श्री नृसिंहसुधीविरचितस्य `श्रीशठवैरिवभवप्रभाकरः’ इति ग्रन्थस्योपरि 
श्री अप्पय्यदीक्षितविरचितस्य कुवलयानन्दस्य प्रभावः।

अनुसन्धाता –

श्री गिरीश भट्टः
संस्कृतसंशोधना एवं स्नातकोत्तर अध्ययनविभागः
ज्ञानभारती आवरणम् ,  बेङ्गलूरु विश्वविद्यालयः,
बेङ्गलूरु .
girishbhatshamemane@gmail.com
9481888268

संस्कृतवाङ्ग्मये अलङ्कारशास्त्रस्य विशिष्टं स्थानं वर्तते । अस्य शास्त्रस्य सिद्धान्तानां प्रतिपादनं प्रायः २००० वर्षात् प्रागेव आरब्धमिति विदुषाम् अभिप्रायः। अलङ्कारशास्त्रस्य (काव्यशास्त्रस्य)  सिद्धान्ताः भरतादारभ्य अप्पय्यदीक्षित जगन्नाथपण्डितपर्यन्तं विविधस्तरेषु   विकसिताः। तेषां पट्टिकाम्  एवं कर्तुं शक्यते – रससिद्धान्तः, अलङ्कारसिद्धान्तः, रीतिसिद्धान्तः, ध्वनिसिद्धान्तः, वक्रोक्तिसिद्धान्तः, औचित्यसिद्धान्तः इति । काव्यशास्त्रस्य यावन्तः लाक्षणिकाः सन्ति ते सर्वे  किमपि एकं सिद्धान्तम् आश्रित्य एव लक्षणग्रन्थं रचयामासुः। उपर्युक्तेषु एषु सिद्धान्तेषु ध्वनिसिद्धान्तः सर्वोत्तमः इति विद्वांसः मन्यन्ते । यतो हि आनन्दवर्धनात् पूर्वालङ्कारिकाः काव्यस्य बाह्यसौन्दर्यकारकाः अलङ्कार,रीति,गुणादि वस्तुनिष्ठ काव्यसौन्दर्यं मनसि निधाय तेषां सिद्धान्तान् प्रतिपादितवन्तः। परन्तु आनन्दवर्धनः ध्वन्यालोके सहृदयहृदयाह्लादरूपं सौन्दर्यानुभूतिकारकं अनितरसाधारणभूतव्यङ्यार्थः ध्वनिः एव काव्यस्यात्मा इति निरूप्य  अलङ्कार,रीति,गुणादि प्रचीनकाव्यशास्त्रीयसिद्धान्ताः कथं ध्वनिसिद्धान्तस्य सहकारिणः अङ्गभूताश्च भवन्ति  इति सुव्यस्थितरूपेण समन्वयं प्रदर्शयति । तेन निरूपितः अयं ध्वनिसिद्धान्तः तस्य परवर्तिनाम् आलङ्कारिकाणां कृते मार्गदर्शकः अभवत्। अतः ध्वनिसिद्धान्तमाधारीकृत्य अलङ्कारशास्त्रस्य विकासं त्रिषु भागेषु विभक्तुं शक्यते – ध्वनिपूर्वकालः , ध्वनिकालः , ध्वन्युत्तरकालः इति । ध्वन्युत्तरकाले अनेके कवयः  अलङ्कारशास्त्रस्य अनेकान् ग्रन्थान् विरचय्य   अस्य शास्त्रस्य यशोवृद्धौ तेषां योगदानं समर्पितवन्तः ।

ध्वन्युत्तरकाले यशोभूषणग्रन्थाः इति  एका नूतना  ग्रन्थरचनापद्धतिः  आविष्कृता । काव्येषु लक्षणग्रन्थः लक्ष्यग्रन्थः इति द्वैविध्यं विद्यते । नाट्यशास्त्रं , काव्यालङ्कारः, काव्यादर्शः, ध्वन्यालोकः इत्यादयः लक्षणग्रन्थाः, येषु रस, गुण, रीति, ध्वनि, वक्रोक्ति, अलङ्कारादि काव्यतत्त्वानां विमर्शाः क्रियन्ते । रामायणम्, महाभारतम्, अभिज्ञानशाकुन्तलम्, कुमारसम्भवम्, इत्यादयः लक्ष्यग्रन्थाः। “एकस्मिन्नेव ग्रन्थे लक्ष्यलक्षणयोः समन्वयः  यशोभूषणग्रन्थः”। समान्यतया यशोभूषणग्रन्थाः एवं भवन्ति – काव्यशास्त्रीयतत्त्वानां रसालङ्कारादि तत्त्वानां लक्षणानि उक्त्वा तल्लक्षणसङ्गमनाय आश्रयदातुः  अन्यस्य प्रसिद्धपुरुषस्य वा गुणादीनां वर्णनं लक्ष्यरूपोदाहरणत्वेन तस्मिन्नेव ग्रन्थे प्रतिपाद्यते।

