वैशेषिकदर्शनस्य मनस्सिद्धान्तस्य वैज्ञानिकरीत्याविमर्शः

Dr. N. Sridhar
Asst. Professor, Dept. of Sanskrit
SCSVMV Deemed to be University, Kanchipuram
8220337148
srisanskrit@gmail.com

शोधसारः (Abstract)

मनः इति कश्चन पदार्थः न केवलं भारतीयदर्शने अपितु पाश्चात्यदर्शनेऽपि प्रामुख्यं भजते। आधुनिकमनोवैज्ञानिकचिकित्सायाः आधारः पाश्चात्यदर्शने प्रतिपादितम् मन इति किञ्चित् तत्त्वम्। यद्यपि भारतीयमनोपदार्थे पाश्चात्यमते तत्समपदार्थे च कश्चन भेदः दृश्यते तथापि पाश्चात्याः आधुनिकाः मनोवैज्ञानिकाश्च भारतीयमनसः क्रियाः अङ्गीकुर्वन्त्येव। अस्मिन् शोधपत्रे वैशेषिकदर्शनस्य मनस्सिद्धान्तस्य आधुनिकवैज्ञानिकानां च मते तत्समपदार्थस्य च विवेचनं कृत्वा उभयोः ऐकमत्यं वैपरीत्यं च विमृष्टम्। विज्ञानपक्षे मनसः विभिन्नाः स्थितयः निरूपिताः। प्रायः ताः स्थितयः वैशेषिकदर्शनोक्तमनसा सङ्गच्छन्ते।

मनः

वैशेषिकदर्शने नवद्रव्येषु अन्तिमद्रव्यत्वेन मनसः अङ्गीकारः अस्ति। आत्ममनसोः आत्मनः प्रधानत्वात् आत्मनिरूपणानन्तरं मनसः निरूपणं कृतमस्ति अस्मिन् दर्शने। आत्ममनसोः द्रव्यत्वेनाङ्गीकारत्वात् इदं स्पष्टं ज्ञायते यत् वैशेषिकदर्शने न केवलं बाह्यजगतः विवेचनं लभते अपितु आन्तरिकमानसिकप्रक्रिययोः अपि विवेचनमत्र लभते। अस्मिन् क्रमे एव मनसः द्रव्याङ्गीकारः कृतोऽस्ति वैशेषिकैः।

व्युत्पत्तेः दृष्ट्या मनः इत्युक्ते मननसाधनमेव। तद्यथा –

‘मन्यते बुध्यतेऽनेनेति। (मन + सर्वधातुभ्योऽसुन्)’[१]

‘मन्यतेऽनेन करणेऽसुन्।‘[२]

वैशेषिकदर्शने तु मनसः अर्थः इतोऽपि व्यापकः भवति। अस्य दर्शनस्यानुसारेण मनः न केवलं सुखदुःखादीनामनुभवस्य करणमपितु चक्षुरादीन्द्रियानां बाह्यप्रत्यक्षसाधनेऽपि मुख्यकारणं भवति। यदि सूक्ष्मत्वेन अस्य अध्ययनं कुर्मः तदा ज्ञायते यत् वैशेषिकदर्शने इन्द्रियाणां प्रत्यक्षसाधने सहकारीत्वमेव मनसः प्रधानकार्यम्। तेनैव वैशेषिकाः मनः इति कश्चन पदार्थः अस्तीत्यपि साधयन्ति।

मनसः सिद्धिप्रक्रिया

वैशेषिकसूत्रकारः मनसः साधनमेवं कुर्वन्ति –

आत्मेन्द्रियार्थानां सन्निकर्षेऽपि ज्ञानं न सर्वदा जायते। अर्थात् कदाचिज्जायते कदाचिन्न जायते। तर्हि ज्ञानाय आत्मेन्द्रियार्थान् विहाय अन्यकश्चन पदार्थः अस्ति यस्याभावे ज्ञानाभावः लोके दृश्यते। सः पदार्थः एव मनः।

“आत्मेन्द्रियार्थसन्निकर्षे ज्ञानस्य भावोऽभावश्च मनसो लिङ्गम्॥”[३]

ज्ञानस्याधिकरणमात्मा सर्वव्यापकत्वात् सर्वदा विषयैः सह तस्य संयोगः भवत्येव परन्तु बाह्यविषयाणां ग्राहकेन्द्रियाणाम् च आत्मना सह संयुक्तेऽपि न हि सर्वदा आत्मनः बाह्यविषयाणां प्रत्यक्षं भवितुमर्हति। अतः अनेन ज्ञायते यत् तेषां विषयाणां ज्ञानाय आत्मेन्द्रियार्थानां सन्निकर्षातिरिक्तमात्मनः अन्यकस्यचन द्रव्यस्यापेक्षा भवति यस्याभावे आत्मनः ज्ञानं न  जायते। न्यायवैशेषिकनये तदेव मनः इति उच्यते। यदि मनः इति द्रव्यं नाङ्गीकुर्मः तर्हि विषयाणां ज्ञानं सर्वदा आत्मनि जायेत। परन्तु तद्विरोधानुभवः एव लोके दृश्यते इति कारणात् मनसः अङ्गीकारः अनिवार्यः। एवं विषयाणां प्रत्यक्षज्ञानाय आत्मा मनसा संयुज्यते, मनः इन्द्रियेण, इन्द्रियमर्थेन संयुज्यते। तेन आत्मनि तदर्थस्य ज्ञानमुत्पद्यते।

न्यायनयेऽपि मनसः साधनार्थं महर्षिणा गौतमेन ज्ञानानां युगपदुत्पत्तेरभावः इति हेतुः प्रदर्शितः। तद्यथा –

“युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम्॥”[४]

अर्थात् अस्माकं जीवने सर्वेषामर्थानां विषयाणां वा ज्ञानमेकस्मिन् समये एव न जायते अपितु क्रमेण एव जायते। अनेन ज्ञायते यत् अर्थानां क्रमिकज्ञाने किञ्चिदस्ति यत् इन्द्रियेण सह एकस्मिन् समये एकमेव पदार्थं संयोजयेत्, तदेव मनः।

आत्मा तु विभु द्रव्यमस्ति। अतः सः युगपदेव सर्वेन्द्रियैः सह संयुक्तः भवितुमर्हति। इन्द्रियाण्यपि स्वसपीपस्थार्थैः सह युगपत् सयुंक्तः भवितुमर्हन्ति। तथापि एकस्मिन् क्षणे एकस्यैव ज्ञानस्य उत्पत्तिः जायते। तस्मिन्नेव क्षणे अन्यज्ञानानां सुखादीनां वा आत्मनः अन्यविशेषगुणानामुपत्तिः न जायते। पूर्वज्ञानस्य नाशे सत्येव अन्यज्ञानस्य सुखादीनां वा उत्पत्तिः आत्मनि जायते। अतः अस्मिन् ज्ञानोत्पत्तिक्रमे आत्मेन्द्रिययोः इन्द्रियार्थयोः सन्निकर्षं विहाय तृतीयं किञ्चिदस्ति यस्य संयुक्ते सति ज्ञानादीनां क्रमिकोत्पत्तिः आत्मनि जायते, यस्य विरहे च सः न जायते। तदेव मनः।

प्रशस्तपादभाष्ये मनसः सिद्ध्यर्थं इतोऽपि द्वौ हेतू प्रदर्शितौ। यथा –

  • स्मृतेः हेतुरेव मनः – स्मृत्यपि केनचिदिन्द्रियेणैवोत्पद्यते। कुतश्चेत् गन्धादीनां ज्ञानवदेव स्मृत्यपि ज्ञानेऽन्तर्भूतः। श्रोत्रादीनि पञ्चज्ञानेन्द्रियाणि स्मृतेः हेतवः न भवितुमर्हन्ति। यदि तथा स्यात् तर्हि बधिरादीनां जनानां स्मृतिः न भवेत्, परन्तु तद्विपरीतमेव लोके दृश्यते। अतः स्मृतेः हेतुः अन्यदेव किञ्चित् कारणं भवितुमर्हति। तदेव मनः।
  • सुखादीनां साधकेन्द्रियं मनः – चक्षुरादिभिः बाह्यइन्द्रियैः येषां सुखादीनां विषयाणां प्रत्यक्षः न जायते, तेषां रूपादिभ्यः विलक्षणानां प्रत्यक्षयोग्यानां सुखादीनां ज्ञानमपि मनसा एव जायते इति अनुमीयते। अतः अस्मादयं सिद्ध्यति यत् सुखादीनां प्रत्यक्षहेतुः मनः एव नान्यत्। यतः सुखादिनां प्रत्यक्षे चक्षुरादीनामशक्यत्वम्।

एवं न्यायवैशेषिकनये युगपज्ज्ञानानामुत्पत्तिः, स्मृतिसुखादीनां भावानां प्रत्यक्षश्च मनसा एव जायते इति त्रिभिः हेतुभिः मनसः साधनं कृतम्।

