ग्रहदृक्तुल्यत्वविमर्शः

नरहरि लक्ष्मीनारायण भट्टः

शोधच्छात्रः

ज्यौतिषविभागः

कर्नाटक संस्कृतविश्वविद्यालयः 

बेङ्गलूरु

ज्ञानकदम्बकमित्यर्थं विकीर्य विद्–ज्ञाने धातोर्घञ् प्रत्यये प्राप्तोऽयं शब्दः वेदः “इष्टप्राप्त्यनिष्टपरिहारयोरलौकिकमुपायं वेदयति।” अयञ्च वेदः श्रुतिः निगमः आगमः त्रयी स्वाध्याय इत्येतान् पर्यायार्थान् प्राप्तोऽस्ति। भारतीयसंकृतेराधारस्तम्भः इयं ज्ञानराशिः सर्वेषां सुखशान्तिप्रबोधकः ज्ञानमार्गप्रदर्शकः वैदिकमार्गप्रवर्तकः सत्यमार्गप्रचोदकश्च प्रपञ्चे तारा इव सन्दीप्यते। वस्तुतो वेदस्य रचनासमयनिर्द्धारणमतीव दुष्करमेव। केचन निगदन्ति वेदः अपौरुषेयः इति। प्राचीनानां भाषाणां मूलस्रोतो वेद एव। धर्ममूलस्यास्य वेदस्य कानिचन वैशिष्ट्यानि प्रस्तूयन्ते। यथा –

वेदोऽखिलो धर्ममूलम्।

ब्राह्मणेन निष्कारणो धर्मष्षडङ्गो वेदोऽध्येयो ज्ञेयश्च।

मुख्यत्वेन वेद इति यत्रोच्यते ऋग्यजुस्सामाथर्वाख्याश्चत्वार एव तत्र गृह्यन्ते। कञ्चन विषयं प्रतिपादितुमेव वेदाश्चत्वारो प्रादुर्भूताः। यथा ऋग्वेदस्य विषयः शस्त्रमिति। इज्या इति यजुषो विषयः। सामवेदस्य स्तुतिरिति। तथा च प्रायश्चित्तमथर्वस्य विषयः। चतुर्णाममीषां वेदानां चैषां वेदानां विषयाणामुल्लेखं भागवते सञ्चक्षते। तद्यथा –

ऋग्यजुस्सामाथर्वाख्यान् वेदानां पूर्वादिभिर्मुखैः।

शस्त्रमिज्यां स्तुतिस्तोमं प्रायश्चित्तं व्यधात् क्रमात्॥

येन कस्यापि वस्तुनः ज्ञानं भवति तद्वस्तु अङ्गमित्युच्यते। अङ्ग्यन्ते ज्ञायन्ते अमीभिरिति अङ्गानीति व्युत्पत्तिबलमुपलभ्यते। वेदप्रतिपादकवस्तुनि वेदाङ्गानि सन्तीति सुष्टु ज्ञायत एव। सर्वेषां ब्राह्मणानां कृते वेदेन सह वेदस्याङ्गान्यपि ज्ञातव्यानीति। स्थूलत्वात् वेदाङ्गानि व्यपदिश्यन्ते। तानि च वेदाङ्गानि षड् भवन्ति। शिक्षा कल्पः निरुक्तं व्याकरणं छन्दः ज्यौतिषञ्च। उक्तञ्च –

शिक्षा व्याकरणं छन्दो निरुक्तं ज्यौतिषं तथा।

कल्पश्चेति षडङ्गानि वेदस्याहुर्मनीषिणः॥ इति।

षट्सु वेदाङ्गेषु ज्यौतिषमिदमन्यतमम्। इदञ्च कालविधानशास्त्रं वेदस्य चक्षुरित्युच्यते। सूर्यादीनां ग्रहाणामश्विन्यादीनां नक्षत्राणां धूमकेत्वादिज्योतिःपिण्डानां स्वरूपमित्यादयः विषयाः गणितफलितरूपेण यस्मिन् शास्त्रे समुपलभ्यन्ते तच्छास्त्रं ज्यौतिषमिति कथयते। शास्त्रमिदं गणितफलितविभागेन द्विविधं भवति। ग्रहनक्षत्राणां स्थितिगतिविचाराः भिद्यन्ते तर्हि गणितस्कन्धः वा सिद्धान्तस्कन्धः। शुभाशुभसमयानां यागादिकार्याणां च निर्धारणं फलितभागान्तर्गतं भवति। यथा –

