सिद्धान्तलक्षणचर्चा

[vc_row][vc_column][rev_slider_vc alias=”about-3″][vc_column_text el_class=”articles”]

 

 

सिद्धान्तलक्षणचर्चा

 डॉ प्रसाद गोखले

डॉ दिनकर मराठे

  सहायकप्राध्यापकौ

क का सं वि, रामटेकम्

विषय विभाग:

१. सारांश:
२. ज्योतिषशास्त्रम्
३. सिद्धान्तः

४. उपसंहारः
सारांश :

अस्मिन् शोधपत्रे षड्सु वेदाङ्गेषु अन्यतमस्य ज्योतिषशास्त्रान्तर्गत-सिद्धान्तलक्षणस्य विमर्श: क्रियते । ज्योतिषशास्त्रस्य सिद्धान्त – संहिता – होरेति स्कन्धत्रयम् स्कन्धत्रयेषु अनितरसाधारणस्य महत्वपूर्णस्य सिद्धान्तस्य लक्षणम्, तदन्तर्गतविषयाः शोधपत्रेऽस्मिन् विचार्यन्ते । तथा च सिद्धान्तग्रन्थेषु वर्णित सिद्धान्तलक्षणस्य विवरणं तदाशयश्च शोधपत्रेऽस्मिन् स्पष्टीकर्तुं प्रयत्नः विद्यास्यते ।
ज्योतिषशास्त्रम्:


ज्योतीषी ( ग्रहनक्षत्राणि) आधारीकृत्य प्रवृत्तम् शास्त्रम् ज्योतिषशास्त्रम् ।

            विदितमेवैतत् भारतीयानां विपश्चिदां इह जगति जनिमतां सर्वतः श्रेयोमार्गप्रदर्शको वेद एवेति । अस्यैव ज्ञानस्वरूपस्य वेदस्य षडङ्गेषु ज्योतिषशास्त्रम् अन्यतमं चक्षुरूपं चकासति।


शब्दशास्त्रं मुखं ज्योतिषं चक्षुषी श्रोत्रमुक्तं निरुक्तं च कल्पकरौ ।

यातु शिक्षास्य वेदस्य नासिका पादपद्मद्वयं छन्द आद्यैर्बुधैः।।[i]

            वेदस्य चक्षुस्वरूपस्य ज्योतिषस्य वेदाङ्गत्वेन प्रयोजनविवक्षायां कथितं यत् वेदोक्त यज्ञादिकर्मणाम् अनुष्ठानार्थं समुचितकालनिर्धीरणं ज्योतिषशास्त्रद्वारा सम्पाद्यतेऽति । तस्मात् अस्य कालविधानशास्त्रमिति अपरं नाम ।

यथोक्तं,


वेदास्तावद्यज्ञकर्मप्रवृत्ताः यज्ञाः प्रोक्तास्तेतु कालाश्रयेण ।

शास्त्रादस्मात् कालबोधो यतः स्याद्वेदाङ्गत्वं ज्योतिषस्योक्तमस्मात् ।।[ii]

एतादृशस्य कालबोधशास्त्रस्य ज्योतिषस्य सिद्धान्त-संहिता – होरेति स्कन्धत्रयम् ।

ज्योतिःशास्त्रमनेक भेदविषयं स्कन्धत्रयाधिष्ठितं

तत्कातेसत्क्रास्न्धोपनयस्य नाम मुनिभिः संकीर्त्यते संहिता |

स्कन्धेऽस्मिन् गणितेन या ग्रहगतिस्तन्त्राभिधानस्त्वसौ

होरान्योङ्गविनिश्चयश्च कथितः स्कन्धस्तृतीयोऽपरः । ।[iii]

जन्मकालिकग्रहस्थितिवशात् जातकस्य शुभाशुभफलकथनं होरास्कन्धे क्रियते । तथा च समग्रस्य, अनेकविधविषयाणां च विचारः यस्मिन् क्रियते तस्य संहितास्कन्ध: इति नाम्ना व्यपदिष्यते । एतत् ज्योतिषशास्त्रं व्यवहारशास्त्रत्वेन समाद्रियते जनैः । व्यवहारेऽस्योपयोगो बहुमुखः। ग्रहाणां स्थितिवशात्
            कर्मसम्पादननिमित्तकमुहूर्तादिकथनेन शुभाशुभफलकथनेन च इदं शास्त्रं प्रत्यक्षोपकारकमिति । शास्त्रदृष्ट्या व्यवहारदृष्ट्या च उपयोगित्वेन इदं शास्त्रं वेदाङ्गेषु मूर्घन्यत्वेन स्मर्यते ।