एतदतिरिच्य न्यायभाष्यकारः महर्षिवात्स्यायनः मनस्सिद्ध्यर्थं स्मृति-अनुमान-शब्द-संशय-प्रतिभा-स्वप्न-ज्ञान-ऊह-सुख-दुःख-इच्छाः अपि हेतवः इति प्रतिपादयति।

“स्मृत्यनुमानागमसंशयप्रतिभास्वप्नज्ञानोहाः सुखादिप्रत्यक्षमिच्छादयश्च मनसो लिङ्गानि” [५]

उदयनाचार्यः न्यायलीलावतीकारोऽपि मनसस्साधने  एतान् एव हेतून् स्वीकृतवन्तौ। न्यायसिद्धान्तमुक्तावलीकारस्य आचार्यविश्वनाथस्य मतेऽपि एते एव हेतवः मनसः साधने करणानि सन्ति। तथा च तर्कसङ्ग्रहस्य सिद्धान्तचन्द्रोदयटीकायामपि एतैः एव हेतुभिः मनसः निरूपणं कृतमस्ति। एवं बहुषु न्यायग्रन्थेषु एते एव हेतवः मनसः निरूपणे अङ्गीकृताः।

मनसः नित्यत्वम्

मनसोऽणुरूपत्वमस्तीति प्रागभिहितम्। यदणुरूपमस्ति, तन्नाऽनित्यद्रव्यमस्ति। यतो मनसोऽणुरूपत्वमस्ति, अत तस्य नित्यत्वमस्त्येव।

मनस इन्द्रियत्वसाधनम्

यथा रूपादेर्ज्ञानं नहि चक्षुरादीनीन्द्रियाण्यन्तरा सिध्यति अपि तु चक्षुरादिभितिन्द्रियैरेव तेषां ज्ञानं जायते। अत एव चक्षुर्भ्यां हीनो जनो रूपं न पश्यति। बधिरो न शब्दं शृणोति। तथा च यतो रूपादेर्ज्ञानं प्रति चक्षुरादीनीन्द्रियाणि करणानि सन्ति अत एव चाक्षुषरूपं, श्रावणशब्दः, त्वाचस्पर्श इति प्रतीतिसाक्षिको व्यवहारः कथ्यते तथा सुखदुःखयोर्ज्ञानं न हि चक्षुरादिभिरिन्द्रियैर्भवति। न च किञ्चित्करणान्तरा ज्ञानं भवति प्रत्युत केनचित्करणेनैव। यथा रूपादेर्ज्ञाने चक्षुः करणं भवति। अत एव ज्ञानं हि सकरकं भवतीति कथ्यते। तथा च यत सुखदुःखयोर्ज्ञानं भवति। अत तयोर्ज्ञाने किञ्चित्करणमवश्यमस्तीति गम्यते। न हि सुखदुःखे प्रति चक्षुरादीनि करणानि, तयोरान्तरवेद्यत्वात्। तस्मात्सुखदुःखयोर्ज्ञानं प्रति मनसः एव करणत्वमस्तीति निश्चीयते। यद्यपि ज्ञानमात्रं प्रति मनसः करणत्वमस्ति, तथापि सुखदुःखे प्रति तस्याऽसाधारणकरणत्वमस्तीत्यवधार्यते। एतेन मनस इन्द्रियत्वं सिध्यति। यथोक्तम् –

“सुखादिसाक्षात्कार इन्द्रियकरणकसाक्षात्कारत्वात्, रूपादिसाक्षात्कारवदितीन्द्रियत्वेन मनः सिद्धम्। इन्द्रियत्वञ्च ज्ञानकारणमनसंयोगाश्रयत्वमित्ययत्नसिद्धमेव मनसो द्रव्यत्वम्।”[६]

मनसः सङ्ख्या

मनः अनेकानि सन्ति। तच्च प्रतिशरीरं भिन्नम् यतः प्रत्येक जीवात्मना सह मनसः नियतसम्बन्धः वर्तते।  तस्मात् एकैकस्मिन् शरीरे एकं मनः वर्तते।[७]

मेरुशास्त्रिण  अभिप्रायः यत् अत्र नियत् इति शब्दस्य अभिप्रायः समवेतासमवेतयोः कार्येण सम्बन्धः भवितव्यः। अर्थात् मनः आत्मनि समवेतानुभूतिनां कारणं तु अस्त्येव। तस्मिन् असमवेतभावस्यापि कारणमस्ति। अर्थात् अत्र नियतसम्बन्धस्य तात्पर्यम् इत्थं भवितुमर्हति यत् एकम् एव मनेः, एकेन जीवात्मना सह भिन्नेषु जन्मसु सम्बद्धितो भवति। अन्यथा पूर्वजन्मनः संस्कारस्य व्याख्यां कर्तुं न शक्यते।

श्रीधराचार्यस्य मतानुसारं मनसः अनेकत्वप्रतिपादने इदमेव प्रमाणं यत् मनस्त्वजातेः सिद्धिः तदा भविष्यति यदा प्रत्येकस्मिन् शरीरे भिन्न-भिन्न मनः अस्तीति। उदयनाचार्यस्य मतमपि इत्थमेव भवति यत् मनः एतदर्थं अनेकानि सन्ति यतः एकशरीरस्थं मनः द्वितीयशरीरं गत्वा कार्यं सम्पादयितुं न शक्नोति। परमत्र संशयः यत् एकस्मिन् शरीरे अनेकेषां मनसां स्थितिं प्रकल्प्य ज्ञानस्य यौगपद्यसिद्धिः कर्तुं शक्यते। सिद्धान्तिनस्तु अनेकः सदपि प्रतिशरीरमेकमेव मनः। अयं ज्ञानस्यायौगपद्यादेव सिद्ध्यति।

मनस एकत्वसाधनम्

इदं मतं तत्त्वचिन्तामणिकारस्य गङ्गेशोपाध्यायस्य वर्तते यस्य शङ्करमिश्रेण स्वीयोपस्कारभाष्ये उद्धृतं खण्डितं च। अन्ये केचन एकस्मिन् शरीरे पञ्च मनांसि सन्तीति मन्यन्ते। तथा च तेषां पृथक्-पृथक् प्रत्येकेन इन्द्रियेण सह सम्बन्धो वर्तते इति। अतः एकस्मिन् समये ज्ञानत्रयं चतुष्टयं पञ्च वा भवितुमर्हति।

शरीरेषु प्रत्येकमनसः एकत्वमेव, न तु नानात्वम्। यद्येकस्मिञ्छरीरे मनसो नानात्वमुरीक्रियते तर्हि ज्ञानानां यौगपद्यं स्यात्। अत एकस्मिञ्छरीरे एकमेव मनोऽस्तीति। यथाह –

“प्रयत्नाऽयौगपद्याज्ज्ञानाऽयौगपद्याच्चैकम्॥”[८]

इदमेवोपस्कारकृताऽपि – “यद्येकस्मिन्नपि शरीरे बहूनि मनांसि स्युस्तदा ज्ञानप्रयत्नानां यौगपद्यमेव स्यात्।”[९]

सूत्रकारस्य स्पष्टोक्तिः अस्ति यत् एकस्मिन् काले एकस्मिन् आत्मनि द्वयोः ज्ञानयोः द्वयोः प्रयत्नयोः वा उत्पत्तिर्न भवति। अतः एकस्मिन् शरीरे एकमेव मनः। एवं प्रकारेण अनेकं सदपि शरीरस्थ मनसि एकत्वसङ्ख्यायाः सिद्धिः भवति। न्यायकन्दलीकारेण अस्य युक्तेः इत्थं विवरणं दत्तम्। यदि एकस्मिन् शरीरे अनेकानि मनांसि भवेदिति अङ्गीक्रियते चेत्तर्हि मनात्मनोः संयोगोऽपि तावान्नेव मन्तव्यः। तथा च एकस्मिन् आत्मनि युगपदेव अनेकानां ज्ञानानां प्रयत्नानां च उत्पत्तिः भवितव्या। परन्तु एकस्य प्रयत्नस्य समये अन्यव्यापारः न दृश्यते। तत्प्रयत्नजनितव्यापारस्य समाप्तावेव अन्यः व्यापारः भवति। तस्मादकस्मिन् शरीरे एकमेव मनः अस्तीति सिद्ध्यति।

शङ्करमिश्रेण पूर्वपक्षानुसारम् इत्थं शङ्कते यत् अनेकवारं स्वीयज्ञाने यौगपद्यस्य भानं भवति। अतः ज्ञानयौगपद्यस्य युक्तेः प्रतिशरीरे मनसः एकत्वसिद्धिः न उचितः। उपरोक्तशङ्कायाः समाधानं सिद्धान्तमतानुसारमित्थं प्रदत्तम्। शीघ्रसंचारी मनसः उत्पन्नस्मरणेन प्राप्तानेकप्रकारकक्रमैः जायमानेषु ज्ञानेषु यौगपद्यस्यानुभवमात्रमेव भवति।  वस्तुतः ज्ञानं क्रमिकमेव भवति। परन्तु अतिशीघ्रतायाः कारणेन तस्य क्रमः न अवगम्यते। एवं प्रकारेण न्यायवैशेषिकनये मनः नैकत्वं भजते यतः प्रतिशरीरं मनः भिन्नम्। परं प्रतिशरीरे एकमेव मनः विद्यते।