ऐदं प्राथम्येन विद्यानाथेन एषा परम्परा आरब्धा इति विदुषामभिप्रायः। प्रतापरुद्रीयम्(प्रतापरुद्रयशोभूषणम्) इति तेन विरचितस्य यशोभूषणग्रन्थस्य नाम अस्ति । अनेन प्रेरिताः बहवः कवयः यशोभूषणग्रन्थं रचयामासुः। तेषु केषाञ्चित् ग्रन्थानां नामोल्लेखं कर्तुमीष्टे। एकावली – विद्याधरः अस्य ग्रन्थस्य प्रणेता अस्ति ।  शृङ्गारदर्पणः – अस्य ग्रन्थस्य रचयिता अचार्यपद्मसुन्दरः। अलङ्कारमञ्जूषा – देवशङ्कर पुरोहितः काव्यमिमं प्रणिनाय। नञ्जराजयशोभूषणम्  –  नरसिंहकविः यशोभूषणमिमं निरमात् । श्रीनृसिंहसुधी(नरसिंहाचार्यः) विरचितस्य “श्रीशठवैरिवैभवप्रभाकरः” इति ग्रन्थः यशोभूषणग्रन्थपरम्परायां अन्यतमः । नरसिहाचार्यः  श्रीवैष्णपरम्परायाः आद्याचार्यः इति प्रथितयशसः शठवैरेः(नम्माळ्वर्) गुणवैभवान् प्रकाशयितुम् इयं यशोभूषणग्रन्थं रचयामास।

 अस्य ग्रन्थस्य वैशिष्ट्यम् इदमस्ति नरसिंहाचार्यः अप्पय्यदीक्षितस्य कुवलयानन्दग्रन्थमाश्रित्य स्वग्रन्थे लक्षणवृत्तीनां निरूपणमकरोत् । अतः ग्रन्थप्रतिपादनशैल्याम् अपि कुवलयानन्दस्य प्रभावः दृश्यते । अप्पय्यदीक्षितः चन्द्रालोकस्य पञ्जममयूखमाश्रित्य कुवलयानन्दम् अरचयत्। ग्रन्थारम्भे एव केचन नूतनांशाः मया योजिताः इति अप्पय्यदीक्षितः कथयति। कुवलयानन्दे उपमादारभ्य संसृष्ट्यलङ्कारपर्यन्तं भेदोपभेदं ११७ अर्थालङ्काराणां निरूपणं कृतम्। कुवलयानन्दे निरूपितान् भेदोपभेदसहितान् ११७ अर्थालङ्कारान्   शठवैरिवैभवप्रभाकरकारः यथावत् अङ्गीकरोति ।

चन्द्रालोके – कारिकायामेव   श्लोकस्य प्रथमपादे लक्षणं द्वितीयपादे उदाहरणं च योजितम् । कारिकायाः आशयं सूचयितुं वृत्तिं वा अन्योदाहरणं वा न लक्षितम्।

कुवलयानन्दे – इदमभावमवगम्य अप्पय्यदीक्षितः कारिकाभिः सह तासां तात्पर्यार्थं स्पष्टीकर्तुं  वृत्तीनां संयोजनं कृत्वा क्लिष्टस्थलेषु पृथगुदाहरणान्यपि योजयित्वा कारिकायाः आशयं स्पष्टं विशदयति । अप्पय्यदीक्षितः कतिचिदलङ्कारान् अत्यन्तं प्रौढशैल्या निरूपयन् स्वप्रतिभायाः पाण्डित्यस्य च परिचयं करोति । 

शठवैरिवैभवप्रभाकरे – ग्रन्थप्रतिपादनशैल्यां नरसिंहाचार्यः  किञ्चित् परिष्कारमाविष्कृत्य स्वप्रतिभां प्रदर्शयति । चन्द्रालोके कुवलयानन्दे च कारिका श्लोके एव लक्षणोदाहरणम् निर्दिष्टम्।  शठवैरिवैभवप्रभाकरे समान्यतया प्रत्येकस्यापि अलङ्कारस्य आरम्भे तत्तदलङ्कारस्य सामान्यपरिचयं, अस्य भेदान् च समालोचयति । अनन्तरं अनुष्टुप् च्छन्दसि कारिकानिरूपणं करोति । तदनन्तरम् उदाहरणम् उक्तम् । वृत्तयश्च सरलभाषया विलिखिताः। एवं क्रमेण निरूप्य अध्येतॄणां कृते सौलभ्यमेव कल्पितम् नरसिंहाचार्येण । ११७ अलङ्कारेभ्यः अपि स्वतन्त्रोदाहरणानि  लिखित्वा स्वप्रतिभां प्रदर्शयति । प्रमाणालङ्काराणां कारिकाः अस्य प्रतिभाशक्तेः द्योतकाः सन्ति ।

श्रीशठवैरिवभवप्रभाकरस्योपरि कुवलयानन्दस्य प्रभावं दर्शयितुम् उभयोः ग्रन्थयोः उपमालङ्कारस्य लक्षणं प्रस्तौमि । 

