अद्वैतवेदान्तमतप्रोक्तम् अवधूतलक्षणम्

विद्वान्- शिवानन्दः लक्ष्मणः बणवि
संशोधनछात्रः
कर्नाटक-संस्कृत-विश्वविद्यालयः
चामराजपेट्-बेङ्गलूरु-१८

सारसङ्ग्रहः

पृथिव्यां विद्यमानेषु अनेकेषु जीवराशिसु मानवजन्मं अत्यन्तं श्रेष्ठं वर्तते । अयं विचारः न केवलं बौद्धिकसामर्थ्यवशादथवा वाचनसामर्थ्यवशान्नोच्यते । किन्तु जीवनस्य मूलम् उद्देश्यं किमिति चिन्तनावकाशः अत्र वर्तते इति मानवजन्मं श्रेष्ठमिति मदभिप्रायः । तर्हि जीवनस्य मूलोद्देश्यं किम् इति प्रश्नः सहजतया उत्पद्यते । तस्य प्रश्नस्य समाधानं तावत् स्वस्वरूपज्ञानम् अथवा आत्मज्ञानप्राप्तिः । इदम् आत्मज्ञानं प्राप्तुं नैकाः मार्गाः अस्माकं शास्त्रग्रन्थेषु चर्चिताः । तेषु अद्वैतमार्गः तावत् श्रेष्ठः मार्गः वर्तते । अद्वैतस्य ज्ञानमार्गः जीविनं तत्क्षणे एव आत्मज्ञानपूर्वकं मुक्तं करोति ।

अस्य अद्वैतवेदान्तस्य साक्षात् निदर्शनमेव अवधूतमतम् । अवधूताः तेषां जीवितावधौ अद्वैतसिद्धान्तं आनुभविकरूपेण तत्र तत्र दर्शयन्ति । अनेन हेतुना अद्वैतसिद्धान्तं प्रायोगिकं वेदान्तमतमिति व्याख्यातुं शक्नुमः । अवधूताः तस्य अद्वैतवेदान्तस्य मूर्तं स्वरूपम् । अतः अवधूतमतं अद्वैतवेदान्तमतस्य उपोद्बलकं कथं भवति इति परामर्षकरणमेव अस्य प्रबन्धस्य मुख्यम् उद्देश्यम् ।

प्रमुखपदानि

अद्वैतवेदान्तः, अवधूताः, दर्शनानि, ज्ञानम्, आस्तिकः, नास्तिकः ।

भारतीयतत्वशास्त्रे नव सङ्ख्याकानि दर्शनानि प्रसिद्धानि । अत्र नास्तिकदर्शनानि त्रीणि, आस्तिकदर्शनानि षट् इति विभागः कृतः वर्तते । यानि दर्शनानि वेदप्रामाण्याभ्युपगमनानि तानि आस्तिकदर्शनानि । वेदं प्रमाणमिति यानि दर्शनानि न अङ्गीकुर्वन्ति तानि नास्तिकदर्शनानि । चार्वाकदर्शनं, बौद्धदर्शनं तथा जैनदर्शनमिति त्रीणि दर्शनानि नास्तिकदर्शनानि । साङ्ख्यदर्शनं, योगदर्रशनं, न्यायदर्शनं, वैशेषिकदर्शनं, पूर्वमीमांसादर्शनं तथा उत्तरमीमांसादर्शनमिति षट् दर्शनानि आस्तिकदर्शनानि । कतिपयविषयाणि सर्वेषु दर्शनेषु समानं भवन्ति । तेषु साधनचतुष्टयमपि एकम् । नित्यानित्यवस्तुविवेकः, शमदमादिषट्कसम्पत्तिः, इहामुत्रार्थफलभोगवैराग्यं तथा मुमुक्षुत्वम् । तथैव च अत्यन्तं मुख्यं साधनं श्रवणं, मननं तथा निदिध्यासनम् । यदि कश्चन एतानि सर्वाणि सश्रद्धम् अभ्यस्य वेदस्य हृदयं वेदान्ततत्वं जानाति तर्हि सः जीवः मुक्तः एव भवति ।