यथा शिखा मयूराणां नागानां मणयो यथा ।

तद्ववेदाङ्गशास्त्राणां ज्योतिषं मूर्ध्नि संस्थितम् ।।

            तिथि-वार-नक्षत्र-योगकरणञ्चेति पञ्चाङ्गानि । अस्मादेव संस्कारादि आचरणार्थं मुहूर्तज्ञानं सम्पाद्यते। तथा च लोके बहुविध नित्यनैमित्तिक कर्मानुष्ठानार्थं योग्यकालस्य निर्धारणं शास्त्रेणानेन क्रियते । तस्माद् अस्य शास्त्रस्य व्यवहारोपयोगित्वं सिद्यति । तस्यादुक्तं प्रत्यक्षं ज्योतिष शास्त्रं चन्द्रार्कौ यत्र साक्षिणौ।।


सिद्धान्तस्कन्ध: :
            सिद्धान्तोऽयं मूलतः ग्रहगणित गोलभेदेन विचारितो दृश्यते । सिद्धान्त इति शब्दस्य अर्थः शब्दकल्पद्रुमे ‘सिद्धः अन्तो यस्मात्’ असौ सिद्धान्तः । पूर्वपक्षं निरस्य सिद्धान्तपक्षोस्थापनं सिद्धान्तः इति भरतः । वादप्रतिवादिभ्यां निर्णीतोऽर्थः सिद्धान्तः। तथा च सिद्धान्तो नाम यः परीक्षकैः बहुविधां परीक्ष्य हेतुभिः साधयित्वा स्थाप्यते निर्णय: स सिद्धान्तः इति । स च चतुर्विधः प्रोक्तः सर्वतंत्रसिद्धान्तः, प्रतितंत्रसिद्धान्तः, अधिकरणसिद्धान्तः, अभ्युपगमसिद्धान्तः इति चरके । परन्तु ज्योतिषशास्त्रे सिद्धान्तलक्षणम् यथा ।


त्रुट्यादिप्रलयान्तकालकलना मानाप्रभेदक्रमा

च्चारश्चद्युसदां द्विघा च गणितं प्रश्नास्तथा सोत्तराः ।

भूधिष्ण्य ग्रहसंस्थितेश्च कथनं यन्त्रादि यत्रोच्यते

सिद्धान्तः स उदाहृतोऽत्र गणितस्कन्धप्रबन्धे बुधैः ।।[iv]

            इति सिद्धान्तलक्षणं निगदति भास्कराचार्यः । त्रुयादितः प्रलयान्तं यावत् सूक्ष्मस्थूलकालस्य अवयवानां च गणना, सौरादीनां नवविधकालमानानां वार्णनं, ग्रहाणां चरादिविचारः, मध्यमग्रहानयनं स्पष्टीकरणविचारः, सोत्तराः प्रश्नाः, भूमि – तारा- ग्रहाणां संस्थिते: कथनं, वेघोपयोगीयंत्राणां विचारः यत्रोच्यते स स्कन्ध: सिद्धान्तस्कन्धः इति ।
प्रसङ्गेऽस्मिन् श्रीपतिवचनम् :

शतानन्दध्वस्तिप्रभृतित्रुटिपर्यन्तसमय प्रमाणं
भूधिष्ण्यग्रहनिवहसंस्थानकथनम् ।
ग्रहेन्द्राणां चाराः सकलगणितं यत्र गदितं स

सिद्धान्तः प्रोक्तो विपुलगणितस्कन्धकुशलैः । । [v]

वटेश्वरमतम्
                 समयमितिरशेषा सावनं खेचराणां गणितमखिलमुक्तं यत्र कुद्यधुपेतम् ।

ग्रहभगणमहीनां संस्थितिर्यत्रसम्यक् स खलु मुनिवरिष्ठः स्पष्टसिद्धान्त उक्तः । ।[vi]

            सिद्धान्तग्रन्थकतॄणां समेषामेव अभिप्रायः सर्वत्र समान एव । एवं पूर्वोक्तप्रमाणेन ग्रहगणित गोलभेदेन विचारितोऽयं सिद्धान्तः प्राचीनमवीचीनसिद्धान्तः द्विधा प्रतिपादितः । उभयत्रहि पञ्चसिद्धान्ताः सन्तीति प्राचीनसिद्धान्तपञ्चकमवीचीनसिद्धान्तपञ्चक- मित्युच्यते ।  प्राचीनसिद्धान्तपञ्चके हि

वराहमिहिरेणपञ्चसिद्धान्तिकायाम् उक्ताः

सूर्यपितामहरोमकपुलिषवसिष्ठसिद्धान्ताः गृहीताः । अर्वाचीन पञ्चके तु सूर्यसोमवसिष्ठरोमशब्रह्मसिद्धान्ताः प्रतिपादिताः । प्राचीनसिद्धान्तपञ्चकं यथोक्तं वराहमिहिरेण,


