारः आयाति। तच्च धात्वर्थं वदत् प्राधान्येन व्यापारमेव ग्राहयति। अतस्तत्रैव तस्यान्वयो भवति। संख्यावत् कर्तृकर्मणोस्तु नान्वेति। अतीतभावनाके कर्तरि पचतीत्यापत्तेः, अपाक्षीत् इति अनापत्तेश्च। फलेऽपि तस्यान्वयो न सम्भवति। फलस्यानुत्पत्त्यवस्थायां व्यापारे विद्यमाने पचतीत्यनापत्तेः, पक्षतीत्यापत्तेश्च।

         व्यापारे आख्यातार्थकालान्वय एका समस्या भवति। आमवातादिव्याधिपीडितकलेवरस्य मनस्युत्थानानुकूलव्यापारविद्यमानात् एषः उत्तिष्ठतीति प्रयोगापत्तिर्भवेत्। परन्त्वत्र परमनसि जातस्य यत्नस्य ज्ञानाभावादप्रयोगादुक्ता समस्या निराक्रियते। केनचिच्चेष्टादिना देहावयवकम्पनक्रियया व्यापारज्ञाने तु अयमुत्तिष्ठतीति शक्याभावात् फलन्तु न जायते इति लोकव्यवहारात्प्रतीतिर्भवत्येव। एतेन व्यापारस्य प्राधान्यं तिङर्थस्य विशेषणमेव सिध्यति।

         आख्यातस्य कर्तृकर्मणोः वाचकत्वे पचतीति पदेन कर्तृकर्मणोः द्वयोरेव बोधापत्तिः स्यात्। एवं यथोक्तं पदं कर्तृमात्रं बोधकपरं तथैव कर्ममात्रं बोधकं भवेत्। इत्याशङ्कायामुच्यते-

                  फलव्यापारयोस्तत्र फले तङ्यकचिणादयः।

              व्यापारे शप्श्नमाद्यास्तु द्योतयन्त्याश्रयान्वयम्।।[12]इति

फलव्यापारौ धात्वर्थौ स्तः। तत्र फलाधारं कर्म विद्यते। तस्य द्योतकाः तङ् –यक्- चिणादयाः वर्तन्ते। यत्र इमे सन्ति तत्राख्यातेन कर्मार्थो बुध्यते। व्यापाराश्रयः कर्ता विद्यते। तस्य द्योतकाः शप्- श्नम्-श्नादयः विकरणाः भवन्ति। यत्र इमे वर्तन्ते तत्र आख्यातेन कर्तर्थो बुध्यते। एतेनैकाख्यातस्य द्वयोः कर्तृकर्मणोर्बोधनमिति समस्या निराक्रियते।

         ननु तङ्-यक्-चिणादीनां फलद्योतकत्वे कर्मकर्तृप्रकरणे पच्यते ओदनः स्वयमेव इत्यादौ क्रमादयं नारद इत्यबोधि सः– इत्यादौ च चिण्–यगादिभिः कर्ता द्योतितो विद्यते। अत्रस्थेनाख्यातेन न तु कर्मबोधनं परन्तु कर्तृबोधनं क्रियते। अतः अत्र व्यभिचार आपतति तङ-यक् चिणादयः कर्मणोः व्यञ्जकाः शप-श्नम्-श्नादयः कर्तुः बोधकाः इति नियमस्तु सामान्य एव। यत्रास्य नियमस्य विपर्ययो दृश्यते तत्र शास्रमननुलङ्घ्य तदनुसारेणैव यथोचितं द्योतकत्वं ज्ञेयम्। अनेन पच्यते ओदनः स्वयमेव इत्यादौ कर्तरि तङ्-यगादिविधानेऽपि न क्षतिः।

प्राचीननव्यवैयाकरणदिशाधात्वर्थः

प्राचीनवैयाकरणानां मते फलं व्यापारश्चोभयं धात्वर्थः। कर्तृकर्मसंख्याकालाः आख्यातार्थः। अनुकूलत्वं संसर्गः, सर्वत्र फलं व्यापारे विशेषणम्। कर्मकृदन्ते एव फलं विशेष्यम्। संख्याकर्तरिप्रत्यये कर्तरि, कर्मप्रत्यये कर्मणि च अन्वेति। समानप्रत्ययोपात्तत्वात्। कालस्तु व्यापारे अन्वेति।

नव्यवैयाकरणमते तु फलावच्छिन्नव्यापारे व्यापारावच्छिन्नफले च धातोः शक्तिद्वयम्। कर्तृकर्मणी फलव्यापारयोर्विशेषणे। कालस्य च व्यापारे एव अन्वयः। संख्या तु धात्वर्थे एवान्वेति। कर्तृप्रत्ययसमभिव्याहारे धातोः फलावच्छिन्नव्यापारबोधकत्वम्। कर्मप्रत्ययसमभिव्याहारे व्यापारावच्छिन्नफलबोधकत्वम्।