प्रमाणफलभेदेन द्विविधञ्च भवेदिदम्।

प्रमाणं गणिस्कन्धः स्कन्धावन्यौ फलात्मकौ॥

पुनश्च गणितफलितेति द्वयोः विभागयोः स्कन्धत्रयेण भागत्रयं कृतमस्ति। तत्तु सिद्धान्त–संहिता–होराभेदेन। यथा –

भगवन् परमं पुण्यं गृह्यं वेदाङ्गमुत्तमम्।

त्रिस्कन्धं ज्यौतिषं होरा गणितं संहितेति च॥

स्कन्धत्रयात्मकं ज्योतिश्शास्त्रमेतत् षडङ्गवत्।

गणितं संहिता होरा चेति स्कन्धत्रयं मतम्॥

गणितस्कन्धः सिद्धान्तशब्देन तन्त्रशब्देनाप्यभिधीयते। ग्रहणं ग्रहगतिः त्रिप्रश्नः ग्रहयुद्धं ताराग्रहः संयोगश्च स्कन्धेऽस्मिन् वर्णिताः विषयाः। शास्त्रस्यास्य अपराङ्गत्वेन अभिधीयते होरास्कन्धः। ग्रहाणां षड्बलविचारः योगविचारः प्रश्नविचारः इत्यादयः अस्मिन् स्कन्धे निरूपणीयाः विषयाः। सम्यक् हितं प्रतिपाद्यं यस्यां सा संहिता। अस्मिन् स्कन्धे ग्रहाणां स्वभावः विकासप्रमाणं वर्णः किरणः द्युतिः भूशोधनं ग्रहचारविचारः नक्षत्रचारविचारः विभिन्नोत्पाताः उल्कापातादयः ग्रहोदयास्तफलानि शुकुनानि चेत्यादयः विषयाः सन्निगदन्ति। गगन-गगनेचर-भू-भूधर-त्रिदश-दानव-मानवेषु तथा प्राणिमात्रे देशमात्रे कालमात्रे च तत्रापि युग-वर्ष-अयन-ऋतु-मास-पक्ष-तिथिषु तत्रापि तत्तद्दिनेषु तत्तद्घटिषु तत्तद्विघटिषु च स्कन्धत्रयात्मकस्यास्य शास्त्रस्य प्रत्यक्षत्वं दरीदृश्यते एव।

अत्र तु प्रत्यक्षं नाम “अक्षैः वा अक्षिभ्यां वा प्रति” इति प्रत्यक्षम्। एवं द्विधा निर्वचनम्। अक्षैः नाम इन्द्रियैः इत्यर्थः। अक्षिभ्यां नाम नयनाभ्याम् इत्यर्थः। केवलं नयनाभ्यां नैव परन्तु सर्वैः इन्द्रियैः प्रत्यक्षयोग्याः इत्येवार्थः। यतः सकलशास्त्रोपयोगिनि काणादेऽपि  “इन्द्रियार्थसन्निकर्षजन्यज्ञानं प्रत्यक्षम्” इति लक्षितम्। त्रिस्कन्धेष्वपि प्रत्यक्षयोग्यत्वात् प्रत्यक्षं ज्यौतिषं शास्त्रम् इति। प्रत्यक्षं तावत् दृश्ययोग्यम् अनुभवयोग्यं चेति द्विधा सम्पत्स्यते। आकाशे सम्भवनीयाः दृश्यप्रत्यक्षाः भुवि सम्भवनीयाः अनुभवप्रत्यक्षाश्च। त्रिस्कन्धे तावत् सिद्धान्तोक्तविषयाः दृश्ययोग्याः प्रत्यक्षसिद्धाः पुनः आभ्यां द्वाभ्यां संहिताहोराभ्यां निरूपिताः विषयाः दृश्यप्रत्यक्षाः विषयाः अनुभवप्रत्यक्षाः।

