स्मृतिप्रामाण्यसमर्थनम्

[vc_row][vc_column][rev_slider_vc alias=”about-3″][vc_column_text]लेखकः पवनः हुनगुन्द

अध्यापकः , श्रीजयतीर्थविद्यापीठम्
बेङ्गलूरु -५६०००४
Email. pavanhungund@gmail.com

स्मृतेः प्रामाण्यमस्ति वा न वा ? कैश्चन वादिभिः स्मृतिप्रामाण्यं नाङ्गीक्रियते । कैश्चन स्मृतिप्रामाण्यमङ्गीकृत्यापि तत्कारणादिषु अन्यथा कथ्यते । तत्र तावत् द्वैतसिद्धान्ते स्मृतिप्रामाण्यमनङ्गीकुर्वतां मतविमर्शः क्रियते । तत्र बाधकानि चोद्भाव्यन्ते । तथैव स्मृतिप्रामाण्यं च समर्थ्यते ।

स्मृतिप्रामाण्यमनङ्गीकुर्वाणः प्राभाकारः — अनुभूतिः प्रमाणमिति प्रमाणलक्षणमभिधत्ते । तत्र श्रीमदाचार्यैः प्रतिविहितं ‘अनुभूतिः प्रमाणं चेत् केन स्मृतिरपोद्यते ‘ इति । तत्र टीकाकृद्भिः बहुधा इदं पद्यं व्याख्यातं दृश्यते ।

स्मृतिः प्रमा न वा । आद्येऽपसिद्धान्तः । भवतां सिद्धान्ते स्मृतेः प्रमात्वं नाङ्गीकृतम् । द्वितीये यदि स्मृतिर्नप्रमा तदा लक्षणेन व्यावर्तनीया अन्यथाऽतिव्याप्तेः । तत् केन स्मृतिरपोद्यते । स्मृतिव्यावर्तकं

किमपि लक्षणे नास्तीति भावः ।

ननु अनुभूतिः प्रमाणमित्युक्तत्वादेव स्मृतौ अतिप्रसङ्गपरिहारः सम्भवति । तथा हि  ” स्मृतिव्यतिरिक्त-ज्ञानमनुभूतिः ” इति निर्वचनात् स्मृतौ स्मृतिव्यतिरिक्तत्वं नास्तीति अतिव्याप्तिःपरिह्रियते इति चेन्न । स्मृतावपि स्मृत्यन्तरव्यावृत्तिसम्भवात् पुनरतिव्याप्तिरेव । ननु स्मृतित्वानधिकरणत्वं अनुभूतित्वमिति चेन्न । किमिदं स्मृतित्वम् ? न तावजातिः । गुणेषु जातेः भवद्भिरनङ्गीकारात् । संस्कारमात्रजन्यत्वं स्मृतित्वमिति चेन्न स्मृतौ संस्कारमात्र-जन्यत्वस्यासम्भावितत्वात् । तत्र अदृष्टादिजन्यत्वस्यापि सद्भावात् । असाधारणकारणविवक्षायामपि स्मृतौ संस्कारमात्रजन्यत्वमसम्भावितमेव । स्मृतेर्मानसत्वस्य प्रतिपादयिष्यमाणत्वात् । नियमेन प्रत्युत्पन्नासाधारण-कारणकप्रत्ययत्वं अनुभूतित्वमित्यपि न साधु । स्मृतेरपि मानसप्रत्यक्षजन्यत्वात् नातिव्याप्तिः परिहृता भवति ।

 किञ्च संस्कारस्य कारणत्वेऽपि नासौ सत्तामात्रेण स्मृतिं जनयति । किन्नाम संस्कारः उद्बद्ध एव स्मृतिं जनयति । तथा च प्रत्युत्पन्नासाधारणकारणजन्यत्वमेव स्मृतावागतमिति पुनरतिव्याप्तिः सुस्थैव । काचित् स्मृतिः प्रत्युपत्पन्नसंस्कारजन्या सम्भवत्येव ।

अथवा ‘ अनुभूतिः प्रमाणमि’ ति प्रमाणलक्षणेऽभिहिते स्मृतावव्याप्तिः सम्भवति । ननु स्मृतिरप्रमाणमेव तत्कथं तत्राव्याप्तिः । लक्ष्यैकदेशे लक्षणस्यावर्तनं खलु अव्याप्तिः । न च स्मृतेर्लक्ष्यत्वमिति कथमव्याप्तिरिति चेत् अस्यापि
‘ केन स्मृतिरपोद्यते’ इत्येतदेवोत्तरम् । स्मृतिः केन निमित्तेन अपोद्यते प्रमाणाद्बहिः क्रियते न केनापि निमित्तेनेति भावः । तथा हि किमयथार्थत्वात् स्मृतिरप्रमाणं उत याथार्थाऽपि अनुभूतित्वाभावाद्वा , अप्रामाण्ये बाधकाभावाद्वा , प्रामाण्ये साधाकाभावाद्वा , बाधकसद्भावाद्वा ? आद्ये ‘ केन स्मृतिरपोद्यते ‘ इत्येतदेवोत्तरम् । स्मृतिः केन प्रबलेन प्रमाणेनापोद्यते बाध्यते । येन यथाರ್ಥर्था न स्यात् । बाधकाभावात् नायाथार्थ्यं स्मृतेः वाच्यमिति भावः ।