एतेनैकस्मिञ्छरीरे एकमेव मनोऽस्तीति गम्यते।

मनसः परिमाणम्

मनः कीदृशं भवतीति बहुषु दर्शनेषु व्याख्यातं तत्तदाचार्यैः। मनः परिमाणविषये एतेषु दर्शनेषु मतभेदाः दृश्यन्ते। केचन मनः विभु इति कथयन्ति। केचन मनः अणुपरिमाणवदिति मन्यन्ते। वैशेषिकानां सिद्धान्ते तु मनः अणुपरिमाणवदेव। तत्र पूर्वपक्षिणः मनः विभु इति शङ्कते। तेषां खण्डनपूर्वकं वैशेषिकाः मनसः अणुपरिमाणं साधयन्ति।

मनसोऽणुत्वसाधनम्

“तदभावादणु मनः॥”[१०]

सूत्रेऽस्मिन् तद् = विभुः। अभावाद् = विभोरसत्त्वात्। अणु = परमाणु। मन = अन्तःकरणम्। इदमेव शङ्करमिश्रोऽपि ब्रूते – “तस्य विभवस्य सर्वमूर्त्तसंयोगित्वस्याऽभावादणु मनः।”[११]

ज्ञानानां यौगपद्यं न प्रतीयते, किन्तु क्रमिकत्वमेव। अतः तस्याऽणुत्वमेवेति स्पष्टीकृतं विश्वनाथेनाऽपि  –

“अयौगपद्याज्ज्ञानानां तस्याऽणुत्वमिहेष्यते।”[१२]

संस्कारः

मूर्त्तत्वादेव मनसि वेगो नाम संस्कारः सिद्ध्यति। संस्कारः त्रिविधः वेगो भावना स्थितिस्थापकश्चेति। तेषु वेगाख्यः संस्कारः मनसि वर्तते। तस्मादेव एकस्मादिन्द्रियादन्यदिन्द्रियम्, एकस्मादवयवादन्यदवयवञ्चातिशीघ्रं गच्छत् मनः विविधानि ज्ञानानि प्रयत्नान् चोत्पादयितुं शक्नोति। स च वेगः कीदृशः इति ज्ञातुं न शक्यते।[१३]

स्मृतिः

इदं सर्वविदितमस्ति यत् स्मृतिज्ञानम् आत्ममनसोः संयोगविशेषात् पूर्वजन्मसंस्कारैश्च जायते। यथा –

आत्ममनसोः संयोगविशेषात् संस्काराच्च स्मृतिः।[१४]

प्रत्यक्षादिषु प्रमाणेषु यदात्मनोऽनुभवः जायते सः तात्कालिकमेव परन्तु तैः अनुभवैः तद्विषयकसंस्काराः आत्मन्येव तिष्ठन्ति। अयं च संस्कारः आत्मनः विशेषगुणः। स च भावनेत्यभिधीयते। इयं च भावनाख्यसंस्कारः काले कस्यचिन्निमित्तस्य साक्षात्कारे सत्यात्ममनसा संयोगविशेषादुपजायन्ते। तदा एषा भावना स्मृतिराख्या भवति। स्मृत्याः तद्विषयकीच्छा करणं भवति। संस्कारोऽस्याः व्यापारः, आत्ममनसोः संयोगोऽसमवायिकारणं, तात्कालिकान्योद्बोधकविषयः सहकारिकारणं प्रणिधानादयश्च निमित्तकारणं भवितुमर्हति। प्रणिधानादिभिरात्ममनसोः संयोगस्तु सर्वदा भवत्येव परन्तु स्मृतेः अन्यकारणानि यदा सहकृद्भवन्ति तदा एष संयोगः स्मृतिरित्युच्यते।

स्वप्नः

स्मृतिज्ञानवदात्ममनसोः संयोगेन पूर्वजन्मसंस्कारैश्च मनुष्येषु स्वप्नज्ञानस्याऽपि उत्पत्तिः जायते। यथा –

आत्ममनसोः संयोगविशेषात् संस्काराच्च स्मृतिः।[१५]

तथा स्वप्नः॥[१६]

शरीरेन्द्रियमनसाम् अचेतनत्वात् ज्ञानस्याधिकरणमात्मा। बुद्धिरुपलब्धिरिति ज्ञानस्य पर्यायवाचिनः। सा च बुद्धिः वैशेषिकनये विद्याऽविद्येति द्वे विधे। ते पुनः चतुर्धाः। विद्या च प्रत्यक्ष-लैङ्गिक-स्मृति-आर्षा इति। अविद्या च संशय-विपर्यय-अनध्यवसाय-स्वप्ना इति। यथा –

“बुद्धिरुपलब्धिर्ज्ञानं प्रत्यय इति पर्यायाः। सा चानेकप्रकारा, अर्थानन्त्यात् प्रत्यर्थनियतत्वाच्च। तस्या सत्यप्यनेकविधत्वे द्वे विधे विद्या चाविद्या चेति। तत्राविद्या चतुर्विधा संशयविपर्ययानध्यवसायस्वप्नलक्षणा॥”[१७]

अन्ये केचन वैशेषिकग्रन्थकाराणां टीकाकाराणां मते स्वप्नः विपर्ययस्य संशयस्य अनध्यवसायस्य च प्रभेदो वा मिथ्याज्ञानमिति वा मन्यन्ते।  परन्तु सर्वेषां मतानामध्ययनेन इदं स्पष्टं ज्ञायते यत् स्पनज्ञानमिथ्याज्ञानं वा अविद्या वाऽस्ति। न तद्भिन्नम्।

स्वप्न-प्रक्रिया

वैशेषिकानां मते मनसः प्रलीने सतीन्द्रियाणि स्वकार्येभ्यः विरमन्ते। तस्यामवस्थायां प्राणापानादिवायुभिः आत्ममनसोः विशेषसंयोगेन स्वापसंस्कारो जायते। तस्मात् स्वप्नस्योत्पत्तिः जायते। स्वप्ने ‘अहं पश्यामि’, ‘अहं वदामि’ इत्यादि सर्वैः अनूभूयते परन्तु वस्तुतः स्वप्नज्ञानं मनसा एव जायते न तु चक्षुरादीन्द्रियैः। स्वप्नज्ञाने च मनः समवायिकारणम् आत्ममनसोः संयोगश्चाऽसमवायिकारणं भवति। अदृष्टप्रयत्नः निमित्तकारणं भवति। निद्राऽवस्थायां यदा मनः स्वप्नवहनाड्यां प्रविशति बाह्येन्द्रियैः विना यज्ज्ञानं जायते स एव स्वप्नः। यथा –

“अथ स्वप्नः। स च सिद्धोपयुक्तान्तःकरणजन्यः ज्ञानं सिद्धा च निद्रा यदा स्वप्नवहनाडीमध्यवर्ति मनस्तदा बहिरिन्द्रियसम्बन्धविरहात् स्वप्नज्ञानानि जायन्ते।[१८]

स्वप्नभेदाः

वैशेषिकमतानुसारं स्वप्नः त्रिधा भवति। तद्यथा –

  • संस्कारपाटवात्
  • धातुदोषात्
  • अदृष्टत्वात्

संस्कारपाटवजन्यस्वप्नः

यदा कश्चन पुरुषः कञ्चन विषयं चिन्तयन् स्वपिति, तदा तस्याम् अवस्थायां तत् चिन्तनं प्रत्यक्षाकारं भवति। यथा कश्चन क्रोधी पुरुषः स्वशत्रुं चिन्तयन् स्वपिति तदा तेन सह युद्धस्य स्वप्नादिकमनुभवति।[१९]

धातुदोषजन्यस्वप्नः

अस्मच्छरीरे वातपित्तकफेति त्रयः धातवः वर्तन्ते। वातदोषयुक्तः पुरुषः स्वप्ने आकाशगमन-पृथिवीभ्रमण-व्याघ्रादिभयात् पलायनमित्यादिकं पश्यति।

पित्तविकृतपुरुषः वह्निज्वाला-सुवर्णपर्वत-विद्युदादिकं पश्यति।

कफदोषयुक्तः समुद्रतरण-नदीमज्जन-धारासारवर्षण-रजतपर्वतादिकं पश्यति।[२०]

अदृष्टजन्यस्वप्नः

स्वप्नेऽस्मिन् जन्मनि जन्मान्तरे वाऽनुभूतपदार्थानां व्याकुलचित्तपुरुषस्य यज्ज्ञानमुत्पद्यते तत् अदृष्टजन्यं भवति।[२१]

वैज्ञानिकरीत्या मनसः निरूपणम्

मनसः विज्ञानं मनोविज्ञानम्। आङ्ले च psychology (सैकोलोजी) इति कथ्यते। विज्ञानेऽस्मिन् विभिन्नपरीक्षणैः मनस्विषये अध्ययनं क्रियते। ‘सैकोलोजी’ विहाय तंत्रिकाविज्ञाने [२२] संज्ञानात्मकविज्ञाने [२३] चाऽपि मनसः अध्ययनं जायते।

