सन्दिग्धानैकान्तिकत्वम्

[vc_row][vc_column][rev_slider_vc alias=”about-3″][vc_column_text el_class=”articles”]

सन्दिग्धानैकान्तिकत्वम्

सत्यनारायणः  सि . टी
शोधच्छात्रः
कर्णाटकसंस्कृतविश्वविद्यालयः
बेङ्गलूरु

[ नैय्यायिकैः यादृशं सन्दिग्धानैकान्तिकत्वम् अङ्गीक्रियते , तादृशम् एव सन्दिग्धानैकान्तिकत्वस्वरूपं सिद्धिकारैः अङ्गीकृतम् इति सयुक्तिससन्दर्भसहिततया निरूपणं कृतम् । ]  

    अद्वैतसिद्धिग्रन्थे आदौ विप्रतिपत्तिः दर्शिता । कथायाम् अयं नियमः वर्तते यत् आदौ विप्रतिपत्तिः दर्शनीया इति । सा विप्रतिपत्तिः द्विधा भवितुम् अर्हति । सामान्यविप्रतिपत्तिः, विशेषविप्रतिपत्तिः इति । सामान्यविप्रतिपत्तिः नाम  विप्रतिपत्तिलक्ष्यतावच्छेदकत्वेन अभिमतधर्माक्रान्तानां यावतां धर्मिणां लक्ष्यत्वेन निर्दिश्य तस्मिन् सामान्ये धर्मिणि विप्रतिपत्तिप्रदर्शनम् । विशेषविप्रतिपत्तिः नाम विशिष्य एकं धर्मिणं लक्ष्यत्वेन निर्दिश्य विप्रतिपत्तेः प्रदर्शनम् । 

     प्रकृते ग्रन्थसन्दर्भे उभयथा अपि विप्रतिपत्तिः दर्शिता वर्तते । “विमतं मिथ्या न वा” इति सामान्यविप्रतिपत्तिः । “वियत् मिथ्या न वा”, “पृथिवी मिथ्या न वा” इत्यादिः विशेषविप्रतिपत्तिः । यदा विशिष्यविप्रतिपत्तिः प्रदर्ष्यते तदा अनुमानम् एवं भवति “वियत् मिथ्या दृश्यत्वात्” इति ।  एवं यदि विशिष्यानुमानं क्रियते , तर्हि घटादिषु सन्दिग्धानैकान्तिकत्वदोषः भवति । यथा व्यभिचारनिश्चयः व्याप्तिज्ञानप्रतिबन्धद्वारा अनुमितिं प्रतिबध्नाति , तद्वत् व्यभिचारसन्देहः अपि व्याप्तिज्ञानप्रतिबन्धद्वारा अनुमितिं प्रतिबध्नाति । व्यभिचारसन्देहः एव सन्दिग्धानैकान्तिकत्वदोषः इति कथ्यते ।

       नैय्यायिकैः अपि सन्दिग्धानैकान्तिकत्वं दोषत्वेन परिगण्यते । एवञ्च नैय्यायिकैः यः सन्दिग्धानैकान्तिकत्वदोषः स्वीकृतः सः वेदान्तिभिः अपि स्वीक्रियते । एतदभिप्रायेण सिद्धिकाराः कथयन्ति – “एवं वियदादेः प्रत्येकं पक्षत्वेऽपि न घटादौ सन्दिग्धानैकान्तिकता । पक्षसमत्वात् घटादेः । तथा हि पक्षे साध्यसन्देहस्य अनुगुणत्वात् पक्षभिन्न एव तस्य दूषणत्वं वाच्यम् । प्रकृते वियत्पक्षकानुमाने केनचित् घटान्तर्भावेण सन्दिग्धानैकान्तिकता दोषः दर्शितः । घटादिषु दोषं दर्श्यमानः सः वदति , यत्र हेतोः निश्चयवति साध्यस्य सन्देहः वर्तते । तत्र एव सन्दिग्धानैकान्तिकता दोषः इति । परन्तु अद्वैतसिद्धिकाराः इदं न अङ्गीकुर्वन्ति । यत्र हेतोः निश्चयवति साध्यस्य सन्देहः वर्तते , तत्र यदि सन्दिग्धानैकान्तिकता दोषः इति उच्यते , तर्हि अनुमानमात्रस्य उच्छेदापत्तिः भवति । यतो हि सर्वत्र सदनुमानेषु आदौ साध्यसन्देहः भवत्येव । उदाहरणार्थं पर्वतः वन्हिमान् धुमात् इति सदनुमानम् । आदौ पक्षधर्मता बलात् पक्षे हेतोः निश्चयः भवत्येव । परन्तु साध्यस्य सन्देहः केवलं भवति । कुतः इति चेत् साध्येन सह सन्निकर्षाभावात् । अतः इदं ज्ञायते यत् यदि साध्यसन्देहवति पूर्वोक्तरीत्या सन्दिग्धानैकान्तिकता दोषः , तर्हि अनुमितेः प्राक् सर्वत्र सदनुमानेषु पक्षे साध्यस्य निश्चयः न भवति इत्यतः अनुमानमात्रस्य उच्छेदस्प्रसङ्गः तदवस्थः स्यात्  । परन्तु अनुमितेः प्राक् पक्षे साध्यस्य सन्देहः अनुमितेः उत्पत्तौ अनुकूलः एव भवति । कथम् इति चेत् पक्षता संपादकतया इति उच्यते । यतोहि प्राचीनानां मते साध्यसन्देहः एव पक्षता । तर्हि अत्र एकः प्रश्नः उदेति यत् पूर्वोक्तरीत्या पक्षे साध्यसन्देहे सति सः पक्षता संपादकतया अनुमितेः उत्पतौ अनुकूलः भवतु, परन्तु प्रकृते विशेषेण एव अनुमानप्रयोगस्य प्रदर्श्यमानत्वात् घटस्तु न पक्षः । अतः तत्र साध्यस्य सन्देहे अनुकूलः कथं भवति इति । अतः सिद्धिकारैः उक्तं घटः वियत् मिथ्या इति प्रतिज्ञायां न विषयः चेदपि घटः पक्षसमः इति उच्यते । पक्षे पक्षसमे वा यदि साध्यसन्देहः तर्हि सः सन्देहः अनुमितौ अनुकूलः एव भवति । अद्वैतसिद्धिकारैः यः  सिद्धान्तः अङ्गीकृतः सः नैयायिकानाम् अपि सम्मतः । तदुक्तं दीधितौ“ न हि  पक्षे पक्षसमे वा व्यभिचारः” इति । अत्र दीधितिकाराणाम् अयमाशयः – यत्र साध्यसन्देहः भवति सः पक्षः भवति, एवमेव प्रकृतपक्षतावच्छेदकधर्मानाक्रान्तोऽपि साध्यसन्देहवान् चेत् भवति सः पक्षसमः। अतः पक्षे पक्षसमे वा यदि व्यभिचारसन्देहः भवति तर्हि सः अनुमितिप्रतिबन्धकः न भवति । 

