शाब्दबोधे योग्यताविचार:

[vc_row][vc_column][rev_slider_vc alias=”about-3″][vc_column_text el_class=”articles”]

शाब्दबोधे योग्यताविचार:

शोधसारांशः – शोधपत्रेऽस्मिन् योग्यताविषयकाचार्याणां मतानि विवक्षितानि सन्ति। योग्यताज्ञानं शाब्दबुद्धौ हेतु:। अत्रैका शङ्का, योग्यताज्ञानशाब्दबोधयोर्मध्ये न कोऽपि भेद:, विशेष्यपदार्थे विशेषणपदार्थवत्ताविषयक: शाब्दबोध:, अयमेव योग्यताज्ञानस्य विषयरूपे उल्लिख्यते। उचितं यत् शाब्दधियं प्रति योग्यताज्ञानस्य हेतुता नास्ति। अपरञ्च सन्देहस्थलं, शाब्दबोधकार्यं प्रति योग्यताज्ञानं कारणमस्ति न वा? प्राच्याः नैयायिकास्तु योग्यताज्ञानं शाब्दबुद्धौ अनिवार्यं मन्यन्ते परन्तु नव्यनैयायिकानां मते योग्यताज्ञानं शाब्दबोधे न कारणम्, अपितु अयोग्यतानिश्चयं शाब्दबोधे प्रतिबन्धकम्। एतादृशाः शङ्काः विवेच्य शास्त्रीयं निराकरणमस्मिन् शोधपत्रे प्रदत्तम्।

शाब्दबोधे योग्यताविचार:

न्यायदर्शनस्य परम्परायां आसत्तियोग्यताकाङ्क्षातात्पर्यज्ञानं शाब्दबोधस्य सहकारिकारणेषु स्वीक्रियते। शोधपत्रेऽस्मिन् योग्यताविषयकाचार्याणां मतानि विवक्षितानि सन्ति। सामान्यरूपे वाक्यस्थपदानामर्थेषु पारस्परिक्यनुकूलता योग्यता। योग्यता अर्थे वर्तते, अत: योग्यता अर्थनिष्ठा। वस्तुत: प्रत्येकस्य पदस्य एको विशिष्टो अर्थो भवति, यदा शब्देषु एकस्यार्थस्य अन्यै: अर्थै: सह सम्बन्धो भवति तदा योग्यता, नान्यथा। योग्यताविरहे पदसमूहो वाक्यं न भवितुं शक्नोति।

गङ्गेशोपाध्यायमतानुसारं योग्यताविमर्श: – तत्त्वचिन्तामणौ अन्यमतानि निरस्य गङ्गेशोपाध्याय: स्वमतं प्रस्तौति, तेनानुसारेण ‘बाधकप्रमाविरहो योग्यता।’ एकपदार्थस्य संसर्गे अपरपदार्थनिष्ठात्यन्ताभावस्य प्रतियोगिज्ञानस्य विशेष्याभाव: योग्यता। ‘पयसा सिञ्चति’ वाक्येऽस्मिन् ‘सेके पयोनिष्ठकरणतानिरूपकसम्बन्धस्य अभाव:’ इत्यस्या: प्रमाया: अभाव:, अर्थात् सेके पयोनिष्ठकरणतानिरूपकसंसर्गोऽस्ति। अर्थात् सेके पयोनिष्ठकरणतानिरूपकत्वमस्ति, पयसि सेचनक्रियाया: संसर्गोऽस्ति। अत: योग्यतायुतादेतस्माद्वाक्याद् शाब्दबुद्धिर्भवति। अस्य विपर्यये ‘वह्निना सिञ्चति’ इत्यत्र वह्निनिष्ठकरणतानिरूपकसम्बन्धस्य सेके अभाव:, इयमेव प्रमा भवति, बाधकप्रमाविरहो नास्ति। अनेन योग्यताभावाद् शाब्दबोधोऽपि न जायते।