धात्वर्थनिर्णये अन्येषां मतम्

प्राचीनभाट्टमीमांसकानां मते धात्वर्थः फलं व्यापारश्च भावनारूपः प्रत्ययार्थः। प्राचीनप्राभाकराणां मते धात्वर्थः फलं लिङतिरिक्तलकारस्य भावना नार्थः। नव्यमीमांसकानां मते फलव्यापारावुभावपि धात्वर्थः। भावना व्यापारातिरिक्ता आख्यातार्थः। नव्यप्राभाकरमतेऽपि फलव्यापारावुभावपि धात्वर्थः। भावना तु केवलं लिङ् वाच्या। नेतरलकारवाच्या। समेषां मते कालः संख्या च आख्यातार्थ एव। संख्या च भावनाक्षिप्तकर्तृकर्मणोरन्वेति प्राचीनमते। नव्यमते तु निरूढलक्ष्यकर्तृकर्मणोरन्वेति। कालस्य तु भावनायामेवान्वयः।

प्राचीननैयायिकमते क्रियाधात्वर्थः, कृतिराख्यातार्थः। फलन्तु यगात्मनेपदद्वितीयादिभिः बोध्यते। मण्डनमतानुयायिनां नैयायिकानां मते फलं धात्वर्थः, कृतिराख्यातार्थः। मणिकारादीनां मते फलावच्छिन्नव्यापारो धात्वर्थः, कृतिराख्यातार्थः। यगात्मनेपदीनां फलमर्थः, जगदीशस्यापि सम्मतं मतमिदम्। दीधितकृतादीनां मते तु फलं व्यापारश्चोभौ धात्वर्थः। अनुकूलत्वं संसर्गः। कर्त्राख्याते व्यापारस्य विशेष्यत्वम्। कर्माख्याते फलस्य विशेष्यत्वम्। भावाख्यातस्तु साधुत्वमात्रता, कृतिराख्यातार्थः। अचेतनादिषु कर्तृषु कृतेर्बाधात् आश्रयत्वे लक्षणा, कालः संख्या च समेषां मते आख्यातार्थ एव। आख्यातार्थकालस्य आख्यातार्थकृतावन्वयः। यत्र कृतिर्नबोध्यते तत्र धात्वर्थव्यापारे, नञ् समभिहारे तु नञर्थे भावेऽन्वयः। संख्यायास्तु प्रथमान्तार्थे इतराविशेषणीभूते अन्वयः।

शाब्दबोधे च मुख्यविशेष्यत्वं मीमांसकानां मते सर्वत्र भावनायाः एव, केषाञ्चित् प्राभाकाराणां मते लिङतिरिक्ते प्रथमान्तमुख्यविशेष्यको बोधः। तादृशानां वाक्यानां सर्वेषामपि तत्प्रकरणस्य विधिवाक्ये अन्वयः। विधिवाक्ये च लिङर्थकार्यस्यैव मुख्यविशेष्यत्वम्। तस्मिंश्च कार्यविशेषणतया भावना बोध्यते। तथा च भावनायाः विशेष्यत्वं न कुत्रापि इति तेषामाशयः।

प्राचीननैयायिकानां मते तु सर्वत्र प्रथमान्तमुख्यविशेष्यक एव बोधः। नव्य मते तु यत्र च प्रथमान्तस्य विशेष्यसम्पर्कमन्यत् पदं निपातपदं वा नास्ति तत्रैव प्रथमान्तमुख्यविशेष्यको बोधः। अन्यत्र तु प्रथमान्तस्य यद्विशेष्यं तद्विशेष्यक एव।

प्राचीनवैयाकरणमते तिङन्ते सर्वत्र धात्वर्थव्यापारमुख्यविशेष्यक एव बोधः। नव्यवैयाकरणमते तु कर्मतिङन्ते फलमुख्यविशेष्यको बोधः। अन्यत्र व्यापारमुख्यविशेष्यकः।

अत्रेयं गूढाभिसन्धिः

         प्रचीनकालादारभ्य एतावत्पर्यन्तं स्थितानि मतानि यदि क्रमशः परिशीलयामः तर्हि तत्तच्छास्त्रदृष्टिकोणेषु तत्तन्मतेषु च कंचन परस्परसंपर्कज्जातं विकासमनुभावयामः। प्रथमं तावत् धात्वर्थः क्रियैवेति अमन्यत। प्राचीननैयायिकैः वैयाकरणैः निरुक्तकारादिभिश्च क्रियैव धात्वर्थत्वेन निर्दिष्टा। भूवादयो धातवः, भूते इत्यादिसूत्रपर्यालोचनयापि ज्ञातमिदं भवति। न कुत्रचित् मुनित्रयेन फलं धात्वर्थतया निर्दिष्टम्। तस्मात् मुनित्रयमते धात्वर्थः क्रियामात्रमेवेति वक्तव्यम्।

