सारस्वतव्याकरणान्तर्गता धातुतरङ्गिणीस्वोपज्ञटीका

[vc_row][vc_column][rev_slider_vc alias=”about-3″][vc_column_text el_class=”articles”]

सारस्वतव्याकरणान्तर्गता धातुतरङ्गिणीस्वोपज्ञटीका

कु.योगिता छत्र
शोधच्छात्रा,
केन्द्रीयसंस्कृतविश्वविद्यालयः।

c_yogita@blr.amrita.edu

संक्षिप्तिका (Abstract)

अनुभूतिस्वरूपाचार्येण विरचितं सप्तशतेन सूत्रैः युक्तं सारस्वतव्याकरणं जैनसंप्रदाये अतीव प्रसिद्धम् । अस्य सुबोधत्वात् अनेके विद्वांसः तदुपरि टीकाः व्यरचयन् । प्रमुखसंस्कृतव्याकरणानां स्वकीयाः सूत्रपाठाः, गणपाठाः धातुपाठाश्च भवन्ति । प्रमुखधातुपाठेषु काशकृत्स्नस्य धातुपाठः, भीमसेनविरचितः धातुपाठः, पूर्णचन्द्रस्य धातुपारायणम्, मैत्रेयरक्षितस्य धातुप्रदीपः, क्षीरस्वामिनः क्षीरतरङ्गिणी, वोपदेवस्य कविकल्पद्रुमः इत्येते विशेषतया उल्लेखनीयाः वर्तन्ते। सारस्वतव्याकरणान्तर्गतधातुपाठेषु अन्यतमोऽस्ति धातुतरङ्गिणीस्वोपज्ञटीकासमेतः धातुपाठः। तत्र विद्यमानाः केचन विषयाः पाणिनीयेन सह तोलयित्वा लेखेऽस्मिन् प्रकाशयिश्यन्ते ।

परिचयः

व्याक्रियन्ते व्युत्पाद्यन्ते शब्दा अनेनेति व्याकरणपदस्य व्युत्पत्तिरुच्यते । व्याकरणज्ञानं विना शब्दज्ञानमसंभवि । तथा च प्राचामुक्तिः –

अर्थप्रवृत्तितत्त्वानां शब्दा एव निबन्धनम् ।

तत्त्वावबोधः शब्दानां नास्ति व्याकरणादृते ।।[i] इति ।

सत्स्वपि नैकेषु संस्कृतव्याकरणेषु भारतवर्षे पाणिनीयस्य व्याकरणस्य सर्वाङ्गसुन्दरत्वात् अनितरसाधारणः गरिमा वर्तत इति नाविदितं सर्वेषाम् । महर्षिणा पाणिनिना स्वकीयाष्टके तत्पूर्ववर्तिनां नैकेषां वैयाकरणानां नामानि समुद्धृतानि । तेष्वन्तर्भवन्ति काश्यप-गार्ग्य- आपिशलि- स्फोटायन-गालव- भारद्वाज- चाक्रवर्मण- सेनकाख्याः प्राचीनाः वैयाकरणाः । भर्तृहरि-वामन-जयादित्य-कैयट-नागेशप्रभृतीनां सुधियां सूक्ष्मेक्षिकया शास्त्रमिदं पुष्टं समभवत् । महर्षेः पाणिनेः उत्तरकालेऽपि अनेकेषां व्याकरणानामुद्भवः दृश्यते । तानि व्याकरणानि सारल्यात् संक्षिप्तत्वात् च लोकप्रियाणि आसन् । तानि च व्याकरणानि चान्द्र-जैनेन्द्र-सिद्धहैम-मलयगिरीत्यादि नामभिः प्रसिद्धानि । तेष्वन्यतमम् अनुभूतिस्वरूपाचार्येण विरचितं सप्तशतेन सूत्रैः युक्तं सारस्वतव्याकरणं जैनसंप्रदाये अतीव प्रसिद्धम् । अस्य सुबोधत्वात् अनेके विद्वांसः तदुपरि टीकाः व्यरचयन् । पं. युधिष्ठिरमीमांसकवर्येण चन्द्रकीर्ति-क्षेमेन्द्र- धनेश्वरादि 18 टीकाकाराणामुल्लेखः स्वकीये व्याकरणशास्त्र का इतिहास इत्याख्ये ग्रन्थे कृतोऽस्ति । सारस्वतव्याकरणविषये इदं वृत्तं श्रूयते –