स्मृतेः याथार्थ्येऽपि अनुभूतित्वाभावात् न प्रामाण्यमिति द्वितीयपक्षेऽपि — केन स्मृतिरपोद्यते । इत्येतदेवोत्तरम् । किमनुभूतित्वं प्रमाणलक्षणिति कृत्वा अननुभूतित्वात् स्मृतिरप्रमाणमिति कथ्यते उत घटादिदृष्टान्तावष्टम्भेन स्मृतिरप्रमाणिति निगद्यते । आद्येऽन्योन्याश्रयत्वम् । स्मृतेरप्रमाण्ये सिद्धे अनुभूतित्वस्य प्रमाणलक्षणत्वं । अनुभूतित्वस्य प्रमाणलक्षणत्वे स्मृतेरप्रामाण्यसिद्धिरिति अन्योन्याश्रयः । घटादिदृष्टान्तावष्टम्भेन स्मृतेरप्रामाण्यमुच्यते इति द्वितीयपक्षोऽप्ययुक्तः । तत्रापि ‘केन स्मृतिरपोद्यते ‘इत्येतदेवोत्तरम् । अस्मृतित्वेनानुभूतिरेवापोद्यतम् विशेषाभावात् केन स्मृतिरपोद्यते इति भावः ।

स्मृतेरप्रामाण्ये बाधकाभावात् स्मृति: न प्रमाणमित्यङ्गीक्रियते इति तृतीयपक्षोऽपि न समीचिनः । तत्र समाहितमानन्दतीर्थभगवत्पादैरनुव्याख्याने

पूर्वानुभूते किं मानमित्युक्ते स्यात्किमुत्तरम्  इति ।

यदि स्मृतिरप्रमाणं स्यात् तदा पूर्वानुभूते किं मानमिति प्रश्ने निरुत्तरः स्यात् । तत्र स्मृतिरेव प्रमाणतया वक्तव्या । तत्प्रामाण्यं च नाङ्गीकृतं चेत् निरुत्तरता स्यात् । एवं साक्ष्यादिलोकव्यवहारः न्यायालयादिषु न स्यात् । ननु स्मृतिः लिङ्गतया प्रमाणं न स्वातन्त्र्येणेति चेन्न । तथाऽनुभवाभावात् । अन्यथा साक्षात्काररूपकार्येण कर्मकारकतया घटाद्यनुमानमित्यपि स्यात् ।

स्मृतेः प्रामाण्ये साधकाभावादिति चतुर्थपक्षेऽप्येतदेवोत्तरम् । पूर्वानुभूतेऽर्थे प्रमाणतया स्मृतिरित्येव वक्तव्यम् । वचनाच्चानुभवोऽनुमीयते इति लोकव्यवहारः एव प्रमाणमिति भावः ।

ननु स्मृतेः प्रमात्वे तत्करणस्य संस्कारस्यानुप्रमाणत्वं प्रसज्येत । तथाचानुप्रमाणत्रित्वं भज्येत । न हि संस्कारः प्रत्यक्षादिष्वन्तर्भवति । अनिन्द्रियसन्निकर्षत्वात् अज्ञातकरणत्वाच्च इति प्रामाण्ये बाधकसद्भावात् इति पञ्चमपक्षः अनुव्याख्याने निराक्रियते ।  तथाहि

मानसं तद्धि विज्ञानं तच्च साक्षिप्रमाणकम् । इति 

यस्मात् स्मरणं मानसं मनःप्रत्यक्षजं, न संस्कारकरणकमिति न संस्कारस्यानुप्रमाणत्वप्रसक्तिः। आसाक्षात्काररूपत्वात् न प्रत्यक्षफलमिति चेन्न ” विज्ञानरूपत्वात् । स्मरणस्य मानसत्वं साक्षात्काररूपत्वं च कुत: सिद्धमित्यत उक्तम् साक्षिप्रमाणकमिति । तत्र साक्ष्येव प्रमाणमिति भावः ।

ननु इन्द्रियाणां प्राप्यकारित्वनियमात् अतीतेन च मनसः प्राप्तेरयोगात् कथं स्मृतेःमानसप्रत्यक्षत्वमित्याशङ्कायां श्रीमदाचार्यैः समाहितम् ।

अतीतानागतं यद्वद्योगिभिददृश्यतेऽञ्जसा ।

एवं पूर्वानुभूतं च मनसैवावगम्यते

अणिमादिसिद्धिसम्पन्ना अतीतानागतदर्शिनः श्रुतीतिहासपुराणप्रसिद्धा योगिनस्तावत् सन्ति ।

तत्र श्रुति:- · अपश्यमप्यये मायया विश्वकर्मण्यदो जगन्निहितं शुभ्रचक्षुः इति ।

पुराणं – नारायणप्रसादेन इत्यादि  ।

इतिहास:- दिव्यं ददामि ते चक्षुः इत्यादि ।

एवञ्च योगिनः इन्द्रियेणैवातीतानागतार्थं साक्षात्कुर्वन्ति , तथा मनसा अतीतमपि स्मर्यते इति को दोषः ।

एवं ‘ एतन्मया कृतम् ‘ इत्येतन्मया विज्ञातं स्मृतमपि’ इति स्मरणस्य मानसत्वं साक्ष्यनुभवेन सिद्धमिति द्रष्टव्यम् । एतच्चानुव्याख्याने स्पष्टम् । एतेन स्मृतेः पूर्वानुभवावच्छिन्नार्थविषयकत्वात् पूर्वानुभवयाथार्थ्यमनुविदधाना स्मृतिः स्वयं याथार्थोपेता इति केषाश्चिन्मतमपास्तम् । अनुभववच्छुद्धार्थविषयत्वस्यापि साक्षिसिद्धत्वात् इति दर्शयितुं मयैतत्कृतमित्यपीत्याद्युक्तम् । तथा च स्मृतेः प्रामाण्यं सर्वैः अभ्युपगन्तव्यमिति सिद्धम् ।

।। श्रीकृष्णार्पणमस्तु ।।

[/vc_column_text][/vc_column][/vc_row]