तत्र सिद्धान्ते कथं दृश्यप्रत्यक्षत्वं इति विचारिते सति तत्र वियति नियतं परिभ्रमतां ज्योतिरूपाणाम् आदित्यादि ग्रहाणां नक्षत्रचक्रस्य च गति–मिति–स्थिति–योग–भोग–ग्रहण–युद्ध–समागम–अस्तोदयादीनाञ्च तथा रोहिणीशकटभेद–चन्द्रशृङ्गोन्नत्यादीनां च प्रत्यक्षत्वं तावत् तत्तत्कालेषु तत्तद्देशेषु सर्वैः सर्वदा सुपरिज्ञातुं शक्यम्। तत्र ग्रहणे तावत् सिद्धान्तोक्तरीत्या ग्रहणस्य देशः कालश्च तत्रापि स्पर्श–सम्मीलन–मध्य–उन्मीलन–मोक्षकालः ग्रहणात् प्रागेव साध्यन्ते। तस्मिन् मूर्तकाले एव संदृश्यते ग्रहणः इति आबालवृद्धैः वेद्यं-विदितं चेति त्रैकालिकं सत्यं खलु। तथैव रोहिणीनक्षत्रं तावत् पञ्चभिः ताराभिः शकटाकारवत् आकाशे दृश्यते। अपि च चन्द्रशृङ्गोन्नतिः। मृदम्बुमये चन्द्रबिम्बे रविकिरणसंयोगवशात् शृङ्गोन्नतिः भवति। एतान्यपि दृष्टुं शक्यते। एवमेव सिद्धान्तोक्तविषयाः प्रत्यक्षयोग्याः एव। गणितागत खेचराः आकाशे प्रत्यक्षतया दृश्यन्ते इत्यतः ज्योतिश्शास्त्रस्य महत्वस्थानं प्रापत्।

तथा च “यात्राविवाहोत्सवजातकादौ खेटैः स्फुटैरेव फलस्फुटत्वम्” इति भास्करवचनात् स्फुटग्रहैरेव यात्रा–विवाह–जातकादिषु निरूपितः फलादेशः सत्यं भवितुं शक्यम्। प्राचीनकाले पञ्चसिद्धान्ताः बहु प्रसिद्धाः आसन्। तान् वराहमिहिरः स्वीये पञ्चसिद्धान्तिकायां विशदन्ति यथा 

स्पष्टो ब्राह्मस्तु सिद्धान्तः तस्यासन्नस्तु रोमशः।

सौरः स्पष्टतरोऽस्पष्टौ वासिष्ठः पौलिशश्च तौ॥ इति।

सूर्यसिद्धान्तः इतरसिद्धान्तेभ्यः स्फुटतरमिति प्रत्यपादयत्। गणितागतग्रहः दृक्तुल्यश्चेत् तादृशः ग्रहमेव स्फुटग्रहमिति ब्रुवन्ति। तादृशग्रहाणां गतिः कालकालेषु भिन्ना गतिः कारणेन ग्रहस्फुटेऽपि भेदः दृश्यते। “कालभेदात् वृत्तभेदः वृत्तवशात् गतिभेदः गतिभेदात् स्थितिभेदः स्थितिवशात् संस्कारभेदः” इति एषः नियमः सर्वविदितः। यस्मिन् काले येन सिद्धान्तेन दृक्तुल्यग्रहः लभ्यते तस्मिन् काले स सिद्धान्तः मान्यः ग्राह्यश्च।