वेदस्य सारभूतस्य हृदयस्य तत्वमस्यादि[1]वाक्यानां सम्यग्ज्ञानाय आदौ षड्दर्शनानां परिचयः भवेत् ।

पुरुषप्रकृत्योः विषये ज्ञानप्रदायकं शास्त्रमेव साङ्ख्यशास्त्रम् अथवा साङ्ख्यदर्शनम् । जीवजगतोः आनुभविकं ज्ञानप्रदायकं शास्त्रं योगदर्शनम् । ध्यानं, धारणं, समाधिः इत्यादयः अङ्गानि यमनियमादि अवस्थापूर्वकं विद्यमानं शास्त्रं योगशास्त्रम् । वैशेषिकं दर्शनं तावत् जीवजगतोः विषये प्रकृष्टज्ञानावाप्तये, पदार्थानां गुणविशेषाणां विमर्षार्थं तथा आत्मानात्मविवेकं द्रव्यात्मना प्राप्तुं च जन्म प्राप । पुरुषप्रकृत्योर्मध्ये युक्तेः अनिवार्यता दरीदृष्टा इति न्यायदर्शनम् उत्पन्नम् । किन्तु एतानि दर्शनानि पूर्णं ज्ञानं न प्रदास्यन्ति इति भावः तत्र तत्र दृष्टः । स च भावः वेदोक्ते कर्मानुष्ठाने अपारां श्रद्धामजनि । सा श्रद्धा एव पूर्वमीमांसा । परन्तु इदमपि पूर्णज्ञानावाप्तये साधनं न भवति इति भावः उदितः । यतो हि पूर्वमीमांसायां बोध्यमानानि स्वर्गादिलोकानि तावत् न शाश्वतमित्येव तत्र बीजम् । अत एव तदग्रिमभागत्वेन उत्तरमीमां अथवा ज्ञानकाण्डस्य आविर्भावः दृष्टः । इदं ज्ञानकाण्डमेव वेदान्तनाम्ना ख्यातमिति वक्तुं शक्यते । अस्य शास्त्रस्य मूलम् उद्देश्यं इह एव आनन्दावाप्तिः अथवा स्वस्वरूपे ब्रह्मावाप्तिः इति । इदं तावत् अवस्थात्रयपूर्कात् विशिष्टप्रक्रियया अहं ब्रह्मास्मि[2] इति अद्वैतवेदान्तं प्रति मार्गं दर्शयति । अद्वैतवेदान्तमतरीत्या जीवः साक्षात् आनन्दस्वरूपं परं ब्रह्म एव । तथापि जीवः अज्ञानवशात् स्वस्वरूपं विस्मृत्य, जाग्रत्-स्वप्न-सुषुप्तिरिति अवस्थात्रयम् अनुभवन्, जन्म-मरणयोः घोरारण्ये संसारे सञ्चरति । किन्तु विचार्यमाणे सति मत्तः भिन्नं किञ्चित् वस्तु एव नास्ति । एतादृशं ज्ञानं प्राप्तुम् अद्वैतज्ञानम् अतीवम् अवश्यकम् । “शास्त्रोपपत्तिभ्याम् अवधारितत्वात् अद्वयात्मदर्शनं सम्यग्दर्शनम् । अस्य अर्थः शास्त्रप्रामाण्यद्वारा तथा युक्तिद्वारा अद्वैतदर्शनस्य निर्णयः भवति इति हेतोः इदं दर्शनं पूर्णं दर्शनम् ।  अत्र परस्परं रागद्वेषयोः कृते आस्पदं नास्ति । यतो हि अद्वैतमेव परमार्थः । “शरीरविस्रंसनात् प्राक् आत्मावबोधाय यत्नः शरीरस्य अवसानात् प्रागेव आत्मतत्वं जानियात् इत्यर्थः । तत एव परमानन्दावाप्तिः सङ्गच्छते । अस्य आत्मज्ञानस्य विषये उपनिषदः अस्मभ्यं मार्गं दर्शयन्ति । अतः एव उपनिषदः तत्वशास्त्राणि इति प्रसिद्धानि । वेदानां सारभूतः भागः उपनिषदः । वेदभागे अन्तिमस्थाने उपनिषदः विद्यन्ते इति हेतोः एतानि वेदान्तानि । वेदान्तमिति पदस्य द्वे अर्थे तावत् परिकल्प्येते । वेदेषु संहिता, ब्राहमणम्, आरण्यकम्, उपनिषत् इति विभागचतुष्टयं विद्यन्ते । तत्र संहिता इत्युक्ते मन्त्राणां भागः । ब्राह्मणं तावत् मन्त्राणां विस्तृतं व्यखानम् ।  आरण्यकम् इत्युक्ते अरण्येषु अभ्यस्यमानानां यज्ञानाम् आध्यात्मिकचिन्तनम् । वेदस्य अन्तिमं भागमेव उपनिषत् । उपनिषदः अपरं नाम एव वेदान्तः । वेदस्य अन्तिमः भागः इति प्रथमार्थः । समग्रस्य वेदस्य सारः इति द्वितीयः अर्थः वेदान्तपदस्य । वेदस्य चरमम् उद्देश्यमेव मोक्षप्रतिपादनम् । तस्मात् वेदान्तः मोक्षप्रतिपादकशास्त्रभागः इति सिद्धम् । अद्वैतवेदान्ते तावत् आत्मानं ब्रह्म इति नाम्ना आहूयते । ब्रह्म इत्युक्ते बृहत् (बृहि वृद्धौ) । ब्रह्मणः अपेक्षया बृहत् न किञ्चिदपि विद्यते । इममेव ज्ञानम् उपनिषदः अद्वैतमिति वदन्ति ।