विश्वनाथमतानुसारं योग्यताविमर्श: – कारिकावल्यां आचार्य: विश्वनाथ: योग्यताया: लक्षणं प्रदर्शयति,‘पदार्थे तत्र तद्वत्ता योग्यता परिकीर्त्तिता।’  लक्षणेऽस्मिन् ‘तत्’ पदेन ‘अपरपदार्थस्य’ ग्रहणं भवति। शाब्दबोधस्थले एकस्मिन् पदार्थे अपरपदार्थवत्ता योग्यता। सारल्येन कथयितुं शक्यते यत् विशेष्यपदार्थे विशेषणपदार्थवत्ता, अन्यशब्देषु ‘अपरपदार्थसम्बन्ध:’ अप्यभिधीयते।

स्ववृत्तौ न्यायसिद्धान्तमुक्तावल्यां स्पष्टीकुरुते आचार्य: यत् ‘एकपदार्थेऽपरपदार्थसंबन्धो योग्यतेत्यर्थः।’ यथा ‘जलेन सिञ्चति’ इत्यत्र विशेष्ये सेचनक्रियायां विशेषणं जलमस्ति स्वनिष्ठकरणतानिरूपकत्वसम्बन्धेन। जलमस्ति सेचनक्रियाया: करणं, जले करणता वर्तते, तस्य करणताया: निरूपकमस्ति सेचनम्। स्व= जलम्, स्वनिष्ठकरणता= जलनिष्ठकरणता। अत: अनेन सम्बन्धेन अत्र योग्यता वर्तते, इत्थमत्र योग्यताज्ञानाद् शाब्दबोधो भवति। योग्यताज्ञानाभावे न शाब्दबोध:, यथा ‘वह्निना सिञ्चति’ स्थलेऽस्मिन् सेचनक्रियाया: करणं वह्नि: कदापि न भवितुं शक्नोति, वह्नौ सेचनक्रियाया: करणताभाव:। योग्यताविरहात् शाब्दधीर्न जायते। 

शङ्कोपस्थापना – अत्र एका शङ्का उपस्थाप्यते, ‘शाब्दबोधस्त्वेकपदार्थेऽपरपदार्थसंसर्गविषयकं ज्ञानम्’, अपरञ्च योग्यता एकपदार्थेऽपरपदार्थसंबन्ध:, योग्यताज्ञानं शाब्दबुद्धौ हेतु:। योग्यताज्ञानशाब्दबोधयोर्मध्ये न कोऽपि भेद:, विशेष्यपदार्थे विशेषणपदार्थवत्ताविषयक: शाब्दबोध:, इदमेव योग्यताज्ञानस्य विषयरूपे उल्लिख्यते। कार्यं सदैव कारणाद् भिन्नमपूर्वं पश्चाद्वर्ती च भवति। वाक्यार्थस्यापूर्वत्वात् शाब्दबोधस्थले योग्यताज्ञानं हेतुरूपे स्वीकर्तुं न शक्यते, तथा सति शाब्दबोधात् प्राक् योग्यताज्ञानस्य उपस्थितित्वेन वाक्यार्थे अपूर्वत्वं न भविष्यति। अत इदमेव उचितं यत् शाब्दधियं प्रति योग्यताज्ञानस्य हेतुता नास्ति।

शङ्कासमाधानम् – अस्या: शङ्काया: समाधानं प्रदीयते यत् पदानामर्थस्मरणे योग्यताया: यज्ज्ञानं भवति, तज्ज्ञानं क्वचित् संशयात्मकं क्वचिच्च निश्चयात्मकं सम्भवति। तथापि तस्य कार्यं शाब्दबोध: सदैव निश्चयात्मकमेव जायते। नियमत: निश्चयात्मकात् शाब्दबोधात् संशयात्मकं योग्यताज्ञानं भिन्नम्, अत: निश्चयात्मकं शाब्दधियं प्रति संशयात्मकं योग्यताज्ञानं कारणमस्ति। यस्मिन्वाक्ये योग्यताज्ञानं निश्चयात्मकं तत्रापि वाक्यार्थबोधस्यापूर्वता, यथा ‘गम्यताम् गम्यताम्’ इत्यत्र योग्यताज्ञानं गमनज्ञानं, तत्तु निर्णयात्मकम्, तथापि शाब्दबोध: शीघ्रगमनज्ञानमपूर्व: नूतनश्च। अत: योग्यताज्ञानं संशयात्मकं उत वा निर्णयात्मकं वाक्यार्थबोधस्यापूर्वता सर्वत्रैव। इत्थं शाब्दबोधं प्रति योग्यताज्ञानस्य हेतुतास्ति। मणिकारवत् मुक्तावलीकारैरपि योग्यताविषयकं संशयनिश्चयसाधारणं ज्ञानमात्रं कारणमिति प्रोक्तम्।

