शान्तिपर्वण्युपदिष्टाः केचन वेदान्तविषयाः परब्रह्मणः शिवस्य महिमा च

[vc_row][vc_column][rev_slider_vc alias=”about-3″][vc_column_text el_class=”articles”]

शान्तिपर्वण्युपदिष्टाः केचन वेदान्तविषयाः

परब्रह्मणः शिवस्य महिमा च
Dr. T. GANESAN
Senior Researcher in Śaivāgama & Śaivasiddhānta
French Institute of Pondicherry
Pondicherry

Abstact :

सम्पूर्णविश्वस्येदम् अनौपम्यग्रन्थरत्नं महाभारतं यत् भारतदेशस्य प्राचीनेतिहासरत्नाकरं सकलधर्ममहोदधिः पञ्चमो वेद इति च उद्घोषितम् ।
धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ।
यदिहास्ति तदन्यत्र यन्नेहास्ति न तत् क्वचित्। 

इति प्रख्यातोऽयं ग्रन्थराशिः अष्टादशपर्वात्मकः महर्षिणा व्यासेन रचितः भूलोकवासिनां मनुष्याणामस्माकमिह लोके जीवने आमुष्मिकपुरुषार्थभूतमोक्षप्राप्तये च पदे पदे मार्गदर्शकः इति वयं सर्वे भारतीया जानीमः।

अस्य ग्रन्थकोशस्य द्वादशतमं पर्व शान्तिपर्व  इति राराजते।
राजधर्मापद्धर्ममोक्षधर्माख्यकाण्डत्रयात्मकेऽस्मिन् पर्वणि मोक्षधर्मपर्व विस्तृतया वर्तते।

शान्तिपर्वणि राजधर्मकाण्डे द्वादशाध्याये सर्वकारणभूत एक ईश्वरः शिवः तथा च तस्माल्लब्धानुग्रहो ब्रह्मा स्वयम्भूः ब्रह्माण्डादीनां सृष्टिं करोति यस्मिन् जगति शम्भुः स्वयोगेन तदन्तर्यामितया समाविष्ट इति च स्पष्टतया ज्ञायते। 

महाभारते अनुशासनद्रोणशान्तिपर्वादिषु श्रीकृष्णः अत्युत्कृष्टशिवभक्तिप्रेरितः उपमन्युमुनिना पाशुपतधर्मे च दीक्षितः स्वयं तद्धर्माननुवर्त्य प्राप्तशिवानुग्रहः दृढतमा शिवभक्तिरेव श्रेयसः प्रेयसश्च एकं मूलमिति तथा च तल्लाभाय वाङ्मनःकायैः शिव एवोपास्य इति च स्वमित्रवरमर्जुनमुपदिशति।

 

सम्पूर्णविश्वस्येदम् अनौपम्यग्रन्थरत्नं महाभारतं यत् भारतदेशस्य प्राचीनेतिहासरत्नाकरं सकलधर्ममहोदधिः पञ्चमो वेद इति च उद्घोषितम् । 

धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ।

यदिहास्ति तदन्यत्र यन्नेहास्ति न तत् क्वचित्। 

इति प्रख्यातोऽयं ग्रन्थराशिः अष्टादशपर्वात्मकः महर्षिणा व्यासेन रचितः भूलोकवासिनां मनुष्याणामस्माकमिह लोके जीवने आमुष्मिकपुरुषार्थभूतमोक्षप्राप्तये च पदे पदे मार्गदर्शकः इति वयं सर्वे भारतीया जानीमः।

अस्य ग्रन्थकोशस्य द्वादशतमं पर्व शान्तिपर्व  इति राराजते। 

राजधर्मापद्धर्ममोक्षधर्माख्यकाण्डत्रयात्मकेऽस्मिन् पर्वणि मोक्षधर्मपर्व विस्तृतया वर्तते। मोक्षधर्मे आरम्भाध्यायेषु जीवनस्य अनित्यत्वं, मृत्योरप्रतिमप्रभावत्वात् इह जीवनकाल एव धर्माचरणस्य मुख्यत्वमित्यादयो विषयाः प्रतिपाद्यन्ते।तदर्थोऽयं श्लोकः-