अद्वैताचार्यः उपनिषत्, ब्रह्मसूत्रं तथा भगवद्गीतायाः उपरि भाष्यं विरचय्य अद्वैतवेदान्तस्य कृते निर्दिष्टं मार्गं दर्शितवन्तः । अद्वैतम् इत्युक्ते मत्तः भिन्नं वस्तु अन्यत् नास्ति इति । अद्वैतं तावत् वास्तवम् । इदं यस्य कस्यापि कल्पनं न । यतो हि अद्वैतम् इति एकः सिद्धान्तः । यस्य कस्यापि अभिप्रायस्य आलम्बनं न अपेक्षते अद्वैतम् । इदं अनुभवजन्यज्ञानम् । “वाग्वैखरी शब्दझरी शास्त्रव्याख्यानकौशलम् । वैदुष्यं विदुषां तद्वत् भुक्तये न तु मुक्तये ।।” वेदान्तस्य अध्ययनं तावत् जीविकायै अथवा उदरपूरणाय न । किन्तु अस्य अध्ययनम् अनुभवप्राप्तये तथा मुक्त्यावाप्तये ।

अद्वैतवेदान्तस्य चिन्तनं ऋग्वेदे अपि वर्तते । “एकं सत् विप्राः बहुधा वदन्ति[3] पुरुष एवेदं सर्वम्[4] इत्यादीनि वेदवाक्यानि अद्वैतमेव प्रतिपादयन्ति । अद्वैतवेदान्तस्य परमम् उद्देश्यं तु जीवस्य अज्ञाननाशः तेन च परमानन्दावाप्तिः ।