तंत्रिकाविज्ञाने नाडीनां तन्त्रीणां वाऽध्ययनेन मनसः मूलस्वरूपं ज्ञायते। अर्थात् काभिः नाडीभिः मस्तिष्के स्मरणाद्यः क्रियाः जायन्ते इत्यादीनामध्ययनं तंत्रिकाविज्ञानस्याध्ययनेन स्पष्टं ज्ञायते। संज्ञानात्मकविज्ञाने मनसः पठन-विषयानामवगमन-एकाग्रता-स्मृत्यादीनां क्रियाणामध्ययनं जायते। मनोविज्ञाने च मनुष्यस्य मैत्री-द्वेष-शान्त-क्रोधादिभावानां स्वभादीनां मनोरोगानां चाध्ययनं जायते।

विज्ञानस्य मतानुसारेण बाह्यपदार्थनां ज्ञानं ज्ञानेन्द्रियैर्भवति। ज्ञानेन च संवेदनोत्पद्यते। संवेदना च चेष्टाजननी। ज्ञान-संवेदना-चेष्टानां प्रत्येकशरीरेण सह सम्बन्धः वर्तते। ज्ञानं प्रत्यक्षीकरणजम्। प्रत्यक्षीकरणञ्च ज्ञानेन्द्रियार्थसन्निकर्षजन्यम्। ज्ञानेन्द्रियाणि शरीरस्याङ्गभूतानि। अस्माकं चक्षू रूपं, कर्णो ध्वनिं, नासा गन्धं, रसना रसं, त्वग्शीततापादिकं च गृह्णाति। नहि ज्ञानेन्द्रियेभ्य ऋते रूपरसादीनां ग्रहणं सम्भवति। संवेदना ज्ञानाधीनेति नात्र लेशोऽपि संशयः। अतः संवेदनाऽप्यात्मसत्तायै ज्ञानेन्द्रियाण्येवाश्रयते। चेष्टा संवेदनया उत्पद्यते। तस्यापि साधनं शरीरमेव। मनसः सर्वा अपि बाह्याः प्रतिक्रियाः विभिन्ननाडीभिः स्पष्टा भवन्ति। सर्वेऽपि मानवसङ्कल्पाः नाडीभिः प्रकाश्यन्ते। यथा भयङकरं शब्दं श्रुत्वा वयं सहसैव पलायामहे। अत्र पलायनरूपं सङ्कल्पं शरीरमेव साधयति। नहि स्तब्धे शरीरे सङ्कल्पानां पूर्तिः सम्भवति। एवं स्पष्टं यन्मनः ज्ञानेन्द्रियैः नाडीभिश्च स्वकार्याणि सम्पादयति। तेन मनः शरीरयोर्घनिष्ठः सम्भन्धः स्पष्ट एव।

चेतना

चेतना [२४] मनसः सारो। विलियमजेम्स्-महोदयेनास्याः (1842-1910) पञ्च लक्षणानि वर्णितानि। तानि चैतानि-

  • चेतनायाः सम्वन्धः केनचिद्विशिष्टेन मनसा भवति। नह्येतादृश्याश्चेतनायाः सम्भवोऽस्ति, यस्याः सम्बन्धः केनापि मनसा न भवेत्। नहि कमप्यात्मानं किमपि मनो विना विचारो वा वेदना वा प्रभावितुं वा शक्नोति। अतः सर्वेऽपि विचाराः कस्याश्चिद् वैयक्तिकचेतनाया अंशो भवति।
  • चेतनाऽन्तर्विचाराः सदा परिवर्तनशीला भवन्ति। मानसिकप्रक्रियासु सततं परिवर्तनं जायते। संवेदनाऽपि प्रतिक्षणं परिवर्तते। प्रथमक्षणीया संवेदना द्वितीयक्षणीयायाः भिन्ना भवति। एवमग्रेऽपि। एकदा आगतो विचारो न तेनैव रूपेण पुनरावर्तते।
  • चेतना अवच्छिन्ना भवति, सरित्प्रवाहवत्। यथा निरन्तरं स्पन्दमाना लहर्यः परस्परमन्योऽन्यासु प्रवाहिताः प्रवाहसृष्टिं कुर्वन्ति, तथैव चेतनोर्मयः परस्परं मिलिता अविच्छिन्नं निरन्तरं चेतनाप्रवाहं रचयन्ति।
  • विचारः स्वतो भिन्नेन केनचिद्वस्तुना सम्बद्धो भवति।
  • चेतना चयनशीला भवति। सा सम्मुखस्थेषु वस्तुषु कानिचिच्चिनोति, कानिचिच्चिं परित्यजति।

‘मनश्चेतनाप्रवाहः’ इत्यपि जेम्समहोदयेन प्रतिपादितम्। वार्डमहोदयस्य चेतनामखण्डधारां निरूपयति। स्टाउटमहोदयस्य मतं यदस्माकं चेतनजीवनस्य घटकाः केनाऽपि चेतनास्वभावभिन्नेन वस्तुना पृथक्कर्तुं न शक्यन्ते। नापि ते एवं विभाजयितुं शक्ताः, यथैको द्वीपोऽन्यस्मान्महासागरेण पृथक्क्रियते, यथैकः स्वरोऽन्यस्मान्मौनावकाशेन पृथग्भवति। कस्यापि क्षणस्य ये केऽपि घटकाश्चेतनाया एकाकिन्यामवस्थायां प्रवेशं लभन्ते, ते झटिति परस्परं सँल्लग्ना भवन्ति। एवमेव  क्रमिकावस्था अव्यवहितरूपेण सँल्लग्ना भवन्ति। एकस्याः समाप्तिरन्यस्याः प्रारम्भेणैकाकारा भवति।

चेतनायाः स्तराः

चेतनायास्त्रयः स्तराः सन्ति-

  • चेतनायाः केन्द्रम्,
  • चेतनायाः सीमाप्रदेशः,
  • अवचेतनः, अचेतनो वा।

चेतनायाः केन्द्रे वस्तूनां स्पष्टा परस्परं पृथक् संवेदना च भवति। इदमवधानक्षेत्रं कथ्यते। इदं क्षेत्रं ध्यानावस्थितया चेतनया पूर्णं भवति। कश्चित्तडागं ध्यानेन पश्यति। तस्य तडागसम्बन्धिनी स्पष्टा, अन्यवस्तुभ्यः पृथक् च चेतना भवति। तडागज्ञानं तस्य चेतनाकेन्द्रं भवति। चेतनाकेन्द्रं परितश्चेतनायाः सीमाप्रदेशो भवति। अयं वस्तूनामस्पष्टचेतनायाः प्रदेशो भवति। इदमनवधानक्षेत्रम्। तडागदर्शनकाले दर्शकस्तस्य समन्तात् स्थितान् वृक्षात् प्रत्यचेतनो न भवति। तेषामस्पष्टं ज्ञानं तु तस्य भवत्येव। तेऽपि चेतनायाः सीमाप्रदेशेऽस्पष्टान् संस्करान् त्यजन्ति। चेतनाद्वारस्याधस्तादधश्चेतनः स्तरो भवति। अस्य सत्ता प्रत्यक्षं न प्रतीयते। परोक्षप्रमाणैरेवायं सिद्ध्यति। अयं मनोभूमावन्तर्हितः कक्ष इवातीतानामनुभवानां भण्डारः। अयं मानसिकप्रवृत्तीनां सङ्ग्रहालयः। अधश्चेतनाऽवस्था चेतनाद्वारवर्तिनी। नहि चेतनासीमाप्रदेशेनास्याः सम्भन्धः। चेतनायाः सीमाप्रदेशस्यास्पष्टं ज्ञानमस्माकं भवति, न त्वधश्चेतनस्य। अधश्चेतनस्य न स्पष्टं, नाप्यस्पष्टं ज्ञानं भवति। तथाप्यधश्चेतनस्य सत्ता स्वीक्रियत एव मनोवैज्ञानिकैः। तत्र प्रमाणानि –

  • स्मृति – वयमतीतकाले प्रत्यक्षीकृतानि वस्तूनि स्मर्तुं शक्नुमः, यतस्तान्यस्माकमवचेतनेऽधश्चेतने वा स्तरे तिष्ठन्ति।
  • प्रत्यभिज्ञाऽपितस्य सत्ताया प्रमाणम्। प्रत्यभिज्ञायां प्रत्यक्षज्ञानं चेतनास्तरमागतया प्रतिमया संयुक्तं भवति। अतः प्रत्यभिज्ञाऽधश्चेतनस्य सत्तामपेक्षते।
  • ये प्रश्नाः शयनात् पूर्वमसमाहिता भवन्ति तेऽप्यनेकदा स्वप्नावस्थायां समाहिता भवन्ति। अत्र मनसोऽधश्वेतनाकियैव समस्यासमाधानकारणम्।
  • रात्रौ ब्राह्ममुहूर्ते जागरणस्य सङकल्पं कृत्वा सुप्तो जनो ब्राह्ममुहुर्ते जागर्ति। अत्राऽप्यघश्वेतनैव कार्यपरा भवति।
  • अज्ञातप्रेरणाऽकस्मान्निर्देश्चापि कविभिरन्यैश्चालौकिकप्रतिभाशालिभिः प्राप्यन्ते। ते च मनोऽन्तस्तलादागच्छन्ति। अधश्वेतनशक्तेः प्रमाणभूता भवन्ति।
  • एवमेवार्जितः स्वभावः, भावना, स्वप्नाः, जनेषु राष्ट्रेषु च सहसा परिवर्तनान्यप्यधश्चेतनस्य साधकानि सन्ति। नह्यधश्चेतनं विनैषां स्थितिः सम्भवति।