कुवलयानन्दे उपमा लक्षणम् –  उपमा यत्र सादॄश्यलक्ष्मीरुल्लसतिद्वयोः॥

यत्रोपमानोपमेययोः सहृदयहृदयाह्लादितया चारु सादृश्यमुद्भूतयोल्लसति = व्यङ्यमर्यादां विना स्पष्टं प्रकाशते तत्रोपमालङ्कारः।

शठवैरिवैभवप्रभाकरे  – कविसम्मतसादृश्यं व्यङ्ग्यव्यापारमन्तरा ।

                    द्वयोः प्रकाशते स्पष्टं यत्र तत्रोपमा मता ॥४३॥

विमर्शः – शठवैरिवैभवप्रभाकरे  उपमालङ्कारस्य लक्ष्यलक्षणनिरूपणात् पूर्वम् अलङ्कारस्य सामान्यविषयं एवं उक्तम् – “अलङ्काराः पुनर्द्विविधाः शब्दगता अर्थगताश्चेति । तत्र शब्दालङ्कारापेक्षया चारुतातिशयहेतुत्वादर्थालङ्काराः प्रकाश्यन्ते । तेषां मध्ये प्रधानत्वादुपमा तावन्निरूप्यते । यथा – सा च समासेन  द्विविधा – पूर्णा लुप्ता चेति । उपमानोपमेयसाधारणधर्मोपमावाचकानां चतुर्णां प्रयोगे पूर्णा । उपमानं चन्द्रादि । उपमेयं मुखादि । आह्लादकरत्वादिः साधारणधर्मः । इवादिः उपमावाचकः । एतेषामन्यतमानुपादाने लुप्ता” इति  लक्ष्यलक्षणं च पृथगेव निरूपितम्। 

  कविसम्मतसादृश्यं व्यङ्ग्यव्यापारमन्तरा ।

द्वयोः प्रकाशते स्पष्टं यत्र तत्रोपमा मता ॥४३॥

यत्र = यस्मिन् काव्ये , द्वयोः = उपमानोपमेययोः, कविसम्मतसादृश्यं = कविभिः अङ्गीकृतं काव्यनिष्ठं चमत्कारजनकं सादृश्यं , व्यङ्ग्यव्यापारमन्तरा स्पष्टं प्रकाशते =अभिधावृत्यैव  चारु दृश्यते, तत्रोपमा मता= तत्र उपमालङ्कारः इति शास्त्रीयसिद्धान्तः। गो सदृशो गवयः इत्यादि वाक्येष्वपि उपमा दृश्यते, परन्तु एतादृशवाक्येषु   रमणियार्थप्रतिपादकाभावात्, चमत्कारविरहत्वात्, काव्यनिष्ठत्वाभावाच्च सहृदयस्य हृदये आह्लादकत्वम् जनयितुमसमर्थाः इति हेतोः कविसम्मतसादृश्यानि भवितुं नार्हन्ति। एतादृशवाक्येषु अतिव्याप्तिवारणाय कविसम्मतसादृश्यमिति पदं लक्षणे सहृदयहृदयाह्लादित्वेन चारुतरं सादृश्यमिति पदं वृत्तौ च योजितम् । सादृश्यस्य व्यङ्यरूपे प्रतीयमाने सति उपमालङ्कारो न भवति प्रत्युत ध्वनिकाव्यमेवेति परिगण्यते । अतः तद्दोषनिवारणार्थं व्यङ्ग्यव्यापारमन्तरा स्पष्टं प्रकाशते इति लक्षणवाक्ये उक्तम् । आनन्दवर्धनोत्तरकालीनालङ्कारिकाणामुपरि ध्वनिसिद्धान्तस्य प्रभावः अनेन स्पष्टमवभासते।

अप्पय्यदीक्षितः कुवलयानन्दे – “उपमा यत्र सादॄश्यलक्ष्मीरुल्लसतिद्वयोः” इति लक्षणं विलिख्य यत्र उपमानोपमेययोः  सहृदयहृदयाह्लादितया चारुसादृश्यमुद्भूततयोल्लसति तत्र उपमालङ्कारः इति वृत्तिं लिखति  । अत्र उद्भूततयोल्लसति = व्यङ्यमर्यादां विना स्पष्टं प्रकाशते इत्यर्थः भवति। एतदेवांशं नरसिंहाचार्यः व्यङ्ग्यव्यापारमन्तरा स्पष्टं प्रकाशते =अभिधावृत्त्यैव चारु दृश्यते इति अत्यन्तस्पष्टतया लक्षणे एव दर्शयति । सादृश्यं कविसम्मतं भवेदिति स्पष्टं सूचयति। 