शङ्कापरा निराकरणञ्च – अयोग्यतानिश्चयस्य शाब्दबोधं  प्रति प्रतिबन्धकत्वम् – शाब्दबोधकार्यं प्रति योग्यताज्ञानं कारणमस्ति न वा? अस्मिन् सन्दर्भे नैयायिकेषु मतवैभिन्न्यमस्ति। प्राच्यास्तु योग्यताज्ञानं शाब्दबुद्धौ अनिवार्यं मन्यन्ते परन्तु नव्यनैयायिकानां मते योग्यताज्ञानं शाब्दबोधे न कारणम्, अपितु अयोग्यतानिश्चयं शाब्दबोधे प्रतिबन्धकम्। तद्धर्मिकतद्वत्ताबुद्धिं प्रति तद्धर्मिकतदभाववत्तानिश्चय: सर्वत्र प्रतिबन्धक:, अयं प्रतिबध्यप्रतिबन्धकभाव: सामान्यरूपेण मन्यते, यथा वायौ रूपाभावनिश्चयं वायौ रूपज्ञानं प्रतिबध्नाति। नियमोऽस्ति यत् ‘तद्धर्मिकतदभावनिश्चयो लौकिकसन्निकर्षाजन्यदोषविशेषाजन्यतद्धर्मिकतज्ज्ञानमात्रे विरोधी।’ शाब्दबोधोऽपि लौकिकसन्निकर्षाजन्य: दोषविशेषाजन्यश्च। लौकिकसन्निकर्षेभ्य: प्रत्यक्षप्रमैव जायते, शाब्दबोधो न प्रत्यक्षज्ञानं, परोक्षज्ञानम्। पाण्डुरोगी शुक्लं शङ्खमपि पीतमभिमन्यते, ज्ञानमिदं दोषविशेषजन्यं, किन्तु शाब्दबोधस्तु नैवम्भवति, अत: दोषविशेषाजन्य:। अतएव तदभावनिश्चय: (योग्यताभावनिश्चय:) शाब्दबोधस्य प्रतिबन्धकोऽस्ति।

अयोग्यतानिश्चय:= तद्धर्मिकतदभाव निश्चय:, वह्निना सिञ्चति इत्यत्र वह्निकरणक=सेक, तद्धर्मिक= वह्निकरणकत्वधर्मिक, वह्निकरणकत्वधर्मिके सेके वह्निकरणकत्वस्य धर्मस्याभाव:। अयमेव अयोग्यतानिश्चय:। वह्निना सिञ्चति इत्यत्र सेचनं वह्निकरणकमस्मिन् शाब्दबोधे सर्वेषां विपरीतनिश्चयो(बाधनिश्चयो) वर्तते यत् वह्निना सेचनं न सम्पाद्यते। अत्र सेके वह्निकरणकत्वाभावरूपायोग्यतानिश्चयेन प्रतिबन्धान्न शाब्दबोध:। यत्र अयोग्यतानिश्चयाभाव: तत्र प्रतिबन्धकाभावे शाब्दबोधो जायते। इत्थं वह्निना सिञ्चति इत्यादिषु अयोग्यवाक्यप्रयोगस्थलेषु अनेन सर्वस्थलीयप्रतिबध्यप्रतिबन्धकभावेनैव शाब्दबोधापत्ति: निराक्रियते, तर्हि तस्य निवारणाय शाब्दबोधे योग्यताज्ञानं कारणत्वेन कथं मन्येत।