पौलिशरोमकवासिष्ठसौरपैतामहास्तु पञ्चसिद्धान्ताः । ।[vii]

            एतेषु पञ्चसिद्धान्तेषु सौरो हि अनुभवविषयः, पौलिशकृतः दक्पृतीतविषयः, रोमकः ततः प्राचीनः पैतामहवासिष्ठौ तु नितान्तप्राचीनौ स्तः । तस्मात् इदं स्पष्टं जायते यत्

पैतामहञ्च सौरञ्च वासिष्ठं पौलिशं तथा ।

रोमकञ्चेऽति गणितं पञ्चकं परमाद्भुतम् ।।[viii]

सिद्धान्तलक्षणम्, पञ्चसिद्धान्ताः एतेषां स्पष्टीकरणं पूर्वमुक्तमेव । पत्रेऽस्मिन् विशिष्य सिद्धान्तलक्षणस्य विमर्शः क्रियते अतः अत्र सिद्धान्तलक्षणानुगुणं विविधग्रन्थेषु प्रतिपाद्यविषयानां महत्त्वं तथा प्रयोजनविषयकसमीक्षा अत्र क्रियते । सिद्धान्तमहात्म्यं यथोक्तं भास्करेण


जानन् जातकसंहिता सगणितस्कन्धैकदेशा अपि

ज्योतिःशास्त्रविचारसारचतुरप्रश्नेष्वकिञ्चित्करः ।

यः सिद्धान्तमनन्तयुक्तिविततं नो वेत्ति भित्तौ यथा

राजा चित्रमयोऽथवा सुघटितः काष्ठस्य कण्ङ्गीरवः ।।[ix]

एवं च पत्रेऽस्मिन् प्रतिपादयः सिद्धान्त: होरास्कन्धे वर्णित योगानाम् अर्थात् ग्रहस्थितिजन्यविशिष्टयोगानां तथा च संहितास्कन्धोक्तनैकविषयाणां कृते समग्रतया एव आधारभूतः वरीवर्ति इति निश्चप्रचम् । अर्थात् मानवजीवने क्रियमाणनित्यनैमित्तिक संस्कारादि कर्मसु समुचितकालनिर्धीरणे, मुहूर्तनिधारणे तथा च जातकमाश्रित्य शुभाशुभफलविवेचनसन्दर्भग्रहस्पष्टीकरणमहत्वप्रतिपादनं तत् प्रयोजनं च प्रतिपादितं
लक्ष्यते । तस्मात्


सिद्धान्तस्कन्धः होरासंहितास्कन्धेषु

प्रतिपाद्य विषयाणां यथोक्तं भास्करेण ।

यात्राविवाहोत्सवजातकादौ खेटैस्फुटैरेव फलस्फुटत्वम्

स्यात् प्रोच्यते तेन नभश्चराणां स्फुटक्रिया दृग्गणितैक्य कृद्या ।।[x]

मुनीश्वरः स्वस्पष्टभागैः फलदा ग्रहेन्द्राः यतोऽखिले कर्मणि तेन तेषाम् ।

स्फुटक्रियामागमयुक्तिमूला मपास्तनियुक्तिमतां प्रवच्मि ।। [xi]

समग्रे शुभकार्ये जननविवाहादौ ग्रहरूपा देवताः स्वस्पष्टभागैः फलदा यतः अन्यथा सूर्यबुधशुक्राणां भिन्नराशिस्थूत्वफलोक्तेर्व्यर्थत्वात् । तेन कारणेन तेषां ग्रहाणाम् आगमयुक्तौ मूलहेतुम् उक्त्वा स्फुटक्रिया वच्मि इति।


उपसंहार:
एवं सिद्धान्तोऽयं गणितस्कन्धत्वेनापि प्रसिद्धः अपि च सिद्धान्तग्रन्थेषु सिद्धान्तग्रन्थाः करणग्रन्थाः इति भेदद्वयं लक्षितं वर्तते ।


उत्पादकं यत्प्रवदन्ति बुद्धेरधिष्ठितं सत्पुरुषेण सांख्याः ।

व्यक्तस्य कृत्स्नस्य तदेकबीजमव्यक्तमीशं गणितञ्च वन्दे ।। [xii]


[i] सिद्धान्तशिरोमणिः

[ii] सिद्धान्तशिरोमणिः

[iii] बृहत्संहिता

[iv] सिद्धान्तशिरोमणिः

[v] सिद्धान्तशेखर:

[vi] वटेश्वरसंहिता

[vii] पञ्चसिद्धन्तिका

[viii] सूर्यसिद्धान्तः

[ix] सिद्धान्तशिरोमणिः

[x] सिद्धान्तशिरोमणि

[xi] सिद्धान्तसार्वभौमः

[xii] बीजगणितम्
[/vc_column_text][/vc_column][/vc_row]