कालान्तरे गणितं दृक्तुल्यत्वं नष्टे सति तत् परीक्ष्य बीजसंस्कारं कृत्वा तत्काले ग्रहान् सम्यक् कृतः बहवः दृष्टान्ताः सन्ति। एवं बीजसंस्कारेण संस्कृताः अनेककरणग्रन्थाः प्रादुरभवन्। तथापि दृक्तुल्यत्वं न भवति इति प्रसङ्गेषु नवीनसंस्कारैः दृक्साम्यं साधनीयम्। एतदर्थं कालकालेषु नवीनग्रन्थानाम् आविर्भावः दृश्यते। न्याय–अलङ्कारादि इतरशास्त्रेष्वपि एवं रीत्या नवीनाः सिद्धान्ताः प्रादुरभूत् इति सर्वेषां ज्ञातो विचारः। प्राचीनसिद्धान्तेषु सूर्यचन्द्रयोः भूमेः परितः भ्रमणकारणात् अपि च भूकेन्द्रितत्वात् मन्दफलसंस्कारेणैव रविचन्द्रयोः स्पष्टस्थितिः साधिता। सूर्यसिद्धान्तेऽपि “मान्दं कर्मैकमर्केन्द्वोः” इति मन्दफलसंस्कारेणैव स्फुटरविचन्द्रयोः साधनं निरूपितम्। भास्करादि अन्ये सिद्धान्तकाराः “स्फुटौ रविन्दू मृदुनैव वेद्यौ” इत्यवोचन्। कुजादिग्रहस्फुटीकरणं प्राचीनगणितेषु अनुपातेन सिद्धानां मध्यमकुजादीनां दृक्प्रतीत्यर्थम् “शैघ्य्रं मान्दं पुनर्मान्दं शैघ्य्रं चत्वार्यनुक्रमात्” इति शीघ्रमन्दफलानाम् असकृत् संस्कारमुक्तम्। भास्कराचार्याः “दलीकृताभ्यां प्रथमं फलाभ्यां ततोऽखिलाभ्यामसकृत् कुजस्तु” इत्युक्त्वा “नाशङ्कनीया न चले किमित्थं यतो विचित्रा फलवासनात्र” इत्यस्मिन् विषये कारणं नोक्त्वा “फलवासनात्रविचित्रा” इति मात्रमवदत्। एवं पूर्णं शीघ्रमन्दफलार्धं संस्कारं कृत्वा तदनन्तरं पूर्णमन्दशीघ्रफलानां संस्कारस्य असकृत् क्रियया प्रोक्तम्।

आदौ भूमेः परितः चन्द्रबुधशुक्ररविकुजगुरुशनिनक्षत्राणां कक्षाः सन्ति। तन्नक्षत्रकक्षायाः केन्द्रमस्ति भूः न तु ग्रहाणामिति भास्कराचार्येणोक्तं यथा –

भूमेर्मध्ये खलु भवलयस्यापि मध्यं यतः स्यात्।

यस्मिन् वृत्ते भ्रमति खचरः नास्यमध्यं कुमध्ये॥ इति।

नवीनगणितस्य प्रवर्तकः वङ्कटेशकेतकर् महोदयः आधुनिकयन्त्रोपकरणसहाय्येन सूर्यकेन्द्रग्रहस्थितिः दीर्घवृत्ते कक्षाभ्रमणं ग्रहगोलीयपरस्पराकर्षणम् इत्यादिना गतिव्यत्यासहेतुं ज्ञात्वा नवीनदृक्तुल्यगणितं विरचयामास। विवृणोति यथा –

विच्छुक्रक्षितिभौमजीवशनयो दीर्घेषु वृत्तेषु त-

त्तन्नाभिस्थितसूर्यकर्षणबलात् शश्वत् भ्रमन्तीति सत्॥

अर्वाचीनमतं प्रतीतिजनकं खेटस्थितेः साधने

सिद्धान्तोक्त मुहुः कृतेर्निरसकं चास्मिन् मया स्वीकृतम्॥

अर्वाचीनमतं ग्रहस्फुटीकरणे दृक्प्रतीत्या प्राचीनानां निरुपपत्तिका असकृत् क्रिया दूरीक्रियते इति। प्राचीनाः सूर्यसिद्धान्तादि गणितग्रन्थाः ग्रहाणां गतिभेदे कारणं वचन्ति। “शीघ्रमन्दोच्चपाताख्याः ग्रहाणां गतिहेतवः” इति। नवीनास्तु सूर्यस्य आकर्षणं भूमेः आकर्षणं ग्रहगोलीयपरस्पराकर्षणम् इति कर्षसिद्धान्तं प्रतिपादयन्ति। नवीनसिद्धान्ते सूर्यः स्थिरः। भूमिः सूर्यं परिभ्रमति इति। द्वयोर्मध्ये एकः चरः अन्यः स्थिरश्च भवेताम्। अतः प्राचीननवीनैः मन्दफलसंस्कारेणैव सूर्यं स्फुटीकुरुतः अनेन साधितसूर्यस्फुटः समान एव। चन्द्रस्फुटीकरणं तावत् नैकेन मन्दफलसंस्कारेण। चन्द्रमसे रेखान्तरसंस्कारः–चन्द्रसंस्कारः–भुजान्तरसंस्कारः–उदयान्तरसंस्कारः–च्युतिसंस्कारः–तिथिसंस्कारः–मन्दफलसंस्कारः इति सप्तविधसंस्कारेण विक्षेपवृत्तीयस्फुटचन्द्रं राहुसंस्कारेण क्रान्तिवृत्तीयस्फुटचन्द्रम् आनयन्ति।