को हि जानाति कस्याद्य मृत्युकालो भविष्यति॥ १४॥

युवैव धर्मशीलः स्यादनित्यं खलु जीवितम्। 

कृते धर्मे भवेत्कीर्तिरिह प्रेत्य च वै सुखम्॥

इन्द्रियनिग्रहोपायेषु वाचां मनसश्च निग्रह तपसः त्यागदीनां चानुष्ठानमेव उत्कृष्टोपायः इति च उपदिश्यते-

यस्य वाङ्मनसी स्यातां सम्यक्प्रणिहिते सदा। 

तपस्त्यागश्च योगश्च स वै सर्वमवाप्नुयात्॥ ३२॥

त्यागस्य सर्वमुख्यत्वमन्यस्मिन् श्लोके उद्घुष्यते-

नात्यक्त्वा सुखमाप्नोति नात्यक्त्वा विन्दते परम्। 

नात्यक्त्वा चाभयः शेते त्यक्त्वा सर्वं सुखी भव॥ २२॥

योगी ब्रह्मजिज्ञासुरेवं चरेदित्यन्य उपदेशः-

योगे बुद्धिं श्रुते सत्त्वं मनो ब्रह्मणि धारयन्॥ ३१॥

विहरिष्याम्यनासक्तः सुखी लोकान्निरामयः। 

कुतः सृष्टमिदं विश्वं जगत्स्थावरजङ्गमम्। 

प्रलये च कमभ्येति तन्मे ब्रूहि पितामह॥ इति चराचरस्यास्य स्रष्टारं पालकं लयं च प्रति पृच्छन्तं युधिष्ठिरं पितामहो भीष्मः प्रतिवक्ति-

अनादिनिधनो देवस्तथाभेद्योऽजरामरः॥ ११॥

अव्यक्त इति विख्यातः शाश्वतोऽथाक्षरोऽव्ययः। 

यतः सृष्टानि भूतानि जायन्ते च म्रियन्ति च॥

सोऽसृजत् प्रथमं देवो महान्तं नाम नामतः।  इति।

इमे श्लोकाः

यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत् प्रयन्त्यभिसंविसन्ति। इतीदं

 तैत्तिरीयश्रुतिवाक्यमेवानुवदन्ति । तथा च अत्रोदाहृतशान्तिपर्वश्लोकयोः अनादिनिधनो देवः, सोऽसृजत् प्रथमं देवः इत्यादिवाक्येषु देवशब्द एव प्रयुक्तः। तैत्तिरीयश्रुत्यनुसारं ब्रह्म इति पदं न प्रयुक्तम्। वेदान्तेषु सर्वकारणभूतस्य शिवस्यैव देव इति शब्दः प्रयुज्यते। तदर्थं श्वेताश्वतरोपनिषन्मन्त्रा बहव उदाहर्तुं शक्यन्ते-