सारस्वतं व्याकरणं प्रसिद्धं जानन्ति सर्वे विबुधाः प्रसिद्धाः।

कर्ताऽस्य काश्यामनुभूतिरूप आसीदुदासी महतां वरेण्यः ।।

ग्रन्थकारः ग्रन्थारम्भे इदमुवाच –

प्रणम्य परमात्मानं बालधीवृद्धिसिद्धये ।

सारस्वतीमृजुं कुर्वे प्रक्रियां नातिविस्तराम् ।।

अस्मिन् व्याकरणे अनुभूतिस्वरूपाचार्यैः बालानाम् अल्पमतीनां च सुबन्त-तिङन्त-कृदन्त-समासादिविषयाणां सुखबोधः भवतु इति धिया सूत्रवृत्तिः तदुदाहरणानि च यथावद्व्याख्यातानि सन्ति ।

प्रमुखसंस्कृतव्याकरणानां स्वकीयाः सूत्रपाठाः, गणपाठाः धातुपाठाश्च भवन्ति । प्रमुखधातुपाठेषु काशकृत्स्नस्य धातुपाठः, भीमसेनविरचितः धातुपाठः, पूर्णचन्द्रस्य धातुपारायणम्, मैत्रेयरक्षितस्य धातुप्रदीपः, क्षीरस्वामिनः क्षीरतरङ्गिणी, वोपदेवस्य कविकल्पद्रुमः इत्येते विशेषतया उल्लेखनीयाः वर्तन्ते ।

धातुतरङ्गिणीस्वोपज्ञटीका

सारस्वतव्याकरणान्तर्गतधातुपाठेषु अन्यतमोऽस्ति धातुतरङ्गिणीस्वोपज्ञटीकासमेतः धातुपाठः यः खलु श्रीचन्द्रकीर्तिशिष्येण श्रीहर्षकीर्तिसूरिणा विरचितोऽस्ति । तेन स्वयं निर्मिते अस्मिन् धातुपाठे 1819 धातवः सन्ति । तेनैव च स्वस्यास्य धातुपाठस्य धातुतरङ्गिण्याख्या टीका विरचिता वर्तते ।[ii] अस्याः मङ्गलाचरणम् इत्थं –

नमस्कृत्य महोनन्तं नित्यं सत्यं चिदात्मकम् ।

स्वोपज्ञधातुपाठस्य क्रियते पञ्जिका मया ।।

श्रीसर्वज्ञं जिनं नत्वा स्मृत्वा सारस्वतं महः।

सारस्वते धातुपाठं वक्षे संक्षेपतः स्फुटम् ।।2।। इति ।

अस्य विवरणं लिखति श्रीहर्षकीर्तिः – सर्वज्ञं सर्वं भूतं भविष्यद्वर्तमानं  जानातीति सर्वज्ञः। श्रिया परमैश्वर्यरूपया युक्तः सर्वज्ञस्तं श्रीसर्वज्ञं नमस्कृत्य मनोवाक्कायैर्नत्वा पुनः सारस्वतमहः स्मृत्वा (सरस्वत्याः इदं सारस्वतम्) मनसि कृत्वा (ध्यात्वा) अहं सारस्वतव्याकरणं वक्ष्ये संक्षेपतः कतिचिदानुकथनतः स्फुटं प्रकटं धातूनां पाठं वक्ष्ये कथयिष्यामीत्यन्वयः ।

अत्र स्थानद्वये पाठभेदो लक्षितः। ग्रन्थस्यास्य रचयिता शिष्टाचारप्रतिपालनार्थं चिकीर्षितग्रन्थस्य निर्विघ्नपरिसमाप्त्यर्थम् इष्टदेवतानमस्कारम् अकरोत् ग्रन्थादौ। श्रिया युक्तं सर्वज्ञं परमेश्वरं स्मृत्वा अहं सारस्वतव्याकरणं (धातुपाठं) वदामीति तदर्थः ।

ततः धातूनां क्रममुक्त्वा धातूनां परस्मैपदिता आत्मनेपदिता च कथं भवतीति कथयति ग्रन्थकारः । पाणिनीये तावत् परस्मैपदविधायकसूत्रं – 1. शेषात्कर्तरि परस्मैपदममिति, आत्मनेपदं च अनुदात्तङित आत्मनेपदम् इत्यनेन सूत्रेण विधीयते । अस्य सूत्रार्थः उदाहरणं च इत्थं भवति –