मानवमति विद्यमानाः रागद्वेषादयः तस्य मनोशान्तिं कलुषितं करोति । रागद्वेषादयः मत्तः भिन्नः कश्चन अस्ति इति मत्वा तत्र तोलनं कृत्वा उत्पद्यन्ते । परन्तु उपनिषदः वदन्ति तत्र को मोहः को शोकः एकत्वमनुपश्यतः[5] इति । यः एकत्वं पश्यति सः सर्वत्र सर्वस्मिन् स्वमेव पश्यति । तदा शोकः, मोहः, भयः, द्वेषः वा कथमुत्पद्येत? सर्वं खल्विदं ब्रह्म इति यः जानाति सः रागद्वेषादिकं कथं वा प्राप्नोति? ब्रह्म सत्यं जगन्मिथ्या जीवो ब्रह्मैव नापरः जीवः ब्रह्मणः सकाशात् भिन्नं न । किन्तु अज्ञानवशात् अहं ब्रह्मभिन्नः इति चिन्तयति । अहं ब्रह्मभिन्नः इति ज्ञानमेव अत्र दुःखहेतुः भवति । यथा कुन्तीपुत्रः कर्णः अहं सूतः इति मत्वा व्यथामनुभवतिस्म अपि च श्रिकृष्णपरमात्मना जन्म रहस्यं ज्ञात्वा भ्रान्तेरपासरणं प्राप तथा तत्त्वमसि[6] इति महावाक्यज्ञानात् अज्ञानस्य नाशः भवति । तेन च जीवी अहम् अमृतपुत्रः अमृतस्वरूपः इति च ज्ञानं प्राप्नोति । तेन च परमानन्दं प्राप्नोति । इदं सर्वम् अद्वैतभावेन केवलं सम्पद्यते ।

अवधूतमतम्

 

अद्वैतज्ञानयुक्ताः ये केपि इदानीमपि सन्ति वा अस्मिन् जगति इति प्रश्ने कृते तत्र प्रत्यक्षं निदर्शनं भवन्ति अवधूताः । भारतदेशे विद्यमाना अवधूतपरम्परा श्रेष्ठेतिहाससम्भूता वर्तते । दत्तपन्थः, नाथपन्थः इत्यादयाः अवधूतपरम्परायामुल्लिखिताः । वेदागमशास्त्रपारङ्गताः केचन, अन्ये केचन निरक्षराः कुक्षौ वर्धिताः च सन्ति अवधूताः । लौकिकं शिक्षणं, नियमाचाराणां पालनं, जीवनशैली इत्येतेषामपेक्षया अवधूतेभ्यः आत्मसाक्षात्कारः, सिद्धिः, ब्रह्मचिन्तनादिकमेव प्रधानं भवति ।  अवधूतपरम्परायां केचन श्रि रामकृष्णपरमहंसवत् यद्यपि गृहस्थाः भवन्ति तथापि संसारसागरे निमग्नाः न भवन्ति । अतः तत्र क्लेशलेशः अपि न भवति । अवधुतः इत्युक्ते सर्वमपि अभ्यस्य सर्वस्मात् विरक्तः इत्यर्थः । “अक्षरत्वाद्वरेण्यग्वाद्धूत संसारबन्धनात् । तत्त्वमस्यादिलक्ष्यत्वादवधूत इतीर्यते ।।[7] सुख-दुःखं, पाप-पुण्यं, धर्म-अधर्मं, विद्या-अविद्यां, सत्-असत् इत्यादिकं सर्वं परित्यज्य स्वस्मिन् स्वात्मनि एकात्मा भवति अवधूतः । अतः अवधुतस्य कृते इदं सम्यक् इदं न सम्यक् इति वा अयं धर्मः अयमधर्मः इति वा इयं विद्या इयं अविद्या इति वा क्लेशः एव न भवति । यतो हि सः अवधूतः एतस्मात् सर्वास्मात् मुक्तः अतीतः भवति । एतादृशः एकः महात्मा वर्तते दत्तात्रेयः ।

        “धू इत्रत प्रत्येकस्य अक्षरस्य विशिष्टं गहनं च अर्थः विद्यते ।

आशापाशविनिर्मुक्तः आदिमध्यान्तनिर्मलः ।

आनन्दे वर्तते नित्यम् अकारं तस्य लक्षणम् ।।[8]