संयुक्तम् एतत् क्षरम् अक्षरं च व्यक्ताव्यक्तं भरते विश्वम् ईशः।

अनीशश् चात्मा बध्यते भोक्तृ-भावाज् ज्ञात्वा देवं मुच्यते सर्व-पाशैः॥

क्षरं प्रधानम् अमृताक्षरं हरः क्षरात्मानाव् ईशते देव एकः ।

ज्ञात्वा देवं सर्वपाशापहानिः क्षीणैः क्लेशैर्जन्ममृत्युप्रहाणिः

अजं ध्रुवं सर्वतत्त्वैर्विशुद्धं ज्ञात्वा देवं मुच्यते सर्वपाशैः।

यो देवो अग्नौ यो ऽप्सु यो विश्वं भुवनम् आविवेश ।

य ओषधीषु यो वनस्पतिषु तस्मै देवाय नमो नमः ॥

विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुत विश्वतस्पात् ।

सम्बाहुभ्यां धमति सम्पतत्रैर्द्यावाभूमी जनयन् देव एकः

यो देवानां प्रभवश्चोद्भवश्च विश्वाधिपो रुद्रो महर्षिः ।

हिरण्यगर्भं जनयामास पूर्वं स नो बुद्ध्या शुभया संयुनक्तु ॥

एष देवो विश्वकर्मा महात्मा सदा जनानां हृदये संनिविष्टः ।

हृदा मनीषा मनसाभिकॢप्तो य एतद्विदुरमृतास्ते भवन्ति ॥

अनाद्यनन्तं कलिलस्य मध्ये विश्वस्य स्रष्टारम् अनेकरूपम् ।

विश्वस्यैकं परिवेष्टितारं ज्ञात्वा देवं मुच्यते सर्वपाशैः ॥

एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा ।

कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च ॥

यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै ।

तं ह देवमात्मबुद्धिप्रकाशं मुमुक्षुर्वै शरणमहं प्रपद्ये ॥ इत्यादयः।

अयं विषयः अनुशासनपर्वणि चतुर्दशाध्याये कुरुवंशपितामहेन भीष्मेणापि चर्चितः यदा युधिष्ठिरः शम्भोः शिवस्य नामान्याचक्ष्वेति तं पप्रच्छ-

पितामहेशाय विभो नामान्याचक्ष्व शम्भवे। 

बभ्रवे विश्वमायाय महाभाग्यं च तत्त्वतः॥ १॥

तस्मिन्नवसरे भीष्मः परब्रह्मणः शिवस्याप्रतिममहिमा तादृशेन मनुष्येण ज्ञातुं वक्तुं च सर्वथा न शक्यमिति प्रतिवदति-

अशक्तोऽहं गुणान् वक्तुं महादेवस्य धीमतः ।

यो हि सर्वगतो देवो न च सर्वत्र दृश्यते ।

ब्रह्मविष्णुसुरेशानां स्रष्टा च प्रभुरेव च ।

तथा च-

सुरासुरगुरो देव विष्णो त्वं वक्तुमर्हसि। 

शिवाय विश्वरूपाय यन्मां पृच्छद्युधिष्ठिरः॥

इति भीष्मेण प्रार्थितो वासुदेवः एवं प्रस्तौति-

एवमुक्त्वा तु भगवान्गुणांस्तस्य महात्मनः। 

उपस्पृश्य शुचिर्भूवा कथयामास धीमतः॥ ९॥

शुश्रूषध्वं ब्राह्मणेन्द्रास्त्वं च तात युधिष्ठिर। 

त्वं चापगेय नामानि निशामय जगत्पतेः॥ १०॥

यदवाप्तं च मे पूर्वं साम्ब हेतोः सुदुष्करम्। 

यथा च भगवान्दृष्टो मया पूर्वं समाधिना॥ ११॥

इत्येवं सविस्तरं शिवनामानि शिवं प्रति स्वतपश्च तपसोऽन्ते परमेश्वरस्य शिवस्य दर्शनं च सर्वं वासुदेवः पाण्डवानामुक्त्वा अन्ते स्वेन किं कृतमिति एवं संगृह्य निगदति-

मूर्ध्ना निपत्यनियतस्तेजः संनिचये ततः। 

परमं हर्षमागम्य भगवन्तमथाब्रुवम्॥ १॥

धर्मे दृढत्वं युधि शत्रुघातं 

यशस्तथाग्र्यं परमं बलं च। 

योगप्रियत्वं तव संनिकर्षं 

वृणे सुतानां च शतं शतानि॥ २॥

एवमस्त्विति तद्वाक्यं मयोक्तः प्राह शङ्करः॥ ३॥

प्रस्तुते च शान्तिपर्वणि राजधर्मकाण्डे द्वादशाध्याये-

ईश्वरश्चेतनस्त्वेकस्तेनेदं गहनीकृतम्।

चैतन्यमीश्वरात् प्राप्य ब्रह्माण्डं तैर्विनिर्मितम्।

सृष्टिस्तेन समारब्धा प्रसादादीश्वरस्य च।

चैतन्यमीश्वर्स्येदं सचेतनमिदं जगत्।

योगेन च समाविष्टं जगत् कृत्स्नं च शम्भुना।

इति युधिष्ठिरं प्रति नकुलवचने च सर्वकारणभूत एक ईश्वरः शिवः तथा च तस्माल्लब्धानुग्रहो ब्रह्मा स्वयम्भूः ब्रह्माण्डादीनां सृष्टिं करोति यस्मिन् जगति शम्भुः स्वयोगेन तदन्तर्यामितया समाविष्ट इति च स्पष्टतया ज्ञायते।