रेखान्तरसंस्कारः –रेखाग्रामविशेषयोजनमिति त्र्यंशोन्मितालिप्तिकाः।” इति वाक्येन उज्जयिनिरेखादेशे ये प्रदेशाः भवन्ति तान् विहाय रेखान्तसंस्कारेण स्वदेशीयमध्यमचन्द्रः सिध्यति।

चरसंस्कारः – निरक्षदेशस्य क्षितिजम् उन्मण्डलम् इति कथ्यते। इदम् उन्मण्डलं निरक्षदेशे स्वक्षितिजरूपेण भवति। अतः तत्र चराभावेऽपि वर्तते। निरक्षदेशात् उदक्वा दक्षिणस्यां वा दिशि चलनात् अयं संस्कारः आवश्यकः।

मेषादिगे सायनभागसूर्ये दिनार्धजाभा पलभा भवेत्सा।

त्रिष्ठाहता स्युदशभिर्भुजङ्गैर्दिग्धिश्चरार्धानि गुणोद्धृतान्त्या॥

इति चरखण्डं साधनीयं “स्यात्सायनोष्णांशुभुजर्क्षसङ्ख्यचरार्धयोगो लवभोग्यघातात्” अनेन प्रकारेण चरं साधयित्वा अनन्तरं “देयं तच्चरमरुणे विलिप्तकासु मध्येन्दौ द्विगुणनवोद्धृतं कलासु” इतिवत् रवेः चरकलाः द्विगुणीकृत्य नवभिः सम्भक्त्य लब्धकलाः चन्द्रकलाभिः सह संयोज्यन्ते तदा स्वक्षितिजे औदयिकमध्यमचन्द्रः सिध्यति।

भुजान्तरसंस्कारः – देशान्तरसंस्कारेण स्वदेशमध्यमसूर्योदयकालिकग्रहस्फुटः लभते। मन्दफलसंस्कारेण सूर्योदयकालिको भवति। अयं मध्यमः सूर्योदयः दृग्गोचरः अतः स्फुटसूर्योदयस्य आवश्यकता। भुजान्तरसंस्कारः अत्यावश्यकः। “भूपाप्तं द्युमणिफलं विधौ विलोमम्।” रविमन्दफलं षोदशभिः सम्भक्त्य तत्फलं चन्द्रस्य कृते विलोमेन संस्कारः कार्यः। इदानीं भुजान्तरफलसंस्कृतचन्द्रः सिद्धो भवति।

उदयान्तरसंस्कारः –लिप्ताश्च युग्मौजपदस्थितेऽर्के धनर्णत्वमब्जे।” सायनरविः विषमपदे सति उदयान्तरसंस्कारः ऋणं वा धनं कार्यम्। क्रान्तिवृत्तस्य प्रतिपदमपि पञ्चदशघटिकायाम् उदयं याति। परन्तु एकैको राशिः पञ्चघट्यात्मकः इति नियमो नास्ति। अयं व्यत्यासः एव उदयान्तरसंस्कारे हेतुरिति।

च्युतिसंस्कारः – दीर्घवृत्ताकारभ्रमणे या केन्द्रच्युतिः सा च्युतिसंस्कारकारणम्। सूर्यापेक्षया उच्चनीचरेखास्थितिवशेन च्युतिरपि वृद्धिक्षयं च याति। उच्चगतिव्यत्यासेनापि च्युतावपि ऊनाधिक्यं सम्भवति। चन्द्रकक्षायां उच्चनीचरेखाभिमुखः सूर्यः तदा च्युतिसंस्कारस्य परमाधिक्यं मध्ये परमाल्पस्य प्रसङ्गः। यदि च्युतिसंस्कारं न कुर्मः ग्रहणादौ कालव्यत्ययः सम्भवति। “खं विश्वे शरषट्कृती” इत्यादिना च्युतिकेन्द्रस्य दश अंशान् फलाङ्कान् संसूच्य संस्कारविधानं निर्दिशति –