योग्यताज्ञानस्य शाब्दबोधे हेतुता– मथुरानाथतर्कवागीशस्तत्त्वचिन्तामणिव्याख्यायां अयोग्यतानिश्चयस्य बाधनिश्चयस्य वा प्रतिबन्धकत्वं न स्वीकुरुते। बाधनिश्चयस्य प्रतिबन्धकत्वं स्वीकुर्वाणे सति मुखं चन्द्र: इत्यादिरूपकस्थलेषु मुखं न चन्द्र: इति बाधनिश्चयेन मुखे चन्द्रान्वयबोधो न भविष्यति। किन्तु लोके अनुभवसिद्धा मुखे चन्द्रान्वयबोधोत्पत्ति:। एवमेव कलहादौ मिथ्याभिशापवचनप्रयोगे शाब्दबोधो जायते, शाब्दबोधादेव क्रोधादय: जायन्ते, अन्यथा कलहादौ मिथ्याभिशापवचनप्रयोगेणैव क्रोधो न भविष्यति। बाधनिश्चयसत्त्वेऽपि शब्दो ज्ञानं जनयति। तदानीं तस्मिन् ज्ञाने प्रामाण्याभावज्ञानं जायते। अतएव शाब्दबोधं प्रति बाधनिश्चय: प्रतिबन्धको नास्ति।

तर्हि ‘वह्निना सिञ्चति’ अस्मिन्वाक्येऽपि वाधनिश्चयसत्त्वेऽपि शाब्दबोधो भविष्यति। अत्र शाब्दबोधवारणाय योग्याताज्ञानस्य शाब्दबोधहेतुत्वं स्वीक्रियते। शाब्दबोधे योग्यताज्ञानस्य हेतुतास्ति, अत: अत्र योग्यताभावे शाब्दबोधो न जायते। एवं स्वीकुर्वाणे सति मुखं चन्द्र: इत्यादिरूपकस्थलेऽपि योग्यताभावे शाब्दबोधो न स्यात्। अस्य समाधानं प्रदीयते यत् बाधनिश्चयसत्त्वेऽपि आहार्ययोग्यताज्ञानाद् तत्र शाब्दबोधस्सम्भवति। मुखं चन्द्र: अत्राहार्ययोग्यतास्ति किन्तु वह्निना सिञ्चति अत्राहार्ययोग्यताभावात् शाब्दबोधो न सम्भवति।

वेदान्तपरिभाषानुसारं योग्यताविमर्श: – वेदान्तपरिभाषाकारधर्मराजाध्वरीन्द्रमतानुसारेण ‘योग्यता च तात्पर्यविषयीभूतसंसर्गाबाध:।’ सामान्यरूपेण संसर्गस्य अबाधरूप एव योग्यता विचार्यते, पदानामर्थेषु बाधाविरहो योग्यता। यथा ‘वत्सं बधान’ इत्यत्र पदाभ्यां उपस्थितानां पदार्थानां संसर्गे बाधा नास्ति, वत्सकर्मकबन्धनं तात्पर्यविषयीभूतसंसर्ग:। एतस्य विपर्ययोऽस्ति वह्निना सिञ्चति अस्मिन् वाक्ये योग्यता नास्ति यतो हि द्वयोर्पदार्थयोर्मध्ये संसर्ग: प्रत्यक्षप्रमाणेन बाधित:, अतएव शाब्दबोधो न जायते।

‘वह्निना सिञ्चति’ वाक्यमिदं वक्तु: तात्पर्यविषयं भवितुं शक्नोति किन्तु प्रत्यक्षप्रमाणेन अनयो: संसर्गस्य बाध: जायते, अस्माद् कारणाद् लक्षणेऽस्मिन् वेदान्तपरिभाषाकारेण ‘संसर्गाबाध:’ पदं योजितम्। एवमेव तात्पर्यविषयीभूतस्य पदस्यापि लक्षणे सन्निवेश: सप्रयोजन:, यस्मात् वैदिकार्थवादवाक्येषु योग्यतालक्षणस्याव्याप्तिर्न भवेत्, यथा स प्रजापतिरात्मनोवपामुदखिदत्।