1. आत्मनेपदनिमित्तहीनाद्धातोः कर्तरि परस्मैपदं स्यादिति 2. अनुदात्तेतः उपदेशे यो ङित् तदन्ताच्च धातोर्लस्य स्थाने आत्मनेपदं स्यात् इति।[iii] अन्यान्यपि आत्मनेपदविधायकानि सूत्राणि पाणिनिना प्रोक्तानि । आदौ आत्मनेपदविधायकानि सर्वाण्यपि निमित्तानि उक्त्वा ततः शेषात् कर्तरि परस्मैपदं भवतीति क्रमः पाणिनीये समाश्रितः। सारस्वतव्याकरणे तावत् एवमुच्यते – उदात्तेतः स्मृता येऽत्र परस्मैपदिनो हि ते ।  अनुदात्तेतो ङितोप्येवमात्मनेपदिनः पुनः इति । ये धातवः उदात्तेतः इति संज्ञका उच्यन्ते ते परस्मैपदिनः ज्ञेयाः । ये च धातवो अनुदात्तेतसंज्ञकाः कल्पयिष्यन्ते पुनर्येषां कवर्गङकार इत् स्यात् ते धातवः आत्मनेपदिनो ज्ञेयाः इति ।

तथा च पाणिनीये स्वरितङितः कर्त्रभिप्राये क्रियाफले इति सूत्रेण धातोः उभयपदित्वं विधीयते । स्वरितेतो ञितश्च धातोरात्मनेपदं स्यात् कर्तृगामिनि क्रियाफले इति तदर्थः। कर्तृगामिनि क्रियाफले आत्मनेपदं परगामिनि क्रियाफले च परस्मैपदमिति उभयपदिता सिध्यति  । सारस्वते व्याकरणे तावत् अयं विषयः इत्थं प्रोक्तः – ये धातवः स्वरितेत इति संज्ञकाः करिष्यन्ते, येषां चवर्गञकारः इत् स्यात् ते धातवः उभयपदिनो ज्ञेयाः इति । इत्थं धातूनाम् आत्मनेपदपरस्मैपदोभयपदित्वं प्रोक्तम्।

उदात्तानुदात्तस्वरितस्वराणामुल्लेखवशात् ग्रन्थकारः प्रयत्नानां विषये कथयति । पाणिनीये व्याकरणे दीक्षितादिभिः तुल्यास्यप्रयत्नं सवर्णमिति सूत्रव्याख्याने पाणिनिशिक्षावचनानि उद्धृतानि । अत्र आस्यशब्देन आस्ये भवानि कण्ठताल्वादिस्थानानि उच्यन्ते । अकुहविसर्जनीयानां कण्ठः, इचुयशानां तालु, ऋटुरषाणां मूर्धा, लृतुलसानां दन्ताः, उपूपध्मानीयानामोष्ठौ, ञमङणानानां नासिका च, एदैतोः कण्ठतालु, ओदौतोः कण्ठोष्ठम्, वकारस्य दन्तोष्ठम्, जिह्वामूलीयस्य जिह्वामूलं, नासिकानुस्वारस्येति । धातुतरङ्गिण्यां स्थानविषये न किमपि उल्लिखितम् ।

            पाणिनीये यत्नो द्विधेति उच्यते- आभ्यन्तरो बाह्यश्चेति । आद्यः स्पृष्टेषत्स्पृष्टेत्यादि चतुर्धा। बाह्यप्रयत्नः तावत् एकादशधा – विवारः संवारः श्वासो नादो घोषः अघोषः अल्पप्राणः महाप्राणः उदात्तः अनुदात्तः स्वरितश्चेति । धातुतरङ्गिण्यां प्रयत्नविषये इत्थमुच्यते – उदात्तादीनां स्पृष्टेषत्स्पृष्टसंवृतविवृतभेदात् अन्तःप्रयत्नः चतुर्विधः। उदात्तादीनां बाह्यप्रयत्नं बाह्यप्रयत्नस्त्वेकादशविधः। तथाहि विवारः 1 संवारौ2 श्वास….नादो3 घोषवत्4 अघोषता 5 अल्पप्राणता 7 महाप्राणता 8 उदात्तो8 नुदात्तः10 स्वरित11 श्चेकादशविधः ।