लुप्तोपमा – प्रायः सर्वे‍ऽप्यालङ्कारिकाः उपमाभेदं निरूपितवन्तः । नाट्यशास्त्रे भरतः  – प्रशंसोपमा, निन्दोपमा, कल्पितोपमा, सदृशी उपमा, किञ्चित् सदॄशी उपमा पञ्च उपमाप्रकारान् निर्दिशति। दण्डी तस्य उपमाप्रपञ्चे ३२ प्रकारान् सोदाहरणं प्रदर्शयति । पण्डितराज विश्वनाथः स्वीये साहित्यदर्पणे पूर्णा लुप्ता इति प्रधानतया भेदद्वयं प्रदर्श्य तयोः मध्ये भेदोपभेदपूर्वक २५ प्रकारान् दर्शयति। अप्पय्यदीक्षितः कुवलयानन्दे पूर्णा लुप्ता इति भेदं कृत्वा लुप्तोपमायां अष्टप्रकारं प्रदर्शयति । तमेवानुसरति नरसिंहाचार्यः।

कुवलयानन्दे – वर्ण्योपमानधर्माणामुपमावाचकस्य च । 

एक –द्वि –त्र्यनुपादानाद्भिन्ना लुप्तोपमाष्टधा॥

तडिद्गौरीन्दुतुल्यास्या कर्पूरन्ती दृशोर्मम ।

 कान्त्या स्मरवधूयन्ती दृष्ट्वा तन्वी रहो मया॥

यत्तया मेलनं तत्र लाभो मे यश्च तद्रतेः । 

तदेत्काकतालीयमवितर्कितसम्भवम्

उपमेयादीनां चतुर्णां मध्ये एकस्य द्वयोस्त्रयाणां वा प्रतिपादकशब्दाभावे  लुप्तोपमेत्युच्यते। सा अष्टधा – वाचकलुप्ता, धर्मलुप्ता, धर्मवाचकलुप्ता, वाचकोपमेयलुप्ता, उपमानलुप्ता, वाचकोपामानलुप्ता, धर्मोपमानलुप्ता, धर्मोपमानवाचकलुप्ता चेति । तत्र उपमानलोपरहिताः चत्वारो भेदाः तडिद्गौरीत्यादि श्लोकेन प्रदर्शिताः। तद्वन्तो भेदा उत्तरश्लोकेन दर्शिताः।

विमर्शः  – अयं लुप्तोपमाविभागस्य विवरणं चन्द्रालोके न दृश्यते। अप्पय्यदीक्षितेन अत्र योजितः नूतनांशः अस्ति । तत्र उपमेयादीनां चतुर्णां मध्ये एकस्य द्वयोस्त्रयाणां वा प्रतिपादकशब्दाभावे  लुप्तोपमेत्युच्यते इत्यस्ति। नरसिहाचार्यः इदमेव  वृत्तौ अत्यन्त स्पष्टतया एवं निरूपयति –लुप्ता तु  अष्टविधा – उपमेयादीनां चतुर्णां मध्ये वाचकस्य वा धर्मस्य वा धर्मवाचकयोर्वा वाचकोपमेययोर्वा उपमानस्य वा वाचकोपमानयोर्वा धर्मोपमानयोर्वा धर्मोपमानवाचकानां वा अनुपादाने सति क्रमेण वाचकलुप्ता, धर्मलुप्ता, धर्मवाचकलुप्ता, वाचकोपमेयलुप्ता, उपमानलुप्ता, वाचकोपामानलुप्ता, धर्मोपमानलुप्ता, धर्मोपमानवाचकलुप्ता चेति कुवलयानन्दकारमेवानुसरति।  । लक्षणमपि एवं लिखति –

उपमानस्य वर्ण्यस्य धर्मवाचकयोस्तथा ।

एकद्वित्र्यप्रयोगेण लुप्ता भवति साष्टधा॥४६॥ 

अप्पय्यदीक्षितेन लुप्तोपमानानां लक्ष्यनिरूपणार्थं  श्लोकद्वयं निरूप्य तत्र उपमानलोपरहिताः चत्वारो भेदाः तडिद्गौरीत्यादि श्लोकेन प्रदर्शिताः।  अवशिष्टभेदाः उत्तरश्लोकेन दर्शिताः। 

तडिद्गौरी, इन्दुतुल्यास्या, मम दॄशो कर्पूरन्ती, कान्त्या स्मरवधूयन्ती, तन्वी मया, रहः दृष्टा । अनेन श्लोकेन उपमानलोपरहिताश्चत्वारो भेदाः एवं निरूपिताः।

वाचकलुप्ता – तडिद्गौरी तन्वी मया  रहसि दृष्टा ।

धर्मलुप्ता – इन्दुतुल्यास्या तन्वी मया  रहसि दृष्टा ।

धर्मवाचकलुप्ता – मम दृशोः कर्पूरन्ती तन्वी मया  रहसि दृष्टा ।

 वाचकोपमेयलुप्ता – कान्त्या स्मरवधूयन्ती मया  रहसि दृष्टा ।

तत्र तया यत् मेलनं तद्रतेः मे  यश्च लाभः तद् एतत् अवितर्कितसम्भवम्, काकतालीयमासीत्।अनेन श्लोकेन उपमानलोपसहिताः – उपमानलुप्ता – वाचकोपामानलुप्ता – धर्मोपमानलुप्ता धर्मोपमानवाचकलुप्ता  इति चतुर्णां भेदानां लक्ष्यं निरूपितम् ।