      तार्किकाणां मतेऽपि अयम् अभिप्रायः ईश्वरानुमाने दर्शितः । तत्र क्षितिः सकर्त्रिका कार्यत्वात् इति अनुमानम् ।  अत्र तार्किकैः जलादौ सन्दिग्धानैकान्तिकत्वदोषः न प्रदर्शितः । यतो हि जलादिषु अपि कार्यत्वेन हेतुना सकर्तृकत्वस्य साधनम् इष्टमेव । अतः जलादीनां पक्षसमत्वम् एव तार्किकाणाम् इष्टम् इति ज्ञायते । तर्हि सन्दिग्धानैकान्तिकत्वं कुत्र दोषत्वेन उक्तः इति प्रश्नः उदेति । तत्र तार्किकाणां मतं किञ्चित् उपपादनीयम् । यत्र साध्याभावस्य निश्चयः वर्तते तत्र यदि हेतोः सन्देहः तर्हि तत्र सन्दिग्धानैकान्तिकत्वम् इति हेतौ दोषः आयाति । एवञ्च प्रकृते वितत्पक्षके अनुमाने न दोषः । यतो हि घटादीनां प्रकृते पक्षसमत्वं वर्तते । एवमेव घटादिषु हेतोः निश्चयः वर्तते इत्यतः हेतुसन्देहो नास्ति । दृश्यत्वम् इति हेतोः घटादिषु निश्चयः एव वर्तते । घटादीनां प्रत्यक्षेण ग्रहः भवितुम् अर्हति । अतः तत्र हेतोः सन्देहः न भवितुम् अर्हति । तस्मात् प्रकृते अनुमाने न दोषः इति । 

 नैय्यायिकैः सर्वदा साध्याभाववति एव सर्वत्र हेतोः सन्देहे सन्दिग्धानैकान्तिकता दोषः अङ्गीक्रियते इति नास्ति । परन्तु अनुकूलतर्काभावदशायां यत्र हेतोः निश्चयवति साध्यस्य सन्देहः तत्रापि हेतौ सन्दिग्धानैकान्तिकता दोषः अङ्गीक्रियते । नैयायिकानाम् आशयः ब्रम्हानन्दीये एवम् उक्तं “नवीनतार्किकैः तु व्याप्तिग्राहकतर्काभावे सति साध्याभाववत्वेन सन्दिग्धे धर्मिणि हेतुनिश्चयोऽपि व्यभिचारसंशयहेतुतया दोष एव” इति । अयं अभिप्रायः मणिकारैः स्वयम् उपपादितः अस्ति इति ब्रम्हानन्दीये उक्तम् । तथा च ब्रम्हानन्दीकाराः वदन्ति “अत एव वन्हिः अद्विष्ठातीन्द्रियधर्मसमयी दाहजनकत्वात् आत्मवत् इत्यादि शक्त्यादिसाधकानुमानेषु मणावप्रयोजकत्वमुक्तम्” इति। 