पूर्वपक्षिणात्र शङ्कोपस्थापिता यत् लक्षणमिदं ‘तत्त्वमसि’, ‘अहं ब्रह्मास्मि’ वाक्ययोर्न सङ्गच्छते। ‘तत्त्वमसि’ वाक्ये ‘तत्’ पदं परोक्षत्वादिविशिष्टस्य चैतन्यस्य वाचक:, ‘त्वं’ पदं अपरोक्षत्वादिविशिष्टस्य चैतन्यस्य वाचक:, परस्परविरुद्धधर्मपदार्थयोरभेदान्वय: कथं स्यात्? अत: योग्यताया: लक्षणमिदं अभेदार्थकवाक्येषु अव्याप्त:। शङ्कां निराकुर्वन् वेदान्तपरिभाषाकार: कथयति यत् एतयोर्वाक्ययो: श्रुते: तात्पर्यं वाच्यार्थावबोधने न, अपितु लक्ष्यार्थे (शुद्धचैतन्याभेद:) एव विवक्षित:। अत: योग्यतालक्षणे अव्याप्तिदोषो न वर्तते।

नागेशमतानुसारं योग्यताविमर्श: नागेश भट्ट: शाब्दबोधं प्रति योग्यताज्ञानस्य हेतुत्वं न स्वीकुरुते, अथ च अयोग्यतानिश्चयस्यापि शाब्दबोधे प्रतिबन्धकत्वं नाङ्गीकुरुते। तेनानुसारं अयोग्यतानिश्चय: शाब्दबोधे अप्रामाण्यग्राहक:। परमलघुमञ्जूषायां नागेश: योग्यतामित्थं परिभाषयति ‘योग्यता च परस्परान्वयप्रयोजकधर्मवत्त्वम्।’ परस्परसम्बन्धस्य प्रयोजकधर्मेण युक्तत्वं योग्यता, यथा ‘पयसा सिञ्चति’ अस्मिन्वाक्ये सेचनक्रियायां जलान्वयस्य हेतुभूतो धर्म: आर्द्रता आहोस्वित् प्रवाहात्मकता (योग्यता) जले विद्यमानास्ति। एवमेव करणभूते जले सेचनक्रियान्वयस्य हेतुभूतो धर्म: सेचनक्रियायामस्ति, अत: ‘पयसा सिञ्चति’ वाक्यं योग्यतायुक्तम्। किन्तु ‘वह्निना सिञ्चति’ वाक्येऽस्मिन् योग्यता न मन्यते, यतो हि वह्नौ आर्द्रता उत वा प्रवाहात्मकता न वर्तते। अपि च सेचनक्रियायामपि दाहकता शुष्कता वा न सम्भवति, अत: अस्मिन्वाक्ये योग्यता नास्ति।

नैयायिकानां मते ‘वह्निना सिञ्चति’ इत्यादौ अयोग्यवाक्यप्रयोगस्थलेषु पदार्थानां बोधो जायते किन्तु तेषां अन्वयबोधो न भवितुं शक्यते। अस्य खण्डनं कृत्वा नागेश: कथयति यत् बौद्धार्था: सदैव शाब्दबोधस्य विषया: भवन्ति, अत: तस्य बौद्धिकार्थस्य प्रतीतौ कुत्रापि बाधा न भवति। वस्तूनामविद्यमानत्वेऽपि शब्द: तेषां ज्ञानं कारयति। अस्मिन्प्रसङ्गे वर्णयन् स: प्रदत्ते उदाहरणं यथा वन्ध्यासुतस्य जगत्यभावेऽप्यस्य बौद्धिकोपस्थितित्वेनैव अस्य शब्दस्य प्रातिपदिकसञ्ज्ञा भवति। जगति एतेषां शब्दानां व्यवहारोऽपि दृश्यते। यदि अयोग्यवाक्यप्रयोगेण शाब्दबोधो न स्यात् तदा तानि श्रुत्वा वक्तुरुपहासमपि न स्यात्। ‘वह्निना सिञ्चति’ इत्यादिवाक्येभ्य: बोधादपि तेषु प्रवृत्तिर्न भवति, अस्य बौद्धज्ञानस्याप्रामाण्यग्रहाद्। अत: नैयायिकानामिदम्मतं व्याकरणपरम्परायामस्वीकृतम्।