नरसिहाचार्यः लुप्तोपमानानां लक्ष्यनिरूपणावसरे प्रत्येकस्यापि लुप्तोपमायाः कृते प्रत्येकं श्लोकमेव लिखति । वृत्तौ सरलतया लक्षणसमन्वयम् करोति । उदाहरणार्थं प्रथमभेदं अष्टमभेदं च अत्र प्रस्तौमि।

  • तत्र वाचकलुप्ता यथा –

चन्द्रिकाधवळामंसे  बिभ्रद्वकुळमालिकाम्।

विधत्ते जगदानन्दं सुन्दरः कारिनन्दनः ॥५१॥  

अत्र चन्द्रिकोपमानम्, धवलत्वं साधारणधर्मः, वकुळमालिकोपमेयम्  एषामेवोपादानात् । चन्द्रिकाधवलामि त्यत्र चन्द्रिकेव धवळेत्यर्थे विवक्षिते  उपमानानि सामान्यवचनैरिति समासविधायकशास्त्रेण वाचकस्येव शब्दस्य लुप्तत्वात् भवति वाचकलुप्ता । 

    8) धर्मोपमानवाचकलुप्ता यथा – 

शुकीयते पुनर्वाणी किं शुकीयति संप्रति ।

रदनांशुकजा कान्तिः कारिसूनोर्महीयसः ॥५८॥

अत्र शुककिंशुकशब्दाभ्यां वचनच्छाये विवक्षिते तेन शुककिंशुकवचनछायारूपयोः उपमानयोरुपमानवाचकस्य माधुर्य दर्शनीयत्वादि साधारणधर्मस्य च अनुपादानाद् वाण्यादि उपमेयम् उपात्तमिति भवति धर्मोपमानवाचकलुप्ता । अस्यां लुप्तोपमायाम् उपमानलोप – रहिताश्चत्वारो भेदा उपमानलोपसहितास्तद्वन्तो भेदाः । इत्युपमा निरूपिता ।

उपमानिरूपणारम्भे  सा च समासेन  द्विविधा – ‘पूर्णा लुप्ता’ चेति वदति, अन्त्ये अस्यां लुप्तोपमायामुपमानलोपरहिताश्चत्वारो भेदा उपमानलोपसहिताः चत्वारो भेदाश्च इति लुप्तोपमा केवलमष्टविधा इति वदति । अनया वाक्ययोजनया इतरालङ्कारिकाणां मतनिराकरणमपि नरसिंहाचार्येण कृतमिति  वक्तुं पारयामः । अपि च शठवैरिवैभवप्रभाकरस्य लक्षणानामवलोकनेन  एतेषां लक्षणानामुपरि कुवलयानन्दस्य प्रभावः स्पष्टं ज्ञायते ।

कुवलयानन्दकारः रूपकालङ्कारस्य अधिकाभेदरूपकम्,  न्यूनाभेदरूपकम्, अनुभयभेदरूपकम्,  अधिकतद्रूप्यरूपकम्,  न्यूनताद्रूप्यरूपकम्, अनुभयताद्रूप्यरूपकम् इति क्रमेण रूपकभेदान् वदति । 

एतान् षड् भेदान् एव शठवैरिवभवप्रभाकरकारः अपि स्वीकरोति ।

कुवलयान्दकारोक्तस्मृतिभ्रान्तिसन्देहालङ्काराणां लक्षणोदाहरणानि चन्द्रालोकात् यथावत् स्वीकृतानि सन्ति। चन्द्रालोककारात् पूर्वालङ्कारिकाः सर्वे स्मृत्यलङ्कारः, भ्रान्तिमान्, सन्देहालङ्कारः इति पृथक्तया एव  एतेषाम् अलङ्काराणां निरूपणम् अकुर्वन्। चन्द्रालोककारः स्वप्रतिभया एतेषां त्रयाणामप्यलङ्काराणां लक्षणं एकस्मिन्नेव श्लोके समायोजितवान् कुवलयानन्दकारः नरसिंहाचार्यौ   लक्षणनिरूपणावसरे एनम् अनुसृतवन्तौ कुवलयानन्दकारोक्तस्य लक्षणवृत्योः समष्ट्यभिप्रायं नरसिंहाचार्यः तस्य लक्षणश्लोके एव योजयति यद्यपि कुवलयानन्दकारेण स्मृतिभ्रान्तिसन्देहालङ्काराणां पृथक् निरूपणं कृतम्। परन्तु तेनोक्तस्य लक्ष्यलक्षणयोः समन्वयवमलोक्य एतेषामलङ्काराणां सामान्यनियमम् एवं वक्तुं शक्यते –  

.यत्र सदृशवस्तुदर्शनेन सदृशान्तरस्य अन्यवस्तुनः स्मरणं जायते  तत्र स्मृतिमान्                                                               . यत्र सदृशवस्तुदर्शनेन सदृशान्तरस्य अन्यवस्तुनः भ्रमः जायते तत्र भ्रान्तिमान्