            नाभिप्रदेशात्प्रयत्नप्रेरितः प्राणो नाम वायुः ऊर्ध्वमाक्रामन्नुरःप्रभृतीनां स्थानानामत्यन्तमस्मिन् स्थाने प्रयत्नेन विधार्यमाणः स्थानमतिहन्ति तस्मात् स्थानातिघातात् ध्वनिरुत्पद्यते । आकाशे सवर्णश्रुतिः । सवर्णस्यात्मलाभस्तत्रवर्णध्वनावुत्पद्यमाने यदास्थानकरणं प्रयत्नाः परस्परं स्पृशन्ति सा स्पृष्टता। यदा ईषत्स्पृशन्ति सा ईषत्स्पृष्टता । यदा सामीप्येन स्पृशन्ति सा संवृतता यदा दूरेण स्पृशन्ति सा विवृतता एषो अन्तः प्रयत्नः । इदानीं बाह्यप्रयत्नः यदा प्राणो नाम वायुः मूर्धमाक्रामन् मूर्ध्नि प्रतिहतो निवृत्तः कोष्टमतिहन्ति तत्र कोष्टे प्रतिहन्यमाने कण्ठविलस्य विवृतत्वात् विवारः। संवृतत्वात् संवारः । तत्र यदा कण्ठं विलं विवृतं भवति तदा श्वासो जायते संवृते नादः । तावनुप्रदानमाचक्षते केचित् । तत्र यदा स्थानकरणातिघातजे ध्वनौ नादो अनुप्रदीयते तदा नादध्वनिसंसर्गात् घोषो जायते । यदानुश्वासोऽनुप्रदीयते श्वासध्वनिसंसर्ग्रादघोषो जायते । अल्पे वायावल्पप्राणता महति वायौ महाप्राणता जायते । महाप्राणत्वादूष्मत्वम्। यदा सर्वगात्रानुसारी प्रयत्नस्तीव्रो भवति तदा गात्रस्य स्रंसनं कण्ठबिलस्य च महत्त्वं स्वरस्य वायोश्च मन्दगतित्वात्।  स्निग्धता भवति तमुदात्तमाचक्षते । उदात्तानुदात्तस्वरसन्निपातात् स्वरित इति । यद्यनुदात्तानुदात्तेस्वरितानामित्थं लक्षणमुक्तं तथापि स्फुटं न ज्ञायते  किन्तु संज्ञामात्रादेव ज्ञातव्याः क्वचिद्विकल्पस्तु केषाञ्चित् केषाञ्चित् पदबाहुलं कैश्चित्विपश्चिद्भिर्ज्ञेयं शास्त्रान्तराच्च तत् ।

इत्थं धातुतरङ्गिणीकारेण स्थानप्रयत्नविषये विलिख्य गात्रस्य आकारभेदात् उच्चारणभेदः कथं भवति इत्यादि विषयाः विस्तरेण लिखिताः । आभ्यन्तरबाह्यप्रयत्नविषये पाणिनीये सारस्वते च व्याकरणे समानता लक्ष्यते ।

तात्पर्यम्

पाणिनीयव्याकरणस्य सर्वोपकारकत्वं तु वर्तते एव। किन्तु पाणिनीयेतराणि सारस्वतादिव्याकरणानि स्वशैल्या व्याकरणस्य विशिष्टान् अंशान् सम्यक् प्रतिपादयन्तीति तेषामपि महत्त्वं नानङ्गीकरणीयम् । धातुतरङ्गिण्याख्ये सारस्वतधातुपाठस्य टीकाविशेषे नैके विषयाः समुद्धृताः येषु ग्रन्थस्य मङ्गलाचरणं, धातूनामात्मनेपदित्व-परस्मैपदित्व-उभयपदित्वकथनम्, स्थानप्रयत्नाश्चेति विषयाः लेखेऽस्मिन् संदर्शिताः।

परिशीलिताः ग्रन्थाः

  1. वैयाकरणसिद्धान्तकौमुदी – भट्टोजीदीक्षितः, मोतीलाल बनारसीदास, 1948
  2. व्याकरणशास्त्र का इतिहास – पं युधिष्ठिर मीमांसक, रामलाल कपूर ट्रस्ट, 1984
  3. सारस्वतव्याकरण की पुञ्जराजकृत टीका का समीक्षित पाठ संपादन – राजेश चुन्नीलाल व्यास, परिमल पब्लिकेशन, 2011

[i] ब्रह्मकाण्डम् 1.3

[ii] धातुपाठस्य टीकेयं नाम्ना धातुतरङ्गिणी

[iii] वैयाकरणसिद्धान्तकौमुदी

.[/vc_column_text][/vc_column][/vc_row]