निष्कर्ष: – तत्त्वचिन्तामणिकारगङ्गेशोपाध्यायमतानुसारं ‘बाधकप्रमाविरहो योग्यता।’ योग्यताभावाद् शाब्दबोधो न जायते, यथा वह्निना सिञ्चति। न्यायसिद्धान्तमुक्तावलीकार: विश्वनाथाचार्य:  स्पष्टीकुरुते यत् ‘एकपदार्थेऽपरपदार्थसंबन्धो योग्यतेत्यर्थः’, यथा जलेन सिञ्चति। योग्यताज्ञानं क्वचित् संशयात्मकं क्वचिच्च निश्चयात्मकं, अत: योग्यताज्ञानशाब्दबोधयोर्मध्ये भेद:। नव्यनैयायिकानां मते योग्यताज्ञानं शाब्दबोधे न कारणम्, अपितु अयोग्यतानिश्चयं शाब्दबोधे प्रतिबन्धकम्।

मथुरानाथतर्कवागीशमतानुसारं बाधनिश्चयस्य प्रतिबन्धकत्वं स्वीकुर्वाणे सति मुखं चन्द्र: इत्यादिरूपकस्थलेषु बाधनिश्चयेन मुखे चन्द्रान्वयबोधो न भविष्यति। किन्तु लोके अनुभवसिद्धा मुखे चन्द्रान्वयबोधोत्पत्ति:। अतएव शाब्दबोधं प्रति बाधनिश्चय: प्रतिबन्धको नास्ति। ‘वह्निना सिञ्चति’ अत्र वाधनिश्चयसत्त्वे शाब्दबोधवारणाय योग्याताज्ञानस्य शाब्दबोधहेतुत्वं स्वीक्रियते। बाधनिश्चयसत्त्वेऽपि आहार्ययोग्यताज्ञानाद् मुखं चन्द्र: इत्यत्र शाब्दबोधस्सम्भवति। वेदान्तपरिभाषानुसारेण ‘तात्पर्यविषयसंसर्गाबाध: योग्यता।’ अत: अर्थनिष्ठायोग्यताविरहे पदसमूहो वाक्यं न भवितुं शक्नोति।सन्दर्भग्रन्थसूची –

  1. तर्कसङ्ग्रह: (दीपिकान्यायबोधिनीसमेता), गोविन्दाचार्य:, चौखम्बासुरभारतीप्रकाशनम्, वाराणसी, २०१७
  2. शाब्दबोधमीमांसा (भाग १), एन. एस. रामानुज: ताताचार्य:, राष्ट्रियसंस्कृतसंस्थानम्, नवदेहली, २००५
  3. परमलघुमञ्जूषा, नागेशभट्ट:, चौखम्बासंस्कृतसीरिज आफिस, वाराणसी, १९७४
  4. तत्त्वचिन्तामणि-गङ्गेशोपाध्याय:, पं. कामाख्यानाथ:, एशियाटिक सोसायटी आफ बंगाल, १९०१
  5. वेदान्तपरिभाषा-धर्मराजाध्वरीन्द्र:, गजाननशास्त्री मुसलगांवकर:, चौखम्बाविद्याभवनम्, वाराणसी, १९८३
  6. न्यायसिद्धान्तमुक्तावली (शब्दखण्डम्)-विश्वनाथपञ्चानन भट्टाचार्य:, डॉ. दयाशङ्कर: शास्त्री, सुरभारतीप्रकाशनम्, कानपुर, १९८९
  7. भाषा-परिच्छेद (न्यायसिद्धान्तमुक्तावलीसङ्ग्रह टीका सहित), पञ्चाननभट्टाचार्य: शास्त्री, श्रीसतीनाथभट्टाचार्य:, कलकत्ता, १८८४
  8. न्यायसिद्धान्तमुक्तावली (भाषाटीकासमेता), पं. स्वामिगोविन्द: सिंह:, श्रीवेङ्कटेश्वरमुद्रणालय:, काशी, १९५७
  9. A Primer of Navya Nyaya Language and Methodology, Ujjwala Jha, The Asiatic Society, Kolkata, 2004

* प्रज्ञा, शोधच्छात्रा, संस्कृत विभाग, दिल्ली विश्वविद्यालय, दिल्ली।

दूरभाषाङ्क – 9462100062, 9013252868

पूर्ण पता – ‘हविर्धानम्’ A-30, राजबाग, सूरसागर, जोधपुर, राजस्थान, PIN- 342024

Mail Id- pragya.maitrih@gmail.com

[/vc_column_text][/vc_column][/vc_row]