चेतना, आत्मचेतना [२५]

चेतना वस्तूनां ज्ञानम्। सा च स्वभावतो बहिर्मुखी। कश्चिच्चन्द्रमसं पश्यति, तस्य चन्द्रमसश्चेतना भवति। दर्शनानन्तरं चन्द्रं प्रत्यनुरागसंवेगस्यानुभूतिर्भवति। अयमपि चेतनाया एव प्रकारः। परं यदा तस्य, अहं चन्द्रं पश्यामि, मया चन्द्रे स्निह्यते इति तथ्यस्य चेतना भवति, तदा सा आत्मचेतना इति कथ्यते।

चेतना व्यक्तिनिष्ठा भवति। तस्याः सम्बन्धः केनापि प्राणिना आत्मना वा भवति। आत्मा चेतनायाः द्रष्टा। आत्मनः चेतनायाः पूर्वं सत्ता स्वीकर्तव्या। नहि द्रष्टारं विना चेतनायाः सत्ता सम्भवति।

चेतनायाः मूलप्रकाराः

चेतनायास्त्रीणि मुख्यकार्याणि – ज्ञानम्[२६], वेदना[२७], चेष्टा[२८] च। चेतनायाः सम्पर्कः पदार्थेन जायते।

चेतनया मनो वस्तुविषये किञ्चिद् ज्ञानं प्राप्नोति। तस्याकारप्रकारोपयोगविषये किञ्चिजानाति। ततस्तत्सम्पर्केण मनसि कोऽपि संवेग उत्पद्यते, ततः सुखस्य दुःखस्यं वा वेदना जायते। वेदनाया एवान्यन्नामानुभूतिरिति। ततो मनसि तत्सम्बद्धं किञ्चित्कर्तुः प्रवृत्तिरुदेति। मनस्तत्स्वीकर्तुम्, परित्यक्तुं  परिवर्तितुं वा प्रवृतं भवति। एवं चेतना प्रकारत्रयेण क्रियाशीला दृश्यते। ते च प्रकाराः –

  • ज्ञानं बोधो वा,
  • वेदनाऽनुभूतिर्वा,
  • चेष्टा, मनसः क्रियाशीलता वा।

कश्चिद् गङ्गानदीं तत्तटं च पश्यति। दर्शनेन तस्य तटविषयकं ज्ञानं भवति। दर्शनेन तस्य मनसि सुखमुत्पद्यते। सा चानुकूलवेदना। ततस्तत्र विहर्तुं स्थातुं वा प्रवृत्तिर्भवति। एतास्तिस्त्रोऽपि प्रक्रियाः परस्परं पृथक् स्वतन्त्राश्च। नह्येतासामेकस्या अप्यन्यस्यामन्तर्भावः शक्यः। एवं ज्ञानम्, वेदना, चेष्टा चेति चेतनायास्त्रयो मूलप्रकाराः।

ज्ञानस्य प्रकाराः

ज्ञानस्यानेके प्रकाराः – तत्र संवेदना[२९]-प्रत्यक्षीकरण[३०]-स्मृति[३१]-कल्पना[३२]–विचाराः[३३] मुख्याः। संवेदना तु निर्विकल्पकं ज्ञानम्। यथा कश्चन बालकः प्रकाशपुञ्जमवलोकयति। तस्य प्रकाशसंवेदना भवति, न तु प्रकाश इति ज्ञानम्। संवेदना तूत्तेजनया मनसि जनितं संस्कारमात्रम्।

मनसः प्रथमं सरलतममश्लिष्टं ज्ञानं संवेदना। तच्च निर्विकल्पं निर्विशेषं वा ज्ञानमपि कथ्यते।  तच्चेन्द्रियाणा बाह्यपदार्थैः सह सम्पर्काज्जायते। यदाऽस्माकं किमपि ज्ञानेन्द्रियं केनचिन्बाह्यपदार्थेन सम्पृक्तं भवति, येन च ज्ञानेन्द्रियार्थसन्नकर्षो भवति, तदा तत्रस्था ज्ञानवाहिन्यो नाड्य उत्तेजिताः भवन्ति। ज्ञानेन्द्रियेनोत्तेजिता च  सुषुम्णामार्गेण मस्तिष्ककेन्द्रं प्राप्नोति। तदा विशिष्टमिन्द्रियजं ज्ञानमुत्पद्यते। एवं स्पष्टं यदुत्तेजना बोधेन्द्रियस्याग्रिमे भागे प्रतिक्रियां करोति। बोधस्नायवः तज्जन्यं संस्कारं मस्तिष्के स्थितं बोधकेन्द्रं प्रापयन्ति। ततो मनसि संवेदना जायते।

उत्तेजनाश्च द्विविधा भवन्ति – बाह्यस्थाः, अन्तःस्थाश्चेति। कोऽपि बाह्यः पदार्थः  बाह्योत्तेजनां जनयितुं शक्नोतीन्द्रियसन्निकर्षमवाप्य। अन्तःस्था उत्तेजनास्तु क्षुत्पिपासाश्रान्तिपीडादयः। ताः शरीरस्यान्तरिकीभ्यो दशाभ्य उत्पद्यन्ते। नहि तासां किमपि ज्ञानेन्द्रियं भवति, गन्धादीनां नासादिवत्। संवेदना अज्ञातार्थः संस्कारः। ज्ञातेऽर्थे संवेदना प्रत्यक्षज्ञाने परिणमते। वार्डमहोदयस्य कथनानुसारेण यद्विशुद्धा संवेदना मनोवैज्ञानिककल्पनैव। नहि प्रौढानां विशुद्धा संवेदना संम्भवति। नवजातः शिशुः संवेदनानामर्थं न विजानाति।  स मृदङ्गशब्दं शृणोति, मृदङ्गशब्दोऽयमिति तु नैव जानाति।  तस्य संवेदना विशुद्धा। प्रौढास्तु ध्वनिं श्रुत्वा सद्य एव  मृदङ्गस्यान्यस्य कस्यापि वा वाद्यस्यायं ध्वनिरित्यर्थं गृह्णन्ति। अतस्तस्य सविकल्पकमेव प्रत्यक्षं  सम्भवति। यदा वयं किमपि पदार्थं पश्यामस्तदातदाभिज्ञानात् पूर्वं निरर्थकं ज्ञानं चक्षुरिन्द्रियोत्तेजनया भवति। इदं ज्ञानं संवेदनेत्युच्यते। यदा च स पदार्थः परिचीयते तदा सैव संवेदना प्रत्यक्षज्ञाने परिणमते। दूरादागच्छतो ध्वनेः प्रथमे क्षणे ज्ञानं संवेदना। यदा च ज्ञायते यदेतादृशप्रकारकोऽयं ध्वनिस्तदा प्रत्यक्षं भवति। संवेदना  विकल्पक्रियारहितमन्यज्ञानासम्बद्धं निष्प्रकारकं ज्ञानम्, प्रत्यक्षं च सप्रकारकं, सविकल्पकमन्यज्ञानसम्बद्धं ज्ञानमिति।