अत्र अयमभिप्रायः मणिकाराणां – अत्र सन्दर्भस्तु शक्तेः साधनम् । इदम् अनुमानं शक्तिसाधकत्वेन उपन्यस्तं वर्तते । अत्र वन्हिः पक्षः, अद्विष्ठातीन्द्रियधर्मसमवायित्वं साध्यं, दाहजनकत्वं हेतुः । कार्यसामान्यं प्रति अदृष्टवदात्मसंयोगस्य हेतुत्वात् आत्मनि दाहानुकूलत्वम् अयातम् । अदृष्टं तावत् आत्मनि केवलं वर्तते इत्यतः अद्विष्ठत्वम् आयातम् । एवञ्च अद्विष्ठः यः अतीन्द्रियः धर्मः नाम अदृष्टं, तादृशधर्मसमवायित्वम् आत्मनि वर्तते इति आत्मनि साध्यहेत्वोः समन्वयः । एवञ्च यथा आत्मनः दाहजनकत्वात्   अद्विष्ठातीन्द्रियधर्मसमवायित्वं , तुल्यया रीत्या वन्हेः अपि दाहजनकत्वात्   अद्विष्ठातीन्द्रियधर्मसमवायित्वं वक्तव्यम् । तस्मात् वन्हिः अद्विष्ठातीन्द्रियधर्मसमवायी इति सिध्यति । स च अद्विष्ठातीन्द्रियधर्मः शक्तिः इति अनेन अनुमानेन सिध्याति । अत्र अप्रयोजकशङ्का भवति । वन्हौ हेतुः अस्तु, साध्यं मास्तु इति । अर्थात् दाहजनकत्वम् अस्तु , परन्तु अद्विष्ठातीन्द्रियधर्मसमवायित्वं मास्तु इति । अत्र यदि अप्रयोजकशङ्कावरणीया तर्हि अनुकूलः तर्कः वक्तव्यः । तर्के उक्ते एव अप्रयोजकशङ्कावरणं सम्भवति । परन्तु मणिकाराः कथयन्ति अत्र अप्रयोजकशङ्कावरणं कर्तुम् अनुकूलः तर्कः नास्ति इति । अतः अप्रयोजकशङ्कावारणं कर्तुं न शक्यते । अप्रयोजकशङ्कायां सत्यां व्याप्तिज्ञानस्य प्रतिबन्धः भवति । व्याप्तिज्ञानाभावे तु अनेन अनुमानेन अनुमितिः नैव उदेति । अतः अनेन अनुमानेन शक्तिः साधयितुं न शक्यते। 

अनेन मणिग्रन्थेन इदं ज्ञायते यत् यत्र हेतोः निश्चयवति पक्षे साध्याभावसन्देहः भवति, तत्र अप्रजोजकशङ्कावारणार्थं यदि अनुकूलः तर्कः न भवति, तर्हि तत्र सन्दिधानैकान्तिकतादोषः भवति । यदि प्रकृते अप्रयोजकशङ्कायां सत्याम् अपि व्याप्तिग्रहप्रतिबन्धकत्वं न उच्यते, तर्हि प्रकृते अनुमाने व्याप्तिपक्षधर्मतयोः सम्भवेन अनुमितिः स्यात् । तथा सति मणिकारैः या अप्रयोजकशङ्का उद्भाविता सा व्यर्था स्यात् । तदुक्तं दीधितौ “तत्र व्यभिचारसंशयस्य अदूषणत्वे व्याप्तिपक्षधर्मतानिश्चयसम्भवेन अप्रयोजकत्वोक्तेः असङ्गतेः तस्य दूषणत्वम् आवश्यकम्” इति । अतः प्रकृते तावत् नव्यनैय्यायिकमतानुसारेण वियत्पक्षकमिथ्यात्वानुमाने दोषः स्यात् इति प्रश्नः उदेति । परन्तु अग्रे सिद्धिकाराः एव अग्रे प्रकृतानुमानोपयोगितर्कान् प्रदर्शयन्ति इत्यतः न दोषः । एवञ्च अनेन प्रबन्धेन इदं सिद्धं यत् सिद्धिकाराः तार्किकमतानुसारेण एव प्रकृते उपपादनं कृतवन्तः इति । 

  • आकरग्रन्थाः – 
  •  न्यायामृताद्वैतसिद्धी

स्वामीयोगीन्द्रानन्दकृत “अद्वैतसिद्धी” हिन्दीव्याख्याविभूषितम्

चौकम्बा विद्याभवन , वाराणसी

  • लघुचन्द्रिकाप्रकाशः 

“अद्वैतसिद्धिव्याख्यायाः गौडब्रम्हानन्दीति प्रथितायाः लघुचन्द्रिकायाः अभिनवा व्याख्या”

व्याख्याता – वेदान्तकेसरी , वेदब्रम्हश्री के नारायणभट्टः 

शङ्कराद्वैतशोधकेन्द्रम्

दक्षिणाम्नायजगद्गुरु श्री शङ्कराचार्यमहासंस्थानम् ,

श्री शारदापीठम् , शृङ्गेरी

  • अद्वैतसिद्धिः

( बालबोधिनी टीका सहिता )

सम्पादकः – डा . सितांशुशेखर बागचिः 

रत्ना पब्लिकेशन् , कमच्छा , वाराणसी .

[/vc_column_text][/vc_column][/vc_row]