ततः परं ‘पचति पाकं करोति’ इत्यदिविरणमाधारीकृत्य तिङन्ते फलबोधोऽप्यस्तीति वादः मीमांसकैः आरब्धः। स च युक्तियुक्त इति मत्या ततः परमन्यैरपि शास्त्रकारैरङ्गीकृतः। एतदेव विवरणं निमित्तीकृत्य धात्वर्थः फलम्, प्रत्ययार्थो व्यापारः इति वादः समुत्पादितो मीमांसकैः। यद्यप्येष वादः न मीमांसासूत्रकारेण जैमिनिना, न वा तद्भाष्यकारेण शबरस्वामिना उक्तः। तदुक्तं तन्त्रवार्तिके भावार्थाधिकरणे कुमारिलभट्टपादेन द्रव्यार्थस्य धातोः भेदेनार्थे  कथ्यमाने यागेनेति विशेषरूपं करणात्मना निष्कृष्टम्। अन्यस्तु भावनात्मकं सामान्यूपशब्दान्तरेण भावयेदित्यनेन कथ्यते। अथवा केचित् करणांशकर्तृसंख्यादयः प्रकृतिप्रत्ययोः भेदेन वाच्या। भावना तु समुदायव्यभिचारात् समुदितयोरेवार्थः इत्यपि शक्यं वक्तुम्। तथा च सूत्रकारभाष्यकाराभ्यां भावार्थाः कर्मशब्दाः इति समानाधिकरण्यमेवाश्रितं न भावार्थत्वेन प्रत्ययाः कथिताः। शास्त्रे तु सर्वत्र प्रत्ययार्थो भावनेति व्यवहारः इति।

ततः परं नैयायिकाः फलव्यापारावुभावपि धात्वर्थः, कृति आख्यातार्थः इति च स्वीचक्रुः। तत्र च फलं व्यापारः इत्युभयं यदि पृथक्शक्यं तर्हि तत्रोदेश्यविधेयभावेनान्वयापत्तिभिया फलावच्छिन्नव्यापारो धात्वर्थतया स्वीकृतः। ततः परं विशिष्टशक्ति-स्वीकारे कर्मणि प्रयोगे फलस्य द्विधा भावनमभ्युगन्तव्यमिति। तच्च अनुभवविरुद्धमिति, तस्मात् खण्डशः पृथकशक्तिरेवेति निर्णीतम्। वादोऽयं प्रायशः सर्वेषां शास्त्रकाराणां सम्मत एवासीत्। वैयाकरणैर्मीमांसकैश्चायं वादोऽङ्गीकृतः, दीधितिकारः, गदाधरः, भट्टोजीदीक्षितः, कौण्डभट्टः, खण्डदेवः अन्ये चात्र ऐक्यमतमेव प्रादर्शयन्।

मीमांसकानां वैयाकरणानां च क्रमेण भावनामुख्यविशेष्यकशाब्दबोधे, व्यापारमुख्यविशेष्यक-शाब्दबोधे च आम्नायस्य क्रियार्थत्वप्रतिपादकं जैमिनिसूत्रम्। भावप्रधानमाख्यातमिति निरूक्तञ्च प्रमाणम्। प्राचीनमीमांसकमते वैयाकरणमते च भावनाव्यापारपदे अभिन्नार्थके द्वयोरपि मतयोरभेदः प्रकृत्यर्थत्व प्रत्ययार्थत्व एतयोरेव, नैयायिकमताभिमतं कृतिपदव्यपदेश्या तु भावना व्यापारातिरिक्तैव, नैयायिकाभिमता भावनापि नव्यमीमांसकैः स्वायत्तीकृता। तैस्तस्य एव च मुख्यविशेष्यत्वं प्रत्यपादि। तत्रापि प्रमाणतया भावप्रधानमिति निरूक्तमेव निर्दिष्टम्। एतेषां नव्यमीमांसकानां मते भावप्रधानमाख्यातम् इत्यस्य आख्यातप्रत्ययः प्रधानीभूतभावनाबोधकः इत्यर्थः।