ज्ञानेन्द्रियाणामुपयोगेन वस्तूनां तद्विशेषाणाञ्च ज्ञानस्य प्रक्रिया प्रत्यक्षीकरणं कथ्यते। तच्च संवेदनानामर्थग्रहणरूपम्। प्राणिनि बहूनां बाह्यशक्तीनामाघातः प्रतिक्षणं भवति। यदा कोऽपि जनत्तिष्ठति तदा तस्य सम्मुखमुपस्थितानि बहूनि वस्तूनि तस्य ध्यानमाक्रष्टुं प्रयतन्ते। कक्षायां पठतश्छात्रस्य सम्मुखमध्ययनकक्षस्य भित्तयो भूमितलं गुरोरासनं पुस्तकानि सहपाठिनस्तेषां वस्त्राणीत्येवं बहूनि वस्तूनि भवन्ति। तेषामाघातः तस्य नेत्रयोर्भवति। परं क्षणविशेषे तेषु किञ्चिदेकमेव वस्तुत्तेजनास्वरूपं प्राप्नोति। तदेवोत्तेजकं तस्य ध्यानमाकर्षति। ध्यानाकर्षणरूपेयं क्रिया ‘अवधानम्’ इति कथ्यते। अनेकाः संवेदना अवधानस्य कारणं भवन्ति। संवेदनायाश्च जनन्युत्तेजना। नह्युत्तेजनाया अनुपस्थतौ संवेदनायाः स्थितिः सम्भाव्यते। शूलनिक्षेपेण पीडा जायते। अत्र शूलनिक्षेप उत्तेजना। पीडा च संवेदना। यया क्रियया प्राणी संवेदनानामर्थग्रहणं करोति, सा क्रिया प्रत्यक्षीकरणम्। तस्य चाधारः सञ्चितोऽनुभवः। स एव संवेदनानामर्थग्रहणे सहायको भवति। उद्याने तिष्ठतः पृष्ठे कश्चित् पतनशब्दो भवति। दूरे स्थितः स ‘नारिकेलपतनशब्दोऽयम्’ इति विजानाति। अत्र ‘नारिकेलशब्दोऽयम्’ इति ज्ञाने बहवः प्रक्रिया अन्तर्भवन्ति। प्रथमा तु तत्र बाह्यजगति नारिकेलपतनाक्रिया। द्वितीया तस्मिन् क्षणे शब्दप्रभावग्रहणाय मनसः उपस्थितिः। तृतीया नारिकेलपतनेन श्रवणेन्द्रिस्योत्तेजनम्। चतुर्थी प्रक्रिया मस्तिष्के शब्दस्य संवेदना। पञ्चमी शब्दं प्रति श्रोतुरवधानम्। षष्ठी प्रक्रिया च गतानुभवाश्रयेण प्राप्तायाः संवेदनाया अर्थग्रहणम्। गतानुभवस्तु – ‘अस्मिन्नुद्याने आम्र-बदरी-नारिकेलफलानि सन्तीत्याकारकः। नहि नारिकेलादृतेऽन्यफलपतनशब्द एतादृशो महान्। पूर्वं सर्वाणि फलानि पतन्ति दृष्टानि, तेषां शब्दस्तु मन्द एव। नारिकेलस्यैवाकारमहत्वादेवंविधः शब्दः पूर्वमनुभूतश्च। अतोऽनेन ध्वनिना नारिकेलपतनमेव भाव्यमिति गतानुभवात् प्रत्यक्षज्ञानम्। तच्च सत्यमसत्यं वा भवितुमर्हति। प्रत्यक्षीकरणं संवेदनानामर्थग्रहणस्य प्रक्रियामात्रम्। प्रत्यक्षक्रियाऽनेकाक्रियापूर्विका भवति इत्युपर्युक्तोदाहरणेन सिद्धमेव परं पूर्वं जायमाना उत्तेजना-संवेदना-अवधानक्रियाः मनसि महता वेगेन जायन्ते। विश्लिष्य पृथक् पृथक् तेषां ज्ञानं कठिनम्। ताः सर्वाः सदैव घटमानाः प्रतीयन्ते।

प्रत्यक्षीकरणं संवेदनाया अर्थग्रहणम्। यदा च दर्शकः प्रकाशोऽयमित्यवबुध्यति, तदा प्रत्यक्षीकरणं भवति। तच्च संवेदनौत्तरकालिकम्।

अतीतानुभवानां तेनैव क्रमेण पुनरुत्पादः स्मृतिः। अतीतानुभवाश्रयेण मनसि कस्यचिन्नूतनस्य वस्तुन उत्पादनं कल्पना। स्मृतिकल्पनाश्रयेण कस्यचित्तथ्यस्यानुसन्धानं तर्कः, विचारो वा।

वेदनायाः प्रकाराः

वेदनाया अपि कतिपयप्रकारा भवन्ति। तत्र वेदना[३४] -संवेग[३५] -भावनाः[३६] मुख्याः। वेदना तु संवेदनाजन्यं सुखम्, दुःखम्, प्रियः, अप्रियो वाऽनुभवः। संवेगो वेदनापेक्षया जटिलसहजप्रवृत्तिप्रेरकस्य कस्यचिद्वस्तुनः प्रत्यक्षीकरणेन, स्मृत्या, कल्पनया वा जायमानोऽनुभूतिविशेषः। यथा क्रोधादयः। भावना[३७] च स्थायिनी संवेगात्मिका प्रवृत्तिः। न तु मानसिको व्यापारः। भावना संवेगमयः स्वभावः।

सर्वस्या अपि मानसिकप्रक्रियायास्त्रयः पक्षाः भवन्ति – ज्ञानम्, अनुभूतिः, चेष्टा च। यदा मानसिकप्रक्रियायां ज्ञानस्य प्रामुख्यं भवति, तदा ज्ञानात्मिकाऽवस्था। यदाऽनुभूतेः प्राधान्यं भवति तदा वेदनात्मिकाऽवस्था, अनुभूतिर्वा। यदा च चेष्टा मुख्यतां लभते, तदा चेष्टात्मिकाऽवस्था कथ्यते।

प्रथमं ज्ञानं भवति, येन प्रभावितो द्रष्टा सुखं दुःखं वाऽनुभवति। ततोऽनुभूतिः क्रियामुत्पादयति। अनुभूतिकाले द्रष्टा निष्क्रियो भवति। अनुभूतिः सुखकरी वा दुःखप्रदा वा, प्रिया अप्रिया वा भवति। कश्चन पक्वं सुन्दरम् आम्रफलं पश्यति। प्रथमं तस्य ज्ञानं भवति – ‘इदमाम्रम्’ इति। तस्य मनसि सुखदः प्रभावो जायते। ततः सः तद्ग्रहणाय चेष्टां करोति। एवम्

अनुभूतिर्ज्ञानजन्या क्रियाजनिका च अनुभूतिरात्मगतोऽनुभवः[३८]

अनुभूतयः संवेदनापेक्षयाऽस्थिराः परिवर्तनशीलाश्च। संवेदनाऽवधानं वस्तुस्वरूपं प्रकाशयति। वृक्षेऽवधानेन तस्य शाखाः, पत्राणि, पुष्पाणि च स्पष्टानि भवन्ति; न चानुभूतिः। सा त्ववधानेन नश्यति। अनुभूताववधानेन तत्प्रेरकाद् ध्यानमपसरति। अनुभूतिश्च विनश्यति। यथा संवेदनाः शरीरस्य विशिष्टेषु भागेषु तिष्ठन्ति, अनुभूतिस्तु न तथा। नहि तस्याः स्थितिरङ्गविशेषे निरूपयितुं शक्या। सुखस्य दुःखस्य चानुभूतयः परस्परव्यावर्तिकाः[३९]। नहि सुखानुभूतिकाले दुःखानुभूतिः सम्भवति। न चानुभूतिरेकाकिनी भवति, प्रत्यक्षीकरण-स्मृति-कल्पना-संवेग-सङ्कल्पादिषु काऽपि मानसिकी प्रक्रिया तत्सहचारिणी भवत्येव।

चेष्टायाः प्रकाराः

चेष्टायाः कर्मणो वाऽप्यनेके भेदा भवन्ति, यथा – संवेदनाप्रेरितम्[४०], विचारप्रेरितम्[४१], सहजप्रवृत्त्यात्मकम्[४२], ऐच्छिकम्[४३], अभ्यासजनितं[४४] च। तत्र संवेदनाप्रेरितं कर्मोत्तेजितेन ज्ञानेन्द्रियेण मनसि जनितायाः संवेदनाया प्रतिक्रियारूपम्, यथा – कण्ठे निरुद्धो ग्रासः कासं जनयति। क्रियाया विचारेण जायमानाऽनायासा क्रिया विचारप्रेरिता क्रिया भवति, यथा – कमपि हसन्तं दृष्ट्वा हसनम्, पलायमानं वा दृष्ट्वा पलायनम्। उद्देश्यस्य स्पष्टज्ञानं विनैव जायमानानि सोद्देश्यानि कर्माणि सहजप्रवृत्त्यात्मकानि कथ्यन्ते, यथा – पक्षिणा चाण्डजननात् पूर्वं नीडनिर्माणम्। ऐच्छिकं कर्म सङ्कल्पपूर्वकं भवति। तच्च सप्रयोजनं ज्ञानपूर्वकं च। यथा लक्ष्यसाधनहिताहितशक्यत्वादिविचाराः। पुनः पुनः क्रियमाणानि सहजप्रवृत्त्यात्मकानि कर्माण्यप्यभ्यासजनितानि। यथा चलनम्, भाषणम्, वाचनमित्यादीनि सर्वाण्यभ्याससन्नितकर्माणि।