 . यत्र सदृशवस्तुदर्शनेन सदृशान्तरस्य अन्यवस्तुनः सन्देहः जायते तत्र ससन्देहः

 

नरसिंहाचार्यस्तु स्मृतिभ्रान्तिसन्देहालङ्काराणां सामन्यनियमं लक्षणनिरूपणात् पूर्वम् एवम् दर्शयति –

१.यत्र कविसम्मतसादृश्याद्विषयविषयिणोरन्यतरनिरीक्षणेनान्यत्र स्मृतिर्निबध्यते तत्र स्मृतिमदलङ्कारः

२.यत्र विषये विषयिभ्रमो निबध्यते तत्र भ्रान्तिमान्॥                                                      ३.यत्र विषयविषयिणोः  साधारणधर्मदर्शनाद्वैलक्षण्यादर्शनाच्च सन्देहो निबध्यते तत्र सन्देहालङ्कार: इति निर्णय:।

नरसिंहाचार्यः स्मृतिभ्रान्तिसन्देहालङ्काराणां सामन्यनियमनिरूपणावसरे कविसम्मतसादृश्यात् इति पदं योजयित्वापर्वतो ह्निमान् धूमात्यथा महानसादौइति संस्कारवशात् स्मृतिर्जायते, रज्जुं दृष्ट्वा सर्पभ्रमः उत्पद्यते, अयं स्थाणुर्वा पुरुषो वा इति सन्देहः भावतिइत्यादि लौकिकवाक्येषु अतिव्याप्तिं निवारयति। अनेन  चमत्कृतिजनक स्मृतिभ्रान्तिसन्देहवाक्यानि एव अलङ्काराः भवितुमर्हन्ति इति सिद्धोऽभवत् एवम्  कुवलयानन्दस्य प्रभावः शठवैरिवैभवप्रभाकरे निरूपितेषु अलङ्कारलक्षणेषु दृश्यते।

अतिशयोक्त्यलङ्कारस्य निरूपणावसरे कुवलयानन्दकारः अष्टभेदान् दर्शितवान् । ते  च रूपकातिशयोक्ति:, सापह्नवातिशयोक्तिः, भेदकातिशयोक्ति:, सम्बन्धातिशयोक्ति:, असम्बन्धातिशयोक्ति:, अक्रमातिशयोक्ति:, चपलातिशयोक्ति:, अत्यन्तातिशयोक्ति: इति । परन्तु नरसिंहाचार्यः शठवैरिवैभवप्रभाकरग्रन्थे अतिशयोक्तेः भेदेषु किञ्चित् परिवर्तनं कृत्वा सापह्नवातिशयोक्तिः रूपकातिशयोक्तेः उपभेदः इति परिगणयति। अतः अस्य मते अतिश्योक्त्यलङ्कारस्य सप्तभेदाः एव  भवन्ति । 

एवं शठवैरिवभवप्रभाकरग्रन्थे  सर्वेषाम् अलङ्काराणामुपरि कुवलयानन्दस्य प्रभावः दृश्यते।

 सहायकग्रन्थसूची

  1. कुवलयानन्दः – श्रीमदप्पय्यदीक्षितविरचितः, ‘रसिकरञ्जनी’ संस्क्रुतटीका तथा आचार्य – जयशङ्करलाल त्रिपाठी विरचित ‘भावबोधिनी’  हिन्दीव्याख्यासहित – चौखाम्बा संस्कृत ग्रन्थमाला -१२१ , वाराणसी –  संस्करणम् – २००६ ई०
  2. अलङ्कारशास्त्रस्येतिहासः – डा. जगदीश्चन्द्रमिश्रः  – चौखाम्बा सुरभारती ग्रन्थमाला -१०१ , वाराणसी –  संस्करणम् – २०१७ ई०
  3. अलङ्कारसर्वस्व – रुय्यकविरचितः , जयरथकृत ‘विमर्शिनी’ राजानकरुय्यकप्रणीत  ‘सहृदयलीला’ सहितः – व्याख्याकारः  – डा. रेवाप्रसाद द्विवेदी  – – श्री काशी संस्कृत ग्रन्थमाला -२०६ , चौखाम्बा संस्कृत संस्थान,  वाराणसी  –  संस्करणम् – २०१६ ई० ISBN: 86-86937-41-2
  4. काव्यालङ्कार – रुद्रट प्रणीतः –अंशुप्रभाऽऽख्य – हिन्दीव्याख्या –सहित  – परिमल संस्कृत ग्रन्थमाला -३० , परिमल पब्लिकेशन्स –दिल्ली –  संस्करणम् – २०१६ ई० ISBN: 978-81-7110-534-2
  5. काव्यादर्शः – महाकविदण्ड्याचार्यविरचितः  –  व्याख्याकारः  -आचार्यः श्रीरामचन्द्रमिश्रः  -विद्याभवन संस्कृत ग्रन्थमाला -, चौखाम्बा संस्कृत प्रतिष्ठान,  वाराणसी  –  संस्करणम् – १९९१  ई० 
  6. चन्द्रालोकः – पीयूषवर्ष श्रीजयदेवविरचितः  – सविमर्श ‘प्रकाश’ हिन्दीव्याख्योपेतः (पञ्चमो मयूखः) –हरिदास संस्कृत ग्रन्थमाला – २६५ – चोखाम्बा विद्याभवन वाराणसी – संस्करणम् – १९६९  ई०
  7. सरस्वतीकण्ठाभरणम् – भोजदेवकृतम् – रत्नेश्वरमिश्रकृतया  ‘रत्नदर्पण’ व्याख्या संवलितम् – व्याख्याकारः – डा. कामेश्वरनाथ मिश्र – चोखाम्बा प्राच्यविद्या ग्रन्थमाला – चौखम्बा ओरियन्टालिया –दिल्ली –  ०४ – संस्करणम् – २०००  ई०
  8. ध्वन्यालोकः – श्रीमदानन्दवर्धनाचार्यप्रणीतः , श्रीमदभिनवगुप्तविरचित ‘लोचन’ समन्वितः ,  हिन्दी व्याख्याता  , डा. गङ्गासागर रायः – चोखाम्बा संस्कृत  भवन सीरीज  वाराणसी -४२,  – संस्करणम् – २००४  ई०
  9. नाट्यशास्त्रम् –  भरतमुनिप्रणीतम्  – श्रीमदाचार्य अभिनवभारतीविवृत्या सहितं साहित्याचार्य श्री मधुसूधन एम्. ए. वर्यैः सम्पादितम् , काशी हिन्दूविश्वविद्यालयीय संस्कृतसाहित्यानुसन्धान समितेः चतुर्थपुष्पम् – संस्करणम् – १९७१  ई०
  10. History of Classical Sanskrit Litreture – by  M Krishnamachariar 