एवं च शान्तिपर्वणि ३२८ तमाध्याये वासुदेवकृष्णस्यार्जुनं प्रति वचनमेवम्-

अहमात्मा हि लोकानां विश्वानां पाण्डुनन्दन। 

तस्मादात्मानमेवाग्रे रुद्रं सम्पूजयाम्यहम्॥ २१॥

यद्यहं नार्चयेयं वै ईशानं वरदं शिवम्। 

आत्मानं नार्चयेत्कश्चिदिति मे भावितं मनः। 

मया प्रमाणं हि कृतं लोकः समनुवर्तते॥ २२॥

प्रमाणानि हि पूज्यानि ततस्तं पूजयाम्यहम्। 

यस्तं वेत्ति स मां वेत्ति योऽनु तं स हि मामनु॥ २३॥

न हि विष्णुः प्रणमति कस्मैचिद्विबुधाय तु। 

ऋत आत्मानमेवेति ततो रुद्रं भजाम्यहम्॥ २६॥

इति कृष्णस्य स्वात्मभूतः परमेश्वरः शिव इति निःशङ्कं कृष्णेन स्ववाक्यैरेवोद्घोषितं दृश्यते।

ततः ३३१ तमाध्याये च कृष्णः-

यस्तु ते सोऽग्रतो याति युद्धे सम्प्रत्युपस्थिते। 

तं विद्धि रुद्रं कौन्तेय देवदेवं कपर्दिनम्॥ ६९॥

कालः स एव कथितः क्रोधजेति मया तव। 

निहतांस्तेन वै पूर्वं हतवानसि वै रिपून्॥ ७०॥

अप्रमेयप्रभावं तं देवदेवमुमापतिम्। 

नमस्व देवं प्रयतो विश्वेशं हरमव्ययम्॥ ७१॥ 

इति देवदेवः शम्भुः सर्वैर्नमस्कार्यः यो हि पाण्डवानामरीन् सर्वान् युद्धे स्वयं पूर्वमेव हतवान् अत अर्जुनेनावश्यं पूजनियः इति स्वमित्रमर्जुनमेवमुपदिशति।

अयमेव विषयः द्रोणपर्वणि च १७३ तमाध्याये अर्जुनव्याससंवादे विस्तृततयानूद्यते।

 

उपसंहाररूपेणैवं वक्तुं शक्यते यत् महाभारतेऽत्युत्तमे काव्ये अनुशासनद्रोणशान्तिपर्वादिषु श्रीकृष्णः अत्युत्कृष्टशिवभक्तिप्रेरितः उपमन्युमुनिना पाशुपतधर्मे च दीक्षितः स्वयं तद्धर्माननुवर्त्य प्राप्तशिवानुग्रहः शिवादष्टौ वरांश्च लब्ध्वा दृढतमा शिवभक्तिरेव श्रेयसः प्रेयसश्च एकं मूलमिति तथा च तल्लाभाय वाङ्मनःकायैः शिव एवोपास्य इति च स्वमित्रवरमर्जुनमुपदिशति। अस्य चार्थस्य उपोद्बलकतया भारततात्पर्यसंग्रहाख्ये श्रीमदप्पयदीक्षितविरचिते तेषां ग्रन्थान्तिमवचनमुल्लिख्यते-

भारते साक्षात् प्रतिपादितनिरतिशयप्रभावशालिनः  परब्रह्मेति सम्भाव्यमानात् [कृष्णात्] ततोऽपि तत्पूज्यस्य शिवस्य यत् पारम्यं व्यञ्जनावृत्त्या प्रतीयते तदेव श्रीमहाभारतस्य प्रधानं प्रतिपाद्यम् ।

 

इति शिवम्॥

[/vc_column_text][/vc_column][/vc_row]