स्वप्नः

भारतीयेषु ग्रन्थेषु मनुष्यस्य चतस्रोऽवस्थाः वर्णिताः। ताश्च जाग्रतस्वप्नसुषुप्तितुरीयाः। जाग्रदवस्थायां चेतना स्वसामान्यं कार्यं करोति। तस्यां बाह्यसंसारस्य ज्ञानं साधारणतो भवति। निद्रावस्था सुषुप्तेरस्वस्था। तस्यां चेतनायाः सामान्यानि कार्याणि स्थगितानि भवन्ति। मस्तिष्कस्य स्नायवः कार्याद्विरताः भवन्ति। शरीरस्यान्याङ्गानि स्वकार्येषु पूर्ववद्वर्तन्ते। तेषां नियन्त्रणं स्वतन्त्रं नाडीमण्डलं करोति, न तु मस्तिष्कम्। निद्राजाग्रदवस्थे परस्परं विपरीते। जाग्रदवस्थायां वयं ज्ञानेन्द्रियैर्निरन्तरं बाह्याघातां प्राप्नुमः, ते च स्नायुमण्डलक्रियया प्रत्याघातैः सङ्घटिता जायन्ते। निद्रायामेषा प्रक्रिया विपरिवर्तते। निद्रानस्थायां निद्रालुर्निद्रागाम्भीर्यानुसारं पूर्णतया अंशतो वाऽचेतनो जायते तस्य श्वासोच्छ्वासाः मन्दाः गम्भीरताश्च भवन्ति। अक्षिगोलकेऽग्रत ऊर्ध्वे यातः, कनीनिके च स्थिरे भवतः। अक्षणोर्बाह्यं तलं शुष्कं भवति, येन शक्तेरभावोऽनुसूच्यते। एतन्निद्रायाः सुपरिचितं चिह्नम्। सामान्यतयैतत् प्रतीयते यन्निद्रा शीघ्रं शीघ्रमेव चायाति। परं न निद्रा आकस्मिकी प्रक्रिया। आगच्छन्त्यां निद्रायां पूर्वं हस्तपादप्रचलनशक्तेर्ह्रासोऽनुभूयते, ततः श्रवणशक्तेः। जागरणे सति एतद्विपरीतं भवति। पूर्वं  श्रवणशक्तिः पुनरावर्तते, ततो हस्तपादनप्रचालनशक्तिः।

नहि निद्रायाः प्रगाढता, सर्वस्यापि निद्रावधौ समता भवति। आदौ भवति तस्यां प्रगाढता, घण्टाद्वयानन्तरं तस्यां न्यूनता जायते, क्रमेण च पूर्णो ह्रासः, जागर्तिश्च।

जाग्रत्सुषुप्त्यवस्थयोरिव स्वप्नावस्थाया अनुभवोऽपि सर्वेषां भवति। रात्रौ दृष्टाः स्वप्नाः दिने प्रायेण विस्मृताः भवन्ति। अतो नहि सर्वेषां स्वप्नविषयकं ज्ञानं तथा स्पष्टं भवति। सुषुप्तेः इव स्वप्नेऽपि नवीनासृष्टिर्मनसम्मुखं भवति। यद्यपि स्वप्नसृष्टेराधारो भौतिकं जगदेव, तथाऽपि सा वस्तुजगतो भिन्ना भवति। यानि कार्याणि जगत्यशक्यानि भवन्ति, तानि स्वप्नलोके घटमानानि दृश्यन्ते। निद्रितो जनस्य विचारेषु चेतनायाः नियन्त्रणं स्थगितं भवति, तदा स्वप्नाः जायन्ते। ततोऽनन्तरं स्वप्नावस्था, ततः सुषुप्तिरिति क्रमः। स्वप्नेषु चेतनाया नियन्त्रणं न भवति, न वा कोऽपि यथेष्टं स्वप्नान् द्रष्टुं शक्नोति, न ततो विरन्तुम्। भयङ्कराणां स्वप्नानां मुहुर्मुहुर्दर्शनं मनसः शरीरस्य च विकाराणां सूचकम्।

स्वप्न-कारणानि

स्वप्नानां कारणं शारीरिकी मानसिकी वोत्तजना भवति। शारीरिक्युत्तेजना द्विविधा – शारीरिकविकारजन्या, बाह्यपदार्थजन्या च। ज्वरावस्थाया पीडातिशये च भयप्रदाः स्वप्नाः दृशते। रोगावस्थायामनेकाः भयङ्करकल्पनाः मनसि प्रादुर्भवन्ति, ताश्च तथाविधान् स्वप्नान् सृजन्ति।

स्वप्ना बाह्यपदार्थप्रेरिता अपि भवन्ति। दुर्गन्धमयेऽस्वच्छे स्थाने, वस्त्रेण मुखमावृत्य वा शयनं दुःखस्वप्नप्रेरकं भवति। दूषितो वायुरन्तः प्रविश्य मनस्त्रासं जनयति। स च त्रासः स्वप्नैरभिव्यज्यते। शयनस्थाने जायमानः प्रियोऽप्रियो वा शब्दोऽपि प्रियाप्रियस्वप्नजनको भवति। कोऽपि बाह्यः शीतलः उष्णो मृदुः कर्कशो वा स्पर्शः स्वप्ने स्वसम्बन्धं जनयति।

मनसः क्षुब्धावस्था स्वप्नानां प्रधानं कारणम्। साऽपि द्विविधा – जाग्रदवस्थाऽनुभवजन्या, आभ्यन्तरिकेच्छाजन्या च। अस्माकं स्वप्नेष्वधिकतराणामुत्पत्तिर्जाग्रदवस्थाया अनुभवेभ्य एव भवति। पुस्तकं पठन्नेव यो निद्रां गच्छति स पुस्तकस्थ पात्राण् द्रष्टुं शक्नोति स्वप्ने। दिवसे वा निगृह्यमाणमारक्षिभिः कञ्चिच्चौरं दृष्ट्वा कोऽपि स्वप्ने तत्सदृशं दृश्यं द्रष्टुं शक्नोति। कदाचिन्नूतनाः प्राक्तनाश्चानुभवाश्च अंशतः संयुज्य नूतनामाकृतिमेव स्वप्ने आयान्ति।

फ्रायडमहोदयेन स्वप्नानां व्याख्याऽन्येन प्रकारेण कृता। तन्मते सर्वेषामपि स्वप्नानां कारणमतृप्ताः कामना एव। मनसि प्रकृत्यैवानेका इच्छाः प्रादुर्भवन्ति। तासु काश्चित् समाजमर्यादानुकूलाः, काश्चिच्च लोकव्यवहारविरूद्धाः। लोकानुकूलानां तु तृप्तिर्लोके सम्भवति। नास्माकं चेतना ताः विरुणद्धि। तृप्ताश्वेच्छाः शान्ताः भवन्ति। नहि ताः मनसि काञ्चिदुत्तेजनां जनयन्ति। याश्चेच्छा लोकमर्यादाचारप्रतिकूला भवन्ति, तासां तृप्तिर्नहि लोकसमक्षे शक्याः। एतादृश्यः कामनाः नानाविधाः उत्तेजनाः मनसि जनयन्ति। ताश्चोत्तेजना अचेतने मनसि स्थीयन्तेऽर्धचेतनावस्थायां, तदा विवेकरूपो नियन्त्रकः शिथिलो भवति। प्रकाशयितुमात्मानं प्रयतन्ते। स्वप्नाश्च दमितेच्छाग्रसवाः। स्वप्नेऽपि मनो नहि पूर्णतयाऽचेतनं भवति। नीत्याचारविरूद्धाश्चेच्छाश्चेतनाद् बिभ्यत्यो वेषान्तरं परिधाय, आरक्षिभयाच्चोरवञ्चका इव, स्वरूपम् प्रकटयन्ति। स्वप्नाश्चैवंविधानामतृप्तेच्छानां प्रच्छन्नरूपेण तृप्त्युपायरूपाः। वैरेर्ष्यलोभादयः स्थायिभावा उद्विग्नतोजनकाः स्वप्नानां हेतवः। प्रबलाः स्थायिभावा अतृप्ता, सन्तो ग्रन्थिरूपेण मनसि तिष्ठन्त इष्ट-मृत्यु-मलयुद्ध-अधःपतनादिभयजनकान् स्वप्नान् सृजन्ति। जाग्रदवस्थायां यथा संवेगानां स्थानान्तरणं भवति, तथा स्वप्नेऽपि। एवं मनसि स्थिता अप्रीतिकराः स्थायिभावा अप्रीतिजनकान्, प्रीतिकराश्च प्रियान् स्वप्नानुत्पादयन्ति।

निष्कर्षः

वैशेषिकाचार्याणां मतानुसारेण मनः किञ्चिदिन्द्रियं येनात्मनि बाह्यवस्तूनां ज्ञानं जायते। सुखदुःखादिवेदनानां ज्ञानायापि मन एव हेतुः। यतोहि वैशेषिके ज्ञानस्याधिकरणमात्मा इति स्वीक्रियते परन्तु मनसा सम्बद्धे आत्मन्येव ज्ञानमुत्पद्यते। अत एव मृतशरीरेषु आत्ममनसोः संयोगाभावाज्ज्ञानाभावः। बाह्यवस्तूनां प्रत्यक्षादिषु तु चक्षुरादिभिः इन्द्रियैः सह मनसः संयोगः, तस्य च आत्मना संयोगेन पदार्थज्ञानं जायते। स्मृत्यादिष्वपि आत्ममनसोः संयोग एव कारणम्। न्यायवैशेषिकयोः सर्वेषां ज्ञानमात्मनि मनस्संयोगेन जायते।