‘अ’ इत्युक्ते वीताशा; आदि-मध्य-अन्तेष्वपि शुचित्वपरिपालनम्; सदा आनन्दे अवस्थितिः ।

वासनावर्जिता येन वक्तव्यं च निरामयम् ।

वर्तमानेषु वर्तेत वकारं तस्य लक्षणम् ।।

‘व’ इत्युक्ते प्राक्तनवासनाराहित्यम्; तस्य वचसि दोषाः वा समस्याः वा नैव भवन्ति । भूतभविष्त्कालविषये चिन्तां त्यक्त्वा केवलं वर्तमाने काले एव वर्तनम् ।

धूलिदूसरगात्राणि धूतचित्तो निरामयः ।

धारणाध्याननिर्मुक्तो धूकारस्तस्य लक्षणम् ।।

‘धू’ इत्युक्ते रजःकणेन आवृतमिदं देहं, मनः उभयोः आधिव्याधिराहित्येन ध्यानधारणादि योगविधानेन चिन्ताराहित्यस्थितौ वर्तनम् ।

तत्वचिन्ताधृता येन चिन्ताचेष्टाविवर्जितः ।

तमोहमोङ्कारनिर्मुक्तः तकारस्तस्य लक्षणम् ।।

‘त’ इत्युक्ते तत्त्वविषये एव सर्वदा चिन्तनं, तद्विहाय न कापि अन्यचिन्ता; तमोऽज्ञानराहित्यम्; अहङ्कारममकारराहित्यम् । एतादृशगुणलक्षणसंयुतः अवधूतः भवति ।

अद्वैतमतं कथम् अवधूतं प्रतिपादयति इत्यत्र एकं चिन्तम् ।

सामान्यजनाः नितिः, धर्म, आचारः इत्यादिषु मौल्यविषयेषु आदराः तदनुसारिणः च भवन्ति । यतो हि तेषु लोकवासना, देहासना, शास्त्रवासना इति वासनात्रयं बाधते । देहवासना इत्तयुक्ते स्वस्य देहस्य सर्वाः वाञ्छाः पूरणीयाः इति आशा । देहं रोगादिभ्यः मुक्तं रक्षेत् । देहसौन्दर्यं वर्धयेत् । देहं दीर्घकालं सदृढं पालयेत् । इन्द्रियवासनानि मानसिकं मोदं च प्राप्नुयात् । एवम् अनेके विचाराः मम देहः इत्यभिमानं केवलं देहविषये जनयन्ति । अयमभिमानः देह एव अहमित्यपि भ्रमं जनयति । लोकवासना इत्युक्ते जगति जयः, धनं, यशः, स्थानं, मानम्, अधिकारः, जनानुरागः इत्यादीनि मान्यताविषयाणि प्राप्नुयामिति आशा । बान्धवाः सुहृदश्च मां सत्कुर्युः इति अपेक्षा । इह-परलोकेषु सर्वदा सूखी भवेयम् इति अभिलाषा । शास्त्रवासना इत्युक्ते अहं ज्ञानी भवामि । शास्त्रवित् इति मान्यता भवेत् । सर्वस्मिन् विषये ज्ञानं भवेत् । इत्यादयः लौकिकज्ञानविषयकः अभिलाषः । एवं वासनात्रययुक्तः अस्मिन् संसारे लग्नः मग्नः च भवति । अहङ्कारः ममकारः दृढं मनसि तिष्ठति । तेन च संसारसागरे एव मज्जनं कुर्वन् भवति । यदा देहविषये मम देहः, मनसः विषये मम मनः, इन्द्रियाणां विषये मम इन्द्रियाणि इति भावः भवति तदा जीवभावः उदेति । सदा तेषां तोषणमेव कार्यमिति मत्वा तत्रैव रमते । तदा देहेन्द्रियभिन्नम् आत्मानं विस्मृत्य जीव एव आत्मा इति मत्वा लौकिके जगति एव वर्तते । दैहिकतृप्तिः, इन्द्रियानुभवः, मानसोल्लासः एव मुख्यं सत्यम् इति भावः जागृतं भवति । बहिर्गमनम् इन्द्रियस्य स्वभावः । तत्र मनसः सहवर्तनम् अभ्यासः । अन्तरीक्षणम् इन्द्रियस्य कृते दुःशकम् । मनः अन्तरीक्षणं न इच्छति । तस्मात् सर्वदा बाह्यविषये एव आसाक्तिः अभिवर्धितं भवति । यदा एवं भावः उदेति तदा इदं जगदेव सत्यम् इति आभिप्रायः दृढं भवति । तदेव महत्वपूर्णम् इति चिन्तयति । स एव प्रपञ्चभावः । जीवभावः प्रपञ्चभावः एकस्यैव नाण्यस्य पार्श्वद्वयम् । जीवो वा प्रपञ्चोवा आत्माधिष्ठाने एव वर्तते । अतः अवधूताः आत्मनि अवस्थाय जीवभावं त्यजन्ति । अतः अद्वैतम् अवधुतमतम् एवं रीत्या प्रतिपादयति ।