Printed at Tirumalai –tirupati Davasthanams Press,  Madras -1937 .

  1. ¸ÀA¸ÀÌøvÀ PÁªÀå±Á¹ÛçÃAiÀÄ ¹zÁÞAvÀUÀ¼ÀÄ qÁ. JªÀiï. ²ªÀPÀĪÀiÁgÀ ¸Áé«Ä, ¨sÁgÀ« ¥ÀæPÁ±À£À ¨ÉAUÀ¼ÀÆgÀÄ -2004
  2. ¸ÀA¸ÀÌøvÀ ¸Á»vÀåzÀ EwºÁ¸À – ¯ÉÃRPÀgÀÄ DZÁAiÀÄð §®zÉêÀ G¥ÁzsÁåAiÀÄ, C£ÀĪÁzÀPÀgÀÄ J¸ï. gÁªÀÄAZÀAzÀæ ±Á¹Ûç,

 ¥Àæ¸ÁgÁAUÀ ¨ÉAUÀ¼ÀÆgÀÄ «±Àé«zÁ央AiÀÄ, ¨ÉAUÀ¼ÀÆgÀÄ.

  1. PÀĪÀ®AiÀiÁ£ÀAzÀ C¥ÀàAiÀÄå¢ÃQëvÀ«gÀavÀ, C£ÀĪÁzÀPÀgÀÄ   qÁ.n.f. ¹zÀÞ¥Àà DgÁzsÀå,  ªÀÄÄzÀæPÀgÀÄ ²æÃ ¨sÁ¸ÀÌgÀ ¦æAlgïì ªÉÄʸÀÆgÀÄ –  ¢éwÃAiÀÄ ªÀÄÄzÀæt -1987      
  2.  श्रीशठवैरिवैभवप्रभाकरः – रचयिता श्रीनरसिंहाचार्यः 

 

संक्षेपिका

अनुसन्धाता 

श्री गिरीश भट्टः

संस्कृतसंशोधना एवं स्नातकोत्तर अध्ययनविभागः

ज्ञानभारती आवरणम् ,  बेङ्गलूरु विश्वविद्यालयः, बेङ्गलूरु .

9481888268

girishbhatshamemane@gmail.com

श्री नृसिंहसुधीविरचितस्य `श्रीशठवैरिवभवप्रभाकरः’ इति ग्रन्थस्योपरि 

श्री अप्पय्यदीक्षितविरचितस्य कुवलयानन्दस्य प्रभावः।

 