विज्ञानं त्वात्मनः स्वरूपं क्वचिन्नाङ्गीकरोति परन्तु वैशेषिकोक्तस्य मनसोऽङ्गीकारः सर्वविधया कुरोति। विज्ञानमतेऽपि वस्तूनां प्रत्यक्षीकरणाय मनसः अस्तित्वमङ्गीक्रियते। तस्य स्वरूपं क्वचिद्वैशेषिकोक्तमनसः भिद्यते। मनोविज्ञानानुसारेण मनसः कश्चन गुणः चेतनेत्युच्यते। तया चेतनया एव मनसः प्रत्यक्षादीनि कार्याणि चलन्ति।

न्यायवैशेषिकदर्शनयोः चैतन्ययुक्तपुरुषः आत्ममनसोः संयोगेन, ततः इच्छाद्वेषादिभिः प्रवृत्तिर्जायते। विज्ञानेऽपि समाना रीतिः परन्तु न आत्ममनसोः संयोगेन। तत्र चेतनायाः विभिन्नैः प्रकारैः इच्छादीभिः मनुष्येषु प्रवृत्तिर्जायते।

न्यायवैशेषिकयोरिव विज्ञानेऽपि पदार्थस्य प्रत्यक्षीकरणाय पदार्थस्य बाह्येन्द्रियैः संयोगः तेषां च मनसा संयोगः अपेक्षितमेव। अपि च मनः एकस्मिन् समये एकमेव पदार्थं गृह्णाति। सुखदुःखाद्यः वेदनाः क्रोधादयः भावाः स्मृत्यादयः सर्वेऽपि मनस एव प्रक्रियाः। भेदस्तु अयमेव यत् दर्शने आत्मन्येतेषां ज्ञानमुत्पद्यते, विज्ञाने मस्तिष्कं ज्ञानस्याधिकरणम्। उभयत्र ज्ञानहेतुः मन एव। विज्ञाने यन्त्रादीनां साहाय्येन शरीरस्याध्ययनेन चेदं स्पष्टं भवति यत् विभिन्ननाडीभिः मस्तिष्के ज्ञानमुत्पद्यते। कस्याश्चित् नाड्याः विनष्टे सति तत्सम्बन्धितज्ञानं नैव जायते। स्वप्नप्रक्रियाऽपि वैशेषिकाः वैज्ञानिकाश्च मानसिकमित्येव स्वीकुर्वन्ति। यतोहि दर्शनविज्ञानयोः स्वप्नप्रकाराः भिन्नाः तथापि तेषामुत्पत्तेः कारणानि साम्यानि।

एवं यद्यपि दर्शनविज्ञानयोः मनस्विषये किञ्चिद्भेदोः दृश्यते तथापि मानसिकप्रक्रियाः समाना एव।

 

सहायकग्रन्थसूची

  • किरणावली (सेतुव्याख्यासहिता) – महामहोपाध्याय शिवचन्द्र सार्वभौम (सम्पादकः), Asiatic Society, Calcutta, 1911
  • तर्कभाषा – श्रीबदरीनाथ शुक्ल (सम्पादकः), मोतीलाल बनारसीदास, नई दिल्ली, १९६८
  • तर्कसंग्रहः (न्यायबोधिनीसहितः) – डॉ.गोविन्दाचार्यः (सम्पादकः), चौखम्भा सुरभारती प्रकाशन, वाराणसी, 2015
  • न्यायवार्तिकतात्पर्यटीका – Asiatic Society of Bengal, Calcutta, 1907
  • न्यायवार्तिकतात्पर्यपरिशुद्धिः – पण्डित विन्ध्येश्वरी प्रसाद दुबे (सम्पादकः), Asiatic Society, Calcutta.
  • न्यायसिद्धान्तमुक्तावली (श्रीविश्वनाथपञ्चाननभट्टाचार्यविरचिता) – श्री पं. हरीरामशुक्ल शास्त्री (सम्पादकः), चौखम्भा प्रकाशन, वाराणसी, २०११.
  • न्यायसूत्रवृत्तिः विनायकगणेश आपटे (सम्पादकः), आनन्दाश्रममुद्रणालयः, १९२२
  • न्यासूत्रम् (भाष्यम्सहितम्) – पण्डितश्रीसुदर्शनाचार्यः (सम्पादकः), सुधी प्रकाशन, वाराणसी, १९८६
  • प्रशस्तपादभाष्यम् – न्यायकन्दलीव्याख्यासहितम् – पं.श्रीदुर्गाधरझा (सम्पादकः), सम्पूर्णानन्दसंस्कृतविश्वविद्यालयः, १९९७ .
  • योगस्य व्यासभाष्योपरि तत्त्ववैशारदी नारायण मिश्र (सम्पादकः), भारतीय विद्या प्रकाशन, वाराणसी, 1971
  • वैशेषिकसूत्रोपस्कारः (हिन्दीव्याख्योपेतः) – आचार्य ढुण्ढिराजशास्त्री (सम्पादकः), चौखम्बा संस्कृत सीरीज आफिस, १९६९ .
  • शब्दकल्पद्रुमः – Oriental Book Station, New Delhi, 2002
  • Encyclopaedia of Indian Philosophy – In 19 Volumes, Motilal Banarasidas Publication, New Delhi.
  • Encyclopaedia of Synthesis of Science, Philosophy and Religion (Vol. I, Part I) – H.P.Blavatsky (Author), Bharatiya Kala Prakashan, Delhi, 1888 (1st Edition), 2006 (Revised Edition)
  • History of Science, Philosophy and Culture in Indian Civilization ( II Part 4) Origin and Development of the Vaisesika System –D.P.Chattopadhyaya (General Editor), Anantalal Thakur (Volume Editor), PHISPC, Centre for Studies in Civilizations, New Delhi, 2003.
  • History of Science, Philosophy and Culture in Indian Civilization ( XI Part 1) Philosophical Consciousness and Scientific Knowledge: Conceptual Linkages and Civilizational Background –D.P.Chattopadhyaya (General Editor & Volume Editor), PHISPC, Centre for Studies in Civilizations, New Delhi, 2004.
  • Nyaya – Vaisesika Conception of Matter in Indian Philosophy – Umesh Mishra (Author), Bharatiya Kala Prakashan, New Delhi, 1936 (1st Edition), 2006 (Revised Edition)
  • Philosophy, Psychiatry and Neuroscience – Three Approaches to the Mind –Edward M.Hundert (Author), Clarendon Press, Oxford, New York, 1989.
  • Studies in Nyaya-Vaisesika Metaphysics – Sadanand Bhaduri, Bhandarkar Oriental Research Institute, Pune.
  • Vaisesikasastram: A Treatise On Physical And Cognitive Sciences (A Book Of Physics) – Dr.Shankar Gopal Nene & Dr.Narayan Gopal Dongre (Authors), Triangle Concepts Publication, Pune, 2009.

[१] शब्दकल्पद्रुमः, तृतीयभागः

[२] वाचस्पत्यम्. षष्ठभागः

[३] वैशेषिकशूत्रम् – ३.२.१

[४] न्यायसूत्रम् – १.१.१६

[५] न्यायभाष्यम् (न्यायसूत्रम् १.१.१६ तः पूर्वं )

[६] उपस्कारभाष्यम् ३.२.२

[७] सप्तपदार्थी, तर्कसङ्ग्रहः, तर्कसङ्ग्रहदीपिका

[८] वैशेषिकशूत्रम् ३-२-३

[९] उपस्कारभाष्यम् ३-२-३

[१०] वैशेषिकसूत्रम् ७-१-२३

[११] उपस्कारभाष्यम् ७-१-२३

[१२] न्यायसिद्धान्तमुक्तावली ८५

[१३] दर्शनेषु मनस्तत्त्वपरिशीलनम् – डॉ. गुळ्ळपळ्ळि श्रीनिवासु

[१४] वैशेषिकसूत्रम् – ९ / २ / ६

[१५] वैशेषिकसूत्रम् – ९ / २ / ६

[१६] वैशेषिकसूत्रम् – ९ / २ / ७

[१७] प्रशस्तपादभाष्यम्

[१८] कणादरहस्यम्

[१९] उपस्कारभाष्यम्, प्रशस्तपादभाष्यम् (वैशेषिकसूत्रम् – ९-२-७)

[२०] उपस्कारभाष्यम्, प्रशस्तपादभाष्यम् (वैशेषिकसूत्रम् – ९-२-७)

[२१] उपस्कारभाष्यम्, प्रशस्तपादभाष्यम् (वैशेषिकसूत्रम् – ९-२-७)

[२२]  Neuroscience

[२३]  Cognitive science

[२४] Conscious

[२५] Self-Consciousness

[२६] Cognition

[२७] Affection

[२८] Condition

[२९] Sensation

[३०] Perception

[३१] Memory

[३२] Imagination

[३३] Thinking

[३४] Feeling

[३५] Emotion

[३६] Sentiment

[३७] इयं च भावना, वैशेषिकोक्त भावनया भिन्ना वर्तते।

[३८]  Subjective experience

[३९]  Exclusive

[४०]  Sensory-motor-action

[४१]  Idea-motor-action

[४२]  Instinctive action

[४३]  Voluntary action

[४४]  Habitual action