उपसंहारः

तत्त्वमसि इत्यत्र तत् पदार्थः ब्रह्म, त्वं पदार्थः जीवः । जीवः न देहपरिच्छिन्नम् । किन्तु ब्रह्मरूपमेव इति तात्पर्यम् । “अहं ब्रह्मास्मि” इत्यत्र अहमित्यस्य सारः ब्रह्म एव इति । अहम् इति जीवभावः; ब्रह्म तु जीवविभागराहित्येन सर्वत्रविद्यमानं परतत्वम् । जीवः ब्रह्माधिष्ठानः एव भवति। अत्र प्रथमं वेदान्तवाक्यम् उपदेशपरं; द्वितीयं वेदान्तवाक्यम् अनुभवपरम् । आनुभविकमुपदेशः सर्वत्र गरीयसी इत्यतः “तत्त्वमसि” इति उपदेशपरं वाक्यमेव प्रसक्तं भवति । “तत्त्वमसि इति वाक्यं यच्चिन्तनं करोति, यद्विषयं वदति, यल्लक्षणं निरूपति तत् ब्रह्म । वेदान्तवक्यानि श्रुत्वा ज्ञात्वा न जीवः अवधूतः भवति । किन्तु वेदान्तवाक्यानि अवधुतदर्शने प्रायोगिकमनुभवं प्रदास्यति । एवमद्वैतसिद्धान्तः अवधूतमतं प्रतिपादयति ।

इति शम्।

अनुसरितग्रन्थाः

१. अवधूत – प्रो. सा.क्रु. रामचन्द्र राव्. सुरप्रकाशन-२००२

२. अवधूतरु -विविधाः लेखका-लोकशिक्षणट्रस्ट् ग्रन्थमाला-२००९

३. षड्दर्शनसङ्ग्रह- शतावधानी डा.आर् गणैश – साहित्य प्रकाशन-२००१

४. छान्दोग्योपन्यासमञ्जरी -श्रीलक्ष्मीनरसिंहमूर्ती -अध्यात्मप्रकाश कार्यालय -२०१०

५. बृहदारण्यकोपनिषत् – अध्यात्मप्रकाशकार्यालय -२०१५

[1]    छान्दोग्योपनिषत् ६-१६-३

[2]    बृहदारण्यकोपनिषत्

[3]    ऋग्वेदः १-१६४-४६

[4]    ऋग्वेदः १०-९०-२

[5]    ईशावास्योपनिषत् ७

[6]    छान्दोग्योपनिषत् ६-१७-३

[7]    अवधूतोपनिषत् १

[8]    अवधुतगीतम् ८-६