         वस्तुतस्तु परिशील्यमाने अयुक्तमिदम्। अत्र निरूक्ते आख्यातपदं तिङन्तविषये प्रयुक्तम्, न तु प्रत्ययमात्रे, चत्वारिपदजातानि इति उप क्रमानुरोधात्। पूर्वापरीभूतं भावमाख्यातमाचष्टे व्रजति पचतीत्युपक्रमप्रभृत्यपवर्गपर्यन्तम् इति वचनाच्च, किञ्च प्राचीनकाले आख्यातपदं तिङन्तविषये एव प्रयुक्तम्। न तु प्रत्ययमात्रे।

         तथाहि- अथर्ववेदप्रातिशाख्ये चतुर्णां पदजातानां सन्ध्यपद्यौ गुणप्रतिज्ञम् इति सूत्रे आख्यातपदं पदपरत्वेन प्रयुक्तम्। ऋग्वेदप्रातिशाख्ये द्वादशपटलेऽपि नामाख्यातमुपसर्गो निपात इति चत्वार्याहुः पदजातानि शब्दाः। तन्नाम येनाभिदधाति सत्वं तदाख्यातं येन भावं स धातुः इति। क्रियावाचकमाख्यातमिति चोक्तम्। शौनकीयवृहद्देवतायामपि क्रियासु बह्वीभिः संश्रितो यः पूर्वापरीभूत इव एकः एव। क्रियाभिर्निर्वृत्तिवशेन सिद्धः आख्यातशब्देन तमर्थमाहुः इति। एवं पट्टिकया समेषां मतं धात्वर्थविषये प्रदर्श्यते।

           तत्र शब्दतरङ्गिन्यां षष्ठतरङ्गे धात्वर्थविषये विविधशास्राणां मतानि एवं प्रदर्श्यन्ते-

पट्टिका- धात्वर्थनिर्णये विविधशास्राणां मतानि[13]

शास्रकाराः

धात्वर्थः

प्राचीनवैयाकरणाः

फलं व्यापारश्च सर्वधातूनामर्थः।

नव्यवैयाकरणाः

कर्तृपर्यन्तव्यापारो धात्वर्थः। फलावच्छिन्नव्यापारः व्यापारावच्छिन्नफलञ्च धात्वर्थः।

भाट्टमीमांसकाः

फलावच्छिन्नव्यापारः धात्वर्थः,  कृतिर्न धात्वर्थान्तर्भूताः।

प्राभाकरमीमांसकाः

फलं धात्वर्थ  इति प्राचीनाः। फलव्यापारौ धात्वर्थौ इति नवीनाः।

नैयायिकाः

सकर्मकधातूनां फलावच्छिन्नव्यापारोऽर्थः। फलं व्यापारश्चार्थः इति खण्डशक्तिपक्षः। कृतिः न धात्वर्थः। अकर्मकाणां व्यापारमात्रमर्थः।

इतरे

फलमात्रं धात्वर्थः इति मण्डनमिश्राः। व्यापारमात्रं धात्वर्थः इति प्राचीननैयायिकाः।

 

 

 

 

 

सहायकग्रन्थसूची

  1. पाणिनीयाष्टाध्यायी, चौखम्बा प्रकाशन, वाराणसी
  2. वैयाकरणसिद्धान्तकौमुदी अर्थप्रकाशिकाव्याख्यया सहिता, (सम्पादकः) अर्कनाथचौधरी, जगदीश संस्कृत पुस्तकालय, जयपुर राजस्थान
  3. वैयाकरणभूषणसारः- श्रीहरिबल्लभकृत- दर्पणव्याख्या-संवलितः तथैव सुबोधिनी हिन्दीव्याख्योपेतश्च
  4. शब्दतरङ्गिनी
  5. लघुसिद्धान्तकौमुदी-शिवाख्य –संस्कृत- हिन्दी- व्याख्याद्वयोपेता, व्याख्याकारः गोमती-प्रसादशास्रीमिश्रः।

[1]वैयाकरणभूषणसारः.(पृ-13)

[2]पाणिनि अष्टाध्यायी.1.3.1 सिद्धान्तकौमुदी 18

[3]पाणिनि अष्टाध्यायी 1.1.46

[4]वैयाकरणभूषणसारः.(पृ-13)

[5]वैयाकरणभूषणसारः (पृ-2)

[6]पाणिनि अष्टाध्यायी 3.1.84

[7]पाणिनि अष्टाध्यायी 3.1.96

[8]पाणिनि अष्टाध्यायी 3.4.84

[9]पाणिनि अष्टाध्यायी 3.4.67

[10]पाणिनि अष्टाध्यायी 3.2.123

[11]पाणिनि अष्टाध्यायी 3.1.91

[12]वैयाकरणभूषणसारः(पृ.-3)

[13]शब्दतरङ्गिनी (पृ.-43)

[/vc_column_text][/vc_column][/vc_row]