संस्कृतवाङ्ग्मये अलङ्कारशास्त्रस्य विशिष्टं स्थानं वर्तते । अस्य शास्त्रस्य सिद्धान्तानां प्रतिपादनं प्रायः २००० वर्षात् प्रागेव आरब्धमिति विदुषाम् अभिप्रायः। अलङ्कारशास्त्रस्य (काव्यशास्त्रस्य)  सिद्धान्ताः भरतादारभ्य अप्पय्यदीक्षित जगन्नाथपण्डितपर्यन्तं विविधस्तरेषु   विकसिताः। काव्यशास्त्रस्य यावन्तः लाक्षणिकाः सन्ति ते सर्वे  किमपि एकं सिद्धान्तम् आश्रित्य एव लक्षणग्रन्थं रचयामासुः।  एषु सिद्धान्तेषु ध्वनिसिद्धान्तः सर्वोत्तमः इति विद्वांसः मन्यन्ते । यतो हि आनन्दवर्धनात् पूर्वालङ्कारिकाः काव्यस्य बाह्यसौन्दर्यकारकाः अलङ्कार,रीति,गुणादि वस्तुनिष्ठ काव्यसौन्दर्यं मनसि निधाय तेषां सिद्धान्तान् प्रतिपादितवन्तः। परन्तु आनन्दवर्धनः ध्वन्यालोके सहृदयहृदयाह्लादरूपं सौन्दर्यानुभूतिकारकं अनितरसाधारणभूतव्यङ्यार्थः ध्वनिः एव काव्यस्यात्मा इति निरूप्य  अलङ्कार,रीति,गुणादि प्रचीनकाव्यशास्त्रीयसिद्धान्ताः कथं ध्वनिसिद्धान्तस्य सहकारिणः अङ्गभूताश्च भवन्ति  इति सुव्यस्थितरूपेण समन्वयं प्रदर्शयति । तेन निरूपितः अयं ध्वनिसिद्धान्तः तस्य परवर्तिनाम् आलङ्कारिकाणां कृते मार्गदर्शकः अभवत्।अतः ध्वनिसिद्धान्तमाधारीकृत्य अलङ्कारशास्त्रस्य विकासं त्रिषु भागेषु विभक्तुं शक्यते – ध्वनिपूर्वकालः , ध्वनिकालः , ध्वन्युत्तरकालः इति । ध्वन्युत्तरकाले अनेके कवयः  अलङ्कारशास्त्रस्य अनेकान् ग्रन्थान् विरचय्य   अस्य शास्त्रस्य यशोवृद्धौ तेषां योगदानं समर्पितवन्तः ।

ध्वन्युत्तरकाले यशोभूषणग्रन्थाः इति  एका नूतना  ग्रन्थरचनापद्धतिः  आविष्कृता । “एकस्मिन्नेव ग्रन्थे लक्ष्यलक्षणयोः समन्वयः  यशोभूषणग्रन्थः”। 

ऐदं प्राथम्येन विद्यानाथेन एषा परम्परा आरब्धा इति विदुषामभिप्रायः। प्रतापरुद्रीयम्(प्रतापरुद्रयशोभूषणम्) इति तेन विरचितस्य यशोभूषणग्रन्थस्य नाम अस्ति । अनेन प्रेरिताः बहवः कवयः यशोभूषणग्रन्थं रचयामासुः। श्रीनृसिंहसुधी(नरसिंहाचार्यः) विरचितस्य “श्रीशठवैरिवैभवप्रभाकरः” इति ग्रन्थः यशोभूषणग्रन्थपरम्परायां अन्यतमः । नरसिहाचार्यः  श्रीवैष्णपरम्परायाः आद्याचार्यः इति प्रथितयशसः शठवैरेः(नम्माळ्वर्) गुणवैभवान् प्रकाशयितुम् इयं यशोभूषणग्रन्थं रचयामास।

 अस्य ग्रन्थस्य वैशिष्ट्यम् इदमस्ति नरसिंहाचार्यः अप्पय्यदीक्षितस्य कुवलयानन्दग्रन्थमाश्रित्य स्वग्रन्थे लक्षणवृत्तीनां निरूपणमकरोत् । अतः ग्रन्थप्रतिपादनशैल्याम् अपि कुवलयानन्दस्य प्रभावः दृश्यते । अप्पय्यदीक्षितः चन्द्रालोकस्य पञ्जममयूखमाश्रित्य कुवलयानन्दम् अरचयत्। कुवलयानन्दे उपमादारभ्य संसृष्ट्यलङ्कारपर्यन्तं भेदोपभेदं ११७ अर्थालङ्काराणां निरूपणं कृतम्। कुवलयानन्दे निरूपितान् भेदोपभेदसहितान् ११७ अर्थालङ्कारान्   शठवैरिवैभवप्रभाकरकारः यथावत् अङ्गीकरोति ।

चन्द्रालोके कुवलयानन्दे च कारिका श्लोके एव लक्षणोदाहरणम् निर्दिष्टम्।  शठवैरिवैभवप्रभाकरे समान्यतया प्रत्येकस्यापि अलङ्कारस्य आरम्भे तत्तदलङ्कारस्य सामान्यपरिचयं, अस्य भेदान् च समालोचयति । अनन्तरं अनुष्टुप् च्छन्दसि कारिकानिरूपणं करोति । तदनन्तरम् उदाहरणम् उक्तम् । वृत्तयश्च सरलभाषया विलिखिताः। 

श्रीशठवैरिवभवप्रभाकरस्योपरि कुवलयानन्दस्य प्रभावं दर्शयितुम् उभयोः ग्रन्थयोः उपमालङ्कारस्य लक्षणं प्रस्तौमि । रूपकालङ्कारस्य भेदान् दर्शयामि । स्मृतिभ्रान्तिसन्देहालङ्काराणां विषयानुपस्थापयामि ।