निजतुङ्गयुतो निशापतिः द्विगुणार्केण हि मध्यमेन हीनः।

च्युतिकेन्द्रमितीर्यते फलं क्रियषट्के ऋणमन्यथा धनं स्यात्॥ इति।

तिथिसंस्कारः – रविचन्द्रान्तरमेव तिथिरिति कथ्यते। अमायां पूर्णिमायां तिथिसंस्कारः नास्ति। अतः ग्रहणे इयं प्रसक्तिः न। “धनं खं च सूर्या”  इत्यादि क्रमेण तिथिकेन्द्रफलाङ्कान् संसूच्य संस्कारविधिः विधीयते यथा “इयं स्वर्णता मध्यमे व्यर्कचन्द्रेऽजषड्भे सति स्यात्तुलादौ विरुद्धा” इति।

मन्दफलसंस्कारः –वियच्च कुरु सा धरादिनकरा।” इत्यादि क्रमेण चन्द्रमन्दकेन्द्रं षड्भे सति प्रतिदशम् अंशेभ्यः फलाङ्काः सूचिताः। च्युतितिथिफलसंस्कृतचन्द्रं स्वोच्चेन ऋणीक्रियते मन्दकेन्द्रं लभते। तुलादिकेन्द्रं चेत् धनं मेषादिकेन्द्रं चेत् ऋणं कार्यम्। अनया रीत्या मन्दफललिप्त्या संस्कृतचन्द्रः निगदितसमये स्वक्षेपवृत्ते स्फुटः स्यात्। इति विक्षेपवृत्ते स्फुटीभवति।

राहुसंस्कारः(परिणतिसंस्कारः) – विक्षेपवृत्तीयस्फुटचन्द्रं क्रान्तिवृत्तीयस्फुटचन्द्रमसं कर्तुं “व्यगु विधुकरणेनाभ्र द्विवेदर्तु सप्त” इत्यादि श्लोकोक्तफलम् उदयान्तरसंस्कारवत् धनर्णं कार्यम्। अनेन संस्कारेण स्पष्टचन्द्रो सिध्यति।

कुजादिताराग्रहान् मन्दफलसंस्कारेण रविकेन्द्रितान् कृत्वा अनन्तरं शीघ्रफलसंस्कारेण भूकेन्द्रितान् परिवर्त्य उपपत्या नवीनाः स्फुटीकृताः। 

पञ्चाङ्गसाधने तावत् रविचन्द्रस्फुटः आवश्यकः। ग्रहयुति–अस्तोदय–जातकप्रश्नमुहूर्तादौ सर्वेषां ग्रहाणां स्फुटः आवश्यकः। रविचन्द्रान्तरमेव तिथिः उदयादुदयं वारम् चन्द्रस्फुटेन नित्यनक्षत्रम् तिथ्यर्धं करणम् रविचन्द्रयोगेन विष्कम्भादि योगाः एते रविचन्द्रस्फुटेनैव साधिताः भवन्ति। “अबीजसंस्कृतो ग्राह्यः ग्रहणादौ सबीजकः” इति वाक्यानुसारं नित्यतिथ्यानयने बीजः नियमितो न इति निषेधे सत्यपि नित्यकर्मानुष्ठाने सूक्ष्मतिथिः नावश्यकी इति न। मुञ्जालादि सिद्धान्तिनः केवलमन्दफलसंस्कारः न नूतनसंस्काराः अपि चन्द्रस्फुटीकरणे स्फुटीचक्रुः। तस्मादेव इदं स्मृतिवचनं स्मर्यते – “यस्मिन् पक्षे यत्र काले येन दृग्गणितैक्यम् दृश्यते तेन पक्षेण कुर्यात्तिथ्यादिनिर्णयम्॥” अर्थात् यस्सिद्धान्तात् ग्रहणादयः प्रत्यक्षाः सिद्धाः सन्ति स सिद्धान्त एव काले योग्यः इति च निर्णयः सर्वैः मन्यन्ते।

********

आधारग्रन्थाः

केतकीग्रहगणितम्

सूर्यसिद्धान्तः

सिद्धान्तशिरोमणिः

पञ्चसिद्धान्तिका

Narahari Bhat
S/O Lakshminarayana Bhat 
Bidrakan
Po: Bidrakan
Tq: Siddapura (U.K.)
Phone: 8277088387